सुमनोवाच-
विश्वास-प्रस्तुतिः
अङ्गारसञ्चये मार्गे घृष्यमाणो हि नीयते
दह्यमानः स दुष्टात्मा चेष्टमानः पुनः पुनः ॥ १ ॥
मूलम्
अङ्गारसञ्चये मार्गे घृष्यमाणो हि नीयते
दह्यमानः स दुष्टात्मा चेष्टमानः पुनः पुनः ॥ १ ॥
विश्वास-प्रस्तुतिः
यत्रातपो महातीव्रो द्वादशादित्यतापितः
नीयते तेन मार्गेण सन्तप्तः सूर्यरश्मिभिः ॥ २ ॥
मूलम्
यत्रातपो महातीव्रो द्वादशादित्यतापितः
नीयते तेन मार्गेण सन्तप्तः सूर्यरश्मिभिः ॥ २ ॥
विश्वास-प्रस्तुतिः
पर्वतेष्वेव दुर्गेषु छायाहीनेषु दुर्मतिः
नीयते तेन मार्गेण क्षुधातृष्णाप्रपीडितः ॥ ३ ॥
मूलम्
पर्वतेष्वेव दुर्गेषु छायाहीनेषु दुर्मतिः
नीयते तेन मार्गेण क्षुधातृष्णाप्रपीडितः ॥ ३ ॥
विश्वास-प्रस्तुतिः
स दूतैर्हन्यमानस्तु गदाखड्गैः परश्वधैः
कशाभिस्ताड्यमानस्तु निन्द्यमानस्तु दूतकैः ॥ ४ ॥
मूलम्
स दूतैर्हन्यमानस्तु गदाखड्गैः परश्वधैः
कशाभिस्ताड्यमानस्तु निन्द्यमानस्तु दूतकैः ॥ ४ ॥
विश्वास-प्रस्तुतिः
ततः शीतमये मार्गे वायुना सेव्यते पुनः
तेन शीतेन दुःखी स भूत्वा याति न संशयः ॥ ५ ॥
मूलम्
ततः शीतमये मार्गे वायुना सेव्यते पुनः
तेन शीतेन दुःखी स भूत्वा याति न संशयः ॥ ५ ॥
विश्वास-प्रस्तुतिः
आकृष्यमाणो दूतैस्तु नानादुर्गेषु नीयते
एवं पापी स दुष्टात्मा देवब्राह्मणनिन्दकः ॥ ६ ॥
मूलम्
आकृष्यमाणो दूतैस्तु नानादुर्गेषु नीयते
एवं पापी स दुष्टात्मा देवब्राह्मणनिन्दकः ॥ ६ ॥
विश्वास-प्रस्तुतिः
सर्वपापसमाचारो नीयते यमकिङ्करैः
यमं पश्यति दुष्टात्मा कृष्णाञ्जनचयोपमम् ॥ ७ ॥
मूलम्
सर्वपापसमाचारो नीयते यमकिङ्करैः
यमं पश्यति दुष्टात्मा कृष्णाञ्जनचयोपमम् ॥ ७ ॥
विश्वास-प्रस्तुतिः
तमुग्रं दारुणं भीमं भीमदूतैः समावृतम्
सर्वव्याधिसमाकीर्णं चित्रगुप्तसमन्वितम् ॥ ८ ॥
मूलम्
तमुग्रं दारुणं भीमं भीमदूतैः समावृतम्
सर्वव्याधिसमाकीर्णं चित्रगुप्तसमन्वितम् ॥ ८ ॥
विश्वास-प्रस्तुतिः
आरूढं महिषं देवं धर्मराजं द्विजोत्तम
दंष्ट्राकरालमत्युग्रं तस्यास्यं कालसन्निभम् ॥ ९ ॥
मूलम्
आरूढं महिषं देवं धर्मराजं द्विजोत्तम
दंष्ट्राकरालमत्युग्रं तस्यास्यं कालसन्निभम् ॥ ९ ॥
विश्वास-प्रस्तुतिः
पीतवासं गदाहस्तं रक्तगन्धानुलेपनम्
रक्तमाल्यकृताभूषं गदाहस्तं भयङ्करम् ॥ १० ॥
मूलम्
पीतवासं गदाहस्तं रक्तगन्धानुलेपनम्
रक्तमाल्यकृताभूषं गदाहस्तं भयङ्करम् ॥ १० ॥
विश्वास-प्रस्तुतिः
एवंविधं महाकायं यमं पश्यति दुर्मतिः
तं दृष्ट्वा समनुप्राप्तं सर्वधर्मबहिष्कृतम् ॥ ११ ॥
मूलम्
एवंविधं महाकायं यमं पश्यति दुर्मतिः
तं दृष्ट्वा समनुप्राप्तं सर्वधर्मबहिष्कृतम् ॥ ११ ॥
विश्वास-प्रस्तुतिः
यमः पश्यति तं दुष्टं पापिष्ठं धर्मकण्टकम्
शासयेत्तु महादुःखैः पीडाभिर्दारुमुद्गलैः ॥ १२ ॥
मूलम्
यमः पश्यति तं दुष्टं पापिष्ठं धर्मकण्टकम्
शासयेत्तु महादुःखैः पीडाभिर्दारुमुद्गलैः ॥ १२ ॥
विश्वास-प्रस्तुतिः
यावद्युगसहस्रान्तं तावत्कालं प्रपच्यते
नानाविधे च नरके पच्यते च पुनः पुनः ॥ १३ ॥
मूलम्
यावद्युगसहस्रान्तं तावत्कालं प्रपच्यते
नानाविधे च नरके पच्यते च पुनः पुनः ॥ १३ ॥
विश्वास-प्रस्तुतिः
नारकीं याति वै योनिं कृमिकोटिषु पापकृत्
अमेध्ये पच्यते नित्यं हाहाभूतो विचेतनः ॥ १४ ॥
मूलम्
नारकीं याति वै योनिं कृमिकोटिषु पापकृत्
अमेध्ये पच्यते नित्यं हाहाभूतो विचेतनः ॥ १४ ॥
विश्वास-प्रस्तुतिः
मरणं च स पापात्मा एवं याति सुनिश्चितम्
एवं पापस्य संयोगं भुङ्क्ते चैव सु दुर्मतिः ॥ १५ ॥
मूलम्
मरणं च स पापात्मा एवं याति सुनिश्चितम्
एवं पापस्य संयोगं भुङ्क्ते चैव सु दुर्मतिः ॥ १५ ॥
विश्वास-प्रस्तुतिः
पुनर्जन्म प्रवक्ष्यामि यासु योनिषु याति च
शुनां योनिशतं प्राप्य भुङ्क्ते वै पातकं पुनः ॥ १६ ॥
मूलम्
पुनर्जन्म प्रवक्ष्यामि यासु योनिषु याति च
शुनां योनिशतं प्राप्य भुङ्क्ते वै पातकं पुनः ॥ १६ ॥
विश्वास-प्रस्तुतिः
व्याघ्रो भवति दुष्टात्मा रासभीं याति वै पुनः
मार्जार शूकरीं योनिं सर्पयोनिं तथैव च ॥ १७ ॥
मूलम्
व्याघ्रो भवति दुष्टात्मा रासभीं याति वै पुनः
मार्जार शूकरीं योनिं सर्पयोनिं तथैव च ॥ १७ ॥
विश्वास-प्रस्तुतिः
नानाभेदासु सर्वासु तिर्यक्षु च पुनः पुनः
पापपक्षिषु संयाति अन्यासु महतीषु च ॥ १८ ॥
मूलम्
नानाभेदासु सर्वासु तिर्यक्षु च पुनः पुनः
पापपक्षिषु संयाति अन्यासु महतीषु च ॥ १८ ॥
विश्वास-प्रस्तुतिः
चाण्डाल भिल्लयोनिं च पुलिन्दीं याति पापकृत्
एतत्ते सर्वमाख्यातं पापिनां जन्म चैव हि ॥ १९ ॥
मूलम्
चाण्डाल भिल्लयोनिं च पुलिन्दीं याति पापकृत्
एतत्ते सर्वमाख्यातं पापिनां जन्म चैव हि ॥ १९ ॥
विश्वास-प्रस्तुतिः
मरणे शृणु कान्त त्वं चेष्टां तेषां सुदारुणाम्
पापपुण्यसमाचारस्तवाग्रे कथितो मया ॥ २० ॥
मूलम्
मरणे शृणु कान्त त्वं चेष्टां तेषां सुदारुणाम्
पापपुण्यसमाचारस्तवाग्रे कथितो मया ॥ २० ॥
विश्वास-प्रस्तुतिः
अन्यदेवं प्रवक्ष्यामि यदि पृच्छसि मानद ॥ २१ ॥
मूलम्
अन्यदेवं प्रवक्ष्यामि यदि पृच्छसि मानद ॥ २१ ॥
इति श्रीपद्मपुराणे पञ्चपञ्चाशत्सहस्रसंहितायामैन्द्रे सुमनोपाख्याने
पापपुण्यविवक्षानाम षोडशोऽध्यायः १६