००८

कश्यप उवाच-

विश्वास-प्रस्तुतिः

स गर्भे व्याकुलो जातः खिद्यमानो दिने दिने
दुःखाक्रान्तो हि धर्मात्मा सर्वपीडाभिपीडितः ॥ १ ॥

मूलम्

अधोमुखस्तु गर्भस्थो मोहजालेन बन्धितः
आधिव्याधिसमाक्रान्तो हाहाभूतो विचेतनः ॥ २ ॥

दुःखेन महताविष्टो ज्ञानमाह प्रपीडितः
आत्मोवाच-
तव वाक्यं महाप्राज्ञ न कृतं तु मया तदा ॥ ३ ॥

ध्यानेन वार्यमाणोपि पतितो मोहसङ्कटे
तस्माद्रक्ष महाप्राज्ञ गर्भवासात्सुदारुणात् ॥ ४ ॥

ज्ञानमुवाच-
मया त्वं वारितो ह्यात्मन्कृतं वाक्यं न चैव मे
पञ्चात्मकैर्महाक्रूरैः पातितो गर्भसङ्कटे ॥ ५ ॥

इदानीं गच्छ त्वं ध्यानं तस्मात्सम्प्राप्स्यसे सुखम्
गर्भवासाद्भविष्यस्ते मोक्ष एव न संशयः ॥ ६ ॥

तस्य तद्वचनं श्रुत्वा ज्ञात्वा ज्ञानस्य तत्त्वताम्
ध्यानमाहूय प्रोवाच श्रूयतां वचनं मम ॥ ७ ॥

त्वामहं शरणं प्राप्तो ध्यान मां रक्ष नित्यशः
एवमस्तु महाप्राज्ञ ध्यानमाह महामतिम् ॥ ८ ॥

एतद्वाक्यं ततः श्रुत्वा आत्मा वै ध्यानमागतः
ध्यानेन हि समं गर्भे संस्थितो मोहवर्जितः ॥ ९ ॥

यदा ध्यानं गतो ह्यात्मा विस्मृतं गर्भजं भयम्
स द्वाभ्यां सहितस्तत्र आत्मा मोह विना कृतः ॥ १० ॥

चिन्तयन्नेव वै नित्यमात्मकं सुखमेव हि
इतो निष्क्रान्तमात्रस्तु त्यजे पञ्चात्मकं वपुः ॥ ११ ॥

एवं चिन्तयते नित्यं गर्भवासगतः प्रभुः
सूतिकाले तु सम्प्राप्ते प्राजापत्ये वरानने ॥ १२ ॥

वायुना चलितो गर्भः प्राणेनापि बलीयसा
योनिर्विकासमायाति चतुर्विंशाङ्गुलं तदा ॥ १३ ॥

पञ्चविंशाङ्गुलो गर्भस्तेन पीडा विजायते
एवं सम्पीड्यमानस्तु मूर्च्छया मूर्च्छितः प्रिये ॥ १४ ॥

पतितो भूमिभागे तु ज्ञानध्यानसमन्वितः
प्राजापत्येन दिव्येन वायुना स पृथक्कृतः ॥ १५ ॥

भूमिसंस्पर्शमात्रेण ज्ञानध्याने तु विस्मृते
संसारबन्धसन्दिग्ध आत्मा प्रियतया स्थितः ॥ १६ ॥

गुणदोषसमाक्रान्तो महामोहसमन्वितः
खाद्यं पानादिकं सर्वमिच्छत्येव दिनेदिने ॥ १७ ॥

एवं सम्पुष्यमाणस्तु आत्मा पञ्चात्मकैः सह
व्यापितो हीन्द्रियैः सर्वैर्विषयैः पापकारिभिः ॥ १८ ॥

बान्धवानां समोहेन भार्यादीनां तथैव च
आकुलव्याकुलो देवि जायते च दिनेदिने ॥ १९ ॥

महामोहेन सन्दिग्धो मोहजालगतः प्रभुः
कैवर्तेन यथा बद्धः शकुलो जालबन्धनैः ॥ २० ॥

चलितुं नैव शक्तोस्ति तथात्मासीत्प्रबन्धितः
मोहजालैस्तु तैः सर्वैर्दृढबन्धैस्तु बन्धितः ॥ २१ ॥

एवमादिप्रपञ्चेन व्यापितो व्यापकेन हि
ज्ञानविज्ञानविभ्रष्टो रागद्वेषादिभिर्हतः ॥ २२ ॥

कामेन पीड्यमानस्तु क्रोधेनैव तथैव वा
प्रकृत्या कर्मणाबद्धो महामूढो व्यजायत ॥ २३ ॥

सूत उवाच-
एवं मूढो यदात्मासौ कामक्रोधवशङ्गतः
लोभरागादिभिः सर्वैर्व्यापृतस्तैर्दुरात्मभिः ॥ २४ ॥

इयं भार्या ह्ययं पुत्र इदं मित्रमिदं गृहम्
एवं संसारजालेन महामोहेन बन्धितः ॥ २५ ॥

पुत्रशोकादिभिर्दुःखैर्विविधैराकुलस्तदा
जरयाव्याधिभिश्चैव सङ्ग्रस्तश्चाधिभिस्तथा ॥ २६ ॥

एवमात्मा सम्प्रतप्तो दुःखमोहैः सुदारुणैः
अभिमानैर्मानभङ्गैर्नानादुःखैश्च खण्डितः ॥ २७ ॥

वृद्धत्वेन तथा देवि शबलत्वेन पीडितः
दुःखं चिन्तयते नित्यं हाहाभूतो विचेतनः ॥ २८ ॥

रात्रौ स्वप्नान्प्रपश्येत दिवा चैतन्यवर्जितः
वैकल्येन तथाङ्गानां व्याप्तो देवि दिनेदिने ॥ २९ ॥

संसारे भ्रममाणेन वैराग्यं तत्र दर्शितम्
निःशङ्कं बन्धुहीनं च प्रशान्तं तुष्टमेव च ॥ ३० ॥

तमुवाच तदात्मा वै कामक्रोधविवर्जितम्
को भवान्नग्नरूपेण कथं मित्रैर्न लज्जसे ॥ ३१ ॥

यत्र लोकाः स्त्रियो वृद्धा युवत्यो मातरस्तथा
एतासां हि गतो मध्ये न बिभेषि अनावृतः ॥ ३२ ॥

वीतराग उवाच-
को ह्यत्र नग्नो दृश्येत न नग्नोस्मीति वै कदा
सुसम्बद्धस्त्वमेवापि परिधान समन्वितः ॥ ३३ ॥

न नग्नोस्मि कदा दिव्यभवान्नग्नः प्रदृश्यते
इन्द्रियार्थवशेवर्ती मर्यादापरिवर्जितः ॥ ३४ ॥

पुरुषस्य का हि मर्यादा तामाचक्ष्व च सुव्रत
विस्तरेण महाप्राज्ञ यदि जानासि निश्चितम् ॥ ३५ ॥

वीतरागो महाप्राज्ञस्तमुवाच महामतिः
सुस्थैर्यं भजते चित्तं सुखदुःखेषु नित्यदा ॥ ३६ ॥

क्लेशितं सर्वभावैश्च तेषुतेषु परित्यजेत्
अथ लज्जां प्रवक्ष्यामि मनो या निर्विशत्यलम् ॥ ३७ ॥

मयाद्यैवं न कर्तव्यं नग्नः स्थानविवर्जितः
पश्चात्तापे सुसंलीनः सा लज्जा परिकथ्यते ॥ ३८ ॥

कस्य लज्जा प्रकर्तव्या द्वितीयो नास्ति सर्वदा
एकश्च पुरुषो दिव्यः कस्य किञ्चिन्न नाशयेत् ॥ ३९ ॥

अथ लोकान्प्रवक्ष्यामि ये त्वया परिकीर्तिताः
यथा कुलालकश्चक्रे मृत्पिण्डं च निधापयेत् ॥ ४० ॥

भ्रामयित्वा तु सूत्रेण नानाभेदान्प्रकाशयेत्
भाण्डानां तु सहस्राणि स्वेच्छया मतिसंस्थितः ॥ ४१ ॥

तथायं सृजते धाता नानारूपाणि नान्यथा
पश्चाद्विनाशमायान्ति येनकेनापि हेतुना ॥ ४२ ॥

सर्वदैव स्थिता ये च ये लोकाश्च सनातनाः
तेषां लज्जा प्रकर्तव्या नावर्तन्ते हि ते भुवि ॥ ४३ ॥

आकाशवायुतेजांसि पृथ्वी चापश्च पञ्चमः
अमी लोकाः प्रकाशन्ते ये च सर्वत्र संस्थिताः ॥ ४४ ॥

सत्त्वानामङ्गदेशेषु पञ्चैतेषु सुसंस्थिताः
सर्वत्रैव च वर्तन्ते कस्य लज्जा विधीयते ॥ ४५ ॥

स्त्रीणां रूपं प्रवक्ष्यामि श्रूयतां तात साम्प्रतम्
यथाघटसहस्रेषुसोदकेषुविराजते ॥ ४६ ॥

एकश्चन्द्रो हि सर्वत्र भवांस्तद्वद्विराजते
गतो जन्तुसहस्रेषु मोहचक्रे महात्मवान् ॥ ४७ ॥

स्थावरेषु च सर्वेषु जङ्गमेषु तथा भवान्
योनिद्वारेण पापेन मायामोहमयेन वै ॥ ४८ ॥

मूलम्

स्थावरेषु च सर्वेषु जङ्गमेषु तथा भवान्
योनिद्वारेण पापेन मायामोहमयेन वै ॥ ४८ ॥

विश्वास-प्रस्तुतिः

कुचाभ्यां च नितम्बाभ्यां वयसा च विराजते
हृन्मांसस्याधिका वृद्धिर्दृष्टा चात्र न संशयः ॥ ४९ ॥

पतनाय च लोकानां मोहरूपं विदर्शितम्
नभवत्येव सा नारी या त्वया परिकीर्तिता ॥ ५० ॥

लीलया कुरुते धाता विनोदाय सदात्मनः
यथा नार्यास्तथा पुंसो जीवः सर्वत्र संस्थितः ॥ ५१ ॥

कुचयोनिविहीना ये जीवन्मुक्ताः सदैव हि
नरस्तु पुरुषः प्रोक्तो नारी प्रकृतिरुच्यते ॥ ५२ ॥

रमते तेन वै सार्द्धं न मुक्ता हि कदाचन
भवान्प्रकृतिसंयुक्तः पुरुषेषु प्रदृश्यते ॥ ५३ ॥

कः कस्य कुरुते लज्जामेवं ज्ञात्वा सुखं व्रज
वृद्धां स्त्रियं प्रवक्ष्यामि सदावृद्धां वरानने ॥ ५४ ॥

त्वचा जर्जरतां याता यस्याप्यङ्गे वरानने
श्वेतैश्चैव तथाकेशैः पलितैश्च समाकुला ॥ ५५ ॥

बलहीनाथ दीनापि व्यापिता वलिना तदा
नेयं वृद्धा भवेन्नारी परं वृद्धा च कथ्यते ॥ ५६ ॥

एतस्या लक्षणं प्रोक्तं युवतीं प्रवदाम्यहम्
ज्ञानेन वर्द्धते नित्यं जीवपार्श्वे समाश्रिता ॥ ५७ ॥

सुमतिर्नाम सम्प्रोक्ता सा वृद्धा युवतीति च
नारी पुरुषलोकेषु सर्वदैव प्रतिष्ठिता ॥ ५८ ॥

लज्जा तस्याः प्रकर्तव्या अन्यच्चैव वदाम्यहम्
मातरं वै प्रवक्ष्यामि या त्वया परिकीर्तिता ॥ ५९ ॥

प्राणिनामङ्गदेशेषु सदैव चेतना स्थिता
परज्ञानप्रदा या च सा प्रज्ञा परिकथ्यते ॥ ६० ॥

प्रज्ञा माता समाख्याता प्राणिनां पालनाय सा
संस्थिता सर्वलोकेषु पोषणाय हिताय वा ॥ ६१ ॥

सुमतिर्नाम या प्रोक्ता सा माता परिकथ्यते
संसारद्वारमार्गाणि यानि रूपाणि नित्यशः ॥ ६२ ॥

भवन्ति मातरो ह्येता बहुदुःखप्रदर्शिकाः
मातृरूपं समाख्यातमन्यत्किं ते वदाम्यहम् ॥ ६३ ॥

भवान्को हि समायातो मम सन्तापनाशकः
विस्तरेण समाख्याहि स्वरूपमात्मनः स्वयम् ॥ ६४ ॥

यस्मात्कामानि वर्तन्ते निराशाः सर्व एव ते
यं दुष्टत्वान्न पश्यन्ति कर्माण्येतानि नान्यथा ॥ ६५ ॥

यत्समीपं हि नायाति आशा चैव कदाचन
क्रोधो लोभस्तथा मोहो यद्भयात्प्रलयं गताः ॥ ६६ ॥

वीतरागोस्मि भद्रं ते विवेको मम बान्धवः
आत्मोवाच-
कीदृशोऽसौ तव भ्राता विवेको नाम नामतः ॥ ६७ ॥

तस्य त्वं लक्षणं ब्रूहि भ्रातुरात्मन एव च
वीतराग उवाच-
तस्यैव लक्षणं रूपं न वदामि तवाग्रतः ॥ ६८ ॥

भ्रातुस्तस्य महाभाग आह्वानं च करोम्यहम्
भोभो विवेक मे भ्रातरावयोस्त्वं वचः शृणु ॥ ६९ ॥

एह्येहि सुमहाभाग मम स्नेहान्महामते
कश्यप उवाच-
शान्तिक्षमाभ्यां संयुक्तो भार्याभ्यां च समागतः ॥ ७० ॥

सर्वदृक्सर्वगो व्यापी सर्वतत्त्वपरायणः
सन्देहानां च सर्वेषां यो रिपुर्ज्ञानवत्सलः ॥ ७१ ॥

धारणा धीश्च द्वे पुत्र्यौ तस्यैव हि महात्मनः
तस्य योगः सुतो ज्येष्ठो मोक्षो यस्य महागुरुः ॥ ७२ ॥

निर्मलो निरहङ्कारो निराशो निष्परिग्रहः
सर्ववेलाप्रसन्नात्मा गतद्वन्द्वो महामतिः ॥ ७३ ॥

स विवेकः समायातो गुणरत्नैर्विभूषितः
यस्यामात्यौ महात्मानौ धर्मसत्यौ महामती ॥ ७४ ॥

क्षमाशान्तिसमायुक्तः स विवेकः समागतः
वीतरागमुवाचेदमाहूतोहं समागतः ॥ ७५ ॥

मूलम्

क्षमाशान्तिसमायुक्तः स विवेकः समागतः
वीतरागमुवाचेदमाहूतोहं समागतः ॥ ७५ ॥

विश्वास-प्रस्तुतिः

तद्भ्रातः कारणं सर्वं कथ्यतां हि ममाग्रतः
यमाश्रित्य त्वयाद्यैव कृतमाह्वानमेव मे ॥ ७६ ॥

मूलम्

तद्भ्रातः कारणं सर्वं कथ्यतां हि ममाग्रतः
यमाश्रित्य त्वयाद्यैव कृतमाह्वानमेव मे ॥ ७६ ॥

विश्वास-प्रस्तुतिः

वीतराग उवाच-
पुमान्स्थितो यः पुरतो महापाशैर्नियन्त्रितः
मोहस्य बाणैः सम्भ्रान्तः संसारस्य च बन्धनैः ॥ ७७ ॥

सर्वस्य व्यापकः स्वामी अयमात्मा ममैव च
पञ्चतत्त्वैः समाविष्टो ज्ञानध्यानविवर्जितः ॥ ७८ ॥

पृच्छतामेनमात्मानं भवांस्तत्त्वेषु पण्डितः
वीतरागवचः श्रुत्वा विवेको वाक्यमब्रवीत् ॥ ७९ ॥

विवेक उवाच-
सुखेन स्थीयते देव भवता विश्वनायक
आगते त्वयि संसारे किं किं भुक्तं सुखं स्वयम् ॥ ८० ॥

गर्भवासो महद्दुःखमसह्यं दारुणं मया
भुक्तमेव महाप्राज्ञ ज्ञानहीनेन वै सदा ॥ ८१ ॥

देहेपि ज्ञानविभ्रष्टः सोहं जातो ह्यनेकधा
बाल्यावस्थां गतेनाथ कृत्याकृत्यं कृतं मया ॥ ८२ ॥

तारुण्येन कृता क्रीडा भुक्ता भार्या ह्यनेकशः
वार्धकं प्राप्य सन्तप्तः पुत्रशोकादिभिस्तथा ॥ ८३ ॥

भार्यादीनां वियोगैस्तु दग्धोस्म्यहमहर्निशम्
दुःखैरनेकसंवर्णैः सन्तप्तोस्मि दिनेदिने ॥ ८४ ॥

दिवारात्रौ महाप्राज्ञ न विन्दामि सुखं क्वचित्
एवं दुःखै सुसन्तप्तः किं करोमि महामते ॥ ८५ ॥

तमुपायं वदस्वैव सुखं विन्दामि येन वै
अस्मात्संसारजालौघान्मोचयाद्य सुबन्धनात् ॥ ८६ ॥

भवाञ्छुद्धोसि निर्द्वन्द्वो ह्यपापोसि जगत्पते
एनं गच्छ महात्मानं वीतरागं सुखप्रदम् ॥ ८७ ॥

निःसंशयं त्वया दृष्टं नग्नमाचारवर्जितम्
सुखप्रदर्शको ह्येष सर्वसन्तापनाशकः ॥ ८८ ॥

एवमाकर्ण्य शुद्धात्मा वीतरागं गतः पुनः
तमुवाच श्वसन्दीनः श्रूयतां वचनं मम ॥ ८९ ॥

सुखं विन्दामि येनाहं तं मार्गं मम दर्शय
एवमस्तु महाप्राज्ञ करिष्ये वचनं तव ॥ ९० ॥

पुनर्गच्छ विवेकं हि सुखवार्ता कृता त्वया
सुखमार्गस्य वै वक्ता तव एष भविष्यति ॥ ९१ ॥

वीतरागेण पुण्येन प्रेषितो गतवान्प्रभुः
तमुवाच महात्मानं विवेकं शुद्धसत्तमम् ॥ ९२ ॥

सुखं मे दर्शय त्वं हि वीतरागेण प्रेषितः
भवच्छरणमापन्नो रक्ष संसारदारुणात् ॥ ९३ ॥

ज्ञानं गच्छमहाप्राज्ञ स ते सर्वं वदिष्यति
आत्मा तथोक्तः सम्प्राप्तो यत्र ज्ञानं प्रतिष्ठितम् ॥ ९४ ॥

भोभो ज्ञान महातेजः सर्वभावप्रदर्शक
शरणं त्वामहं प्राप्तः सुखमार्गं प्रदर्शय ॥ ९५ ॥

भृत्योहं तव लोकेश त्वं मां वेत्सि न सुव्रत
मया ध्यानेन वै पूर्वं वारितस्त्वं पुनःपुनः ॥ ९६ ॥

पञ्चात्मकानां सङ्गेन आपदं प्राप्तवान्भवान्
ध्यानं गच्छ महाप्राज्ञ स ते दाता सुखस्य च ॥ ९७ ॥

ज्ञानेन प्रेषितो ह्यात्मा ध्यानमाश्रित्य संस्थितः
सुखमत्यन्तसिद्धं च ध्यानं मे दर्शयस्व ह ॥ ९८ ॥

भवच्छरणमायातं मामेवं परिरक्षय
एवं सम्भाषितं तस्य ध्यानमाकर्ण्य तद्वचः ॥ ९९ ॥

समुवाच पुनश्चापि तमात्मानं प्रहृष्टवान्
नैव त्याज्योस्म्यहं तात सर्वकर्मसुनिश्चितः १००
त्वयैव वीतरागेण विवेकेन सदैव हि
ध्यानयुक्तो भवस्व त्वमात्मानमवलोकय १०१
आत्मवांस्त्वं स्थिरो भूत्वा निरातङ्को विकल्पितः
यथा दीपो निवातस्थः कज्जलं वमते स्थिरः १०२
तथा दोषान्प्रज्वलित्वा निर्वाणं हि प्रयास्यति
एकान्तस्थो निराहारो मिताशी भव सर्वदा १०३
निर्द्वन्द्वः शब्दसंहीनो निश्चलो ह्यासने स्थितः
आत्मानमात्मना ध्यायन्ममैव स्थिरबुद्धिना १०४
प्राप्स्यसे परमं स्थानं तद्विष्णोः परमं पदम् १०५