सोमशर्मोवाच-
विश्वास-प्रस्तुतिः
लक्षणं ब्रह्मचर्यस्य तन्मे विस्तरतो वद
कीदृशं ब्रह्मचर्यं च यदि जानासि भामिनि ॥ १ ॥
मूलम्

नित्यं सत्ये रतिर्यस्य पुण्यात्मा तुष्टितां व्रजेत्
ऋतौ प्राप्ते व्रजेन्नारीं स्वीयां दोषविवर्जितः ॥ २ ॥

स्वकुलस्य सदाचारं कदानैव विमुञ्चति
एतदेव समाख्यातं गृहस्थस्य द्विजोत्तम ॥ ३ ॥

ब्रह्मचर्यं मया प्रोक्तं गृहिणामुत्तमं किल
यतीनां तु प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ ४ ॥

दमसत्यसमायुक्तः पापाद्भीतस्तु सर्वदा
भार्यासङ्गं वर्जयित्वा ध्यानज्ञानप्रतिष्ठितः ॥ ५ ॥

यतीनां ब्रह्मचर्यं च समाख्यातं तवाग्रतः
तप एव प्रवक्ष्यामि तन्मेनिगदतः शृणु ॥ ६ ॥

आचारेण प्रवर्तेत कामक्रोधविवर्जितः
प्राणिनामुपकाराय संस्थितउद्यमावृतः ॥ ७ ॥

तप एवं समाख्यातं सत्यमेवं वदाम्यहम्
परद्रव्येष्वलोलुप्त्वं परस्त्रीषु तथैव च ॥ ८ ॥

दृष्ट्वा मतिर्न यस्य स्यात्स सत्यः परिकीर्तितः
दानमेव प्रवक्ष्यामि येन जीवन्ति मानवाः ॥ ९ ॥

आत्मसौख्यं प्रतीच्छेद्यः स इहैव परत्र वा
अन्नस्यापि महादानं सुखस्यैव ध्रुवस्य वा ॥ १० ॥

ग्रासमात्रं तथा देयं क्षुधार्ताय न संशयः
दत्ते सति महत्पुण्यममृतं सोश्नुते सदा ॥ ११ ॥

दिनेदिने प्रदातव्यं यथाविभवसम्भवम्
तृणं शय्यां च वचनं गृहच्छायां सुशीतलाम् ॥ १२ ॥

भूमिमापस्तथा चान्नं प्रियवाक्यमनुत्तमम्
आसनं वचनालापं कौटिल्येन विवर्जितम् ॥ १३ ॥

आत्मनो जीवनार्थाय नित्यमेव करोति यः
देवान्पितॄन्समभ्यर्च्य एवं दानं ददाति यः ॥ १४ ॥

इहैव मोदते सो वै परत्र हि तथैव च
अवन्ध्यं दिवसं यो वै दानाध्ययनकर्मभिः ॥ १५ ॥

प्रकुर्यान्मानुषो भूत्वा स देवो नात्र संशयः
नियमं च प्रवक्ष्यामि धर्मसाधनमुत्तमम् ॥ १६ ॥

देवानां ब्राह्मणानां च पूजास्वभिरतो हि यः
नित्यं नियमसंयुक्तो दानव्रतेषु सुव्रत ॥ १७ ॥

उपकारेषु पुण्येषु नियमोऽयं प्रकीर्तितः
क्षमारूपं प्रवक्ष्यामि श्रूयतां द्विजसत्तम ॥ १८ ॥

पराक्रोशं हि संश्रुत्य ताडिते सति केनचित्
क्रोधं न चैव गच्छेत्तु ताडितो न हि ताडयेत् ॥ १९ ॥

सहिष्णुः स्यात्स धर्मात्मा नहि रागं प्रयाति च
समश्नाति परं सौख्यमिह चामुत्र वापि च ॥ २० ॥

एवं क्षमा समाख्याता शौचमेवं वदाम्यहम्
सबाह्याभ्यन्तरे यो वै शुद्धो रागविवर्जितः ॥ २१ ॥

स्नानाचमनकैरेव व्यवहारेण वर्तते
शौचमेवं समाख्यातमहिंसां तु वदाम्यहम् ॥ २२ ॥

तृणमपि विना कार्यञ्छेत्तव्यं न विजानता
अहिंसानिरतो भूयाद्यथात्मनि तथापरे ॥ २३ ॥

शान्तिमेव प्रक्ष्यामि शान्त्या सुखं समश्नुते
शान्तिरेव प्रकर्तव्या क्लेशान्नैव परित्यजेत् ॥ २४ ॥

भूतवैरं विसृज्यैव मन एवं प्रकारयेत्
एवं शान्तिः समाख्याता अस्तेयं तु वदाम्यहम् ॥ २५ ॥

परस्वं नैव हर्तव्यं परजाया तथैव च
मनोभिर्वचनैः कायैर्मन एवं प्रकारयेत् ॥ २६ ॥

दममेव प्रवक्ष्यामि तवाग्रे द्विजसत्तम
दमनादिन्द्रियाणां वै मनसोपि विकारिणः ॥ २७ ॥

औद्धत्यं नाशयेत्तेषां स चैतन्यो वशी तदा
शुश्रूषां तु प्रवक्ष्यामि धर्मशास्त्रेषु यादृशी ॥ २८ ॥

पूर्वाचार्यैर्यथा प्रोक्ता तामेवं प्रवदाम्यहम्
वाचा देहेन मनसा गुरुकार्यं प्रसाधयेत् ॥ २९ ॥

जायतेऽनुग्रहो यत्र शुश्रूषा सा निगद्यते
साङ्गो धर्मः समाख्यातस्तवाग्रे द्विजसत्तम ॥ ३० ॥

अन्यच्च ते प्रवक्ष्यामि श्रोतुमिच्छसि यत्पते
ईदृशे चापि धर्मे तु वर्तते यो नरः सदा ॥ ३१ ॥

संसारे तस्य सम्भूतिः पुनरेव न जायते
स्वर्गं गच्छति धर्मेण सत्यंसत्यं वदाम्यहम् ॥ ३२ ॥

एवं ज्ञात्वा महाप्राज्ञ धर्ममेव व्रजस्व हि
सर्वं हि प्राप्यते कान्त यदसाध्यं महीतले ॥ ३३ ॥

धर्मप्रसादतस्तस्मात्कुरु वाक्यं ममैव हि
भार्यायास्तुवचः श्रुत्वा सोमशर्मा सुबुद्धिमान् ॥ ३४ ॥

पुनः प्रोवाच तां भार्यां सुमनां धर्मवादिनीम् ३५