००४

सूत उवाच-

विश्वास-प्रस्तुतिः

गतेषु तेषु गोलोकं वैष्णवं तमसः परम्
शिवशर्मा महाप्राज्ञः कनिष्ठं वाक्यमब्रवीत् ॥ १ ॥

मूलम्

ब्राह्मण उवाच-
सोमशर्मन्महाप्राज्ञ त्वं पितुर्भक्तितत्परः
अमृतस्य महाकुम्भं रक्ष दत्तं मयाधुना ॥ २ ॥

तीर्थयात्रां प्रयास्यामि अनया भार्यया सह
एवमस्तु महाभाग करिष्ये रक्षणं शुभम् ॥ ३ ॥

कुम्भं दत्वा स मेधावी तस्य हस्ते महात्मनः
दशवर्षप्रमाणं तु तपस्तेपे निरन्तरम् ॥ ४ ॥

कुम्भं रक्षति धर्मात्मा दिवारात्रमतन्द्रितः
पुनः स हि समायातः शिवशर्मा महायशाः ॥ ५ ॥

मायां कृत्वा महाप्राज्ञो भार्यया सह तं सुतम्
कुष्ठरोगातुरो भूत्वा तस्य भार्या च तादृशी ॥ ६ ॥

मांसपिण्डोपमौ जातौ द्वावेतौ मायया कृतौ
सन्निधिं तस्य घोरस्य विप्रस्य सोमशर्मणः ॥ ७ ॥

समागतौ हि तौ दृष्ट्वा सर्वतो हि सुदुःखितौ
कृपया परयाविष्टः सोमशर्मा महायशाः ॥ ८ ॥

तयोः पादं नमस्कृत्य भक्त्या नमितकन्धरः
भवादृशौ न पश्यामि तपसाभिसमन्वितम् ॥ ९ ॥

मूलम्

तयोः पादं नमस्कृत्य भक्त्या नमितकन्धरः
भवादृशौ न पश्यामि तपसाभिसमन्वितम् ॥ ९ ॥

विश्वास-प्रस्तुतिः

गुणव्रातैः सुपुण्यैश्च किमिदं वर्तितं त्वयि
दासवद्देवताः सर्वा वर्तन्ते सर्वदा तव ॥ १० ॥

आदेशं प्राप्य विप्रेन्द्र आकृष्टास्तेजसा तव
तवाङ्गे केन पापेन गदोयं वेदनान्वितः ॥ ११ ॥

सञ्जातो ब्राह्मणश्रेष्ठ तन्मे कथय कारणम्
इयं पुण्यवती माता महापुण्या पतिव्रता ॥ १२ ॥

या हि भर्तृप्रसादेन त्रैलोक्यं कर्तुमिच्छति
सा कथं दुःखमाप्नोति किं नास्ति तपसः फलम् ॥ १३ ॥

रागद्वेषौ परित्यज्य विविधेनापि कर्मणा
या च शुश्रूषते कान्तं देववद्गुरुवत्सला ॥ १४ ॥

सा कथं दुःखमाप्नोति कुष्ठरोगं सुदुःखदम्
शिवशर्मोवाच-
मा शुचस्त्वं महाभाग भुज्यते कर्मजं फलम् ॥ १५ ॥

नरेण कर्मयुक्तेन पापपुण्यमयेन हि
शोधनं च कुरुष्व त्वमुभयो रोगयुक्तयोः ॥ १६ ॥

शुश्रूषणं महाभाग यदि पुण्यमिहेच्छसि
एवमुक्ते शुभे वाक्ये सोमशर्मा महायशाः ॥ १७ ॥

शुश्रूषां वा करिष्यामि युवयोः पुण्ययुक्तयोः
मया पापेन दुष्टेन कृपणेन द्विजोत्तम ॥ १८ ॥

किं कर्तव्यमिहाद्यैव यो गुरुं न हि पूजयेत्
एवमाभाष्य दुःखाद्वा तयोर्दुःखेन दुःखितः ॥ १९ ॥

श्लेष्ममूत्रपुरीषं च उभयोः पर्यशोधयत्
पादप्रक्षालनं चक्रे अङ्गसंवाहनं तथा ॥ २० ॥

स्नानस्थानादिकं सोपि तयोर्भक्त्यान्वितः स्वयम्
द्वावेतौ हि गुरू विप्रः सोमशर्मा महायशाः ॥ २१ ॥

तीर्थं नयति धर्मात्मा स्कन्धमारोप्य सत्तमः
द्वावेतौ हि स्वहस्तेन स्नापयित्वा तु मङ्गलैः ॥ २२ ॥

सुमन्त्रैर्वेदविच्चैव स्नानस्य विधिपूर्वकम्
तर्पणं च पितॄणां तु देवतानां तु पूजनम् ॥ २३ ॥

द्वाभ्यामपि स धर्मात्मा स कारयति नित्यशः
स्वयं होमं ददात्यग्नौ पचत्यन्नमनुत्तमम् ॥ २४ ॥

सञ्ज्ञापयति सुप्रीतौ द्वावेतौ च महागुरू
शय्यासने च तौ विप्रः प्रस्वापयति नित्यशः ॥ २५ ॥

वस्त्रपुष्पादिकं सर्वं ताभ्यां नित्यं प्रयच्छति
ताम्बूलं बहुगन्धाढ्यमुभयोरर्पयेत्स तु ॥ २६ ॥

सोमशर्मा महाभागस्ताभ्यामपि च पूरयेत्
मूलं पयः सुभक्ष्याद्यं नित्यमेव ददात्यसौ ॥ २७ ॥

तयोस्तु वाञ्छितं नित्यं सोमशर्मा महायशाः
अनेन क्रमयोगेन नित्यमेव प्रसादयेत् ॥ २८ ॥

सोमशर्मा सुधर्मात्मा पितरौ परिपूजयेत्
सोमशर्माणमाहूय पिता कुत्सति निष्ठुरः ॥ २९ ॥

निन्दितैर्निष्ठुरैर्वाक्यैस्ताडयेन्मुनिसन्निधौ
कृतकार्ये कृते पुण्ये नित्यमेव सुते पुनः ॥ ३० ॥

न कृतं शोभनं मह्यं त्वयैव कुलपांसन
एवं नानाविधैर्वाक्यैर्निष्ठुरैर्दुःखदायकैः ॥ ३१ ॥

अताडयद्दण्डघातैः शिवशर्मा सदातुरः
एवं कृतेपि धर्मात्मा नैव कुप्यति कर्हिचित् ॥ ३२ ॥

मनसा वचसा चैव कर्मणा त्रिविधेन च
सन्तुष्टः सर्वदा सोपि पितरं परिपूजयेत् ॥ ३३ ॥

तद्वत्स सोमशर्मा वै मातरं च दिनेदिने
यज्ज्ञात्वा शिवशर्मा च चरितं स्वीयमीक्षते ॥ ३४ ॥

अमृतं मत्कृते चापि आनीतं विष्णुशर्मणा
पुण्ययुक्तः स धर्मात्मा पितृभक्तिपरः सदा ॥ ३५ ॥

एवं बहुतिथे काले शतसङ्ख्ये गते सति
शिवशर्मा पितस्यैव भक्तिं दृष्ट्वा विचिन्त्य वै ॥ ३६ ॥

मया वै पूर्वमित्युक्तं सुपुत्रं यज्ञसञ्ज्ञकम्
मातृखण्डानिमान्पुत्र यत्र तत्र क्षिपस्व हि ॥ ३७ ॥

मद्वाक्यं पालितं तेन कृता न मातरि कृपा
एतत्स्वल्पतरं दुःखं निर्जीवे घातमिच्छतः ॥ ३८ ॥

साहसं तु कृतं तेन पुत्रेण वेदशर्मणा
अस्याधिकमहं मन्ये यतोऽयं चलते न च ॥ ३९ ॥

निमेषमात्रमेवापि साहसं कारयेत्पुनः
अपरं सत्यसम्पन्नं प्रभावं तपसः पुनः ॥ ४० ॥

नित्यं समाराधनेपि अधिकं चास्य दृश्यते
तस्मादस्य परीक्षा च समये तपसः कृता ॥ ४१ ॥

भक्तिभावात्तथा सत्यान्नैव पुत्रः प्रणश्यति
मायया च निजाङ्गेऽपि कुष्ठरोगो निदर्शितः ॥ ४२ ॥

श्लेष्ममूत्रमलानां च घृणां नैव करोति च
व्रणान्विशोधयेन्नित्यं स्वहस्तेन महायशाः ॥ ४३ ॥

पादसंवाहनं दद्याच्छौचं चैव महामतिः
दुःसहं वचनं मह्यं दारुणं सहते सदा ॥ ४४ ॥

भर्त्सने ताडने चैव सदाभीष्टप्रवाचकः
एवं दुःखसमाचारो मम पुत्रो महामतिः ॥ ४५ ॥

दुःखानां सागरं मन्ये बहुक्लेशैस्तु क्लेशितः
अपनेष्याम्यहं दुःखं विष्णोश्चैव प्रसादतः ॥ ४६ ॥

विचार्य मनसा विप्रः शिवशर्मा महामतिः
पुनर्मायां चकाराथ कुम्भादपहृतं पयः ॥ ४७ ॥

पश्चात्तं च समाहूय सोमशर्माणमब्रवीत्
तव हस्ते मया दत्तममृतं व्याधिनाशनम् ॥ ४८ ॥

तन्मे शीघ्रं प्रयच्छस्व यथा पानं करोम्यहम्
येन नीरुग्भवाम्यद्य प्रसादाद्विष्णुशर्मणः ॥ ४९ ॥

एवमुक्ते तदा वाक्ये ऋषिणा शिवशर्मणा
समुत्थाय त्वरायुक्तः सोमशर्मा कमण्डलुम् ॥ ५० ॥

तं च रिक्तं ततो दृष्ट्वा ह्यमृतेन विना कृतम्
कस्य पापस्य वै कर्म केन मे विप्रियं कृतम् ॥ ५१ ॥

इति चिन्तापरो भूत्वा सोमशर्मा सुदुःखितः
पितुरग्रे च वृत्तान्तं कथयिष्याम्यहं यदा ॥ ५२ ॥

ततः कोपं प्रयास्येत गुरुर्मे व्याधिपीडितः
सुचिरं चिन्तयित्वा तु सोमशर्मा महामतिः ॥ ५३ ॥

यदि मे सत्यमस्तीति गुरुशुश्रूषणं यदि
तपस्तप्तं मयापूर्वं निर्व्यलीकेन चेतसा ॥ ५४ ॥

दमशौचादिभिः सत्यं धर्ममेव प्रपालितम्
तदा घटोऽमृतयुतो भवत्वेष न संशयः ॥ ५५ ॥

मूलम्

दमशौचादिभिः सत्यं धर्ममेव प्रपालितम्
तदा घटोऽमृतयुतो भवत्वेष न संशयः ॥ ५५ ॥

विश्वास-प्रस्तुतिः

यावदेव महाभागश्चिन्तयित्वा विलोकयेत्
तावच्चामृतपूर्णस्तु पुनरेवाभवद्घटः ॥ ५६ ॥

तं दृष्ट्वा हर्षसंयुक्तः सोमशर्मा महायशाः
गत्वा गुरुं नमस्कृत्य कुम्भमादाय सत्वरम् ॥ ५७ ॥

गृहाण त्वं पितश्चेमं पयः कुम्भं समागतम्
पानं कुरु महाभाग गदान्मुक्तो भवाचिरम् ॥ ५८ ॥

एतद्वाक्यं महापुण्यं सत्यधर्मार्थकं पुनः
शिवशर्मा सुतस्यापि श्रुत्वा च मधुराक्षरम् ॥ ५९ ॥

हर्षेण महताविष्ट इदं वचनमब्रवीत् ॥ ६० ॥

मूलम्

हर्षेण महताविष्ट इदं वचनमब्रवीत् ॥ ६० ॥

इति श्रीपद्मपुराणे भूमिखण्डे शिवशर्मोपाख्याने चतुर्थोऽध्यायः ४