००७

दितिरुवाच-

विश्वास-प्रस्तुतिः

सत्यमुक्तं त्वया नाथ सर्वमेव न संशयः
भर्तृस्नेहं परित्यज्य गता सापत्न्यजं द्विज ॥ १ ॥

मूलम्

अभिमानेन दुःखेन मानभङ्गेन सत्तम
महादुःखेन सन्तप्ता करिष्ये प्राणमोचनम् ॥ २ ॥

कश्यप उवाच-
श्रूयतामभिधास्यामि यथा शान्तिर्भविष्यति
न कः कस्य भवेत्पुत्रो न माता न पिता शुभे ॥ ३ ॥

न भ्राता बान्धवः कस्य न च स्वजनबान्धवाः
एवं संसारसम्बन्धो मायामोहसमन्वितः ॥ ४ ॥

मूलम्

न भ्राता बान्धवः कस्य न च स्वजनबान्धवाः
एवं संसारसम्बन्धो मायामोहसमन्वितः ॥ ४ ॥

विश्वास-प्रस्तुतिः

स्वयमेव पिता देवि स्वयं माताथ बान्धवाः
स्वयं स्वजनवर्गश्च स्वयं धर्मः सनातनः ॥ ५ ॥

आचारेण नरो देवि सुखित्वमुपजायते
अनाचारेण पापेन नाशं याति तथा ध्रुवम् ॥ ६ ॥

क्रूरयोनिं प्रयात्येवं नरो देवि न संशयः
कर्मणा सत्यहीनेन महापापेन मोहतः ॥ ७ ॥

मूलम्

क्रूरयोनिं प्रयात्येवं नरो देवि न संशयः
कर्मणा सत्यहीनेन महापापेन मोहतः ॥ ७ ॥

विश्वास-प्रस्तुतिः

रिपुत्वे वर्त्तते मर्त्यः प्राणिनां नित्यसंस्थितः
रिपवस्तस्य वर्तन्ते यत्र तत्र न संशयः ॥ ८ ॥

मैत्रेण वर्तते मर्त्यो यदा लोके प्रिये शुभे
तदा तस्य भवन्त्येव मित्राः सर्वत्र भामिनि ॥ ९ ॥

कृषिकारो यदा देवि छन्नं बीजं सुसंस्थितम्
यादृशं तु भवत्येव तादृशं फलमश्नुते ॥ १० ॥

तथा तव च पुत्रैश्च साधुभिः स्पर्धितं सह
कर्मणस्तस्य तत्प्राप्तं फलं भुङ्क्ष्व सुसंस्थितम् ॥ ११ ॥

तव पुत्रा महाभागे तपः शान्ति विवर्जिताः
तेन पापेन ते सर्वे पतिता वै महत्पदात् ॥ १२ ॥

एवं ज्ञात्वा शमं गच्छ मुञ्च दुःखं सुखं तथा
कस्य पुत्राश्च मित्राणि कस्य स्वजन बान्धवाः ॥ १३ ॥

आत्मकर्मानुसारेण सुखं जीवन्ति जन्तवः
परार्थे चिन्तनं देवि तत्त्वज्ञानेन पण्डिताः ॥ १४ ॥

न कुर्वन्ति महात्मानो व्यर्थमेव न संशयः
पञ्चभूतात्मकं कायं केवलं सन्धिजर्जरम् ॥ १५ ॥

आत्ममित्रं कृतं तेन सर्वं देवि सुखाशया
आत्मा नाम महापुण्यः सर्वगः सर्वदर्शकः ॥ १६ ॥

सर्वसिद्धिस्तु सर्वात्मा सात्विकः सर्वसिद्धिदः
एवं सर्वमयो देवि भ्रमत्येको निरञ्जनः ॥ १७ ॥

भ्रमता निर्जने येन मूर्तिमन्तो द्विजोत्तमाः
चत्वारो दर्शिताः पुण्या मूर्तिमन्तो महौजसः ॥ १८ ॥

पञ्चमः श्वसनश्चैव पूर्वाणां मित्रमेव च
अथो आत्मा समायातो ज्ञानसाहाय्यमेव वा ॥ १९ ॥

स तान्दृष्ट्वा महात्मा वै ज्ञानमात्मा समब्रवीत्
ज्ञान पश्य अमी पञ्च मन्त्रयन्तः परस्परम् ॥ २० ॥

एतान्गत्वाब्रवीहि त्वं यूयं क इति पृच्छ ह
ज्ञानं वाक्यं परं श्रुत्वा सार्थं तस्य महात्मनः ॥ २१ ॥

तदाहात्मानमाराध्यमेतैः किं ते प्रयोजनम्
तत्त्वतो ब्रूहि मे देव सदा शुद्धोसि सर्वदा ॥ २२ ॥

आत्मोवाच-
एते पञ्च महाभागा रूपवन्तो मनस्विनः
गत्वा सन्दर्शयाम्येनानाभाष्ये ज्ञान श्रूयताम् ॥ २३ ॥

भव्यानेतान्प्रवक्ष्यामि पञ्चमीं गतिमागतान्
दूतत्वं गच्छ भो ज्ञान कुशलो दूतकर्मणि ॥ २४ ॥

ज्ञानमुवाच-
त्वमात्मञ्छृणु मे वाक्यं सत्यं सत्यं वदाम्यहम्
एतेषां सङ्गतिस्तात कार्या नैव त्वया कदा ॥ २५ ॥

पञ्चानामपि शुद्धात्मन्न कार्यं शुभमिच्छता
भवतः सङ्गतिं मोह इच्छत्येष महामते ॥ २६ ॥

एतेषां सङ्गतिं ज्ञान कस्माद्वारयते भवान्
तन्मे त्वं कारणं ब्रूहि याथातथ्येन पण्डित ॥ २७ ॥

एतेषां सङ्गमात्रात्तु महद्दुःखं भविष्यति
दुःखमूला हि पञ्चैव शोकसन्तापकारकाः ॥ २८ ॥

एवमस्तु महाप्राज्ञ करिष्ये वचनं तव
ज्ञानमाभाष्य स ह्यात्मा ध्यानेन सह सङ्गतः ॥ २९ ॥

ततः पञ्चैव ते तत्राद्राक्षुरात्मानमेव तम्
बुद्धिमूचुः समाहूय सङ्गच्छात्मानमेव हि ॥ ३० ॥

दूतत्वं कुरु कल्याणि अस्माकमात्मना सह
पञ्चतत्त्वा महात्मानो विश्वस्यधारकाः शुभाः ॥ ३१ ॥

भवतो मैत्रमिच्छन्ति इत्याभाष्य महामतिम्
गत्वा बुद्धे त्वया कार्यं कर्तव्यं न इतो व्रज ॥ ३२ ॥

एवमस्तु महाभागा करिष्ये कार्यमुत्तमम्
एवमाभाषितं तेषां गत्वाऽहात्मानमेव तम् ॥ ३३ ॥

अहं बुद्धिर्महाभाग भवन्तं समुपागता
दूतत्वे महतां पार्श्वात्तेषां त्वं वचनं शृणु ॥ ३४ ॥

भवन्मैत्रीं समिच्छन्ति अक्षयां पञ्च आत्मकाः
कुरु मैत्रीं महाप्राज्ञ जहि ध्यानं सुदूरतः ॥ ३५ ॥

ध्यानमुवाच-
न कर्तव्यं त्वया चात्मन्नैतेषां वै समागमम्
एषां संसर्गमात्रेण महुद्दुःखं भविष्यति ॥ ३६ ॥

मया ज्ञानेन हीनस्त्वं कथं कर्म करिष्यति
एवमेव न कर्तव्यं तेषां चैव समागमम् ॥ ३७ ॥

गर्भवासं नयिष्यन्ति भवन्तं नान्यथा विभो
ज्ञानेनैव मया हीनो अज्ञानं यास्यसि ध्रुवम् ॥ ३८ ॥

एवमुक्त्वा तमात्मानं विरराम महामतिम्
ततस्तामागतां बुद्धिमात्मा प्रोवाच निश्चितः ॥ ३९ ॥

ज्ञानध्यानौ महात्मानौ मन्त्रिणौ मम शोभनौ
तत्र यानं न मे युक्तं तद्बुद्धे किं करोम्यहम् ॥ ४० ॥

एवं श्रुत्वा ततो बुद्धिस्तेषां पार्श्वे यशस्विनी
समाचष्ट समग्रं तत्कथनं ज्ञानध्यानयोः ॥ ४१ ॥

ततस्ते पञ्चकाः सर्वे आत्मानं प्रतिजग्मिरे
मैत्रीमेव प्रतीच्छामो भवतो नित्यमेव हि ॥ ४२ ॥

यस्माच्छुद्धोसि लोकेश तस्मात्त्वां समुपागताः
स्वयमेव विचार्यैव उत्तरं नः प्रदीयताम् ॥ ४३ ॥

यूयं पञ्चैव सम्प्राप्ता मम मैत्रं समिच्छथ
स्वीयं गुणं प्रभावं च कथयन्तु ममाग्रतः ॥ ४४ ॥

भूमिरुवाच-
सर्वकार्यस्य संस्थानं चर्ममांससमन्वितम्
अस्थिमूलदृढत्वं मे नखलोमसमन्वितम् ॥ ४५ ॥

प्रभावो हि महाप्राज्ञ कायमध्ये ममैव हि
नासिकागमनो गन्धस्स मे भृत्यो महामनाः ॥ ४६ ॥

आकाश उवाच-
अहमाकाशकः प्राप्तो मम काये प्रभावकम्
श्रूयतामभिधास्यामि परब्रह्मस्वरूपिणम् ॥ ४७ ॥

बाह्यान्तरावकाशश्च शून्यस्थाने वसाम्यहम्
तत्रामात्यौ तु कर्णौ मे श्रवणार्थं प्रतिष्ठितौ ॥ ४८ ॥

वायुरुवाच-
पञ्चरूपेण तिष्ठामि करोम्येवं शुभाशुभम्
चर्मकायेस्थितोमात्यः स्पर्शं संश्रयते गुणम् ॥ ४९ ॥

तेज उवाच-
काये संस्थः सदा नित्यं पाकयोगं करोम्यहम्
सबाह्याभ्यन्तरं सर्वं द्रव्याद्रव्यं प्रदर्शये ॥ ५० ॥

शुक्रं मज्जा तथा लाला एवं त्वक्सन्धिसंस्थितम्
रुधिरं प्रेषयाम्येव कायमध्ये स्थितोस्म्यहम् ॥ ५१ ॥

तत्र नेत्रावमात्यौ मे द्रव्यलब्धिप्रसाधकौ
एवं मयात्मव्यापारस्तवाग्रे कथितः परः ॥ ५२ ॥

जलमुवाचः-
सुतोषयाम्यहं नित्यममृतेन कलेवरम्
एवं मे तत्र व्यापारः कायपत्तनके प्रिये ॥ ५३ ॥

अमात्यं रसनां विद्धि रसास्वादकरीं पराम्
नासिकोवाच-
सुगन्धेन परां पुष्टिं कायस्यापि करोम्यहम् ॥ ५४ ॥

दुर्गन्धं तु परित्यज्य काये गन्धं प्रदर्शये
बुद्धियुक्ता महाभाग तस्याभावेन भाविता ॥ ५५ ॥

स्वामिकार्याय कायेस्मिन्नहं तिष्ठामि निश्चला
गन्धं मम गुणं विद्धि द्विविधं यत्प्रवर्तितम् ॥ ५६ ॥

श्रवणावूचतुः-
कार्याकार्यादिकं शब्दं लोकैरुक्तं शुभाशुभम्
शृणुयावः स्वकायस्थौ सत्यासत्ये प्रियाप्रिये ॥ ५७ ॥

शब्दो हि मे गुणः प्रोक्तो मम व्यापारमेव हि
योजयामि न सन्देहो यदा बुद्धिः प्रपूरयेत् ॥ ५८ ॥

त्वगुवाच-
पञ्चरूपात्मको वायुः शरीरेस्मिन्व्यवस्थितः ॥ ५९ ॥

सबाह्याभ्यन्तरे चेष्टां तेषां जानामि तत्त्वतः
शीतोष्णमातपं वर्षं वायोः स्फुरणमेव च ॥ ६० ॥

सर्वं जानामि संस्पर्शं सङ्गश्लेषादिकं नृणाम्
स्पर्श एव गुणो मह्यमेतत्सत्यं वदाम्यहम् ॥ ६१ ॥

एवं हि ते समाख्यातो मया व्यापार एव हि
नेत्रे ऊचतुः-
संसारे यानि रूपाणि भव्याभव्यानि सत्तम ॥ ६२ ॥

यदा प्रेरयते बुद्धिस्तदा पश्याव नान्यथा
वसावः कायमध्ये वै रूपं गुणमिहावयोः ॥ ६३ ॥

एवं व्यापारसम्बन्धः कायमध्ये महामते
जिह्वोवाच-
बुद्धियुक्ता अहं तात रसभेदान्विचारये ॥ ६४ ॥

क्षारमम्लादिकं सर्वं नीरसं स्वादु चिन्तये
व्यापारेण अनेनापि नित्ययुक्ता वसाम्यहम् ॥ ६५ ॥

इन्द्रियाणां हि सर्वेषां बुद्धिरेषा प्रणायकः
एवं पञ्च समायातानीन्द्रियाणि प्रिये शृणु ॥ ६६ ॥

स्वीयानि यानि कर्माणि कथयन्ति पुनः पुनः
अथ बुद्धिः समायाता तमुवाच महामतिम् ॥ ६७ ॥

मद्विहीनो यदा कायस्तदा नश्यति नान्यथा
तस्मात्त्वं मां समास्थाय वर्त्तयस्व महामते ॥ ६८ ॥

अथ कर्म समायातमात्मानमिदमब्रवीत्
अहं कर्म महाप्राज्ञ तव पार्श्वं समागतम् ॥ ६९ ॥

त्वां प्रेषयाम्यहं तेन पथा येनेह गच्छसि
एवमाकर्ण्य तत्सर्वमात्मा प्रोवाच तान्प्रति ॥ ७० ॥

यूयं पञ्चात्मकैर्युक्ताः सर्वसाधारणाः किल
कस्मान्मैत्रं समिच्छन्ति तत्र पञ्चात्मकं प्रति ॥ ७१ ॥

ब्रुवन्तु कारणं सर्वे ममाग्रे सर्वमेव तत्
पञ्चात्मका ऊचुः-
अस्मत्सङ्गप्रसङ्गेन पिण्डमेव प्रजायते ॥ ७२ ॥

तस्मिन्पिण्डे महाबुद्धे भवान्वसति सुव्रतः
तिष्ठामो हि वयं सर्वे प्रसादात्तव तत्र हि ॥ ७३ ॥

एतस्मात्कारणान्मैत्रमिच्छामस्तव नित्यशः
आत्मोवाच-
एवमस्तु महाभागा भवतां प्रियमेव च ॥ ७४ ॥

मूलम्

एतस्मात्कारणान्मैत्रमिच्छामस्तव नित्यशः
आत्मोवाच-
एवमस्तु महाभागा भवतां प्रियमेव च ॥ ७४ ॥

विश्वास-प्रस्तुतिः

करिष्ये नात्र सन्देहो मैत्रं हि प्रीतिकारणात्
वार्यमाणो महाभागो ज्ञानेनापि महात्मना ॥ ७५ ॥

ध्यानेन च महात्मासौ तेषां सङ्गतिमागतः
स तैः प्रमोहितस्तत्र रागद्वेषादिभिस्तदा ॥ ७६ ॥

पञ्चतत्त्वसमायुक्तः कायित्वं गतवान्प्रभुः
यदा गर्भं समायातो विष्ठामूत्रसमाकुले ॥ ७७ ॥

दुर्गन्धे पिच्छिलावर्ते पतितस्तैः स संयुतः
अङ्गेन व्याकुलीभूतः पञ्चात्मकानुवाच सः ॥ ७८ ॥

भोभोः पञ्चात्मकाः सर्वे शृणुध्वं वचनं मम
भवतां सम्प्रसङ्गेन महादुःखेन मोहितः ॥ ७९ ॥

तत्रास्मिन्पिच्छिले घोरे पतितो हि महाभये
पञ्चात्मका ऊचुः-
तावत्संस्थीयतां राजन्यावद्गर्भः प्रपूरयेत् ॥ ८० ॥

पश्चान्निर्गमनं ते वै भविष्यति न संशयः
अस्माकं हि भवान्स्वामी कायदेशे व्यवस्थितः ॥ ८१ ॥

राज्यमेवं प्रकर्तव्यं सुखभोक्ता भविष्यति
तेषां तद्वचनं श्रुत्वा आत्मा दुःखेन पीडितः ॥ ८२ ॥

गन्तुमिच्छन्नसौ तस्मात्पलायनपरोभवत् ८३