००९

कश्यप उवाच-

विश्वास-प्रस्तुतिः

एवं सम्बोधितस्तत्र आत्मा ध्यानादिकैस्तदा
त्यक्तुकामः स तत्कार्यं पञ्चात्मकं स बुद्धिमान् ॥ १ ॥

मूलम्

निमित्तान्येव पश्यैव प्राप्य तांस्तान्प्रयाति सः
विहाय कायं निर्लक्ष्यं पतितं नैव पश्यति ॥ २ ॥

सहवर्द्धितयोर्नास्ति सम्बन्धः प्राण देहयोः
धनपुत्रकलत्रैश्च सम्बन्धः केन हेतुना ॥ ३ ॥

एवं ज्ञात्वा शमं गच्छ क्लैब्यं मा भज सुप्रिये
अयमेव परं ब्रह्म अयमेव सनातनः ॥ ४ ॥

अयमात्मस्वरूपेण दैत्य देवेषु संस्थितः
अयं ब्रह्मा अयं रुद्रो ह्ययं विष्णुः सनातनः ॥ ५ ॥

अयं सृजति विश्वानि अयं पालयते प्रजाः
संहरत्येष धर्मात्मा धर्मरूपी जनार्दनः ॥ ६ ॥

अनेनोत्पादिता देवा दानवाश्चैव सुप्रिय
देवाश्चाधर्मनिर्मुक्ता धर्महीनाः सुतास्तव ॥ ७ ॥

धर्मोयं माधवस्याङ्गं सर्वदैवैश्च पालितम्
धर्मं च चिन्तयेद्देवि धर्मं चैव तु पालयेत् ॥ ८ ॥

तस्य विष्णुः स धर्मात्मा सर्वदैव प्रसादवान्
धर्मेण वर्तिता देवाः सत्येन तपसा किल ॥ ९ ॥

येषां विष्णुः प्रसन्नो वै धर्मस्तैरिह पालितः
विष्णोः कायमिदं धर्मं सत्यं हृदयमेव च ॥ १० ॥

यस्तौ पालयते नित्यं तस्य विष्णुः प्रसीदति
दूषयेद्यः सत्यधर्मौ पापमेव प्रपालयेत् ॥ ११ ॥

तस्य विष्णुः प्रकुप्येत नाशयेदतिवीर्यवान्
वैष्णवैः पालितं धर्मं तपः सत्येन संस्थितैः ॥ १२ ॥

तेषां प्रसन्नो धर्मात्मा रक्षामेवं करोति च
तव पुत्रा दनोः पुत्राः सैंहिकेयास्तथैव च ॥ १३ ॥

अधर्मेणापि पापेन वर्तिताः पापचेतसः
सूदिता वासुदेवेन समरे चक्रपाणिना ॥ १४ ॥

मूलम्

अधर्मेणापि पापेन वर्तिताः पापचेतसः
सूदिता वासुदेवेन समरे चक्रपाणिना ॥ १४ ॥

विश्वास-प्रस्तुतिः

योसावात्मा मयोक्तः पूर्वमेव तवाग्रतः
सोयं विष्णुर्न सन्देहो धर्मात्मा सर्वपालकः ॥ १५ ॥

दैत्यकायेषु यः स्वस्थः पापमेव समास्थितः
जघ्निवान्दानवान्देवि स च क्रुद्धो महामतिः ॥ १६ ॥

स बाह्याभ्यन्तरे भूत्वा तव पुत्रा निपातिताः
येन चोत्पादिता देवि तेनैव विनिपातिताः ॥ १७ ॥

नैषां मोहस्तु कर्तव्यो भवत्या वचनं शृणु
पापेन वर्तते योसौ स एव निधनं व्रजेत् ॥ १८ ॥

तस्मान्मोहं परित्यज्य सदाधर्मं समाश्रय
दितिरुवाच-
एवमस्तु महाभाग करिष्ये वचनं तव ॥ १९ ॥

मूलम्

तस्मान्मोहं परित्यज्य सदाधर्मं समाश्रय
दितिरुवाच-
एवमस्तु महाभाग करिष्ये वचनं तव ॥ १९ ॥

कश्यपं च मुनिश्रेष्ठमेवमाभाष्य दुःखिता
सम्बोधिता सा मुनिना दुःखं सन्त्यज्य संस्थिता २०