००६

सूत उवाच-

विश्वास-प्रस्तुतिः

कश्यपस्य च भार्यान्या दनुर्नाम तपस्विनी
पुत्रशोकेन सन्तप्ता सम्प्राप्ता दितिमन्दिरम् ॥ १ ॥

मूलम्

रोदमाना प्रणम्यैव पादपद्मयुगं तदा
दुःखेन महता प्राप्ता दितिस्तां प्रत्यबोधयत् ॥ २ ॥

दितिरुवाच-
तवैव हि महाभागे किमिदं रोदकारणम्
पुत्रिण्यश्चैकपुत्रेण लोके नार्यो भवन्ति वै ॥ ३ ॥

भवती शतपुत्राणां गुणिनामपि भामिनि
माता त्वमसि कल्याणि शुम्भादीनां महात्मनाम् ॥ ४ ॥

कस्माद्दुःखं त्वया प्राप्तमेतन्मे कारणं वद
हिरण्यकशिपू राजा हिरण्याक्षो महाबलः ॥ ५ ॥

यस्याः पुत्रौ महात्मानौ महाबलपराक्रमौ
कस्माद्दुःखं महज्जातं तस्माच्चैव सखे वद ॥ ६ ॥

आख्याहि कारणं सर्वं यस्माद्रोदिषि साम्प्रतम्
एवमाभाष्य तां देवीं विरराम मनस्विनी ॥ ७ ॥

दनुरुवाच-
पश्य पश्य महाभागे सपत्न्याश्च मनोरथम्
परिपूर्णं कृतं तेन देवदेवेन चक्रिणा ॥ ८ ॥

यथापूर्वं वरो दत्तो ह्यदित्यै देवि विष्णुना
तथेदानीं च पुत्राय तस्या दत्तो वरो महान् ॥ ९ ॥

कश्यपाद्विश्रुतो जातस्त्रैलोक्यपालकः सुतः
इन्द्रत्वं तस्य वै दत्तं तव पुत्राद्विहृत्य च ॥ १० ॥

मनोरथैस्तु सम्पूर्णा अदितिः सुखवर्द्धिनी
कनीयान्वसुदत्तश्च तस्याः पुत्रश्च सम्प्रति ॥ ११ ॥

ऐन्द्रं पदं सुदुष्प्राप्यं देवैः सार्द्धं भुनक्ति च
दितिरुवाच-
कस्मात्पदात्परिभ्रष्टो मम पुत्रो महामतिः ॥ १२ ॥

अन्ये च दानवा दैत्यास्तेजोभ्रष्टाः कथं सखे
तस्य त्वं कारणं ब्रूहि विस्तरेण यशस्विनि ॥ १३ ॥

तामाभाष्य दितिर्वाक्यं विरराम सुदुःखिता
दनुरुवाच-
देवाश्च दानवाः सर्वे सक्रोधाः सङ्गरं गताः ॥ १४ ॥

तत्र युद्धं महज्जातं दैत्यसङ्क्षयकारकम्
देवैश्च विष्णुना युद्धे मम पुत्रा निपातिताः ॥ १५ ॥

तथैव तव पुत्रास्ते देवदेवेन चक्रिणा
वने गतान्यथा सिंहो द्रावयेत्स्वेन तेजसा ॥ १६ ॥

तथा ते मामकाः पुत्रा निहताः शङ्खपाणिना
कालनेमिमुखं सैन्यं दुर्जयं ससुरासुरैः ॥ १७ ॥

नाशितं मर्दितं सर्वं द्रावितं विकलीकृतम्
स्वैरर्चिभिर्यथा वह्निस्तृणानि ज्वालयेद्वने ॥ १८ ॥

तथा दैत्यगणान्सर्वान्निर्दहत्येव केशवः
मम पुत्रा मृता देवि बहुशस्तव नन्दनाः ॥ १९ ॥

वह्निं प्राप्य यथा सर्वे शलभा यान्ति सङ्क्षयम्
तथा ते दानवाः सर्वे हरिं प्राप्य क्षयं गताः ॥ २० ॥

एवमेतं हि वृत्तान्तं दितिः शुश्राव दारुणम्
दितिरुवाच-
वज्रपातोपमं भद्रे वदस्येवं कथं मम ॥ २१ ॥

एवमाभाष्य तां देवी मूर्च्छिता निपपात ह
हा हा कष्टमिदं जातं बहुदुःखं प्रतापकम् ॥ २२ ॥

रुरोद करुणं साथ पुत्रशोकसुपीडिता
तां दृष्ट्वा स मुनिश्रेष्ठ उवाच वचनं शुभम् ॥ २३ ॥

मा रोदिषि च भद्रं ते नैवं शोचन्ति त्वद्विधाः
सत्ववन्तो महाभागे लोभमोहेन वर्जिताः ॥ २४ ॥

कस्य पुत्रा हि संसारे कस्य देवी सुबान्धवाः
नास्तिकस्येह केनापि तत्सर्वं श्रूयतां प्रिये ॥ २५ ॥

दक्षस्यापि सुता यूयं सुन्दर्यश्चैव मामकाः
भवतीनामहं भर्ता कामनापूरकः शुभे ॥ २६ ॥

योजकः पालकश्चैव रक्षकोस्मि वरानने
कस्माद्वैरं कृतं क्रूरैरसुरैरजितात्मभिः ॥ २७ ॥

तव पुत्रा महाभागे सत्यधर्मविवर्जिताः
तेन दोषेण ते सर्वे तव दोषेण वै शुभे ॥ २८ ॥

निहता वासुदेवेन दैवतैस्तु निपातिताः
तस्माच्छोको न कर्तव्यः सत्यमोक्षविनाशनः ॥ २९ ॥

शोको हि नाशयेत्पुण्यं क्षयात्पुण्यस्य नश्यति
तस्माच्छोकं परित्यज विघ्नरूपं वरानने ॥ ३० ॥

आत्मदोषप्रभावेण दानवा मरणं गताः
देवा निमित्तभूताश्च नाशिताः स्वेन कर्मणा ॥ ३१ ॥

एवं ज्ञात्वा महाभागे समागच्छ सुखं प्रति
एवमुक्त्वा महायोगी तां प्रियां दुःखभागिनीम् ॥ ३२ ॥

विषादाच्च निवृत्तोसौ विरराम महामतिः ॥ ३३ ॥

इति श्रीपद्मपुराणे भूमिखण्डे देवासुरे दितिविलापोनाम षष्ठोऽध्यायः ६