सूत उवाच-
विश्वास-प्रस्तुतिः
प्रस्थितस्तेन मार्गेण प्रविष्टो गगनान्तरे
स दृष्टो देवदेवेन सहस्राक्षेण धीमता ॥ १ ॥
मूलम्

उद्यमं तस्य वै ज्ञात्वा चक्रे विघ्नं सुराधिराट्
मेनिकान्तामुवाचेदं गच्छ त्वं मम शासनात् ॥ २ ॥

समाचरस्वास्य शीघ्रं गत्वा विघ्नं सुमध्यमे
अस्यैव विप्रवर्यस्य पुत्रस्य शिवशर्मणः ॥ ३ ॥

तथा कुरुष्व भद्रं ते यथा नायाति मे गृहम्
एवमाकर्ण्य तद्वाक्यं मेनिका प्रस्थिता त्वरात् ॥ ४ ॥

रूपौदार्यगुणोपेता सर्वालङ्कारभूषिता
नन्दनस्य वनस्यान्ते दोलायां समुपस्थिता ॥ ५ ॥

सुस्वरेण प्रगायन्ती गीतं वीणास्वरोपमम्
तेन दृष्टा विशालाक्षी चतुरा चारुलोचना ॥ ६ ॥

व्यवसायं ततो ज्ञात्वा तस्या विघ्नमनुत्तमम्
इन्द्रेण प्रेषिता चैषा न च भद्रकरा भवेत् ॥ ७ ॥

एवं ज्ञात्वा जगामाथ सत्वरेण द्विजोत्तमः
तया दृष्टस्तथा पृष्टः क्व यास्यसि महामते ॥ ८ ॥

विष्णुशर्मा तदोवाच मेनिकां कामचारिणीम्
इन्द्रलोकं प्रयास्यामि पितुरर्थे त्वरान्वितः ॥ ९ ॥

मेनिका विष्णुशर्माणं प्रत्युवाच प्रियं पुनः
कामबाणैः प्रभिन्नाहं त्वामद्य शरणं गता ॥ १० ॥

रक्षस्व द्विजशार्दूल यदि धर्ममिहेच्छसि
यावद्धि त्वं मया दृष्टः कामाकुलितचेतसा ॥ ११ ॥

कामानलेन सन्दग्धा तावदेव न संशयः
सम्भ्रान्ता कामसन्तप्ता प्रसादसुमुखो भव ॥ १२ ॥

विष्णुशर्मोवाच-
चरित्रं देवदेवस्य विदितं मे वरानने
भवत्याश्चप्रजानामिनाहञ्चैतादृशःशुभे ॥ १३ ॥

भवत्यास्तेजसा रूपैरन्ये मुह्यन्ति शोभने
विश्वामित्रादयो देवि पुत्रोहं शिवशर्मणः ॥ १४ ॥

योगसिद्धिं गतस्यापि तपः सिद्धस्य चाबले
कामादयो महादोषा आदावेव विनिर्जिताः ॥ १५ ॥

अन्यं भज विशालाक्षि इन्द्रलोकं व्रजाम्यहम्
एवमुक्त्वा जगामाथ त्वरितो द्विजसत्तमः ॥ १६ ॥

निष्फला मेनका जाता पृष्टा देवेन वज्रिणा
विभीषां दर्शयामास नानारूपां पुनः पुनः ॥ १७ ॥

यथानलेन सन्दग्धास्तृणानां सञ्चया द्विजाः
भस्मीभूता भवन्त्येव तथा तास्ता विभीषिकाः ॥ १८ ॥

विप्रस्य तेजसा तस्य पितृभक्तस्य सत्तमाः
प्रलयं गतास्तु घोरास्ता दारुणा भीषिका द्विजाः ॥ १९ ॥

स विघ्नान्दर्शयामास सहस्राक्षः पुनः पुनः
तेजसाऽनाशयद्विप्रः स्वकीयेन महायशाः ॥ २० ॥

एवं विघ्नान्बहूंस्तस्य इन्द्रस्यापि महात्मनः
नाशयामास मेधावी तपसस्तेजसापि वा ॥ २१ ॥

नष्टेषु तेषु विघ्नेषु दारुणेषु महत्सु च
ज्ञात्वा तस्य कृतान्विघ्नान्दारुणान्भीषणाकृतीन् ॥ २२ ॥

अथ क्रुद्धो महातेजा विष्णुशर्मा द्विजोत्तमः
इन्द्रं प्रति महाभागो रागरक्तान्तलोचनः ॥ २३ ॥

इन्द्र लोकादहं चेन्द्रं पातयिष्यामि नान्यथा
निजधर्मे रतस्याद्य यो विघ्नं तु समाचरेत् ॥ २४ ॥

तस्य दण्डं प्रदास्यामि यो वै हन्यात्स हन्यते
एवमन्यं करिष्यामि देवानां पालकं पुनः ॥ २५ ॥

एवं समुद्यतो विप्र इन्द्रनाशाय सत्तमः
तावदेव समायातो देवेन्द्रः पाकशासनः ॥ २६ ॥

भो भो विप्र महाप्राज्ञ तपसा नियमेन च
दमेन सत्यशौचाभ्यां त्वत्समो नास्ति चापरः ॥ २७ ॥

अनया पितृभक्त्या ते जितोहं दैवतैः सह
ममापराधं त्वं सर्वं क्षन्तुमर्हसि सत्तम ॥ २८ ॥

वरं वरय भद्रं ते दुर्लभं च ददाम्यहम्
विष्णुशर्मा तदोवाच देवराजं तथागतम् ॥ २९ ॥

विप्रतेजो महेन्द्रेद्रं असह्यं देवदैवतैः
पितृभक्तस्य देवेश दुःसहं सर्वथा विभो ॥ ३० ॥

तेजोभङ्गो न कर्त्तव्यो ब्राह्मणानां महात्मनाम्
पुत्रपौत्रैः समस्तैस्तु ब्रह्मविष्णुहरान्पुनः ॥ ३१ ॥

नाशयन्ते न सन्देहो यदि रुष्टा द्विजोत्तमाः
नागच्छेद्यद्भवानद्य तदा राज्यमनुत्तमम् ॥ ३२ ॥

आत्मतपः प्रभावेण अन्यस्मै त्वं महात्मने
दातुकामस्तु सञ्जातो रोषपूर्णेन चक्षुषा ॥ ३३ ॥

भवानद्य समायातो वरं दातुमिहेच्छसि
अमृतं देहि देवेन्द्र पितृभक्तिं तथाचलाम् ॥ ३४ ॥

एवंविधं वरं देहि यदि तुष्टोसि शत्रुहन्
एवं ददामि पुण्यं ते वरं चामृतसंयुतम् ॥ ३५ ॥

एवमाभाष्य तं विप्रममृतं दत्तवान्स्वयम्
सकुम्भं दत्तवांस्तस्मै प्रीयमाणेन चात्मना ॥ ३६ ॥

अचला ते भवेद्विप्र भक्तिः पितरि सर्वदा
एवमाभाष्य तं विप्रं विसृज्य च सहस्रदृक् ॥ ३७ ॥

प्रसन्नोभूच्च तद्दृष्ट्वा विप्रतेजः सुदुःसहम्
विष्णुशर्मा ततो गत्वा पितरं वाक्यमब्रवीत् ॥ ३८ ॥

तात इन्द्रात्समानीतममृतं व्याधिनाशनम्
अनेनापि महाभाग नीरुजो भव सर्वदा ॥ ३९ ॥
मूलम्
तात इन्द्रात्समानीतममृतं व्याधिनाशनम्
अनेनापि महाभाग नीरुजो भव सर्वदा ॥ ३९ ॥
विश्वास-प्रस्तुतिः
अमृतेन त्वमद्यैव परां तृप्तिमवाप्नुहि
एतद्वाक्यं महच्छ्रुत्वा शिवशर्मा सुतस्य हि ॥ ४० ॥

सुतान्सर्वान्समाहूय प्रीयमाणेन चेतसा
पितृभक्ताः सुता यूयं मद्वाक्यपरिपालकाः ॥ ४१ ॥

वरं वृणुध्वं सुप्रीताः पुत्रका दुर्लभं भुवि
एवमाभाषितं तस्य शुश्रुवुः सर्वसम्मताः ॥ ४२ ॥

ते सर्वे तु समालोच्य पितरं प्रत्यथाब्रुवन्
अस्माकं जीवताम्माता गता या यममन्दिरम् ॥ ४३ ॥

नीरुजा भवनाद्देवी प्रसादात्तव सुव्रता
भवान्पिता इयं माता जन्मजन्मान्तरे पितः ॥ ४४ ॥

वयं सुता भवेमेति सर्वे पुण्यकृतस्तथा
शिवशर्मोवाच-
अद्यैवापि मृता माता भवतां पुत्रवत्सला ॥ ४५ ॥

जीवमाना सुहृष्टा सा एष्यते नात्र संशयः
एवमुक्ते शुभे वाक्ये ऋषिणा शिवशर्मणा ॥ ४६ ॥

तेषां माता समायाता प्रहृष्टा वाक्यमब्रवीत्
एतदर्थं समुत्पन्नं सुवीर्यं तनयं सुतम् ॥ ४७ ॥

नराः सत्पुत्रमिच्छन्ति कुलवंशप्रभावकम्
स्त्रियो लोके महाभागाः सुपुण्याः पुण्यवत्सलाः ॥ ४८ ॥

सुतमिच्छन्ति सर्वत्र पुण्याङ्गं पुण्यसाधकम्
कुक्षिं यस्या गतो गर्भः सुपुण्यः परिवर्त्तते ॥ ४९ ॥

पुण्यान्पुत्रान्प्रसूयेत सा नारी पुण्यभागिनी
कुलाचारं कुलाधारं पितृमातृप्रतारकम् ॥ ५० ॥

विना पुण्यैः कथं नारी सम्प्राप्नोति सुतोत्तमम्
न जाने कीदृशैः पुण्यैरेष भर्ता सुपुण्यभाक् ॥ ५१ ॥

सञ्जातो धर्मवीर्योपि धर्मात्मा धर्मवत्सलः
यस्य वीर्यान्मया प्राप्ता यूयं पुत्रास्ततोधिकाः ॥ ५२ ॥

एवं पुण्यप्रभावोयं भवन्तः पुण्यवत्सलाः
मम पुत्रास्तु सञ्जाताः पितृभक्तिपरायणाः ॥ ५३ ॥

अहो लोकेषु पुण्यैश्च सुपुत्रः परिलभ्यते
एकैकशोधिकाः पञ्च मया प्राप्ता महाशयाः ॥ ५४ ॥

यज्वानः पुण्यशीलाश्च तपस्तेजः पराक्रमाः
एवं संवर्धितास्ते तु तया मात्रा पुनः पुनः ॥ ५५ ॥

हर्षेण महताविष्टाः प्रणेमुर्मातरं सुताः
पुत्रा ऊचुः-
सुपुण्यैः प्राप्यते माता सन्माता सुपिता किल ॥ ५६ ॥

भवती पुण्यकृन्माता नो भाग्यैस्तु प्रवर्तिता
यस्या गर्भोदरं प्राप्य सुपुण्यैश्च प्रवर्द्धिताः ॥ ५७ ॥

जन्मजन्मनि त्वं माता पिता चैव भविष्यथः
पितोवाच-
शृणुध्वं मामकाः पुत्राः सुवरं पुण्यदायकम् ॥ ५८ ॥

मयि तुष्टे सुता भोगा ननु भुञ्जन्तु चाक्षयान्
पुत्रा ऊचुः-
यदि तात प्रसन्नोसि वरं दातुमिहेच्छसि ॥ ५९ ॥

अस्मान्प्रेषय गोलोकं वैष्णवं दाहवर्जितम्
पितोवाच-
गच्छध्वं वैष्णवं लोकं यूयं विगतकल्मषाः ॥ ६० ॥

मत्प्रसादात्तपोभिश्च पितृभक्त्यानया स्वया
एवमुक्ते तु तेनापि सुवाक्ये ऋषिणा ततः ॥ ६१ ॥

शङ्खचक्रगदापाणिर्गरुडारूढ आगतः
सपुत्रं शिवशर्माणमित्युवाच पुनः पुनः ॥ ६२ ॥

सपुत्रेण त्वयाद्यैव जितो भक्त्यास्मि वै द्विज
पुत्रैः सार्द्धं समागच्छ चतुर्भिः पुण्यकारिभिः ॥ ६३ ॥

अनया भार्यया सार्द्धं पुण्यया पतिकाम्यया
शिवशर्मोवाच-
अमी गच्छन्तु पुत्रा मे वैष्णवं लोकमुत्तमम् ॥ ६४ ॥

कञ्चित्कालं तु नेष्यामि भूमौ वै भार्यया सह
अनेनापि सुपुत्रेण अन्त्येन सोमशर्मणा ॥ ६५ ॥

एवमुक्ते शुभे वाक्ये ऋषिणा सत्यभाषिणा
तानुवाचाथ देवेशः सुपुत्राञ्छिवशर्मणः ॥ ६६ ॥

गच्छन्तु मोक्षदं लोकं दाहप्रलयवर्जितम्
एवमुक्ते ततो विप्राश्चत्वारः सत्यचेतसः ॥ ६७ ॥

विष्णुरूपधराः सर्वे बभूवुस्तत्क्षणादपि
इन्द्रनीलसमावर्णैः शङ्खचक्रगदाधराः ॥ ६८ ॥

सर्वाभरणसौभाग्या विष्णुरूपा महौजसः
हारकङ्कणशोभाढ्या रत्नमालाभिशोभिताः ॥ ६९ ॥

सूर्यतेजःप्रतीकाशास्तेजोज्वालाभिरावृताः
प्रविष्टा वैष्णवं कायं पश्यतः शिवशर्मणः ॥ ७० ॥

दीपं दीपा यथा यान्ति तद्वल्लीना महामते
गतास्ते वैष्णवं धाम पितृभक्त्या द्विजोत्तमाः ॥ ७१ ॥

प्रभावं तु प्रवक्ष्यामि सुसत्यं सोमशर्मणः ॥ ७२ ॥

इति श्रीपद्मपुराणे भूमिखण्डे शिवशर्मोपाख्याने तृतीयोऽध्यायः ३