०११

ऋषय ऊचुः-

विश्वास-प्रस्तुतिः

सर्वज्ञेन त्वया प्रोक्तं दैत्यदानवसङ्गरम्
इदानीं श्रोतुमिच्छामः सुव्रतस्य महात्मनः ॥ १ ॥

मूलम्

कस्य पुत्रो महाप्राज्ञः कस्य गोत्रसमुद्भवः
किं तपस्तस्य विप्रस्य कथमाराधितो हरिः ॥ २ ॥

सूत उवाच-
कथा प्रज्ञाप्रभावेण पूर्वमेव यथा श्रुता
तथा विप्राः प्रवक्ष्यामि सुव्रतस्य महात्मनः ॥ ३ ॥

चरितं पावनं दिव्यं वैष्णवं श्रेयआवहम्
भवतामग्रतः सर्वं विष्णोश्चैव प्रसादतः ॥ ४ ॥

पूर्वकल्पे महाभागाः सुक्षेत्रे पापनाशने
रेवातीरे सुपुण्ये च तीर्थे वामनसञ्ज्ञके ॥ ५ ॥

कौशिकस्य कुले जातः सोमशर्मा द्विजोत्तमः
स तु पुत्रविहीनस्तु बहुदुःखसमन्वितः ॥ ६ ॥

दारिद्रेण स दुःखेन सर्वदैवप्रपीडितः
पुत्रोपायं धनस्यापि दिवारात्रौ प्रचिन्तयेत् ॥ ७ ॥

एकदा तु प्रिया तस्य सुमना नाम सुव्रता
भर्तारं चिन्तयोपेतमधोमुखमलक्षयत् ॥ ८ ॥

मूलम्

एकदा तु प्रिया तस्य सुमना नाम सुव्रता
भर्तारं चिन्तयोपेतमधोमुखमलक्षयत् ॥ ८ ॥

विश्वास-प्रस्तुतिः

समालोक्य तदा कान्तं तमुवाच तपस्विनी
दुःखजालैरसङ्ख्यैस्तु तव चित्तं प्रधर्षितम् ॥ ९ ॥

व्यामोहेन प्रमूढोसि त्यज चिन्तां महामते
मम दुःखं समाचक्ष्व स्वस्थो भव सुखं व्रज ॥ १० ॥

नास्ति चिन्तासमं दुःखं कायशोषणमेव हि
यश्चिन्तां त्यज्य वर्तेत स सुखेन प्रमोदते ॥ ११ ॥

चिन्तायाः कारणं विप्र कथयस्व ममाग्रतः
प्रियावाक्यं समाकर्ण्य सोमशर्माब्रवीत्प्रियाम् ॥ १२ ॥

सोमशर्मोवाच-
इच्छया चिन्तितं भद्रे चिन्ता दुःखस्य कारणम्
तत्सर्वं तु प्रवक्ष्यामि श्रुत्वा चैवावधार्यताम् ॥ १३ ॥

न जाने केन पापेन धनहीनोस्मि सुव्रते
तथा पुत्रविहीनश्च एतद्दुःखस्य कारणम् ॥ १४ ॥

सुमनोवाच-
श्रूयतामभिधास्यामि सर्वसन्देहनाशनम्
स्वरूपमुपदेशस्य सर्वविज्ञानदर्शनम् ॥ १५ ॥

लोभः पापस्य बीजं हि मोहो मूलं च तस्य हि
असत्यं तस्य वै स्कन्धो माया शाखा सुविस्तरा ॥ १६ ॥

दम्भकौटिल्यपत्राणि कुबुद्ध्या पुष्पितः सदा
अनृतं तस्य सौगन्धं फलमज्ञानमेव च ॥ १७ ॥

छद्मपाखण्डशौर्येर्ष्याः क्रूराः कूटाश्च पापिनः
पक्षिणो मोहवृक्षस्य मायाशाखा समाश्रिताः ॥ १८ ॥

अज्ञानं सुफलं तस्य रसोऽधर्मः फलस्य हि
तृष्णोदकेन संवृद्धाऽश्रद्धा तस्य द्रवः प्रिय ॥ १९ ॥

अधर्मः सुरसस्तस्य उत्कटो मधुरायते
यादृशैश्च फलैश्चैव सुफलो लोभपादपः ॥ २० ॥

अस्यच्छायां समाश्रित्य यो नरः परितुष्यते
फलानि तस्य चाश्नाति सुपक्वानि दिनेदिने ॥ २१ ॥

फलानां तु रसेनापि अधर्मेण तु पालितः
स सन्तुष्टो भवेन्मर्त्यः पतनायाभिगच्छति ॥ २२ ॥

तस्माच्चिन्तां परित्यज्य पुमाँल्लोभं न कारयेत्
धनपुत्रकलत्राणां चिन्तामेकां न कारयेत् ॥ २३ ॥

यो हि विद्वान्भवेत्कान्त मूर्खाणां पथमेति हि
मूर्खश्चिन्तयते नित्यं कथमर्थं ममैव हि ॥ २४ ॥

सुभार्यामिह विन्दामि कथं पुत्रानहं लभे
एवं चिन्तयते नित्यं दिवारात्रौ विमोहितः ॥ २५ ॥

क्षणमेकं प्रपश्येत चिन्तामध्ये महत्सुखम्
पुनश्चैतन्यमायाति महादुःखेन पीड्यते ॥ २६ ॥

चिन्तामोहौ परित्यज्य अनुवर्तस्व च द्विज
संसारे नास्ति सम्बन्धः केन सार्धं महामते ॥ १७ ॥

मित्राश्च बान्धवाः पुत्राः पितृमातृसभृत्यकाः
सम्बन्धिनो भवन्त्येव कलत्राणि तथैव च ॥ २८ ॥

सम्बन्धः कीदृशो भद्रे तथा विस्तरतो वद
येन सम्बन्धिनः सर्वे धनपुत्रादिबान्धवाः ॥ २९ ॥

ऋणसम्बन्धिनः केचित्केचिन्न्यासापहारकाः
लाभप्रदा भवन्त्येके उदासीनास्तथापरे ॥ ३० ॥

भेदैश्चतुर्भिर्जायन्ते पुत्रमित्रस्त्रियस्तथा
भार्या पिता च माता च भृत्याः स्वजनबान्धवाः ॥ ३१ ॥

स्वेनस्वेन हि जायन्ते सम्बन्धेन महीतले
न्यासापहारभावेन यस्य येन कृतं भुवि ॥ ३२ ॥

न्यासस्वामी भवेत्पुत्रो गुणवान्रूपवान्भुवि
येनैवापह्रतं न्यासं तस्य गेहे न संशयः ॥ ३३ ॥

न्यासापहरणाद्दुःखं स दत्वा दारुणं गतः
न्यासस्वामी सुपुत्रोभून्न्यासापहारकस्य च ॥ ३४ ॥

गुणवान्रूपवांश्चैव सर्वलक्षणसंयुतः
भक्तिं तु दर्शयंस्तस्य पुत्रो भूत्वा दिनेदिने ॥ ३५ ॥

प्रियवाङ्मधुरो रोगी बहुस्नेहं विदर्शयन्
स्वीयं द्रव्यं समुद्गृह्य प्रीतिमुत्पाद्य चोत्तमाम् ॥ ३६ ॥

यथा येन प्रदत्तं स्यान्न्यासस्य हरणात्पुरा
दुःखमेव महाभाग दारुणं प्राणनाशनम् ॥ ३७ ॥

तादृशं तस्य सौहृद्यात्पुत्रो भूत्वा महागुणैः
अल्पायुषस्तथा भूत्वा मरणं चोपगच्छति ॥ ३८ ॥

दुःखं दत्वा प्रयात्येवं भूत्वाभूत्वा पुनःपुनः
यदा हा पुत्रपुत्रेति प्रलापं हि करोति सः ॥ ३९ ॥

तदा हास्यं करोत्येव कस्य पुत्रो हि कः पिता
अनेनापहृतं न्यासं मदीयस्योपकारणम् ॥ ४० ॥

द्रव्यापहरणेनापि न मे प्राणा गताः किल
दुःखेन महता चैव असह्येन च वै पुरा ॥ ४१ ॥

तथा दुःखं प्रदत्वाहं द्रव्यमुद्गृह्य चोत्तमम्
गन्तास्मि सुभृशं चाद्य कस्याहं सुत ईदृशः ॥ ४२ ॥

न चैष मे पिता पुत्रः पूर्वमेव न कस्यचित्
पिशाचत्वं मया दत्तमस्यैवेति दुरात्मनः ॥ ४३ ॥

एवमुक्त्वा प्रयात्येवं तं प्रहस्य पुनःपुनः
प्रयात्यनेन मार्गेण दुःखं दत्वा सुदारुणम् ॥ ४४ ॥

एवं न्यासं समुद्धर्तुः पुत्राः कान्त भवन्ति वै
संसारे दुःखबहुला दृश्यन्ते यत्रतत्र च ॥ ४५ ॥

ऋणसम्बन्धिनः पुत्रान्प्रवक्ष्यामि तवाग्रतः ४६