०१४

सोमशर्मोवाच-

विश्वास-प्रस्तुतिः

एवंविधं महापुण्यं धर्मव्याख्यानमुत्तमम्
कथं जानासि भद्रे त्वं कस्माच्चैव त्वया श्रुतम् ॥ १ ॥

मूलम्

एवंविधं महापुण्यं धर्मव्याख्यानमुत्तमम्
कथं जानासि भद्रे त्वं कस्माच्चैव त्वया श्रुतम् ॥ १ ॥

विश्वास-प्रस्तुतिः

सुमनोवाच-
भार्गवाणां कुले जातः पिता मम महामते
च्यवनो नाम विख्यातः सर्वज्ञानविशारदः ॥ २ ॥

मूलम्

सुमनोवाच-
भार्गवाणां कुले जातः पिता मम महामते
च्यवनो नाम विख्यातः सर्वज्ञानविशारदः ॥ २ ॥

विश्वास-प्रस्तुतिः

तस्याहं प्रिय कन्या वै प्राणादपि च वल्लभा
यत्रयत्र व्रजत्येष तीर्थारामेषु सुव्रत ॥ ३ ॥

मूलम्

तस्याहं प्रिय कन्या वै प्राणादपि च वल्लभा
यत्रयत्र व्रजत्येष तीर्थारामेषु सुव्रत ॥ ३ ॥

विश्वास-प्रस्तुतिः

सभासु च मुनीनां तु देवतायतनेषु च
तेन सार्द्धं व्रजाम्येका क्रीडमाना सदैव हि ॥ ४ ॥

मूलम्

सभासु च मुनीनां तु देवतायतनेषु च
तेन सार्द्धं व्रजाम्येका क्रीडमाना सदैव हि ॥ ४ ॥

विश्वास-प्रस्तुतिः

कौशिकान्वयसम्भूतो वेदशर्मा महामतिः
पितुर्मम सखा दैवादटमानः समागतः ॥ ५ ॥

मूलम्

कौशिकान्वयसम्भूतो वेदशर्मा महामतिः
पितुर्मम सखा दैवादटमानः समागतः ॥ ५ ॥

विश्वास-प्रस्तुतिः

दुःखेन महताविष्टश्चिन्तयानो मुहुर्मुहुः
समागतं महात्मानं तमुवाच पिता मम ॥ ६ ॥

मूलम्

दुःखेन महताविष्टश्चिन्तयानो मुहुर्मुहुः
समागतं महात्मानं तमुवाच पिता मम ॥ ६ ॥

विश्वास-प्रस्तुतिः

भवन्तं दुःखसन्तप्तमिति जानामि सुव्रत
कस्माद्दुःखी भवाञ्जातस्तस्मात्त्वं कारणं वद ॥ ७ ॥

मूलम्

भवन्तं दुःखसन्तप्तमिति जानामि सुव्रत
कस्माद्दुःखी भवाञ्जातस्तस्मात्त्वं कारणं वद ॥ ७ ॥

विश्वास-प्रस्तुतिः

एतद्वाक्यं ततः श्रुत्वा च्यवनस्य महात्मनः
तमुवाच महात्मानं पितरं मम सुव्रतः ॥ ८ ॥

मूलम्

एतद्वाक्यं ततः श्रुत्वा च्यवनस्य महात्मनः
तमुवाच महात्मानं पितरं मम सुव्रतः ॥ ८ ॥

विश्वास-प्रस्तुतिः

वेदशर्मा महाप्राज्ञ सर्वदुःखस्य कारणम्
मम भार्या महासाध्वी पातिव्रत्यपरायणा ॥ ९ ॥

मूलम्

वेदशर्मा महाप्राज्ञ सर्वदुःखस्य कारणम्
मम भार्या महासाध्वी पातिव्रत्यपरायणा ॥ ९ ॥

विश्वास-प्रस्तुतिः

अपुत्रा सा हि सञ्जाता मम वंशो न विद्यते
एतत्ते कारणं प्रोक्तं प्रश्नितोस्मि यतस्त्वया ॥ १० ॥

मूलम्

अपुत्रा सा हि सञ्जाता मम वंशो न विद्यते
एतत्ते कारणं प्रोक्तं प्रश्नितोस्मि यतस्त्वया ॥ १० ॥

विश्वास-प्रस्तुतिः

एतस्मिन्नन्तरे प्राप्तः कश्चित्सिद्धः समागतः
मम पित्रा तथा तेन ह्युत्थाय वेदशर्मणा ॥ ११ ॥

मूलम्

एतस्मिन्नन्तरे प्राप्तः कश्चित्सिद्धः समागतः
मम पित्रा तथा तेन ह्युत्थाय वेदशर्मणा ॥ ११ ॥

विश्वास-प्रस्तुतिः

द्वाभ्यामपि च सिद्धोसौ पूजितो भक्तिपूर्वकैः
उपहारैस्स भोज्यान्नैर्वचनैर्मधुराक्षरैः ॥ १२ ॥

मूलम्

द्वाभ्यामपि च सिद्धोसौ पूजितो भक्तिपूर्वकैः
उपहारैस्स भोज्यान्नैर्वचनैर्मधुराक्षरैः ॥ १२ ॥

विश्वास-प्रस्तुतिः

द्वाभ्यामन्तर्गतं पृष्टं पूर्वोक्तं च यथा त्वया
उभौ तौ प्राह धर्मात्मा ससखं पितरं मम ॥ १३ ॥

मूलम्

द्वाभ्यामन्तर्गतं पृष्टं पूर्वोक्तं च यथा त्वया
उभौ तौ प्राह धर्मात्मा ससखं पितरं मम ॥ १३ ॥

विश्वास-प्रस्तुतिः

धर्मस्य कारणं सर्वं मयोक्तं ते तथा किल
धर्मेण प्राप्यते पुत्रो धनं धान्यं तथा स्त्रियः ॥ १४ ॥

मूलम्

धर्मस्य कारणं सर्वं मयोक्तं ते तथा किल
धर्मेण प्राप्यते पुत्रो धनं धान्यं तथा स्त्रियः ॥ १४ ॥

विश्वास-प्रस्तुतिः

ततस्तेन कृतं धर्मं सम्पूर्णं वेदशर्मणा
तस्माद्धर्मात्सुसञ्जातं महत्सौख्यं सपुत्रकम् ॥ १५ ॥

मूलम्

ततस्तेन कृतं धर्मं सम्पूर्णं वेदशर्मणा
तस्माद्धर्मात्सुसञ्जातं महत्सौख्यं सपुत्रकम् ॥ १५ ॥

विश्वास-प्रस्तुतिः

तेन सङ्गप्रसङ्गेन ममैष मतिनिश्चयः
यथा कान्त तव प्रोक्तं मयैव च परं शुभम् ॥ १६ ॥

मूलम्

तेन सङ्गप्रसङ्गेन ममैष मतिनिश्चयः
यथा कान्त तव प्रोक्तं मयैव च परं शुभम् ॥ १६ ॥

विश्वास-प्रस्तुतिः

तस्माच्छ्रुतं महासिद्धात्सर्वसन्देहनाशनम्
विप्रधर्मं समाश्रित्य अनुवर्त्तस्व सर्वदा ॥ १७ ॥

मूलम्

तस्माच्छ्रुतं महासिद्धात्सर्वसन्देहनाशनम्
विप्रधर्मं समाश्रित्य अनुवर्त्तस्व सर्वदा ॥ १७ ॥

विश्वास-प्रस्तुतिः

सोमशर्मोवाच-
धर्मेण कीदृशो मृत्युर्जन्म चैव वदस्व मे
उभयोर्लक्षणं कान्ते तत्सर्वं हि वदस्व मे ॥ १८ ॥

मूलम्

सोमशर्मोवाच-
धर्मेण कीदृशो मृत्युर्जन्म चैव वदस्व मे
उभयोर्लक्षणं कान्ते तत्सर्वं हि वदस्व मे ॥ १८ ॥

विश्वास-प्रस्तुतिः

सुमनोवाच-
सत्य शौच क्षमा शान्ति तीर्थपुण्यादिकैस्तथा
धर्मश्च पालितो येन तस्य मृत्युं वदाम्यहम् ॥ १९ ॥

मूलम्

सुमनोवाच-
सत्य शौच क्षमा शान्ति तीर्थपुण्यादिकैस्तथा
धर्मश्च पालितो येन तस्य मृत्युं वदाम्यहम् ॥ १९ ॥

विश्वास-प्रस्तुतिः

रोगो न जायते तस्य न च पीडा कलेवरे
न श्रमो वै न च ग्लानिर्न च स्वेदो भ्रमस्तथा ॥ २० ॥

मूलम्

रोगो न जायते तस्य न च पीडा कलेवरे
न श्रमो वै न च ग्लानिर्न च स्वेदो भ्रमस्तथा ॥ २० ॥

विश्वास-प्रस्तुतिः

दिव्यरूपधरा भूत्वा गन्धर्वा ब्राह्मणास्तथा
वेदपाठसमायुक्ता गीतज्ञानविशारदाः ॥ २१ ॥

मूलम्

दिव्यरूपधरा भूत्वा गन्धर्वा ब्राह्मणास्तथा
वेदपाठसमायुक्ता गीतज्ञानविशारदाः ॥ २१ ॥

विश्वास-प्रस्तुतिः

तस्य पार्श्वं समायान्ति स्तुतिं कुर्वन्ति चातुलाम्
स्वस्थो हि आसने युक्तो देवपूजारतः किल ॥ २२ ॥

मूलम्

तस्य पार्श्वं समायान्ति स्तुतिं कुर्वन्ति चातुलाम्
स्वस्थो हि आसने युक्तो देवपूजारतः किल ॥ २२ ॥

विश्वास-प्रस्तुतिः

तीर्थं च लभते प्राज्ञः स्नानार्थं धर्मतत्परः
अग्न्यागारे च गोस्थाने देवतायतनेषु च ॥ २३ ॥

मूलम्

तीर्थं च लभते प्राज्ञः स्नानार्थं धर्मतत्परः
अग्न्यागारे च गोस्थाने देवतायतनेषु च ॥ २३ ॥

विश्वास-प्रस्तुतिः

आरामे च तडागे च यत्राश्वत्थो वटस्तथा
ब्रह्मवृक्षं समाश्रित्य श्रीवृक्षं च तथा पुनः ॥ २४ ॥

मूलम्

आरामे च तडागे च यत्राश्वत्थो वटस्तथा
ब्रह्मवृक्षं समाश्रित्य श्रीवृक्षं च तथा पुनः ॥ २४ ॥

विश्वास-प्रस्तुतिः

अश्वस्थानं समाश्रित्य गजस्थानगतो नरः
अशोकं चूतवृक्षं च समाश्रित्य यदास्थितः ॥ २५ ॥

मूलम्

अश्वस्थानं समाश्रित्य गजस्थानगतो नरः
अशोकं चूतवृक्षं च समाश्रित्य यदास्थितः ॥ २५ ॥

विश्वास-प्रस्तुतिः

सन्निधौ ब्राह्मणानां च राजवेश्मगतोथवा
रणभूमिं समाश्रित्य पूर्वं यत्र मृतो भवेत् ॥ २६ ॥

मूलम्

सन्निधौ ब्राह्मणानां च राजवेश्मगतोथवा
रणभूमिं समाश्रित्य पूर्वं यत्र मृतो भवेत् ॥ २६ ॥

विश्वास-प्रस्तुतिः

मृत्युस्थानानि पुण्यानि केवलं धर्मकारणम्
गोग्रहं तु सुसम्प्राप्य तथा चामरकण्टकम् ॥ २७ ॥

मूलम्

मृत्युस्थानानि पुण्यानि केवलं धर्मकारणम्
गोग्रहं तु सुसम्प्राप्य तथा चामरकण्टकम् ॥ २७ ॥

विश्वास-प्रस्तुतिः

शुद्धधर्मकरो नित्यं धर्मतो धर्मवत्सलः
एवं स्थानं समाप्नोति यदा मृत्युं समाश्रितः ॥ २८ ॥

मूलम्

शुद्धधर्मकरो नित्यं धर्मतो धर्मवत्सलः
एवं स्थानं समाप्नोति यदा मृत्युं समाश्रितः ॥ २८ ॥

विश्वास-प्रस्तुतिः

मातरं पश्यते पुण्यं पितरं च नरोत्तमः
भ्रातरं श्रेयसा युक्तमन्यं स्वजनबान्धवम् ॥ २९ ॥

मूलम्

मातरं पश्यते पुण्यं पितरं च नरोत्तमः
भ्रातरं श्रेयसा युक्तमन्यं स्वजनबान्धवम् ॥ २९ ॥

विश्वास-प्रस्तुतिः

बन्दीजनैस्तथा पुण्यैः स्तूयमानं पुनःपुनः
पापिष्ठं नैव पश्येत मातृपित्रादिकं पुनः ॥ ३० ॥

मूलम्

बन्दीजनैस्तथा पुण्यैः स्तूयमानं पुनःपुनः
पापिष्ठं नैव पश्येत मातृपित्रादिकं पुनः ॥ ३० ॥

विश्वास-प्रस्तुतिः

गीतं गायन्ति गन्धर्वाः स्तुवन्तिस्तावकाः स्तवैः
मन्त्रपाठैस्तथा विप्रा माता स्नेहेन पूजयेत् ॥ ३१ ॥

मूलम्

गीतं गायन्ति गन्धर्वाः स्तुवन्तिस्तावकाः स्तवैः
मन्त्रपाठैस्तथा विप्रा माता स्नेहेन पूजयेत् ॥ ३१ ॥

विश्वास-प्रस्तुतिः

पितास्वजनवर्गाश्च धर्मात्मानं महामतिम्
एवं दूताः समाख्याताः पुण्यस्थानानि ते विभो ॥ ३२ ॥

मूलम्

पितास्वजनवर्गाश्च धर्मात्मानं महामतिम्
एवं दूताः समाख्याताः पुण्यस्थानानि ते विभो ॥ ३२ ॥

विश्वास-प्रस्तुतिः

प्रत्यक्षान्पश्यते दूतान्हास्यस्नेहसमाविलान्
न च स्वप्नेन मोहेन क्लेदयुक्तेन नैव सः ॥ ३३ ॥

मूलम्

प्रत्यक्षान्पश्यते दूतान्हास्यस्नेहसमाविलान्
न च स्वप्नेन मोहेन क्लेदयुक्तेन नैव सः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

धर्मराजो महाप्राज्ञो भवन्तं तु समाह्वयेत्
एह्येहि त्वं महाभाग यत्र धर्मः स तिष्ठति ॥ ३४ ॥

मूलम्

धर्मराजो महाप्राज्ञो भवन्तं तु समाह्वयेत्
एह्येहि त्वं महाभाग यत्र धर्मः स तिष्ठति ॥ ३४ ॥

विश्वास-प्रस्तुतिः

तस्य मोहो न च भ्रान्तिर्न ग्लानिः स्मृतिविभ्रमः
जायते नात्र सन्देहः प्रसन्नात्मा स तिष्ठति ॥ ३५ ॥

मूलम्

तस्य मोहो न च भ्रान्तिर्न ग्लानिः स्मृतिविभ्रमः
जायते नात्र सन्देहः प्रसन्नात्मा स तिष्ठति ॥ ३५ ॥

विश्वास-प्रस्तुतिः

ज्ञानविज्ञानसम्पन्नः स्मरन्देवं जनार्दनम्
तैः सार्द्धं तु प्रयात्येवं सन्तुष्टो हृष्टमानसः ॥ ३६ ॥

मूलम्

ज्ञानविज्ञानसम्पन्नः स्मरन्देवं जनार्दनम्
तैः सार्द्धं तु प्रयात्येवं सन्तुष्टो हृष्टमानसः ॥ ३६ ॥

विश्वास-प्रस्तुतिः

एकत्वं जायते तत्र त्यजतः स्वङ्कलेवरम्
दशमद्वारमाश्रित्य आत्मा तस्य स गच्छति ॥ ३७ ॥

मूलम्

एकत्वं जायते तत्र त्यजतः स्वङ्कलेवरम्
दशमद्वारमाश्रित्य आत्मा तस्य स गच्छति ॥ ३७ ॥

विश्वास-प्रस्तुतिः

शिबिका तस्य आयाति हंसयानं मनोहरम्
विमानमेव चायाति हयो वा गज उत्तमः ॥ ३८ ॥

मूलम्

शिबिका तस्य आयाति हंसयानं मनोहरम्
विमानमेव चायाति हयो वा गज उत्तमः ॥ ३८ ॥

विश्वास-प्रस्तुतिः

छत्रेण ध्रियमाणेन चामरैर्व्यजनैस्तथा
वीज्यमानः स पुण्यात्मा पुण्यैरेवं समन्ततः ॥ ३९ ॥

मूलम्

छत्रेण ध्रियमाणेन चामरैर्व्यजनैस्तथा
वीज्यमानः स पुण्यात्मा पुण्यैरेवं समन्ततः ॥ ३९ ॥

विश्वास-प्रस्तुतिः

गीयमानस्तु धर्मात्मा स्तूयमानस्तु पण्डितैः
बन्दिभिश्चारणैर्दिव्यैर्ब्राह्मणैर्वेदपारगैः ॥ ४० ॥

मूलम्

गीयमानस्तु धर्मात्मा स्तूयमानस्तु पण्डितैः
बन्दिभिश्चारणैर्दिव्यैर्ब्राह्मणैर्वेदपारगैः ॥ ४० ॥

विश्वास-प्रस्तुतिः

साधुभिः स्तूयमानस्तु सर्वसौख्यसमन्वितः
यथादानप्रभावेण फलमाप्नोति तत्र सः ॥ ४१ ॥

मूलम्

साधुभिः स्तूयमानस्तु सर्वसौख्यसमन्वितः
यथादानप्रभावेण फलमाप्नोति तत्र सः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

आरामवाटिकामध्ये स प्रयाति सुखेन वै
अप्सरोभिः समाकीर्णो दिव्याभिर्मङ्गलैर्युतः ॥ ४२ ॥

मूलम्

आरामवाटिकामध्ये स प्रयाति सुखेन वै
अप्सरोभिः समाकीर्णो दिव्याभिर्मङ्गलैर्युतः ॥ ४२ ॥

विश्वास-प्रस्तुतिः

देवैः संस्तूयमानस्तु धर्मराजं प्रपश्यति
देवाश्च धर्मसंयुक्ता जग्मुः सम्मुखमेव तम् ॥ ४३ ॥

मूलम्

देवैः संस्तूयमानस्तु धर्मराजं प्रपश्यति
देवाश्च धर्मसंयुक्ता जग्मुः सम्मुखमेव तम् ॥ ४३ ॥

विश्वास-प्रस्तुतिः

एह्येहि वै महाभाग भुङ्क्ष्व भोगान्मनोनुगान्
एवं स पश्यते धर्मं सौम्यरूपं महामतिम् ॥ ४४ ॥

मूलम्

एह्येहि वै महाभाग भुङ्क्ष्व भोगान्मनोनुगान्
एवं स पश्यते धर्मं सौम्यरूपं महामतिम् ॥ ४४ ॥

विश्वास-प्रस्तुतिः

स्वस्य पुण्यप्रभावेण भुङ्क्ते च स्वर्गमेव सः
भोगक्षयात्सधर्मात्मा पुनर्जन्म प्रयाति वै ॥ ४५ ॥

मूलम्

स्वस्य पुण्यप्रभावेण भुङ्क्ते च स्वर्गमेव सः
भोगक्षयात्सधर्मात्मा पुनर्जन्म प्रयाति वै ॥ ४५ ॥

विश्वास-प्रस्तुतिः

निजधर्मप्रसादात्स कुलं पुण्यं प्रयाति वै
ब्राह्मणस्य सुपुण्यस्य क्षत्रियस्य तथैव च ॥ ४६ ॥

मूलम्

निजधर्मप्रसादात्स कुलं पुण्यं प्रयाति वै
ब्राह्मणस्य सुपुण्यस्य क्षत्रियस्य तथैव च ॥ ४६ ॥

धनाढ्यस्य सुपुण्यस्य वैश्यस्यैव महामते
धर्मेण मोदते तत्र पुनः पुण्यं करोति सः ४७