सूत उवाच-
विश्वास-प्रस्तुतिः
तदादाय महात्माऽसौ निर्जगाम त्वरान्वितः
पितृभक्त्या तपोभिश्च सत्यार्जवबलेन सः ॥ १ ॥
मूलम्
तदादाय महात्माऽसौ निर्जगाम त्वरान्वितः
पितृभक्त्या तपोभिश्च सत्यार्जवबलेन सः ॥ १ ॥
विश्वास-प्रस्तुतिः
धर्ममाकृष्टवांश्चैव धर्मशर्मा ततस्तदा
समाकृष्टस्तु वै धर्मस्तपसा तस्य धीमतः ॥ २ ॥
मूलम्
धर्ममाकृष्टवांश्चैव धर्मशर्मा ततस्तदा
समाकृष्टस्तु वै धर्मस्तपसा तस्य धीमतः ॥ २ ॥
विश्वास-प्रस्तुतिः
धर्मशर्माणमायातं इदं वचनमब्रवीत्
कस्मात्त्वया समाहूतो धर्मशर्मन्समागतः ॥ ३ ॥
मूलम्
धर्मशर्माणमायातं इदं वचनमब्रवीत्
कस्मात्त्वया समाहूतो धर्मशर्मन्समागतः ॥ ३ ॥
विश्वास-प्रस्तुतिः
तन्मे कथय कार्यं त्वं तत्करोमि न संशयः
धर्मशर्मोवाच-
यद्यस्ति गुरुशुश्रूषा यदि निष्ठाऽचलं तपः ॥ ४ ॥
मूलम्
तन्मे कथय कार्यं त्वं तत्करोमि न संशयः
धर्मशर्मोवाच-
यद्यस्ति गुरुशुश्रूषा यदि निष्ठाऽचलं तपः ॥ ४ ॥
विश्वास-प्रस्तुतिः
तेन सत्येन मे धर्म वेदशर्मा स जीवतु
धर्म उवाच-
दमशौचेन सत्येन तपसा तव सुव्रत ॥ ५ ॥
मूलम्
तेन सत्येन मे धर्म वेदशर्मा स जीवतु
धर्म उवाच-
दमशौचेन सत्येन तपसा तव सुव्रत ॥ ५ ॥
विश्वास-प्रस्तुतिः
पितृभक्त्या तव भ्राता वेदशर्मा महाभुजः
पुनरेव महात्मासौ जीवनं च लभिष्यति ॥ ६ ॥
मूलम्
पितृभक्त्या तव भ्राता वेदशर्मा महाभुजः
पुनरेव महात्मासौ जीवनं च लभिष्यति ॥ ६ ॥
विश्वास-प्रस्तुतिः
तपसानेन तुष्टोस्मि पितृभक्त्या महामते
वरं वरय भद्रं ते दुर्लभं धर्मवित्तमैः ॥ ७ ॥
मूलम्
तपसानेन तुष्टोस्मि पितृभक्त्या महामते
वरं वरय भद्रं ते दुर्लभं धर्मवित्तमैः ॥ ७ ॥
विश्वास-प्रस्तुतिः
एवमाकर्णितं तेन सुवाक्यं धर्मशर्मणा
वैवस्वतं महात्मानं समुवाच महायशाः ॥ ८ ॥
मूलम्
एवमाकर्णितं तेन सुवाक्यं धर्मशर्मणा
वैवस्वतं महात्मानं समुवाच महायशाः ॥ ८ ॥
विश्वास-प्रस्तुतिः
देहि मे त्वचलां भक्तिं पितुः पादार्हणे पुनः
धर्मे रतिं तथा मोक्षं सुप्रसन्नो यदा मम ॥ ९ ॥
मूलम्
देहि मे त्वचलां भक्तिं पितुः पादार्हणे पुनः
धर्मे रतिं तथा मोक्षं सुप्रसन्नो यदा मम ॥ ९ ॥
विश्वास-प्रस्तुतिः
तमुवाच ततो धर्मो मत्प्रसादाद्भविष्यति
एवमुक्ते महावाक्ये वेदशर्मा तदोत्थितः ॥ १० ॥
मूलम्
तमुवाच ततो धर्मो मत्प्रसादाद्भविष्यति
एवमुक्ते महावाक्ये वेदशर्मा तदोत्थितः ॥ १० ॥
विश्वास-प्रस्तुतिः
प्रसुप्तवन्महाप्राज्ञो धर्मशर्माणमब्रवीत्
क्व सा देवी गता भ्रातः क्व स तातो भवेदिति ॥ ११ ॥
मूलम्
प्रसुप्तवन्महाप्राज्ञो धर्मशर्माणमब्रवीत्
क्व सा देवी गता भ्रातः क्व स तातो भवेदिति ॥ ११ ॥
विश्वास-प्रस्तुतिः
समासेन समाख्यातं यथा पित्रा नियोजितः
समाज्ञाय ततो हृष्टो धर्मशर्मा तमब्रवीत् ॥ १२ ॥
मूलम्
समासेन समाख्यातं यथा पित्रा नियोजितः
समाज्ञाय ततो हृष्टो धर्मशर्मा तमब्रवीत् ॥ १२ ॥
विश्वास-प्रस्तुतिः
ममाद्यैव महाभाग शिरसा जीवितेन च
सम्मुखी भव वै भ्रातः कोन्यो मे त्वादृशो भुवि ॥ १३ ॥
मूलम्
ममाद्यैव महाभाग शिरसा जीवितेन च
सम्मुखी भव वै भ्रातः कोन्यो मे त्वादृशो भुवि ॥ १३ ॥
विश्वास-प्रस्तुतिः
भ्रातरं चैवमाभाष्य उत्सुकः पितरं प्रति
गमनाय मतिं चक्रे भ्रात्रा च धर्मशर्मणा ॥ १४ ॥
मूलम्
भ्रातरं चैवमाभाष्य उत्सुकः पितरं प्रति
गमनाय मतिं चक्रे भ्रात्रा च धर्मशर्मणा ॥ १४ ॥
विश्वास-प्रस्तुतिः
द्वावेतौ तु गतौ तत्र पितरं हृष्टमानसौ
द्वाभ्यां तत्र समास्थाय शिवशर्माणमुत्तमम् ॥ १५ ॥
मूलम्
द्वावेतौ तु गतौ तत्र पितरं हृष्टमानसौ
द्वाभ्यां तत्र समास्थाय शिवशर्माणमुत्तमम् ॥ १५ ॥
विश्वास-प्रस्तुतिः
धर्मशर्मा तदोवाच पितरं दीप्तिसंयुतम्
ममाद्यैव महाभाग तपसा जीवितेन च ॥ १६ ॥
मूलम्
धर्मशर्मा तदोवाच पितरं दीप्तिसंयुतम्
ममाद्यैव महाभाग तपसा जीवितेन च ॥ १६ ॥
विश्वास-प्रस्तुतिः
वेदशर्मा समानीतस्तं पुत्रं प्रगृहाण भोः
शिवशर्मा ततो हृष्टो भक्तिं विज्ञाय तस्य च ॥ १७ ॥
मूलम्
वेदशर्मा समानीतस्तं पुत्रं प्रगृहाण भोः
शिवशर्मा ततो हृष्टो भक्तिं विज्ञाय तस्य च ॥ १७ ॥
विश्वास-प्रस्तुतिः
न किञ्चिदब्रवीत्तं तु पुनश्चिन्तामुपेयिवान्
पुरतो विनयेनापि वर्तमानं महामतिम् ॥ १८ ॥
मूलम्
न किञ्चिदब्रवीत्तं तु पुनश्चिन्तामुपेयिवान्
पुरतो विनयेनापि वर्तमानं महामतिम् ॥ १८ ॥
विश्वास-प्रस्तुतिः
विष्णुशर्माणमाभाषीद्वत्स मे वचनं कुरु
इन्द्रलोकं व्रजस्वाद्य तस्मादानय चामृतम् ॥ १९ ॥
मूलम्
विष्णुशर्माणमाभाषीद्वत्स मे वचनं कुरु
इन्द्रलोकं व्रजस्वाद्य तस्मादानय चामृतम् ॥ १९ ॥
विश्वास-प्रस्तुतिः
अनया कान्तया सार्द्धं स्थातुमिच्छामि साम्प्रतम्
सागराद्यत्समुत्पन्नममृतं व्याधिनाशनम् ॥ २० ॥
मूलम्
अनया कान्तया सार्द्धं स्थातुमिच्छामि साम्प्रतम्
सागराद्यत्समुत्पन्नममृतं व्याधिनाशनम् ॥ २० ॥
विश्वास-प्रस्तुतिः
साधुनेच्छति मामेषा यथैनां तु लभाम्यहम्
तथा कुरुष्व शीघ्रं त्वमन्यथान्यं प्रयास्यति ॥ २१ ॥
मूलम्
साधुनेच्छति मामेषा यथैनां तु लभाम्यहम्
तथा कुरुष्व शीघ्रं त्वमन्यथान्यं प्रयास्यति ॥ २१ ॥
विश्वास-प्रस्तुतिः
वृद्धं ज्ञात्वावमन्येत इयं बाला सुरूपिणी
अद्य देव्यानया सार्द्धं प्रियया भुवनत्रये ॥ २२ ॥
मूलम्
वृद्धं ज्ञात्वावमन्येत इयं बाला सुरूपिणी
अद्य देव्यानया सार्द्धं प्रियया भुवनत्रये ॥ २२ ॥
विश्वास-प्रस्तुतिः
निर्दोषो व्याधिनिर्मुक्तो यथा तात भवाम्यहम्
तथा कुरुष्व मे वत्स मद्भक्तोसि यदा भुवि ॥ २३ ॥
मूलम्
निर्दोषो व्याधिनिर्मुक्तो यथा तात भवाम्यहम्
तथा कुरुष्व मे वत्स मद्भक्तोसि यदा भुवि ॥ २३ ॥
विश्वास-प्रस्तुतिः
एवमाकर्ण्य तद्वाक्यं पितुस्तस्य महात्मनः
विष्णुशर्मा तदोवाच पितरं दीप्ततेजसम् ॥ २४ ॥
मूलम्
एवमाकर्ण्य तद्वाक्यं पितुस्तस्य महात्मनः
विष्णुशर्मा तदोवाच पितरं दीप्ततेजसम् ॥ २४ ॥
विश्वास-प्रस्तुतिः
सर्वमेतत्करिष्यामि भवतः सुखमुत्तमम्
एवमाभाष्य धर्मात्मा विष्णुशर्मा महामतिः ॥ २५ ॥
मूलम्
सर्वमेतत्करिष्यामि भवतः सुखमुत्तमम्
एवमाभाष्य धर्मात्मा विष्णुशर्मा महामतिः ॥ २५ ॥
विश्वास-प्रस्तुतिः
पितरं तं नमस्कृत्य पुनः कृत्वा प्रदक्षिणम्
बलेन महता सोपि तपसा नियमेन च ॥ २६ ॥
मूलम्
पितरं तं नमस्कृत्य पुनः कृत्वा प्रदक्षिणम्
बलेन महता सोपि तपसा नियमेन च ॥ २६ ॥
विश्वास-प्रस्तुतिः
अन्तरिक्षगतश्चासीद्गच्छमानस्य धीमतः
स महावायुवेगेन ऐन्द्रं सम्प्रतिगच्छति ॥ २७ ॥
मूलम्
अन्तरिक्षगतश्चासीद्गच्छमानस्य धीमतः
स महावायुवेगेन ऐन्द्रं सम्प्रतिगच्छति ॥ २७ ॥
इति श्रीपद्मपुराणे भूमिखण्डे शिवशर्मचरिते द्वितीयोऽध्यायः २