ऋषय ऊचुः-
विश्वास-प्रस्तुतिः
ततस्ते दानवाः सर्वे हिरण्यकशिपूत्तराः
युद्धाद्भग्नास्तु किं कुर्युर्व्यवसायं महामते ॥ १ ॥
मूलम्

विस्तरेणापि नो ब्रूहि तेषां वृत्तमनुत्तमम्
श्रोतुमिच्छामहे सर्वे त्वत्तो वै साम्प्रतं द्विज ॥ २ ॥

सूत उवाच-
भग्ना रणात्तु ते सर्वे बलहीनास्तु वै तदा
गतदर्पाः सुदुःखार्ता दैत्यास्ते पितरं गताः ॥ ३ ॥

भक्त्या प्रणम्य ते सर्वे समूचुः कश्यपं तदा
दानवा ऊचुः-
भवद्वीर्यात्समुत्पत्तिरस्माकं द्विजसत्तम ॥ ४ ॥

देवतानां महाभाग दानवानां तथैव च
वयं च दानवाः सर्वे बलवीर्यपराक्रमाः ॥ ५ ॥

उपायज्ञाः सुधीराश्च उद्यमेन समन्विताः
वयं तु बहवस्तात देवास्त्वल्पास्तथैव च ॥ ६ ॥

कथं जयन्ति ते सर्वे वयं भग्ना महाहवात्
तत्किं वै कारणं तात बलतेजः समन्विताः ॥ ७ ॥

मत्तनागसहस्राणामेकैकस्य महामते
बलमस्ति च दैत्यस्य नास्ति देवेषु तादृशम् ॥ ८ ॥

जयश्च दृश्यते तात देवेष्वेव महाहवे
तत्सर्वं कथयस्वैव संशयञ्छेत्तुमर्हसि ॥ ९ ॥

कश्यप उवाच-
शृणुध्वं पुत्रकाः सर्वे जयस्यापि च कारणम्
यस्माद्धि देवताः सर्वे समरे जयिनोऽभवन् ॥ १० ॥

वीर्यनिर्वापकस्तातो माताक्षेत्रमिदं सदा
धारणे पालने चैव पोषणे च यथैव हि ॥ ११ ॥
मूलम्
वीर्यनिर्वापकस्तातो माताक्षेत्रमिदं सदा
धारणे पालने चैव पोषणे च यथैव हि ॥ ११ ॥
विश्वास-प्रस्तुतिः
किं कुर्याद्विषमार्थे तु पिता पुत्रे च वै तथा
अत्र प्रधानं कर्मैव मामेवं बुद्धिराश्रिता ॥ १२ ॥

द्वैविध्यं कर्मसम्बन्धं पापपुण्यसमुद्भवम्
सत्यमेव समाश्रित्य क्रियते धर्म उत्तमः ॥ १३ ॥

तपोध्यानसमायुक्तं तारणाय हि तं सुताः
पतनाय पातकं प्रोक्तं सर्वदैव न संशयः ॥ १४ ॥

बलेन परिवारेण आभिजात्येन पुत्रकाः
पुण्यहीनस्य पुंसो वै तद्बलं विकलायते ॥ १५ ॥

उन्नता गिरिदुर्गेषु वृक्षाः सन्ति सुपुत्रकाः
पतन्ति वातवेगेन समूलास्तु घनास्तथा ॥ १६ ॥

सत्यधर्मविहीनास्ते तथायान्ति यमक्षयम्
साधारणः प्राणिनां च धर्म एष सुपुत्रकाः ॥ १७ ॥

येन सन्तरते जन्तुरिह चैव परत्र च
तद्युष्माभिः परित्यक्तं सत्यं धर्मसमन्वितम् ॥ १८ ॥

अधर्ममास्थितं पुत्रा युष्माभिः सत्यवर्जितैः
सत्यधर्मतपोभ्रष्टाः पतिता दुःखसागरे ॥ १९ ॥

देवाश्च सत्यसम्पन्नाः श्रेयसा च समन्विताः
तपः शान्तिदमोपेताः सुपुण्या पापवर्जिताः ॥ २० ॥

यत्र सत्यं च धर्मश्च तपः पुण्यं तथैव च
यत्र विष्णुर्हृषीकेशो जयस्तत्र प्रदृश्यते ॥ २१ ॥

तेषां सहायः सम्भूतो वासुदेवः सनातनः
तस्माज्जयन्ति ते देवाः सत्यधर्मसमन्विताः ॥ २२ ॥

सहायेन बलेनैव पौरुषेण तथैव च
भवन्तः किल वै पुत्रास्तपः सत्यविवर्जिताः ॥ २३ ॥

यस्य विष्णुः सहायश्च तपश्चैव बलं तथा
तस्यैव च जयो दृष्ट इति धर्मविदो विदुः ॥ २४ ॥

यूयं धर्मविहीनास्तु तपः सत्यविवर्जिताः
ऐन्द्रं पदं बलेनैव प्राप्तवन्तश्च पूर्वतः ॥ २५ ॥

तपो विना महाप्राज्ञा धर्मेण यशसा विना
बलदर्पगुणैः पुत्रा न प्राप्यमैन्द्रकं पदम् ॥ २६ ॥

प्राप्याप्यैन्द्रं पदं पुत्रास्ततो भ्रष्टा भवन्ति हि
तस्माद्यूयं प्रकुर्वन्तु तपः पुत्राः समन्विताः ॥ २७ ॥

अविरोधेन संयुक्ता ज्ञानध्यानसमन्विताः
वैरं चैव न कर्तव्यं केशवेन समं कदा ॥ २८ ॥

एवंविधा यदा पुत्रा यूयं धन्या भविष्यथ
परां सिद्धिं तदा सर्वे प्रयास्यथ न संशयः ॥ २९ ॥

एवं सम्भाषितास्ते तु कश्यपेन महात्मना
समाकर्ण्य पितुर्वाक्यं दानवास्ते महौजसः ॥ ३० ॥

प्रणम्य कश्यपं भक्त्या समुत्थाय त्वरान्विताः
सुमन्त्रं चक्रिरे दैत्याः परस्परसमाहिताः ॥ ३१ ॥

हिरण्यकशिपू राजा तानुवाचाथ दानवान्
तपश्चैव करिष्यामो दुष्करं सर्वदायकम् ॥ ३२ ॥

हिरण्याक्षस्तदोवाच करिष्ये दारुणं तपः
ततो बलेन त्रैलोक्यं ग्रहीष्ये नात्र संशयः ॥ ३३ ॥

रणे निर्जित्य गोविन्दं तमिमं पापचेतसम्
व्यापाद्य देवताः सर्वाः पदमैन्द्रं व्रजाम्यहम् ॥ ३४ ॥

बलिरुवाच-
एवं न युज्यते कर्तुं युष्माभिर्दितिजेश्वराः
विष्णुना सह यद्वैरं तद्वैरं नाशकारणम् ॥ ३५ ॥

दानधर्मैस्तथा पुण्यैस्तपोभिर्यज्ञयाजनैः
तमाराध्य हृषीकेशं सुखं गच्छन्ति मानवाः ॥ ३६ ॥

हिरण्यकशिपुरुवाच-
अहमेवं न करिष्ये हरेराराधनं कदा
स्वभावं तु परित्यज्य शत्रुसेवा प्रचर्यते ॥ ३७ ॥

मरणादधिकं तं तु मानयन्ति हि पण्डिताः
विष्णोः सेवा न वै कार्या मया चान्यैश्च दानवैः ॥ ३८ ॥

तमुवाच महात्मानं बलिः पितामहं पुनः
धर्मशास्त्रेषु यद्दृष्टं मुनिभिस्तत्त्ववेदिभिः ॥ ३९ ॥

राजनीतियुतं मन्त्रं शत्रोश्चैव प्रधानतः
हीनमात्मानमाज्ञाय रिपुं तं बलिनं तथा ॥ ४० ॥

तस्य पार्श्वे प्रगत्वैव जयकालं प्रतीक्षयेत्
दीपच्छायां समाश्रित्य तमो वसति सर्वदा ॥ ४१ ॥

स्नेहं दशागतं प्रेक्ष्य दीपस्यापि महाबलम्
प्रकाशं याति वेगेन तमश्च वर्द्धते पुनः ॥ ४२ ॥

तथा प्रसादयेच्छन्नः स्नेहं निर्दिश्य तत्त्वतः
स्नेहं कृत्वासुरैः सार्द्धं धर्मभावैः सुरद्विषः ॥ ४३ ॥

पूर्वमुक्तं सुमन्त्रं तु मुनिना कश्यपेन हि
तेन मन्त्रेण राजेन्द्र कुरु कार्यं स्वमात्मवान् ॥ ४४ ॥

तस्य तद्वचनं श्रुत्वा प्राह दैत्यः प्रतापवान्
पौत्र नैवं करिष्येहं मानभङ्गं तथात्मनः ॥ ४५ ॥

अन्ये च बान्धवाः सर्वे तमूचुर्नयपण्डितम्
बलिनोक्तं च यत्पुण्यं देवतानां प्रियङ्करम् ॥ ४६ ॥

शक्रमानकरं प्रोक्तं दानवानां भयङ्करम्
करिष्यामो वयं सर्वे तप एवमनुत्तमम् ॥ ४७ ॥

तपसा निर्जित्य देवान्हरिष्यामः स्वकं पदम्
एवमामन्त्र्य ते सर्वे निराकृत्य बलिं तदा ॥ ४८ ॥

विष्णोः सार्द्धं महावैरं हृदि कृत्वा महासुराः
तपश्चक्रुस्ततः सर्वे गिरिदुर्गेषु सानुषु ॥ ४९ ॥

एवं ते दानवाः सर्वे त्यक्तरागाः सुनिश्चिताः
कामक्रोधविहीनाश्च निराहारा जितक्लमाः ॥ ५० ॥

इति श्रीपद्मपुराणे भूमिखण्डे दैत्यतपश्चर्यावर्णनन्नाम दशमोऽध्यायः १०