००५

शिवशर्मोवाच-

विश्वास-प्रस्तुतिः

तपसा दमशौचाभ्याङ्गुरुशुश्रूषया तथा
भक्त्याभावेन तुष्टोस्मि तवाद्य चसुपुत्रक ॥ १ ॥

मूलम्

तपसा दमशौचाभ्याङ्गुरुशुश्रूषया तथा
भक्त्याभावेन तुष्टोस्मि तवाद्य चसुपुत्रक ॥ १ ॥

विश्वास-प्रस्तुतिः

त्यजामि वैकृतं रूपं मत्तः सुखमवाप्नुहि
एवमुक्वा सुतं विप्रो दर्शयामास तां तनुम् ॥ २ ॥

मूलम्

त्यजामि वैकृतं रूपं मत्तः सुखमवाप्नुहि
एवमुक्वा सुतं विप्रो दर्शयामास तां तनुम् ॥ २ ॥

विश्वास-प्रस्तुतिः

यथापूर्वं स्थितौ तौ तु तथा स दृष्टवान्गुरू
दीप्तिमन्तौ महात्मानौ सूर्यबिम्बोपमावुभौ ॥ ३ ॥

मूलम्

यथापूर्वं स्थितौ तौ तु तथा स दृष्टवान्गुरू
दीप्तिमन्तौ महात्मानौ सूर्यबिम्बोपमावुभौ ॥ ३ ॥

विश्वास-प्रस्तुतिः

ननाम पादौ सद्भक्त्या उभयोस्तु महात्मनोः
ततः सुतं समामन्त्र्य हर्षेण महतान्वितः ॥ ४ ॥

मूलम्

ननाम पादौ सद्भक्त्या उभयोस्तु महात्मनोः
ततः सुतं समामन्त्र्य हर्षेण महतान्वितः ॥ ४ ॥

विश्वास-प्रस्तुतिः

विष्णोः प्रसादाद्धर्मात्मा भार्यया सह केशवम्
जगाम निजपुण्यैश्च योगाभ्यासेन सत्तमः ॥ ५ ॥

मूलम्

विष्णोः प्रसादाद्धर्मात्मा भार्यया सह केशवम्
जगाम निजपुण्यैश्च योगाभ्यासेन सत्तमः ॥ ५ ॥

विश्वास-प्रस्तुतिः

प्रविष्टो वैष्णवं धाम स मुनिर्दुर्लभं पदम्
नत्वन्यैः प्राप्यते पुण्यैस्तपोभिर्मुक्तिदं पदम् ॥ ६ ॥

मूलम्

प्रविष्टो वैष्णवं धाम स मुनिर्दुर्लभं पदम्
नत्वन्यैः प्राप्यते पुण्यैस्तपोभिर्मुक्तिदं पदम् ॥ ६ ॥

विश्वास-प्रस्तुतिः

विष्णोस्तु चिन्तनैर्न्यासध्यानज्ञानैः स्तवैस्तथा
न दानैस्तीर्थयात्राभिर्दृश्यते मधुसूदनः ॥ ७ ॥

मूलम्

विष्णोस्तु चिन्तनैर्न्यासध्यानज्ञानैः स्तवैस्तथा
न दानैस्तीर्थयात्राभिर्दृश्यते मधुसूदनः ॥ ७ ॥

विश्वास-प्रस्तुतिः

समाधिज्ञानयोगेन दृश्यते परमं पदम्
महायोगैर्यथा विप्रः प्रविष्टो वैष्णवीं तनुम् ॥ ८ ॥

मूलम्

समाधिज्ञानयोगेन दृश्यते परमं पदम्
महायोगैर्यथा विप्रः प्रविष्टो वैष्णवीं तनुम् ॥ ८ ॥

विश्वास-प्रस्तुतिः

सूत उवाच-
ततस्तत्र तपस्तेपे सोमशर्मा महाद्युतिः
अश्मलोष्टसमं मेने काञ्चनम्भूषणं पुनः ॥ ९ ॥

मूलम्

सूत उवाच-
ततस्तत्र तपस्तेपे सोमशर्मा महाद्युतिः
अश्मलोष्टसमं मेने काञ्चनम्भूषणं पुनः ॥ ९ ॥

विश्वास-प्रस्तुतिः

जिताहारः स धर्मात्मा निद्रया परिवर्जितः
स सर्वान्विषयांस्त्यक्त्वा एकान्तमपि सेवते ॥ १० ॥

मूलम्

जिताहारः स धर्मात्मा निद्रया परिवर्जितः
स सर्वान्विषयांस्त्यक्त्वा एकान्तमपि सेवते ॥ १० ॥

विश्वास-प्रस्तुतिः

योगासनसमारूढो निराशो निःपरिग्रहः
तस्य वेला सुसम्प्राप्ता मृत्युकालस्य वै तदा ॥ ११ ॥

मूलम्

योगासनसमारूढो निराशो निःपरिग्रहः
तस्य वेला सुसम्प्राप्ता मृत्युकालस्य वै तदा ॥ ११ ॥

विश्वास-प्रस्तुतिः

आगता दानवा विप्रं सोमशर्माणमन्तिके
मृत्युकाले तु सम्प्राप्ते प्राणयात्रा प्रवर्तिनः ॥ १२ ॥

मूलम्

आगता दानवा विप्रं सोमशर्माणमन्तिके
मृत्युकाले तु सम्प्राप्ते प्राणयात्रा प्रवर्तिनः ॥ १२ ॥

विश्वास-प्रस्तुतिः

शालिग्रामे महाक्षेत्रे ऋषीणां मानवर्द्धने
केचिद्वदन्ति वै दैत्याः केचिद्वदन्ति दानवाः ॥ १३ ॥

मूलम्

शालिग्रामे महाक्षेत्रे ऋषीणां मानवर्द्धने
केचिद्वदन्ति वै दैत्याः केचिद्वदन्ति दानवाः ॥ १३ ॥

विश्वास-प्रस्तुतिः

एवंविधो महाशब्दः कर्णरन्ध्रं गतस्तदा
तस्यैव विप्रवर्यस्य सुचिरात्सोमशर्मणः ॥ १४ ॥

मूलम्

एवंविधो महाशब्दः कर्णरन्ध्रं गतस्तदा
तस्यैव विप्रवर्यस्य सुचिरात्सोमशर्मणः ॥ १४ ॥

विश्वास-प्रस्तुतिः

ज्ञानध्यानविलग्नस्य प्रविष्टं दैत्यजं भयम्
तेन ध्यानेन तस्यापि दैत्यभीत्यैव वै तदा ॥ १५ ॥

मूलम्

ज्ञानध्यानविलग्नस्य प्रविष्टं दैत्यजं भयम्
तेन ध्यानेन तस्यापि दैत्यभीत्यैव वै तदा ॥ १५ ॥

विश्वास-प्रस्तुतिः

सत्वरं चैव तत्प्राणा गतास्तस्य महात्मनः
दैत्यभयेन संयुक्तः स हि मृत्युवशं गतः ॥ १६ ॥

मूलम्

सत्वरं चैव तत्प्राणा गतास्तस्य महात्मनः
दैत्यभयेन संयुक्तः स हि मृत्युवशं गतः ॥ १६ ॥

विश्वास-प्रस्तुतिः

तस्माद्दैत्यगृहे जातो हिरण्यकशिपोः सुतः
देवासुरे महायुद्धे निहतश्चक्रपाणिना ॥ १७ ॥

मूलम्

तस्माद्दैत्यगृहे जातो हिरण्यकशिपोः सुतः
देवासुरे महायुद्धे निहतश्चक्रपाणिना ॥ १७ ॥

विश्वास-प्रस्तुतिः

युद्ध्यमानेन तेनापि प्रह्लादेन महात्मना
सुदृष्टं वासुदेवत्वं विश्वरूपसमन्वितम् ॥ १८ ॥

मूलम्

युद्ध्यमानेन तेनापि प्रह्लादेन महात्मना
सुदृष्टं वासुदेवत्वं विश्वरूपसमन्वितम् ॥ १८ ॥

विश्वास-प्रस्तुतिः

योगाभ्यासेन पूर्वेण ज्ञानमासीन्महात्मनः
सस्मार पूर्वकं सर्वं चरितं शिवशर्मणः ॥ १९ ॥

मूलम्

योगाभ्यासेन पूर्वेण ज्ञानमासीन्महात्मनः
सस्मार पूर्वकं सर्वं चरितं शिवशर्मणः ॥ १९ ॥

विश्वास-प्रस्तुतिः

प्रागहं सोमशर्माख्यः प्रविष्टो दानवीं तनुम्
अस्मात्कायात्कदा पुण्यं केवलं धाम उत्तमम् ॥ २० ॥

मूलम्

प्रागहं सोमशर्माख्यः प्रविष्टो दानवीं तनुम्
अस्मात्कायात्कदा पुण्यं केवलं धाम उत्तमम् ॥ २० ॥

विश्वास-प्रस्तुतिः

प्रयास्यामि महापुण्यैर्ज्ञानाख्यैर्मोक्षदायकम्
समरे म्रियमाणेन प्रह्लादेन महात्मना ॥ २१ ॥

मूलम्

प्रयास्यामि महापुण्यैर्ज्ञानाख्यैर्मोक्षदायकम्
समरे म्रियमाणेन प्रह्लादेन महात्मना ॥ २१ ॥

विश्वास-प्रस्तुतिः

एवं चिन्ता कृता पूर्वं श्रूयतां द्विजसत्तमाः
एवं तु च समाख्यातं सर्वसन्देहनाशनम् ॥ २२ ॥

मूलम्

एवं चिन्ता कृता पूर्वं श्रूयतां द्विजसत्तमाः
एवं तु च समाख्यातं सर्वसन्देहनाशनम् ॥ २२ ॥

विश्वास-प्रस्तुतिः

सूत उवाच-
प्रह्लादे निहते सङ्ख्ये देवदेवेन चक्रिणा
रुरुदे कमला सा तु हतपुत्रा च कामिनी ॥ २३ ॥

मूलम्

सूत उवाच-
प्रह्लादे निहते सङ्ख्ये देवदेवेन चक्रिणा
रुरुदे कमला सा तु हतपुत्रा च कामिनी ॥ २३ ॥

विश्वास-प्रस्तुतिः

प्रह्लादस्य तु या माता हिरण्यकशिपोः प्रिया
प्रह्लादस्य महाशोकैर्दिवारात्रौ प्रशोचति ॥ २४ ॥

मूलम्

प्रह्लादस्य तु या माता हिरण्यकशिपोः प्रिया
प्रह्लादस्य महाशोकैर्दिवारात्रौ प्रशोचति ॥ २४ ॥

विश्वास-प्रस्तुतिः

पतिव्रता महाभागा कमला नाम तत्प्रिया
रोदमानां दिवारात्रौ नारदस्तामुवाच ह ॥ २५ ॥

मूलम्

पतिव्रता महाभागा कमला नाम तत्प्रिया
रोदमानां दिवारात्रौ नारदस्तामुवाच ह ॥ २५ ॥

विश्वास-प्रस्तुतिः

मा शुचस्त्वं महाभागे पुत्रार्थं पुण्यभागिनि
निहतो वासुदेवेन तव पुत्रः समेष्यति ॥ २६ ॥

मूलम्

मा शुचस्त्वं महाभागे पुत्रार्थं पुण्यभागिनि
निहतो वासुदेवेन तव पुत्रः समेष्यति ॥ २६ ॥

विश्वास-प्रस्तुतिः

भूयः स्वलक्षणोपेतस्त्वत्सुतश्च महामतिः
प्रह्लादेति च वै नाम पुनरस्य भविष्यति ॥ २७ ॥

मूलम्

भूयः स्वलक्षणोपेतस्त्वत्सुतश्च महामतिः
प्रह्लादेति च वै नाम पुनरस्य भविष्यति ॥ २७ ॥

विश्वास-प्रस्तुतिः

विहीनश्चासुरैर्भावैर्देवत्वेन समन्वितः
इन्द्रत्वे मोदते भद्रे सर्वदेवैर्नमस्कृतः ॥ २८ ॥

मूलम्

विहीनश्चासुरैर्भावैर्देवत्वेन समन्वितः
इन्द्रत्वे मोदते भद्रे सर्वदेवैर्नमस्कृतः ॥ २८ ॥

विश्वास-प्रस्तुतिः

सुखीभवमहाभागेतेनपुत्रेणवैसदा
न प्रकाश्या त्वया देवि सुवार्तेयं च कस्यचित् ॥ २९ ॥

मूलम्

सुखीभवमहाभागेतेनपुत्रेणवैसदा
न प्रकाश्या त्वया देवि सुवार्तेयं च कस्यचित् ॥ २९ ॥

विश्वास-प्रस्तुतिः

कर्त्तव्यमज्ञानभावैः सुगोप्यं कुरु त्वं सदा
एवमुक्त्वा गतो विप्रो नारदो मुनिसत्तमः ॥ ३० ॥

मूलम्

कर्त्तव्यमज्ञानभावैः सुगोप्यं कुरु त्वं सदा
एवमुक्त्वा गतो विप्रो नारदो मुनिसत्तमः ॥ ३० ॥

विश्वास-प्रस्तुतिः

कमलायाश्चोदरे तु जन्मा स्यानुत्तमं पुनः
प्रह्लादेति च वै नाम तस्याख्यानं महात्मनः ॥ ३१ ॥

मूलम्

कमलायाश्चोदरे तु जन्मा स्यानुत्तमं पुनः
प्रह्लादेति च वै नाम तस्याख्यानं महात्मनः ॥ ३१ ॥

विश्वास-प्रस्तुतिः

बाल्यं भावं गतो विप्राः कृष्णमेव व्यचिन्तयत्
नरसिंहप्रसादेन देवराजो भवेद्दिवि ॥ ३२ ॥

मूलम्

बाल्यं भावं गतो विप्राः कृष्णमेव व्यचिन्तयत्
नरसिंहप्रसादेन देवराजो भवेद्दिवि ॥ ३२ ॥

विश्वास-प्रस्तुतिः

देवत्वं लभ्य चैवासावैन्द्रं पदमनुत्तमम्
मोक्षं यास्यति ज्ञानात्मा वैष्णवं धाम चोत्तमम् ॥ ३३ ॥

मूलम्

देवत्वं लभ्य चैवासावैन्द्रं पदमनुत्तमम्
मोक्षं यास्यति ज्ञानात्मा वैष्णवं धाम चोत्तमम् ॥ ३३ ॥

विश्वास-प्रस्तुतिः

असङ्ख्याता महाभागाः सृष्टेर्भावा ह्यनेकशः
मोह एवं न कर्त्तव्यो ज्ञानवद्भिर्महात्मभिः ॥ ३४ ॥

मूलम्

असङ्ख्याता महाभागाः सृष्टेर्भावा ह्यनेकशः
मोह एवं न कर्त्तव्यो ज्ञानवद्भिर्महात्मभिः ॥ ३४ ॥

विश्वास-प्रस्तुतिः

एतद्वः सर्वमाख्यातं यथापृष्टं द्विजोत्तमाः
अन्यं पृच्छ महाभाग सन्देहं ते भिनद्म्यहम् ॥ ३५ ॥

मूलम्

एतद्वः सर्वमाख्यातं यथापृष्टं द्विजोत्तमाः
अन्यं पृच्छ महाभाग सन्देहं ते भिनद्म्यहम् ॥ ३५ ॥

विश्वास-प्रस्तुतिः

विजयं देवतानां तु दानवानां महत्क्षयम्
कृतं हि देवदेवेन स्थापितं भुवनत्रयम् ॥ ३६ ॥

मूलम्

विजयं देवतानां तु दानवानां महत्क्षयम्
कृतं हि देवदेवेन स्थापितं भुवनत्रयम् ॥ ३६ ॥

विश्वास-प्रस्तुतिः

ऋषय ऊचुः-
इन्द्रत्वं कस्य सञ्जातं देवानां शब्दधारकम्
केन दत्तं त्वमाचक्ष्व विस्तराद्द्विजसत्तम ॥ ३७ ॥

मूलम्

ऋषय ऊचुः-
इन्द्रत्वं कस्य सञ्जातं देवानां शब्दधारकम्
केन दत्तं त्वमाचक्ष्व विस्तराद्द्विजसत्तम ॥ ३७ ॥

विश्वास-प्रस्तुतिः

सूत उवाच-
विस्तरेण प्रवक्ष्यामि इन्द्रत्वे येन सत्तमः
प्राप्त एष महाभागो यथा पुण्यतमेन च ॥ ३८ ॥

मूलम्

सूत उवाच-
विस्तरेण प्रवक्ष्यामि इन्द्रत्वे येन सत्तमः
प्राप्त एष महाभागो यथा पुण्यतमेन च ॥ ३८ ॥

विश्वास-प्रस्तुतिः

हतेषु तेषु दैत्येषु समस्तेषुमहाहवे
अतिनष्टेषु पापेषु गोविन्देन महात्मना ॥ ३९ ॥

मूलम्

हतेषु तेषु दैत्येषु समस्तेषुमहाहवे
अतिनष्टेषु पापेषु गोविन्देन महात्मना ॥ ३९ ॥

विश्वास-प्रस्तुतिः

ततो देवाः सगन्धर्वा नागा विद्याधरास्तथा
सम्प्रोचुर्माधवं सर्वे बद्धप्राञ्जलयस्ततः ॥ ४० ॥

मूलम्

ततो देवाः सगन्धर्वा नागा विद्याधरास्तथा
सम्प्रोचुर्माधवं सर्वे बद्धप्राञ्जलयस्ततः ॥ ४० ॥

विश्वास-प्रस्तुतिः

भगवन्देवदेवेश हृषीकेश नमोस्तु ते
विज्ञापयामहे त्वां वै तत्सर्वमवधार्यताम् ॥ ४१ ॥

मूलम्

भगवन्देवदेवेश हृषीकेश नमोस्तु ते
विज्ञापयामहे त्वां वै तत्सर्वमवधार्यताम् ॥ ४१ ॥

विश्वास-प्रस्तुतिः

शास्ता गोप्ता च पुण्यात्मा अस्माकं कुरु केशव
राजानं पुण्यधर्माणं त्वमिन्द्रं लोकशासनम् ॥ ४२ ॥

मूलम्

शास्ता गोप्ता च पुण्यात्मा अस्माकं कुरु केशव
राजानं पुण्यधर्माणं त्वमिन्द्रं लोकशासनम् ॥ ४२ ॥

विश्वास-प्रस्तुतिः

त्रैलोक्यस्य प्रजा देव यमाश्रित्य सुखं लभेत्
वासुदेव उवाच-
मम लोके महाभागा वैष्णवेन समन्वितः ॥ ४३ ॥

मूलम्

त्रैलोक्यस्य प्रजा देव यमाश्रित्य सुखं लभेत्
वासुदेव उवाच-
मम लोके महाभागा वैष्णवेन समन्वितः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

तेजसा ब्राह्मणश्रेष्ठश्चिरकालं निवासितः
तस्य कालः प्रपूर्णश्च मम लोके महात्मनः ॥ ४४ ॥

मूलम्

तेजसा ब्राह्मणश्रेष्ठश्चिरकालं निवासितः
तस्य कालः प्रपूर्णश्च मम लोके महात्मनः ॥ ४४ ॥

विश्वास-प्रस्तुतिः

वसतस्तस्य विप्रस्य मद्भक्तस्य सुरोत्तमाः
तेजसा वैष्णवेनैव भवतां पालको हि सः ॥ ४५ ॥

मूलम्

वसतस्तस्य विप्रस्य मद्भक्तस्य सुरोत्तमाः
तेजसा वैष्णवेनैव भवतां पालको हि सः ॥ ४५ ॥

विश्वास-प्रस्तुतिः

भविष्यति स धर्मात्मा स च धर्मानुरञ्जकः
पालको धारकश्चैव स च ब्राह्मणसत्तमः ॥ ४६ ॥

मूलम्

भविष्यति स धर्मात्मा स च धर्मानुरञ्जकः
पालको धारकश्चैव स च ब्राह्मणसत्तमः ॥ ४६ ॥

विश्वास-प्रस्तुतिः

भविष्यति स धर्मात्मा भवतां त्राणकारणात्
अदित्यास्तनयश्चैव सुव्रताख्यो महामनाः ॥ ४७ ॥

मूलम्

भविष्यति स धर्मात्मा भवतां त्राणकारणात्
अदित्यास्तनयश्चैव सुव्रताख्यो महामनाः ॥ ४७ ॥

विश्वास-प्रस्तुतिः

महाबलो महावीर्यः स व इन्द्रो भविष्यति
सूत उवाच-
एवं वरान्स देवेशो दत्वा देवेभ्य उत्तमम् ॥ ४८ ॥

मूलम्

महाबलो महावीर्यः स व इन्द्रो भविष्यति
सूत उवाच-
एवं वरान्स देवेशो दत्वा देवेभ्य उत्तमम् ॥ ४८ ॥

विश्वास-प्रस्तुतिः

देवा विजयिनः सर्वे विष्णुना सह सत्तमाः
कश्यपं पितरं दृष्टुं मातरं च ततो गताः ॥ ४९ ॥

मूलम्

देवा विजयिनः सर्वे विष्णुना सह सत्तमाः
कश्यपं पितरं दृष्टुं मातरं च ततो गताः ॥ ४९ ॥

विश्वास-प्रस्तुतिः

प्रणेमुस्ते महात्मान उभावेतौ सुखासनौ
ऊचुः प्राञ्जलयः सर्वे हर्षेण महतान्विताः ॥ ५० ॥

मूलम्

प्रणेमुस्ते महात्मान उभावेतौ सुखासनौ
ऊचुः प्राञ्जलयः सर्वे हर्षेण महतान्विताः ॥ ५० ॥

विश्वास-प्रस्तुतिः

युवयोश्च प्रसादेन देवत्वं हि गता वयम्
हर्षेण महताविष्टो देवान्वाक्यमुवाच सः ॥ ५१ ॥

मूलम्

युवयोश्च प्रसादेन देवत्वं हि गता वयम्
हर्षेण महताविष्टो देवान्वाक्यमुवाच सः ॥ ५१ ॥

विश्वास-प्रस्तुतिः

कश्यप उवाच-
यूयं वै सत्यधर्मेण वर्तमानाः सदैव हि
आवयोश्च प्रसादेन तपसश्च प्रभावतः ॥ ५२ ॥

मूलम्

कश्यप उवाच-
यूयं वै सत्यधर्मेण वर्तमानाः सदैव हि
आवयोश्च प्रसादेन तपसश्च प्रभावतः ॥ ५२ ॥

विश्वास-प्रस्तुतिः

प्राप्तवन्तो भवन्तस्तु देवत्वं चाक्षयं पदम्
वरमेव ददाम्येषां बहुप्रीतिसमन्विताः ॥ ५३ ॥

मूलम्

प्राप्तवन्तो भवन्तस्तु देवत्वं चाक्षयं पदम्
वरमेव ददाम्येषां बहुप्रीतिसमन्विताः ॥ ५३ ॥

विश्वास-प्रस्तुतिः

अमरा निर्जराश्चैव अक्षयाश्च भविष्यथ
सर्वकामसमृद्धार्थाः सर्वसिद्धिसमन्विताः ॥ ५४ ॥

मूलम्

अमरा निर्जराश्चैव अक्षयाश्च भविष्यथ
सर्वकामसमृद्धार्थाः सर्वसिद्धिसमन्विताः ॥ ५४ ॥

विश्वास-प्रस्तुतिः

देवा नागाश्च गन्धर्वा मत्प्रसादान्महासुराः
विष्णुरुवाच-
वरं वरय भद्रं ते देवमातर्यशस्विनि ॥ ५५ ॥

मूलम्

देवा नागाश्च गन्धर्वा मत्प्रसादान्महासुराः
विष्णुरुवाच-
वरं वरय भद्रं ते देवमातर्यशस्विनि ॥ ५५ ॥

विश्वास-प्रस्तुतिः

मनसा चेप्सितं सर्वं तत्ते दद्मि सुनिश्चितम्
अदितिरुवाच-
पूर्वं पुत्रवती भूता प्रसादात्तव माधव ॥ ५६ ॥

मूलम्

मनसा चेप्सितं सर्वं तत्ते दद्मि सुनिश्चितम्
अदितिरुवाच-
पूर्वं पुत्रवती भूता प्रसादात्तव माधव ॥ ५६ ॥

विश्वास-प्रस्तुतिः

अमरा निर्जराः सर्वे अक्षयाः पुण्यवत्सलाः
अमी पुत्रा मया लब्धाः श्रूयतां मधुसूदन ॥ ५७ ॥

मूलम्

अमरा निर्जराः सर्वे अक्षयाः पुण्यवत्सलाः
अमी पुत्रा मया लब्धाः श्रूयतां मधुसूदन ॥ ५७ ॥

विश्वास-प्रस्तुतिः

सुतरां त्वं च गोविन्द सर्वकामसमृद्धिदः
मम गर्भे वसंश्चैव भवांश्च मम नन्दनः ॥ ५८ ॥

मूलम्

सुतरां त्वं च गोविन्द सर्वकामसमृद्धिदः
मम गर्भे वसंश्चैव भवांश्च मम नन्दनः ॥ ५८ ॥

विश्वास-प्रस्तुतिः

त्वया पुत्रेण नित्यं च यथा नन्दामि केशव
एवं महोदयं नाथ पूरयस्व मनोरथम् ॥ ५९ ॥

मूलम्

त्वया पुत्रेण नित्यं च यथा नन्दामि केशव
एवं महोदयं नाथ पूरयस्व मनोरथम् ॥ ५९ ॥

विश्वास-प्रस्तुतिः

वासुदेव उवाच-
भवत्या देवकार्यार्थं गन्तव्यं मानुषीं तनुम्
तदाहं तव गर्भे वै वासं यास्यामि निश्चितम् ॥ ६० ॥

मूलम्

वासुदेव उवाच-
भवत्या देवकार्यार्थं गन्तव्यं मानुषीं तनुम्
तदाहं तव गर्भे वै वासं यास्यामि निश्चितम् ॥ ६० ॥

विश्वास-प्रस्तुतिः

युगे द्वादशके प्राप्ते भूभारहरणाय वै
जमदग्निसुतो देवि रामो नाम द्विजोत्तमः ॥ ६१ ॥

मूलम्

युगे द्वादशके प्राप्ते भूभारहरणाय वै
जमदग्निसुतो देवि रामो नाम द्विजोत्तमः ॥ ६१ ॥

विश्वास-प्रस्तुतिः

प्रतापतेजसायुक्तः सर्वक्षत्रवधाय च
तव पुत्रो भविष्यामि सर्वशस्त्रभृतां वरः ॥ ६२ ॥

मूलम्

प्रतापतेजसायुक्तः सर्वक्षत्रवधाय च
तव पुत्रो भविष्यामि सर्वशस्त्रभृतां वरः ॥ ६२ ॥

विश्वास-प्रस्तुतिः

सप्तविंशतिके प्राप्ते त्रेताख्ये तु तथा युगे
रामो नाम भविष्यामि तव पुत्रः पतिव्रते ॥ ६३ ॥

मूलम्

सप्तविंशतिके प्राप्ते त्रेताख्ये तु तथा युगे
रामो नाम भविष्यामि तव पुत्रः पतिव्रते ॥ ६३ ॥

विश्वास-प्रस्तुतिः

पुनः पुत्रो भविष्यामि तवैव शृणु पुण्यधेः
अष्टाविंशतिके प्राप्ते द्वापरान्ते युगे तदा ॥ ६४ ॥

मूलम्

पुनः पुत्रो भविष्यामि तवैव शृणु पुण्यधेः
अष्टाविंशतिके प्राप्ते द्वापरान्ते युगे तदा ॥ ६४ ॥

विश्वास-प्रस्तुतिः

सर्वदैत्यविनाशार्थे भूभारहरणाय च
वासुदेवाख्यस्ते पुत्रो भविष्यामि न संशयः ॥ ६५ ॥

मूलम्

सर्वदैत्यविनाशार्थे भूभारहरणाय च
वासुदेवाख्यस्ते पुत्रो भविष्यामि न संशयः ॥ ६५ ॥

विश्वास-प्रस्तुतिः

इदानीं कुरु कल्याणि मद्वाक्यं धर्मसंयुतम्
सर्वलक्षणसम्पन्नं सत्यधर्मसमन्वितम् ॥ ६६ ॥

मूलम्

इदानीं कुरु कल्याणि मद्वाक्यं धर्मसंयुतम्
सर्वलक्षणसम्पन्नं सत्यधर्मसमन्वितम् ॥ ६६ ॥

विश्वास-प्रस्तुतिः

सर्वज्ञं सर्वदे देवि पुत्रमुत्पाद्य सुन्दरम्
इन्द्रत्वं तस्य दास्यामि इन्द्रः सोपि भविष्यति ॥ ६७ ॥

मूलम्

सर्वज्ञं सर्वदे देवि पुत्रमुत्पाद्य सुन्दरम्
इन्द्रत्वं तस्य दास्यामि इन्द्रः सोपि भविष्यति ॥ ६७ ॥

विश्वास-प्रस्तुतिः

एवं सम्भाषितं श्रुत्वा महाहर्षसमन्विता
देवदेवप्रसादेन इन्द्रः पुत्रो भविष्यति ॥ ६८ ॥

मूलम्

एवं सम्भाषितं श्रुत्वा महाहर्षसमन्विता
देवदेवप्रसादेन इन्द्रः पुत्रो भविष्यति ॥ ६८ ॥

विश्वास-प्रस्तुतिः

एवमस्तु महाभाग तव वाक्यं करोम्यहम्
ततस्ता देवताः सर्वा जग्मुः स्वस्थानमेव हि ॥ ६९ ॥

मूलम्

एवमस्तु महाभाग तव वाक्यं करोम्यहम्
ततस्ता देवताः सर्वा जग्मुः स्वस्थानमेव हि ॥ ६९ ॥

विश्वास-प्रस्तुतिः

हरिणा सह ते सर्वे निरातङ्का मुदान्विताः
सूत उवाच-
अदितिः कश्यपं प्राह ऋतुं प्राप्य मनस्विनी ॥ ७० ॥

मूलम्

हरिणा सह ते सर्वे निरातङ्का मुदान्विताः
सूत उवाच-
अदितिः कश्यपं प्राह ऋतुं प्राप्य मनस्विनी ॥ ७० ॥

विश्वास-प्रस्तुतिः

भगवन्दीयतां पुत्रः सुरेन्द्रपदभोजकः
चिन्तयित्वा क्षणं विप्रस्तामुवाच मनस्विनीम् ॥ ७१ ॥

मूलम्

भगवन्दीयतां पुत्रः सुरेन्द्रपदभोजकः
चिन्तयित्वा क्षणं विप्रस्तामुवाच मनस्विनीम् ॥ ७१ ॥

विश्वास-प्रस्तुतिः

एवमस्तु महाभागे तव पुत्रो भविष्यति
त्रैलोक्यस्यापि कर्ता स यज्ञभोक्ता स एव च ॥ ७२ ॥

मूलम्

एवमस्तु महाभागे तव पुत्रो भविष्यति
त्रैलोक्यस्यापि कर्ता स यज्ञभोक्ता स एव च ॥ ७२ ॥

विश्वास-प्रस्तुतिः

तस्याः शिरसि सन्यस्य स्वहस्तं च द्विजोत्तमः
तपश्चचार तेजस्वी सत्यधर्मसमन्वितः ॥ ७३ ॥

मूलम्

तस्याः शिरसि सन्यस्य स्वहस्तं च द्विजोत्तमः
तपश्चचार तेजस्वी सत्यधर्मसमन्वितः ॥ ७३ ॥

विश्वास-प्रस्तुतिः

सुव्रतो नाम तेजस्वी विष्णुलोके वसेत्सदा
तस्य पुण्यक्षये जाते विष्णुलोकाद्द्विजोत्तमाः ॥ ७४ ॥

मूलम्

सुव्रतो नाम तेजस्वी विष्णुलोके वसेत्सदा
तस्य पुण्यक्षये जाते विष्णुलोकाद्द्विजोत्तमाः ॥ ७४ ॥

विश्वास-प्रस्तुतिः

पतनं कर्मवशतस्ततस्तस्य द्विजोत्तमाः
पुण्यगर्भं गतो विप्र अदित्यास्तु महातपाः ॥ ७५ ॥

मूलम्

पतनं कर्मवशतस्ततस्तस्य द्विजोत्तमाः
पुण्यगर्भं गतो विप्र अदित्यास्तु महातपाः ॥ ७५ ॥

विश्वास-प्रस्तुतिः

इन्द्रत्वं भोक्तुकामार्थं सत्यपुण्येन कर्मणा
गर्भं दधार सा देवी पुण्येन तपसा किल ॥ ७६ ॥

मूलम्

इन्द्रत्वं भोक्तुकामार्थं सत्यपुण्येन कर्मणा
गर्भं दधार सा देवी पुण्येन तपसा किल ॥ ७६ ॥

विश्वास-प्रस्तुतिः

तपस्तेपे निरालस्या वनवासं गता सती
दिव्यं वर्षशतं यातं तपन्त्यां देवमातरि ॥ ७७ ॥

मूलम्

तपस्तेपे निरालस्या वनवासं गता सती
दिव्यं वर्षशतं यातं तपन्त्यां देवमातरि ॥ ७७ ॥

विश्वास-प्रस्तुतिः

तपन्त्यथ तपस्तीव्रं दुष्करं देवतासुरैः
ततः सा तपसा तेन तेजसा च प्रभान्विता ॥ ७८ ॥

मूलम्

तपन्त्यथ तपस्तीव्रं दुष्करं देवतासुरैः
ततः सा तपसा तेन तेजसा च प्रभान्विता ॥ ७८ ॥

विश्वास-प्रस्तुतिः

सूर्यतेजः प्रतीकाशा द्वितीय इव भास्करः
शुशुभे सा यथा दीप्ता परमं ध्यानमास्थिता ॥ ७९ ॥

मूलम्

सूर्यतेजः प्रतीकाशा द्वितीय इव भास्करः
शुशुभे सा यथा दीप्ता परमं ध्यानमास्थिता ॥ ७९ ॥

विश्वास-प्रस्तुतिः

रूपेणाधिकतां याता तपसस्तेजसा तदा
तपोध्यानपरा सा च वायुभक्षा तपस्विनी ॥ ८० ॥

मूलम्

रूपेणाधिकतां याता तपसस्तेजसा तदा
तपोध्यानपरा सा च वायुभक्षा तपस्विनी ॥ ८० ॥

विश्वास-प्रस्तुतिः

अधिकं शुशुभे देवी दक्षस्य तनया तदा
सिद्धाश्च ऋषयः सर्वे देवाश्चापि महौजसः ॥ ८१ ॥

मूलम्

अधिकं शुशुभे देवी दक्षस्य तनया तदा
सिद्धाश्च ऋषयः सर्वे देवाश्चापि महौजसः ॥ ८१ ॥

विश्वास-प्रस्तुतिः

स्तुवन्ति तां महाभागां रक्षन्ति च सुतत्पराः
पूर्णे वर्षशते तस्या विष्णुस्तत्र समागतः ॥ ८२ ॥

मूलम्

स्तुवन्ति तां महाभागां रक्षन्ति च सुतत्पराः
पूर्णे वर्षशते तस्या विष्णुस्तत्र समागतः ॥ ८२ ॥

विश्वास-प्रस्तुतिः

तामुवाच महाभागामदितिं तपसान्विताम्
देवि गर्भः सुसम्पूर्णः सूतिकालः प्रवर्तते ॥ ८३ ॥

मूलम्

तामुवाच महाभागामदितिं तपसान्विताम्
देवि गर्भः सुसम्पूर्णः सूतिकालः प्रवर्तते ॥ ८३ ॥

विश्वास-प्रस्तुतिः

तवैव तपसा पुष्टस्तेजसा च प्रवर्द्धितः
अद्यैव गर्भमेतं त्वं मुञ्च मुञ्च यशस्विनि ॥ ८४ ॥

मूलम्

तवैव तपसा पुष्टस्तेजसा च प्रवर्द्धितः
अद्यैव गर्भमेतं त्वं मुञ्च मुञ्च यशस्विनि ॥ ८४ ॥

विश्वास-प्रस्तुतिः

एवमाभाष्य देवेशः स जगाम स्वकं गृहम्
असूत पुत्रं सा देवी काले प्राप्ते महोदये ॥ ८५ ॥

मूलम्

एवमाभाष्य देवेशः स जगाम स्वकं गृहम्
असूत पुत्रं सा देवी काले प्राप्ते महोदये ॥ ८५ ॥

विश्वास-प्रस्तुतिः

सा पुत्रं दीप्तिसंयुक्तं द्वितीयमिव भास्करम्
सुभगं चारुसर्वाङ्गं सर्वलक्षणसंयुतम् ॥ ८६ ॥

मूलम्

सा पुत्रं दीप्तिसंयुक्तं द्वितीयमिव भास्करम्
सुभगं चारुसर्वाङ्गं सर्वलक्षणसंयुतम् ॥ ८६ ॥

विश्वास-प्रस्तुतिः

चतुर्बाहुं महाकायं लोकपालं सुरेश्वरम्
तेजोज्वालासमाकीर्णं चक्रपद्मसुहस्तकम् ॥ ८७ ॥

मूलम्

चतुर्बाहुं महाकायं लोकपालं सुरेश्वरम्
तेजोज्वालासमाकीर्णं चक्रपद्मसुहस्तकम् ॥ ८७ ॥

विश्वास-प्रस्तुतिः

चन्द्रबिम्बानुकारेण वदनेन महामतिः
राजमानं महाप्राज्ञं तेजसा वैष्णवेन च ॥ ८८ ॥

मूलम्

चन्द्रबिम्बानुकारेण वदनेन महामतिः
राजमानं महाप्राज्ञं तेजसा वैष्णवेन च ॥ ८८ ॥

विश्वास-प्रस्तुतिः

अन्यैश्च लक्षणैर्दिव्यैर्दिव्यभावैरलङ्कृतम्
सर्वलक्षणसम्पूर्णं चन्द्रास्यं कमलेक्षणम् ॥ ८९ ॥

मूलम्

अन्यैश्च लक्षणैर्दिव्यैर्दिव्यभावैरलङ्कृतम्
सर्वलक्षणसम्पूर्णं चन्द्रास्यं कमलेक्षणम् ॥ ८९ ॥

विश्वास-प्रस्तुतिः

आजग्मुस्ते त्रयो देवा ऋषयो वेदपारगाः
गन्धर्वाश्च ततो नागाः सिद्धाविद्याधरास्तथा ॥ ९० ॥

मूलम्

आजग्मुस्ते त्रयो देवा ऋषयो वेदपारगाः
गन्धर्वाश्च ततो नागाः सिद्धाविद्याधरास्तथा ॥ ९० ॥

विश्वास-प्रस्तुतिः

ऋषयः सप्त ते दिव्याः पूर्वापरमहौजसः
अन्ये च मुनयः पुण्याः पुण्यमङ्गलदायिनः ॥ ९१ ॥

मूलम्

ऋषयः सप्त ते दिव्याः पूर्वापरमहौजसः
अन्ये च मुनयः पुण्याः पुण्यमङ्गलदायिनः ॥ ९१ ॥

विश्वास-प्रस्तुतिः

आजग्मुस्ते महात्मानो हर्षनिर्भरमानसाः
तस्मिञ्जाते महाभागे भगवन्तो महौजसि ॥ ९२ ॥

मूलम्

आजग्मुस्ते महात्मानो हर्षनिर्भरमानसाः
तस्मिञ्जाते महाभागे भगवन्तो महौजसि ॥ ९२ ॥

विश्वास-प्रस्तुतिः

आजग्मुर्देवताः सर्वे पर्वतास्तु तपस्विनः
क्षीराद्याः सागराः सर्वे नद्यश्चैव तथामलाः ॥ ९३ ॥

मूलम्

आजग्मुर्देवताः सर्वे पर्वतास्तु तपस्विनः
क्षीराद्याः सागराः सर्वे नद्यश्चैव तथामलाः ॥ ९३ ॥

विश्वास-प्रस्तुतिः

प्रीतिमन्तस्ततः सर्वे ये चान्ये हि चराचराः
मङ्गलैस्तु महोत्साहं चक्रुः सर्वे सुरेश्वराः ॥ ९४ ॥

मूलम्

प्रीतिमन्तस्ततः सर्वे ये चान्ये हि चराचराः
मङ्गलैस्तु महोत्साहं चक्रुः सर्वे सुरेश्वराः ॥ ९४ ॥

विश्वास-प्रस्तुतिः

ननृतुश्चाप्सराः सङ्घा गन्धर्वा ललितं जगुः
वेदमन्त्रैस्ततो देवा ब्राह्मणा वेदपारगाः ॥ ९५ ॥

मूलम्

ननृतुश्चाप्सराः सङ्घा गन्धर्वा ललितं जगुः
वेदमन्त्रैस्ततो देवा ब्राह्मणा वेदपारगाः ॥ ९५ ॥

विश्वास-प्रस्तुतिः

स्तुवन्ति तं महात्मानं सुतं वै कश्यपस्य च
ब्रह्मा विष्णुश्च रुद्रश्च वेदाश्चैव समागताः ॥ ९६ ॥

मूलम्

स्तुवन्ति तं महात्मानं सुतं वै कश्यपस्य च
ब्रह्मा विष्णुश्च रुद्रश्च वेदाश्चैव समागताः ॥ ९६ ॥

विश्वास-प्रस्तुतिः

साङ्गोपाङ्गैश्च संयुक्तास्तस्मिञ्जाते महौजसि
त्रैलोक्ये यानि सत्वानि पुण्ययुक्तानि सत्तम ॥ ९७ ॥

मूलम्

साङ्गोपाङ्गैश्च संयुक्तास्तस्मिञ्जाते महौजसि
त्रैलोक्ये यानि सत्वानि पुण्ययुक्तानि सत्तम ॥ ९७ ॥

विश्वास-प्रस्तुतिः

समागतानि तत्रैव तस्मिञ्जाते महौजसि
मङ्गलं चक्रिरे सर्वे गीतपुण्यैर्महोत्सवैः ॥ ९८ ॥

मूलम्

समागतानि तत्रैव तस्मिञ्जाते महौजसि
मङ्गलं चक्रिरे सर्वे गीतपुण्यैर्महोत्सवैः ॥ ९८ ॥

विश्वास-प्रस्तुतिः

हर्षेण निर्भराः सर्वे पूजयन्तो महौजसः
ब्रह्माद्याश्च त्रयो देवाः कश्यपोथ बृहस्पतिः ॥ ९९ ॥

मूलम्

हर्षेण निर्भराः सर्वे पूजयन्तो महौजसः
ब्रह्माद्याश्च त्रयो देवाः कश्यपोथ बृहस्पतिः ॥ ९९ ॥

चक्रिरे नामकर्माणि तस्यैव हि महात्मनः
वसुदत्तेति विख्यातो वसुदेति पुनस्तव १००
आखण्डलेति तन्नाम मरुत्वान्नाम ते पुनः
मघवांश्च बिडौजास्त्वं पाकशासन इत्यपि १०१
शक्रश्चैव हि विख्यात इन्द्रश्चैवेति ते सुतः
इत्येतानि च नामानि तस्यैव च महात्मनः १०२
चक्रुश्च देवताः सर्वाः सन्तुष्टा हृष्टमानसाः
स्नानं तु कारयामासुः संस्काराणि महासुरः १०३
विश्वकर्माणमाहूय ददुराभरणानि च
तानि पुण्यानि दिव्यानि तस्मै ते तु महात्मने १०४
जाते तस्मिन्महाभागे देवराजे महात्मनि
एवं मुदं ततः प्रापुः सर्वे देवा महौजसः १०५
पुण्ये तिथौ तथा ऋक्षे सुमुहूर्ते महात्मभिः
इन्द्रत्वे स्थापितो देवैरभिषिक्तः सुमङ्गलैः १०६
प्राप्तमैन्द्रपदं तेन प्रसादात्तस्य चक्रिणः
तपश्चकार तेजस्वी वसुदत्तः सुरेश्वरः १०७
उग्रेण तेजसा युक्तो वज्रपाशाङ्कुशायुधः १०८
सूत उवाच-
उग्रं समस्तं तपसः प्रभावं विलोक्य शुक्रो निजगाद गाथाम्
लोकेषु कोन्यो न भविष्यतीति यथा हि चायं च सुदर्शनीयः १०९
विष्णोः प्रसादान्न परो महात्मा सम्प्राप्तमैश्वर्यमिहैव दिव्यम् ११०
अनेन तुल्यो न भविष्यतीति लोकेषु चान्यस्तपसोग्रवीर्यः १११
इति श्रीपद्मपुराणे भूमिखण्डे देवासुरे इन्द्राभिषेकोनाम पञ्चमोऽध्यायः ५