०१५

सोमशर्मोवाच-

विश्वास-प्रस्तुतिः

पापिनां मरणं भद्रे कीदृशैर्लक्षणैर्युतम्
तन्मे त्वं विस्तराद्ब्रूहि यदि जानासि भामिनि ॥ १ ॥

मूलम्

सुमनोवाच-
श्रूयतामभिधास्यामि तस्मात्सिद्धाच्छ्रुतं मया
पापिनां मरणे कान्त यादृशं लिङ्गमेव च ॥ २ ॥

महापातकिनां चैव स्थानं चेष्टां वदाम्यहम्
विण्मूत्रामेध्यसंयुक्तां भूमिं पापसमन्विताम् ॥ ३ ॥

सतां प्राप्य सुदुष्टात्मा प्राणान्दुःखेन मुञ्चति
चाण्डालभूमिं सम्प्राप्य मरणं याति दुःस्थितः ॥ ४ ॥

गर्दभाचरितां भूमिं वेश्यागेहं समाश्रितः
कल्पपालगृहं गत्वा निधनायोपगच्छति ॥ ५ ॥

मूलम्

गर्दभाचरितां भूमिं वेश्यागेहं समाश्रितः
कल्पपालगृहं गत्वा निधनायोपगच्छति ॥ ५ ॥

विश्वास-प्रस्तुतिः

अस्थिचर्मनखैः पूर्णमाश्रितं पापकिल्बिषैः
तां प्राप्य च स दुष्टात्मा मृत्युं याति सुनिश्चितम् ॥ ६ ॥

अन्यां पापसमाचारां प्राप्य मृत्युं स गच्छति
अथ चेष्टां प्रवक्ष्यामि दूतानां तु तमिच्छताम् ॥ ७ ॥

भैरवान्दारुणान्घोरानतिकृष्णान्महोदरान्
पिङ्गाक्षान्पीतनीलांश्च अतिश्वेतान्महोदरान् ॥ ८ ॥

अत्युच्चान्विकरालांश्च शुष्कमांसवसोपमान्
रौद्रदंष्ट्रान्करालांश्च सिंहास्यान्सर्पहस्तकान् ॥ ९ ॥

सतान्दृष्ट्वा प्रकम्पेत खिद्यते च मुहुर्मुहुः
शिवासन्नादवद्घोरान्महारावान्महामते ॥ १० ॥

मुञ्चन्ति दूतकाः सर्वे कर्णमूले तु तस्य हि
गले पाशैः प्रबद्ध्वा ते कटिं बद्ध्वा तथोदरे ॥ ११ ॥

समाधृष्य निपात्यन्ते हाहेति वदते मुहुः
म्रियमाणस्य या चेष्टा तामेवं प्रवदाम्यहम् ॥ १२ ॥

परद्रव्यापहरणं परभार्याविडम्बनम्
ऋणं परस्य सर्वस्वं गृहीतं यत्तु पापिभिः ॥ १३ ॥

पुनर्नैव प्रदत्तं हि लोभास्वादविमोहतः
अन्यदेवं महापापं कुप्रतिग्रहमेव च ॥ १४ ॥

कण्ठमायान्ति ते सर्वे म्रियमाणस्य तस्य च
यानिकानि च पापानि पूर्वमेव कृतानि च ॥ १५ ॥

आयान्ति कण्ठमूलं ते महापापस्य नान्यथा
दुःखमुत्पादयन्त्येते कफबन्धेन दारुणम् ॥ १६ ॥

पीडाभिर्दारुणाभिस्तु कण्ठो घुरघुरायते
रोदते कम्पतेऽत्यर्थं मातरं पितरं पुनः ॥ १७ ॥

स्मरते भ्रातरं तत्र भार्यां पुत्रान्पुनःपुनः
पुनर्विस्मरणं याति महापापेन मोहितः ॥ १८ ॥

तस्य प्राणान गच्छन्ति बहुपीडासमाकुलाः
पतते कम्पते चैव मूर्च्छते च पुनःपुनः ॥ १९ ॥

एवं पीडासमायुक्तो दुःखं भुङ्क्तेति मोहितः
तस्य प्राणाः सुदुःखेन महाकष्टैः प्रचालिताः ॥ २० ॥

अपानमार्गमाश्रित्य शृणु कान्त प्रयान्ति ते
एवं प्राणी महामुग्धो लोभमोहसमन्वितः ॥ २१ ॥

नीयते यमदूतैस्तु तस्य दुःखं वदाम्यहम् २२