सुमनोवाच-
विश्वास-प्रस्तुतिः
ऋणसम्बन्धिनं पुत्रं प्रवक्ष्यामि तवाग्रतः
ऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल ॥ १ ॥
मूलम्
ऋणसम्बन्धिनं पुत्रं प्रवक्ष्यामि तवाग्रतः
ऋणं यस्य गृहीत्वा यः प्रयाति मरणं किल ॥ १ ॥
विश्वास-प्रस्तुतिः
अर्थदाता सुतो भूत्वा भ्राता चाथ पिता प्रिया
मित्ररूपेण वर्त्तेत अतिदुष्टः सदैव सः ॥ २ ॥
मूलम्
अर्थदाता सुतो भूत्वा भ्राता चाथ पिता प्रिया
मित्ररूपेण वर्त्तेत अतिदुष्टः सदैव सः ॥ २ ॥
विश्वास-प्रस्तुतिः
गुणं नैव प्रपश्येत स क्रूरो निष्ठुराकृतिः
जल्पते निष्ठुरं वाक्यं सदैव स्वजनेषु च ॥ ३ ॥
मूलम्
गुणं नैव प्रपश्येत स क्रूरो निष्ठुराकृतिः
जल्पते निष्ठुरं वाक्यं सदैव स्वजनेषु च ॥ ३ ॥
विश्वास-प्रस्तुतिः
मिष्टम्मिष्टं समश्नाति भोगान्भुञ्जति नित्यशः
द्यूतकर्मरतो नित्यं चौरकर्मणि सस्पृहः ॥ ४ ॥
मूलम्
मिष्टम्मिष्टं समश्नाति भोगान्भुञ्जति नित्यशः
द्यूतकर्मरतो नित्यं चौरकर्मणि सस्पृहः ॥ ४ ॥
विश्वास-प्रस्तुतिः
गृहद्रव्यं बलाद्भुङ्क्ते वार्यमाणः स कुप्यति
पितरं मातरं चैव कुत्सते च दिनेदिने ॥ ५ ॥
मूलम्
गृहद्रव्यं बलाद्भुङ्क्ते वार्यमाणः स कुप्यति
पितरं मातरं चैव कुत्सते च दिनेदिने ॥ ५ ॥
विश्वास-प्रस्तुतिः
द्रावकस्त्रासकश्चैव बहुनिष्ठुरजल्पकः
एवं भुक्त्वाथ तद्द्रव्यं सुखेन परितिष्ठति ॥ ६ ॥
मूलम्
द्रावकस्त्रासकश्चैव बहुनिष्ठुरजल्पकः
एवं भुक्त्वाथ तद्द्रव्यं सुखेन परितिष्ठति ॥ ६ ॥
विश्वास-प्रस्तुतिः
जातकर्मादिभिर्बाल्ये द्रव्यं गृह्णाति दारुणः
पुनर्विवाहसम्बन्धान्नानाभेदैरनेकधा ॥ ७ ॥
मूलम्
जातकर्मादिभिर्बाल्ये द्रव्यं गृह्णाति दारुणः
पुनर्विवाहसम्बन्धान्नानाभेदैरनेकधा ॥ ७ ॥
विश्वास-प्रस्तुतिः
एवं सञ्जायते द्रव्यमेवमेतद्ददात्यपि
गृहक्षेत्रादिकं सर्वं ममैव हि न संशयः ॥ ८ ॥
मूलम्
एवं सञ्जायते द्रव्यमेवमेतद्ददात्यपि
गृहक्षेत्रादिकं सर्वं ममैव हि न संशयः ॥ ८ ॥
विश्वास-प्रस्तुतिः
पितरं मातरं चैव हिनस्त्येव दिनेदिने
सुखण्डैर्मुशलैश्चैव सर्वघातैः सुदारुणैः ॥ ९ ॥
मूलम्
पितरं मातरं चैव हिनस्त्येव दिनेदिने
सुखण्डैर्मुशलैश्चैव सर्वघातैः सुदारुणैः ॥ ९ ॥
विश्वास-प्रस्तुतिः
मृते तु तस्मिन्पितरि मातर्येवातिनिष्ठुरः
निःस्नेहो निष्ठुरश्चश्चैव जायते नात्र संशयः ॥ १० ॥
मूलम्
मृते तु तस्मिन्पितरि मातर्येवातिनिष्ठुरः
निःस्नेहो निष्ठुरश्चश्चैव जायते नात्र संशयः ॥ १० ॥
विश्वास-प्रस्तुतिः
श्राद्धकर्माणि दानानि न करोति कदैव सः
एवंविधाश्च वै पुत्राः प्रभवन्ति महीतले ॥ ११ ॥
मूलम्
श्राद्धकर्माणि दानानि न करोति कदैव सः
एवंविधाश्च वै पुत्राः प्रभवन्ति महीतले ॥ ११ ॥
विश्वास-प्रस्तुतिः
रिपुं पुत्रं प्रवक्ष्यामि तवाग्रे द्विजपुङ्गव
बाल्ये वयसि सम्प्राप्ते रिपुत्वे वर्तते सदा ॥ १२ ॥
मूलम्
रिपुं पुत्रं प्रवक्ष्यामि तवाग्रे द्विजपुङ्गव
बाल्ये वयसि सम्प्राप्ते रिपुत्वे वर्तते सदा ॥ १२ ॥
विश्वास-प्रस्तुतिः
पितरं मातरं चैव क्रीडमानो हि ताडयेत्
ताडयित्वा प्रयात्येव प्रहस्यैव पुनःपुनः ॥ १३ ॥
मूलम्
पितरं मातरं चैव क्रीडमानो हि ताडयेत्
ताडयित्वा प्रयात्येव प्रहस्यैव पुनःपुनः ॥ १३ ॥
विश्वास-प्रस्तुतिः
पुनरायाति सन्त्रस्तः पितरं मातरं प्रति
सक्रोधो वर्तते नित्यं कुत्सते च पुनःपुनः ॥ १४ ॥
मूलम्
पुनरायाति सन्त्रस्तः पितरं मातरं प्रति
सक्रोधो वर्तते नित्यं कुत्सते च पुनःपुनः ॥ १४ ॥
विश्वास-प्रस्तुतिः
एवं संवर्तते नित्यं वैरकर्मणि सर्वदा
पितरं मारयित्वा च मातरं च ततः पुनः ॥ १५ ॥
मूलम्
एवं संवर्तते नित्यं वैरकर्मणि सर्वदा
पितरं मारयित्वा च मातरं च ततः पुनः ॥ १५ ॥
विश्वास-प्रस्तुतिः
प्रयात्येवं स दुष्टात्मा पूर्ववैरानुभावतः
अथातः सम्प्रवक्ष्यामि यस्माल्लभ्यं भवेत्प्रियम् ॥ १६ ॥
मूलम्
प्रयात्येवं स दुष्टात्मा पूर्ववैरानुभावतः
अथातः सम्प्रवक्ष्यामि यस्माल्लभ्यं भवेत्प्रियम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
जातमात्रः प्रियं कुर्याद्बाल्ये लालनक्रीडनैः
वयः प्राप्य प्रियं कुर्यान्मातृपित्रोरनन्तरम् ॥ १७ ॥
मूलम्
जातमात्रः प्रियं कुर्याद्बाल्ये लालनक्रीडनैः
वयः प्राप्य प्रियं कुर्यान्मातृपित्रोरनन्तरम् ॥ १७ ॥
विश्वास-प्रस्तुतिः
भक्त्या सन्तोषयेन्नित्यं तावुभौ परितोषयेत्
स्नेहेन वचसा चैव प्रियसम्भाषणेन च ॥ १८ ॥
मूलम्
भक्त्या सन्तोषयेन्नित्यं तावुभौ परितोषयेत्
स्नेहेन वचसा चैव प्रियसम्भाषणेन च ॥ १८ ॥
विश्वास-प्रस्तुतिः
मृते गुरौ समाज्ञाय स्नेहेन रुदते पुनः
श्राद्धकर्माणि सर्वाणि पिण्डदानादिकां क्रियाम् ॥ १९ ॥
मूलम्
मृते गुरौ समाज्ञाय स्नेहेन रुदते पुनः
श्राद्धकर्माणि सर्वाणि पिण्डदानादिकां क्रियाम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
करोत्येव सुदुःखार्तस्तेभ्यो यात्रां प्रयच्छति
ऋणत्रयान्वितः स्नेहाद्भुञ्जापयति नित्यशः ॥ २० ॥
मूलम्
करोत्येव सुदुःखार्तस्तेभ्यो यात्रां प्रयच्छति
ऋणत्रयान्वितः स्नेहाद्भुञ्जापयति नित्यशः ॥ २० ॥
विश्वास-प्रस्तुतिः
यस्माल्लभ्यं भवेत्कान्त प्रयच्छति न संशयः
पुत्रो भूत्वा महाप्राज्ञ अनेन विधिना किल ॥ २१ ॥
मूलम्
यस्माल्लभ्यं भवेत्कान्त प्रयच्छति न संशयः
पुत्रो भूत्वा महाप्राज्ञ अनेन विधिना किल ॥ २१ ॥
विश्वास-प्रस्तुतिः
उदासीनं प्रवक्ष्यामि तवाग्रे प्रिय साम्प्रतम्
उदासीनेन भावेन सदैव परिवर्तते ॥ २२ ॥
मूलम्
उदासीनं प्रवक्ष्यामि तवाग्रे प्रिय साम्प्रतम्
उदासीनेन भावेन सदैव परिवर्तते ॥ २२ ॥
विश्वास-प्रस्तुतिः
ददाति नैव गृह्णाति न च कुप्यति तुष्यति
नो वा ददाति सन्त्यज्य उदासीनो द्विजोत्तम ॥ २३ ॥
मूलम्
ददाति नैव गृह्णाति न च कुप्यति तुष्यति
नो वा ददाति सन्त्यज्य उदासीनो द्विजोत्तम ॥ २३ ॥
विश्वास-प्रस्तुतिः
तवाग्रे कथितं सर्वं पुत्राणां गतिरीदृशी
यथा पुत्रस्तथा भार्या पिता माताथ बान्धवाः ॥ २४ ॥
मूलम्
तवाग्रे कथितं सर्वं पुत्राणां गतिरीदृशी
यथा पुत्रस्तथा भार्या पिता माताथ बान्धवाः ॥ २४ ॥
विश्वास-प्रस्तुतिः
भृत्याश्चान्ये समाख्याताः पशवस्तुरगास्तथा
गजा महिष्यो दासाश्च ऋणसम्बन्धिनस्त्वमी ॥ २५ ॥
मूलम्
भृत्याश्चान्ये समाख्याताः पशवस्तुरगास्तथा
गजा महिष्यो दासाश्च ऋणसम्बन्धिनस्त्वमी ॥ २५ ॥
विश्वास-प्रस्तुतिः
गृहीतं न ऋणं तेन आवाभ्यां तु न कस्यचित्
न्यासमेवं न कस्यापि कृतं वै पूर्वजन्मनि ॥ २६ ॥
मूलम्
गृहीतं न ऋणं तेन आवाभ्यां तु न कस्यचित्
न्यासमेवं न कस्यापि कृतं वै पूर्वजन्मनि ॥ २६ ॥
विश्वास-प्रस्तुतिः
धारयावो न कस्यापि ऋणं कान्त शृणुष्वहि
न वैरमस्ति केनापि पूर्वजन्मनि वै कृतम् ॥ २७ ॥
मूलम्
धारयावो न कस्यापि ऋणं कान्त शृणुष्वहि
न वैरमस्ति केनापि पूर्वजन्मनि वै कृतम् ॥ २७ ॥
विश्वास-प्रस्तुतिः
आवाभ्यां हि न विप्रेन्द्र न त्यक्तं हि तथापते
एवं ज्ञात्वा शमं गच्छ त्यज चिन्तामनर्थकीम् ॥ २८ ॥
मूलम्
आवाभ्यां हि न विप्रेन्द्र न त्यक्तं हि तथापते
एवं ज्ञात्वा शमं गच्छ त्यज चिन्तामनर्थकीम् ॥ २८ ॥
विश्वास-प्रस्तुतिः
कस्य पुत्राः प्रिया भार्या कस्य स्वजनबान्धवाः
हृतं न चैव कस्यापि नैव दत्तं त्वया पुनः ॥ २९ ॥
मूलम्
कस्य पुत्राः प्रिया भार्या कस्य स्वजनबान्धवाः
हृतं न चैव कस्यापि नैव दत्तं त्वया पुनः ॥ २९ ॥
विश्वास-प्रस्तुतिः
कथं हि धनमायाति विस्मयं व्रज माधव
प्राप्तव्यमेव यत्रैव भवेद्द्रव्यं द्विजोत्तम ॥ ३० ॥
मूलम्
कथं हि धनमायाति विस्मयं व्रज माधव
प्राप्तव्यमेव यत्रैव भवेद्द्रव्यं द्विजोत्तम ॥ ३० ॥
विश्वास-प्रस्तुतिः
अनायासेन हस्ते हि तस्यैव परिजायते
यत्नेन महता चैव द्रव्यं रक्षति मानवः ॥ ३१ ॥
मूलम्
अनायासेन हस्ते हि तस्यैव परिजायते
यत्नेन महता चैव द्रव्यं रक्षति मानवः ॥ ३१ ॥
विश्वास-प्रस्तुतिः
व्रजमानो व्रजत्येव धनं तत्रैव तिष्ठति
एवं ज्ञात्वा शमं गच्छ जहि चिन्तामनर्थकीम् ॥ ३२ ॥
मूलम्
व्रजमानो व्रजत्येव धनं तत्रैव तिष्ठति
एवं ज्ञात्वा शमं गच्छ जहि चिन्तामनर्थकीम् ॥ ३२ ॥
विश्वास-प्रस्तुतिः
कस्य पुत्राः प्रिया भार्या कस्य स्वजनबान्धवाः
कः कस्य नास्ति संसारे असम्बन्धाद्द्विजोत्तम ॥ ३३ ॥
मूलम्
कस्य पुत्राः प्रिया भार्या कस्य स्वजनबान्धवाः
कः कस्य नास्ति संसारे असम्बन्धाद्द्विजोत्तम ॥ ३३ ॥
विश्वास-प्रस्तुतिः
महामोहेन सम्मूढा मानवाः पापचेतसः
इदं गृहमयं पुत्र इमा नार्यो ममैव हि ॥ ३४ ॥
मूलम्
महामोहेन सम्मूढा मानवाः पापचेतसः
इदं गृहमयं पुत्र इमा नार्यो ममैव हि ॥ ३४ ॥
विश्वास-प्रस्तुतिः
अनृतं दृश्यते कान्त संसारस्य हि बन्धनम्
एवं सम्बोधितो देव्या भार्यया प्रियया तदा ॥ ३५ ॥
मूलम्
अनृतं दृश्यते कान्त संसारस्य हि बन्धनम्
एवं सम्बोधितो देव्या भार्यया प्रियया तदा ॥ ३५ ॥
विश्वास-प्रस्तुतिः
पुनः प्राह प्रियां भार्यां सुमनां ज्ञानवादिनीम्
सोमशर्मोवाच-
सत्यमुक्तं त्वया भद्रे सर्वसन्देहनाशनम् ॥ ३६ ॥
मूलम्
पुनः प्राह प्रियां भार्यां सुमनां ज्ञानवादिनीम्
सोमशर्मोवाच-
सत्यमुक्तं त्वया भद्रे सर्वसन्देहनाशनम् ॥ ३६ ॥
विश्वास-प्रस्तुतिः
तथापि वंशमिच्छन्ति साधवः सत्यपण्डिताः
यथा पुत्रस्य मे चिन्ता धनस्य च तथा प्रिये ॥ ३७ ॥
मूलम्
तथापि वंशमिच्छन्ति साधवः सत्यपण्डिताः
यथा पुत्रस्य मे चिन्ता धनस्य च तथा प्रिये ॥ ३७ ॥
विश्वास-प्रस्तुतिः
येनकेनाप्युपायेन पुत्रमुत्पादयाम्यहम्
सुमनोवाच-
पुत्रेण लोकाञ्जयति पुत्रस्तारयते कुलम् ॥ ३८ ॥
मूलम्
येनकेनाप्युपायेन पुत्रमुत्पादयाम्यहम्
सुमनोवाच-
पुत्रेण लोकाञ्जयति पुत्रस्तारयते कुलम् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
सत्पुत्रेण महाभाग पिता माता च जन्तवः
एकः पुत्रो वरो विद्वान्बहुभिर्निर्गुणैस्तु किम् ॥ ३९ ॥
मूलम्
सत्पुत्रेण महाभाग पिता माता च जन्तवः
एकः पुत्रो वरो विद्वान्बहुभिर्निर्गुणैस्तु किम् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
एकस्तारयते वंशमन्ये सन्तापकारकाः
पूर्वमेव मया प्रोक्तमन्ये सम्बन्धगामिनः ॥ ४० ॥
मूलम्
एकस्तारयते वंशमन्ये सन्तापकारकाः
पूर्वमेव मया प्रोक्तमन्ये सम्बन्धगामिनः ॥ ४० ॥
विश्वास-प्रस्तुतिः
पुण्येन प्राप्यते पुत्रः पुण्येन प्राप्यते कुलम्
सुगर्भः प्राप्यते पुण्यैस्तस्मात्पुण्यं समाचर ॥ ४१ ॥
मूलम्
पुण्येन प्राप्यते पुत्रः पुण्येन प्राप्यते कुलम्
सुगर्भः प्राप्यते पुण्यैस्तस्मात्पुण्यं समाचर ॥ ४१ ॥
विश्वास-प्रस्तुतिः
जातस्य मृतिरेवास्ति जन्म एव मृतस्य च
सुजन्म प्राप्यते पुण्यैर्मरणं तु तथैव च ॥ ४२ ॥
मूलम्
जातस्य मृतिरेवास्ति जन्म एव मृतस्य च
सुजन्म प्राप्यते पुण्यैर्मरणं तु तथैव च ॥ ४२ ॥
विश्वास-प्रस्तुतिः
सुखं धनचयः कान्त भुज्यते पुण्यकर्मभिः
सोमशर्मोवाच-
पुण्यस्याचरणं ब्रूहि तथा जन्मान्यपि प्रिये ॥ ४३ ॥
मूलम्
सुखं धनचयः कान्त भुज्यते पुण्यकर्मभिः
सोमशर्मोवाच-
पुण्यस्याचरणं ब्रूहि तथा जन्मान्यपि प्रिये ॥ ४३ ॥
विश्वास-प्रस्तुतिः
सुपुण्यः कीदृशो भद्रे वद पुण्यस्य लक्षणम्
सुमनोवाच-
आदौ पुण्यं प्रवक्ष्यामि यथा पुण्यं श्रुतं मया ॥ ४४ ॥
मूलम्
सुपुण्यः कीदृशो भद्रे वद पुण्यस्य लक्षणम्
सुमनोवाच-
आदौ पुण्यं प्रवक्ष्यामि यथा पुण्यं श्रुतं मया ॥ ४४ ॥
विश्वास-प्रस्तुतिः
पुरुषो वाथवा नारी यथा नित्यं च वर्तते
यथा पुण्यैः समाप्नोति कीर्तिं पुत्रान्प्रियान्धनम् ॥ ४५ ॥
मूलम्
पुरुषो वाथवा नारी यथा नित्यं च वर्तते
यथा पुण्यैः समाप्नोति कीर्तिं पुत्रान्प्रियान्धनम् ॥ ४५ ॥
विश्वास-प्रस्तुतिः
पुण्यस्य लक्षणं कान्त सर्वमेव वदाम्यहम्
ब्रह्मचर्येण सत्येन मखपञ्चकवर्तनैः ॥ ४६ ॥
मूलम्
पुण्यस्य लक्षणं कान्त सर्वमेव वदाम्यहम्
ब्रह्मचर्येण सत्येन मखपञ्चकवर्तनैः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
दानेन नियमैश्चापि क्षमाशौचेन वल्लभ
अहिंसया सुशक्त्या च अस्तेयेनापि वर्तनैः ॥ ४७ ॥
मूलम्
दानेन नियमैश्चापि क्षमाशौचेन वल्लभ
अहिंसया सुशक्त्या च अस्तेयेनापि वर्तनैः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
एतैर्दशभिरङ्गैस्तु धर्ममेवं प्रपूरयेत्
सम्पूर्णो जायते धर्मो ग्रासैर्भोगो यथोदरे ॥ ४८ ॥
मूलम्
एतैर्दशभिरङ्गैस्तु धर्ममेवं प्रपूरयेत्
सम्पूर्णो जायते धर्मो ग्रासैर्भोगो यथोदरे ॥ ४८ ॥
विश्वास-प्रस्तुतिः
धर्मं सृजति धर्मात्मा त्रिविधेनैव कर्मणा
तस्य धर्मः प्रसन्नात्मा पुण्यमेवं तु प्रापयेत् ॥ ४९ ॥
मूलम्
धर्मं सृजति धर्मात्मा त्रिविधेनैव कर्मणा
तस्य धर्मः प्रसन्नात्मा पुण्यमेवं तु प्रापयेत् ॥ ४९ ॥
विश्वास-प्रस्तुतिः
यं यं चिन्तयते प्राज्ञस्तं तं प्राप्नोति दुर्लभम्
सोमशर्मोवाच-
कीदृङ्मूर्तिस्तु धर्मस्य कान्यङ्गानि च भामिनि ॥ ५० ॥
मूलम्
यं यं चिन्तयते प्राज्ञस्तं तं प्राप्नोति दुर्लभम्
सोमशर्मोवाच-
कीदृङ्मूर्तिस्तु धर्मस्य कान्यङ्गानि च भामिनि ॥ ५० ॥
विश्वास-प्रस्तुतिः
प्रीत्या कथय मे कान्ते श्रोतुं श्रद्धा प्रवर्तते
सुमनोवाच-
लोके धर्मस्य वै मूर्तिः कैर्दृष्टा न द्विजोत्तम ॥ ५१ ॥
मूलम्
प्रीत्या कथय मे कान्ते श्रोतुं श्रद्धा प्रवर्तते
सुमनोवाच-
लोके धर्मस्य वै मूर्तिः कैर्दृष्टा न द्विजोत्तम ॥ ५१ ॥
विश्वास-प्रस्तुतिः
अदृश्यवर्त्मा सत्यात्मा न दृष्टो देवदानवैः
अत्रिवंशे समुत्पन्नो अनसूयात्मजो द्विजः ॥ ५२ ॥
मूलम्
अदृश्यवर्त्मा सत्यात्मा न दृष्टो देवदानवैः
अत्रिवंशे समुत्पन्नो अनसूयात्मजो द्विजः ॥ ५२ ॥
विश्वास-प्रस्तुतिः
तेन दृष्टो महाधर्मो दत्तात्रेयेण वै सदा
द्वावेतौ तु महात्मानौ कुर्वाणौ तप उत्तमम् ॥ ५३ ॥
मूलम्
तेन दृष्टो महाधर्मो दत्तात्रेयेण वै सदा
द्वावेतौ तु महात्मानौ कुर्वाणौ तप उत्तमम् ॥ ५३ ॥
विश्वास-प्रस्तुतिः
धर्मेण वर्तमानौ तौ तपसा च बलेन च
इन्द्राधिकेन रूपेण प्रशस्तेन भविष्यतः ॥ ५४ ॥
मूलम्
धर्मेण वर्तमानौ तौ तपसा च बलेन च
इन्द्राधिकेन रूपेण प्रशस्तेन भविष्यतः ॥ ५४ ॥
विश्वास-प्रस्तुतिः
दशवर्षसहस्रं तौ यावत्तु वनसंस्थितौ
वायुभक्षौ निराहारौ सञ्जातौ शुभदर्शनौ ॥ ५५ ॥
मूलम्
दशवर्षसहस्रं तौ यावत्तु वनसंस्थितौ
वायुभक्षौ निराहारौ सञ्जातौ शुभदर्शनौ ॥ ५५ ॥
विश्वास-प्रस्तुतिः
दशवर्षसहस्रं तु तावत्कालं तपोर्जितम्
सुसाध्यमानयोश्चैव तत्र धर्मः प्रदृश्यते ॥ ५६ ॥
मूलम्
दशवर्षसहस्रं तु तावत्कालं तपोर्जितम्
सुसाध्यमानयोश्चैव तत्र धर्मः प्रदृश्यते ॥ ५६ ॥
विश्वास-प्रस्तुतिः
पञ्चाग्निः साध्यते द्वाभ्यां तावत्कालं द्विजोत्तम
त्रिकालं साधितं तावन्निराहारं कृतं तथा ॥ ५७ ॥
मूलम्
पञ्चाग्निः साध्यते द्वाभ्यां तावत्कालं द्विजोत्तम
त्रिकालं साधितं तावन्निराहारं कृतं तथा ॥ ५७ ॥
विश्वास-प्रस्तुतिः
जलमध्ये स्थितौ तावद्दत्तात्रेयो यतिस्तथा
दुर्वासास्तु मुनिश्रेष्ठस्तपसा चैव कर्षितः ॥ ५८ ॥
मूलम्
जलमध्ये स्थितौ तावद्दत्तात्रेयो यतिस्तथा
दुर्वासास्तु मुनिश्रेष्ठस्तपसा चैव कर्षितः ॥ ५८ ॥
विश्वास-प्रस्तुतिः
धर्मं प्रति स धर्मात्मा चुक्रोध मुनिपुङ्गवः
क्रुद्धे सति महाभाग तस्मिन्मुनिवरे तदा ॥ ५९ ॥
मूलम्
धर्मं प्रति स धर्मात्मा चुक्रोध मुनिपुङ्गवः
क्रुद्धे सति महाभाग तस्मिन्मुनिवरे तदा ॥ ५९ ॥
विश्वास-प्रस्तुतिः
अथ धर्मः समायातः स्वरूपेण च वै तदा
ब्रह्मचर्यादिभिर्युक्तस्तपोभिश्च स बुद्धिमान् ॥ ६० ॥
मूलम्
अथ धर्मः समायातः स्वरूपेण च वै तदा
ब्रह्मचर्यादिभिर्युक्तस्तपोभिश्च स बुद्धिमान् ॥ ६० ॥
विश्वास-प्रस्तुतिः
सत्यं ब्राह्मणरूपेण ब्रह्मचर्यं तथैव च
तपस्तु द्विजवर्योस्ति दमः प्राज्ञो द्विजोत्तमः ॥ ६१ ॥
मूलम्
सत्यं ब्राह्मणरूपेण ब्रह्मचर्यं तथैव च
तपस्तु द्विजवर्योस्ति दमः प्राज्ञो द्विजोत्तमः ॥ ६१ ॥
विश्वास-प्रस्तुतिः
नियमस्तु महाप्राज्ञो दानमेव तथैव च
अग्निहोत्रिस्वरूपेण ह्यात्रेयं हि समागताः ॥ ६२ ॥
मूलम्
नियमस्तु महाप्राज्ञो दानमेव तथैव च
अग्निहोत्रिस्वरूपेण ह्यात्रेयं हि समागताः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
क्षमा शान्तिस्तथा लज्जा चाहिंसा च ह्यकल्पना
एताः सर्वाः समायाताः स्त्रीरूपास्तु द्विजोत्तम ॥ ६३ ॥
मूलम्
क्षमा शान्तिस्तथा लज्जा चाहिंसा च ह्यकल्पना
एताः सर्वाः समायाताः स्त्रीरूपास्तु द्विजोत्तम ॥ ६३ ॥
विश्वास-प्रस्तुतिः
बुद्धिः प्रज्ञा दया श्रद्धा मेधा सत्कृति शान्तयः
पञ्चयज्ञास्तथा पुण्याः साङ्गा वेदास्तु ते तदा ॥ ६४ ॥
मूलम्
बुद्धिः प्रज्ञा दया श्रद्धा मेधा सत्कृति शान्तयः
पञ्चयज्ञास्तथा पुण्याः साङ्गा वेदास्तु ते तदा ॥ ६४ ॥
विश्वास-प्रस्तुतिः
स्वस्वरूपधराश्चैव ते सर्वे सिद्धिमागताः
अग्न्याधानादयः पुण्या अश्वमेधादयस्तथा ॥ ६५ ॥
मूलम्
स्वस्वरूपधराश्चैव ते सर्वे सिद्धिमागताः
अग्न्याधानादयः पुण्या अश्वमेधादयस्तथा ॥ ६५ ॥
विश्वास-प्रस्तुतिः
रूपलावण्यसंयुक्ताः सर्वाभरणभूषिताः
दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः ॥ ६६ ॥
मूलम्
रूपलावण्यसंयुक्ताः सर्वाभरणभूषिताः
दिव्यमाल्याम्बरधरा दिव्यगन्धानुलेपनाः ॥ ६६ ॥
विश्वास-प्रस्तुतिः
किरीटकुण्डलोपेता दिव्याभरणभूषिताः
दीप्तिमन्तः सुरूपास्ते तेजोज्वालाभिरावृताः ॥ ६७ ॥
मूलम्
किरीटकुण्डलोपेता दिव्याभरणभूषिताः
दीप्तिमन्तः सुरूपास्ते तेजोज्वालाभिरावृताः ॥ ६७ ॥
विश्वास-प्रस्तुतिः
एवं धर्मः समायातः परिवारसमन्वितः
यत्र तिष्ठति दुर्वासाः क्रोधनः कालवत्तथा ॥ ६८ ॥
मूलम्
एवं धर्मः समायातः परिवारसमन्वितः
यत्र तिष्ठति दुर्वासाः क्रोधनः कालवत्तथा ॥ ६८ ॥
विश्वास-प्रस्तुतिः
धर्म उवाच-
कस्मात्कोपः कृतो विप्र भवांस्तपस्समन्वितः
क्रोधो हि नाशयेच्छ्रेयस्तप एव न संशयः ॥ ६९ ॥
मूलम्
धर्म उवाच-
कस्मात्कोपः कृतो विप्र भवांस्तपस्समन्वितः
क्रोधो हि नाशयेच्छ्रेयस्तप एव न संशयः ॥ ६९ ॥
विश्वास-प्रस्तुतिः
सर्वनाशकरस्तस्मात्क्रोधं तत्र विवर्जयेत्
स्वस्थो भव द्विजश्रेष्ठ उत्कृष्टं तपसः फलम् ॥ ७० ॥
मूलम्
सर्वनाशकरस्तस्मात्क्रोधं तत्र विवर्जयेत्
स्वस्थो भव द्विजश्रेष्ठ उत्कृष्टं तपसः फलम् ॥ ७० ॥
विश्वास-प्रस्तुतिः
दुर्वासा उवाच-
भवान्को हि समायात एतैर्द्विजवरैः सह
सप्त नार्यः प्रतिष्ठन्ति सुरूपाः समलङ्कृताः ॥ ७१ ॥
मूलम्
दुर्वासा उवाच-
भवान्को हि समायात एतैर्द्विजवरैः सह
सप्त नार्यः प्रतिष्ठन्ति सुरूपाः समलङ्कृताः ॥ ७१ ॥
विश्वास-प्रस्तुतिः
कथयस्व ममाग्रे त्वं विस्तरेण महामते
धर्म उवाच-
अयं ब्राह्मणरूपेण सर्वतेजः समन्वितः ॥ ७२ ॥
मूलम्
कथयस्व ममाग्रे त्वं विस्तरेण महामते
धर्म उवाच-
अयं ब्राह्मणरूपेण सर्वतेजः समन्वितः ॥ ७२ ॥
विश्वास-प्रस्तुतिः
दण्डहस्तः सुप्रसन्नः कमण्डलुधरस्तथा
तवाग्रे ब्रह्मचर्योयं सोयं पश्य समागतः ॥ ७३ ॥
मूलम्
दण्डहस्तः सुप्रसन्नः कमण्डलुधरस्तथा
तवाग्रे ब्रह्मचर्योयं सोयं पश्य समागतः ॥ ७३ ॥
विश्वास-प्रस्तुतिः
अन्यं पश्यस्व वै त्वं च दीप्तिमन्तं द्विजोत्तम
कपिलं पिङ्गलाक्षं च सत्यमेनं द्विजोत्तम ॥ ७४ ॥
मूलम्
अन्यं पश्यस्व वै त्वं च दीप्तिमन्तं द्विजोत्तम
कपिलं पिङ्गलाक्षं च सत्यमेनं द्विजोत्तम ॥ ७४ ॥
विश्वास-प्रस्तुतिः
तादृशं पश्य धर्मात्मन्वैश्वदेवसमप्रभम्
यत्तपो हि त्वया विप्र सर्वदेवसमाश्रितम् ॥ ७५ ॥
मूलम्
तादृशं पश्य धर्मात्मन्वैश्वदेवसमप्रभम्
यत्तपो हि त्वया विप्र सर्वदेवसमाश्रितम् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
एतं पश्य महाभाग तव पार्श्वसमागतम्
प्रसन्नवाग्दीप्तियुक्तः सर्वजीवदयापरः ॥ ७६ ॥
मूलम्
एतं पश्य महाभाग तव पार्श्वसमागतम्
प्रसन्नवाग्दीप्तियुक्तः सर्वजीवदयापरः ॥ ७६ ॥
विश्वास-प्रस्तुतिः
दम एव तथायं ते यः पोषयति सर्वदा
जटिलः कर्कशः पिङ्गो ह्यतितीव्रो महाप्रभुः ॥ ७७ ॥
मूलम्
दम एव तथायं ते यः पोषयति सर्वदा
जटिलः कर्कशः पिङ्गो ह्यतितीव्रो महाप्रभुः ॥ ७७ ॥
विश्वास-प्रस्तुतिः
नाशको हि स पापानां खड्गहस्तो द्विजोत्तम
अभिशान्तो महापुण्यो नित्यक्रियासमन्वितः ॥ ७८ ॥
मूलम्
नाशको हि स पापानां खड्गहस्तो द्विजोत्तम
अभिशान्तो महापुण्यो नित्यक्रियासमन्वितः ॥ ७८ ॥
विश्वास-प्रस्तुतिः
नियमस्तु समायातस्तव पार्श्वे द्विजोत्तम
अनिर्मुक्तो महादीप्तः शुद्धस्फटिकसन्निभः ॥ ७९ ॥
मूलम्
नियमस्तु समायातस्तव पार्श्वे द्विजोत्तम
अनिर्मुक्तो महादीप्तः शुद्धस्फटिकसन्निभः ॥ ७९ ॥
विश्वास-प्रस्तुतिः
पयःकमण्डलुकरो दन्तकाष्ठधरो द्विजः
शौच एष समायातो भवतः सन्निधाविह ॥ ८० ॥
मूलम्
पयःकमण्डलुकरो दन्तकाष्ठधरो द्विजः
शौच एष समायातो भवतः सन्निधाविह ॥ ८० ॥
विश्वास-प्रस्तुतिः
अतिसाध्वी महाभागा सत्यभूषणभूषिता
सर्वभूषणशोभाङ्गी शुश्रूषेयं समागता ॥ ८१ ॥
मूलम्
अतिसाध्वी महाभागा सत्यभूषणभूषिता
सर्वभूषणशोभाङ्गी शुश्रूषेयं समागता ॥ ८१ ॥
विश्वास-प्रस्तुतिः
अतिधीरा प्रसन्नाङ्गी गौरी प्रहसितानना
पद्महस्ता इयं धात्री पद्मनेत्रा सुपद्मिनी ॥ ८२ ॥
मूलम्
अतिधीरा प्रसन्नाङ्गी गौरी प्रहसितानना
पद्महस्ता इयं धात्री पद्मनेत्रा सुपद्मिनी ॥ ८२ ॥
विश्वास-प्रस्तुतिः
दिव्यैराभरणैर्युक्ता क्षमा प्राप्ता द्विजोत्तम
अतिशान्ता सुप्रतिष्ठा बहुमङ्गलसंयुता ॥ ८३ ॥
मूलम्
दिव्यैराभरणैर्युक्ता क्षमा प्राप्ता द्विजोत्तम
अतिशान्ता सुप्रतिष्ठा बहुमङ्गलसंयुता ॥ ८३ ॥
विश्वास-प्रस्तुतिः
दिव्यरत्नकृता शोभा दिव्याभरणभूषिता
तव शान्तिर्महाप्राज्ञ ज्ञानरूपा समागता ॥ ८४ ॥
मूलम्
दिव्यरत्नकृता शोभा दिव्याभरणभूषिता
तव शान्तिर्महाप्राज्ञ ज्ञानरूपा समागता ॥ ८४ ॥
विश्वास-प्रस्तुतिः
परोपकारकरणा बहुसत्यसमाकुला
मितभाषा सदैवासौ अकल्पा ते समागता ॥ ८५ ॥
मूलम्
परोपकारकरणा बहुसत्यसमाकुला
मितभाषा सदैवासौ अकल्पा ते समागता ॥ ८५ ॥
विश्वास-प्रस्तुतिः
प्रसन्ना सा क्षमायुक्ता सर्वाभरणभूषिता
पद्मासना सुरूपा सा श्यामवर्णा यशस्विनी ॥ ८६ ॥
मूलम्
प्रसन्ना सा क्षमायुक्ता सर्वाभरणभूषिता
पद्मासना सुरूपा सा श्यामवर्णा यशस्विनी ॥ ८६ ॥
विश्वास-प्रस्तुतिः
अहिंसेयं महाभागा भवन्तं तु समागता
तप्तकाञ्चनवर्णाङ्गी रक्ताम्बरविलासिनी ॥ ८७ ॥
मूलम्
अहिंसेयं महाभागा भवन्तं तु समागता
तप्तकाञ्चनवर्णाङ्गी रक्ताम्बरविलासिनी ॥ ८७ ॥
विश्वास-प्रस्तुतिः
सुप्रसन्ना सुमन्त्रा च यत्र तत्र न पश्यति
ज्ञानभावसमाक्रान्ता पुण्यहस्ता तपस्विनी ॥ ८८ ॥
मूलम्
सुप्रसन्ना सुमन्त्रा च यत्र तत्र न पश्यति
ज्ञानभावसमाक्रान्ता पुण्यहस्ता तपस्विनी ॥ ८८ ॥
विश्वास-प्रस्तुतिः
मुक्ताभरणशोभाढ्या निर्मला चारुहासिनी
इयं श्रद्धा महाभाग पश्य पश्य समागता ॥ ८९ ॥
मूलम्
मुक्ताभरणशोभाढ्या निर्मला चारुहासिनी
इयं श्रद्धा महाभाग पश्य पश्य समागता ॥ ८९ ॥
विश्वास-प्रस्तुतिः
बहुबुद्धिसमाक्रान्ता बहुज्ञानसमाकुला
सुभोगासक्तरूपा सा सुस्थिता चारुमङ्गला ॥ ९० ॥
मूलम्
बहुबुद्धिसमाक्रान्ता बहुज्ञानसमाकुला
सुभोगासक्तरूपा सा सुस्थिता चारुमङ्गला ॥ ९० ॥
विश्वास-प्रस्तुतिः
सर्वेष्टध्यानसंयुक्ता लोकमाता यशस्विनी
सर्वाभरणशोभाढ्या पीनश्रोणि पयोधरा ॥ ९१ ॥
मूलम्
सर्वेष्टध्यानसंयुक्ता लोकमाता यशस्विनी
सर्वाभरणशोभाढ्या पीनश्रोणि पयोधरा ॥ ९१ ॥
विश्वास-प्रस्तुतिः
गौरवर्णा समायाता माल्यवस्त्रविभूषिता
इयं मेधा महाप्राज्ञ तवैव परिसंस्थिता ॥ ९२ ॥
मूलम्
गौरवर्णा समायाता माल्यवस्त्रविभूषिता
इयं मेधा महाप्राज्ञ तवैव परिसंस्थिता ॥ ९२ ॥
विश्वास-प्रस्तुतिः
हंसचन्द्रप्रतीकाशा मुक्ताहारविलम्बिनी
सर्वाभरणसम्भूषा सुप्रसन्ना मनस्विनी ॥ ९३ ॥
मूलम्
हंसचन्द्रप्रतीकाशा मुक्ताहारविलम्बिनी
सर्वाभरणसम्भूषा सुप्रसन्ना मनस्विनी ॥ ९३ ॥
विश्वास-प्रस्तुतिः
श्वेतवस्त्रेण संवीता शतपत्रं शयेकृतम्
पुस्तककरा पङ्कजस्था राजमाना सदैव हि ॥ ९४ ॥
मूलम्
श्वेतवस्त्रेण संवीता शतपत्रं शयेकृतम्
पुस्तककरा पङ्कजस्था राजमाना सदैव हि ॥ ९४ ॥
विश्वास-प्रस्तुतिः
एषा प्रज्ञा महाभाग भाग्यवन्तं समागता
लाक्षारससमावर्णा सुप्रसन्ना सदैव हि ॥ ९५ ॥
मूलम्
एषा प्रज्ञा महाभाग भाग्यवन्तं समागता
लाक्षारससमावर्णा सुप्रसन्ना सदैव हि ॥ ९५ ॥
विश्वास-प्रस्तुतिः
पीतपुष्पकृतामाला हारकेयूरभूषणा
मुद्रिका कङ्कणोपेता कर्णकुण्डलमण्डिता ॥ ९६ ॥
मूलम्
पीतपुष्पकृतामाला हारकेयूरभूषणा
मुद्रिका कङ्कणोपेता कर्णकुण्डलमण्डिता ॥ ९६ ॥
विश्वास-प्रस्तुतिः
पीतेन वाससा देवी सदैव परिराजते
त्रैलोक्यस्योपकाराय पोषणायाद्वितीयका ॥ ९७ ॥
मूलम्
पीतेन वाससा देवी सदैव परिराजते
त्रैलोक्यस्योपकाराय पोषणायाद्वितीयका ॥ ९७ ॥
विश्वास-प्रस्तुतिः
यस्याः शीलं द्विजश्रेष्ठ सदैव परिकीर्तितम्
सेयं दया सु सम्प्राप्ता तव पार्श्वे द्विजोत्तम ॥ ९८ ॥
मूलम्
यस्याः शीलं द्विजश्रेष्ठ सदैव परिकीर्तितम्
सेयं दया सु सम्प्राप्ता तव पार्श्वे द्विजोत्तम ॥ ९८ ॥
विश्वास-प्रस्तुतिः
इयं वृद्धा महाप्राज्ञ भावभार्या तपस्विनी
मम माता द्विजश्रेष्ठ धर्मोहं तव सुव्रत ॥ ९९ ॥
मूलम्
इयं वृद्धा महाप्राज्ञ भावभार्या तपस्विनी
मम माता द्विजश्रेष्ठ धर्मोहं तव सुव्रत ॥ ९९ ॥
इति ज्ञात्वा शमं गच्छ मामेवं परिपालय
दुर्वासा उवाच-
यदि धर्मः समायातो मत्समीपं तु साम्प्रतम् १००
एतन्मे कारणं ब्रूहि किं ते धर्म करोम्यहम्
धर्म उवाच-
कस्मात्क्रुद्धोसि विप्रेन्द्र किमेतैर्विप्रियं कृतम् १०१
तन्मे त्वं कारणं ब्रूहि दुर्वासो यदि मन्यसे
दुर्वासा उवाच-
येनाहं कुपितो देव तदिदं कारणं शृणु १०२
दमशौचैः सुसङ्क्लेशैः शोधितं कायमात्मनः
लक्षवर्षप्रमाणं वै तपश्चर्या मया कृता १०३
एवं पश्यसि मामेवं दया तेन प्रवर्तते
तस्मात्क्रुद्धोस्मि तेद्यैव शापमेवं ददाम्यहम् १०४
एवं श्रुत्वा तदा तस्य तमुवाच महामतिः
धर्म उवाच-
मयि नष्टे महाप्राज्ञ लोको नाशं समेष्यति १०५
दुःखमूलमहं तात निकर्शामि भृशं द्विज
सौख्यं पश्चादहं दद्मि यदि सत्यं न मुञ्चति १०६
पापोयं सुखमूलस्तु पुण्यं दुःखेन लभ्यते
पुण्यमेवं प्रकुर्वाणः प्राणी प्राणान्विमुञ्चति १०७
महत्सौख्यं ददाम्येवं परत्र च न संशयः
दुर्वासा उवाच-
सुखं येनाप्यते तेन परं दुःखं प्रपद्यते १०८
तत्तु मर्त्यः परित्यज्य अन्येनापि प्रभुज्यते
तत्सुखं को विजानाति निश्चयं नैव पश्यति १०९
तच्छ्रेयो नैव पश्यामि अन्याय्यं हि कृतं तव
येन कायेन क्रियते भुज्यते नैव तत्सुखम् ११०
अन्येन क्रियते क्लेशमन्येनापि प्रभुज्यते
तत्सुखं को विजानाति चान्यायं धर्ममेव वा १११
अन्येन क्रियते क्लेशमन्येनापि सुखं पुनः
भुनक्ति पुरुषो धर्म तत्सर्वं श्रेयसा युतम् ११२
पुण्यं चैव अनेनापि अनेन फलमश्नुते
क्रियमाणं पुनः पुण्यमन्येन परिभुज्यते ११३
तत्सर्वं हि सुखं प्रोक्तं यत्तथा यस्य लक्षणम्
धर्मशास्त्रोदितं चैव कृतं सर्वत्र नान्यथा ११४
येन कायेन कुर्वन्ति तेन दुःखं सहन्ति ते
परत्र तेन भुञ्जन्ति अनेनापि तथैव च ११५
इति ज्ञात्वा स धर्मात्मा भवान्समवलोकयेत्
यथा चौरा महापापाः स्वकायेन सहन्ति ते ११६
दुःखेन दारुणं तीव्रं तथा सुखं कथं नहि
धर्म उवाच-
येन कायेन पापाश्च सञ्चरन्ति हि पातकम् ११७
तेन पीडां सहन्त्येव पातकस्य हि तत्फलम्
दण्डमेकं परं दृष्टं धर्मशास्त्रेषु पण्डितैः ११८
तं धर्मपूर्वकं विद्धि एतैर्न्यायैस्त्वमेव हि
दुर्वासा उवाच-
एवं न्यायं न मन्येहं तथैव शृणु धर्मराट् ११९
शापत्रयं प्रदास्यामि क्रुद्धोहं तव नान्यथा
धर्म उवाच-
यदा क्रुद्धो महाप्राज्ञ मामेव हि क्षमस्व च १२०
नैव क्षमसि विप्रेन्द्र दासीपुत्रं हि मां कुरु
राजानं तु प्रकर्तव्यं चाण्डालं च महामुने १२१
प्रसादसुमुखो विप्र प्रणतस्य सदैव हि
दुर्वासाश्च ततः क्रुद्धो धर्मं चैव शशाप ह १२२
दुर्वासा उवाच-
राजा भव त्वं धर्माद्य दासीपुत्रश्च नान्यथा
गच्छ चाण्डालयोनिं च धर्म त्वं स्वेच्छया व्रज १२३
एवं शापत्रयं दत्त्वा गतोसौ द्विजसत्तमः
अनेनापि प्रसङ्गेन दृष्टो धर्मः पुरा किल १२४
सोमशर्मोवाच-
धर्मस्तु कीदृशो जातस्तेन शप्तो महात्मना
तद्रूपं तस्य मे ब्रूहि यदि जानासि भामिनि १२५
सुमनोवाच-
भरतानां कुले जातो धर्मो भूत्वा युधिष्ठिरः
विदुरो दासीपुत्रस्तु अन्यं चैव वदाम्यहम् १२६
यदा राजा हरिश्चन्द्रो विश्वामित्रेण कर्षितः
तदा चाण्डालतां प्राप्तः स हि धर्मो महामतिः १२७
एवं कर्मफलं भुक्तं धर्मेणापि महात्मना
दुर्वाससो हि शापाद्वै सत्यमुक्तं तवाग्रतः १२८