००१

ऋषय ऊचुः-

विश्वास-प्रस्तुतिः

शृणु सूत महाभाग सर्वतत्त्वार्थकोविद
सन्देहमागतं विद्वन्दारुणं बुद्धिनाशनम् ॥ १ ॥

मूलम्

केचित्पठन्ति प्रह्लादं पुराणेषु द्विजोत्तमाः
पञ्चवर्षान्वितेनापि केशवः परितोषितः ॥ २ ॥

देवासुरे कथं प्राप्ते हरिणा सह युध्यति
निहतो वासुदेवेन प्रविष्टो वैष्णवीं तनुम् ॥ ३ ॥

सूत उवाच-
कश्यपेन पुरा ज्ञातं कृतं व्यासेन धीमता
ब्रह्मणा कथितं पूर्वं व्यासस्याग्रे स्वयं प्रभोः ॥ ४ ॥

तमेवं हि प्रवक्ष्यामि भवतामग्रतो द्विजाः
सन्देहकारणं जातं छिन्नं देवेन वेधसा ॥ ५ ॥

व्यास उवाचः-
शृणु सूत महाभाग ब्रह्मणा परिभाषितम्
प्रह्लादस्य यथा जन्म पुराणेप्यन्यथा श्रुतम् ॥ ६ ॥

जातमात्रः सर्वसुखं वैष्णवं मार्गमाश्रितः
महाभागवतश्रेष्ठः प्रह्लादो देवपूजितः ॥ ७ ॥

विष्णुना सह युद्धाय सपुत्रः सङ्गरङ्गतः
निहतो वासुदेवेन प्रविष्टो वैष्णवीं तनुम् ॥ ८ ॥

सृष्टिभावं शृणुष्व त्वमस्यैव च महात्मनः
सङ्गरं प्राप्य पुत्राद्यैर्विष्णुना सह वीर्यवान् ॥ ९ ॥

प्रविष्टो वैष्णवं तेजः सम्प्राप्य स्वेन तेजसा
पुराकल्पे महाभाग यथा जातः स वीर्यवान् ॥ १० ॥

वृत्तान्तं तस्य वीरस्य प्रवक्ष्यामि समासतः
पश्चिमे सागरस्यान्ते द्वारका नाम वै पुरी ॥ ११ ॥

सर्वऋद्धिसमायुक्ता सर्वसिद्धिसमन्विता
तस्यामास्ते सदा देवो योगज्ञो योगवित्तमः ॥ १२ ॥

शिवशर्मेति विख्यातो वेदशास्त्रार्थकोविदः
तस्यापि पञ्चपुत्रास्तु बभूवुः शास्त्रकोविदाः ॥ १३ ॥

यज्ञशर्मा वेदशर्मा धर्मशर्मा तथैव च
विष्णुशर्मा महाभागो नूनं तत्कर्मकोविदः ॥ १४ ॥

पञ्चमः सोमशर्मेति पितृभक्तिपरायणः
पितृभक्तिं विना चैव धर्ममन्यं द्विजोत्तमाः ॥ १५ ॥

न विदन्ति महात्मानस्तद्भावेन तु भाविताः
तेषां तु भक्तिं सम्पश्यञ्छिवशर्मा द्विजोत्तमः ॥ १६ ॥

चिन्तयामास मेधावी निष्कर्षिष्ये सुरोत्तमान्
पितृभक्तेषु यो भावो नैतेषां मनसि स्थितः ॥ १७ ॥

यथा जानाम्यहं चाथ करिष्ये बुद्धिपूर्वकम्
विष्णोश्चैव प्रसादात्स सर्वसिद्धिर्बभूव ह ॥ १८ ॥

सद्भावं चिन्तयामास अञ्जनार्थं द्विजोत्तमाः
उपायं ब्राह्मणश्रेष्ठस्तपसस्तेजसः किल ॥ १९ ॥

चकार सोप्युपायज्ञो मायया ब्रह्मवित्तमः
तेषामग्रे ततो व्याजं शिवशर्मा व्यदर्शयत् ॥ २० ॥

महता ज्वररोगेण मृता माता विदर्शिता
तैस्तु दृष्टा मृता माता पितरं वाक्यमब्रुवन् ॥ २१ ॥

ययावयं महाभाग गर्भोदरे प्रवर्द्धिताः
कलेवरं परित्यज्य स्वयमेव गता क्षयम् ॥ २२ ॥

अपहाय गता सेयं स्वर्गे तात किमुच्यते
शिवशर्मोपरिभवं पुत्रं भक्तिपरायणम् ॥ २३ ॥

यज्ञशर्माणमाहूय इत्युवाच द्विजोत्तमः
शिवशर्मोवाच-
अनेनापि सुतीक्ष्णेन शस्त्रेण निशितेन वै ॥ २४ ॥

विच्छिद्याङ्गानि सर्वाणि यत्र तत्र क्षिपस्व ह
तत्कृतं तेन पुत्रेण यथादेशः श्रुतः पितुः ॥ २५ ॥

समायातः पुनः पश्चात्पितरं वाक्यमब्रवीत्
यथादिष्टं त्वया तात तत्सर्वं कृतवानहम् ॥ २६ ॥

समादिश ममान्यच्च कार्यकारणमद्य च
तच्च सर्वं करिष्यामि दुर्जयं दुर्लभं पितः ॥ २७ ॥

तमाज्ञाय महाभागं पितृभक्तं स च द्विजः
निश्चयं परमं ज्ञात्वा द्वितीयस्य विचिन्तयन् ॥ २८ ॥

वेदशर्माणमाहूय गच्छ त्वं मम शासनात्
स्त्रिया विना न शक्नोमि स्थातुं कन्दर्पमोहितः ॥ २९ ॥

मायया दर्शिता नारी सर्वसौभाग्यसम्पदा
एनामानय वत्स त्वं ममार्थे कृतनिश्चयः ॥ ३० ॥

एवमुक्तस्तथा प्राह करिष्ये तव सुप्रियम्
पितरं तं नमस्कृत्य तामुवाच गतस्ततः ॥ ३१ ॥

त्वां देवि याचते तातः कामबाणप्रपीडितः
अतस्त्वं जरया युक्ते प्रसादसुमुखी भव ॥ ३२ ॥

भज त्वं चारुसर्वाङ्गि पितरं मम सुन्दरि
एवमाकर्णितं तस्य मायया वेदशर्मणः ॥ ३३ ॥

मूलम्

भज त्वं चारुसर्वाङ्गि पितरं मम सुन्दरि
एवमाकर्णितं तस्य मायया वेदशर्मणः ॥ ३३ ॥

विश्वास-प्रस्तुतिः

स्त्र्युवाच-
जरया पीडितस्यापि नैवेच्छामि कदाचन
सश्लेष्ममुखरोगस्य व्याधिग्रस्तस्य साम्प्रतम् ॥ ३४ ॥

शिथिलस्यापि चार्तस्य तस्य वृद्धस्य सङ्गमम्
भवन्तं रन्तुमिच्छामि करिष्ये तव सुप्रियम् ॥ ३५ ॥

भवन्तं रूपसौभाग्यैर्गुणरत्नैरलङ्कृतम्
दिव्यलक्षणसम्पन्नं दिव्यरूपं महौजसम् ॥ ३६ ॥

किं करिष्यसि तातेन वृद्धेन शृणु मानद
ममाङ्गभोगभावेन सर्वं प्राप्स्यसि दुर्लभम् ॥ ३७ ॥

यद्यत्त्वमिच्छसे विप्र तद्ददामि न संशयः
एतद्वाक्यं महच्छ्रुत्वा अप्रियं पापसङ्कुलम् ॥ ३८ ॥

वेदशर्मोवाच-
अधर्मयुक्तं ते वाक्यमयुक्तं पापमिश्रितम्
नेदृशं मां वदेर्देवि पितृभक्तिमनागसम् ॥ ३९ ॥

पितुरर्थं समायातस्त्वामहं प्रार्थये शुभे
अन्यदेवं न वक्तव्यं भज त्वं पितरं मम ॥ ४० ॥

यद्यत्त्वमिच्छसे देवि त्रैलोक्ये सचराचरम्
तत्तद्दद्मि न सन्देहो देवराज्याधिकं शुभे ॥ ४१ ॥

एवं समर्थो दातुं मे पितुरर्थे यदा भवान्
तदा मे दर्शयाद्यैव सेन्द्रास्त्वं समहेश्वरान् ॥ ४२ ॥

दातुमेवं समर्थोसि दुर्लभं साम्प्रतं किल
किं ते बलं महाभाग दर्शयस्व त्वमात्मनः ॥ ४३ ॥

मूलम्

दातुमेवं समर्थोसि दुर्लभं साम्प्रतं किल
किं ते बलं महाभाग दर्शयस्व त्वमात्मनः ॥ ४३ ॥

विश्वास-प्रस्तुतिः

वेदशर्मोवाच-
पश्य पश्य बलं देवि प्रभावं तपसो मम
मयाहूताः समायाता इन्द्राद्याः सुरसत्तमाः ॥ ४४ ॥

वेदशर्माणमूचुस्ते किं कुर्मो हि द्विजोत्तम
यमेवमिच्छसे विप्र तं ददामो न संशयः ॥ ४५ ॥

यदि देवाः प्रसान्ना मे प्रसादसुमुखा यदि
ददन्तु विमलां भक्तिं पादयोः पितुरेव मे ॥ ४६ ॥

एवमस्तु सुराः सर्वे यथायातास्तथा गताः
तमुवाच तथा दृष्ट्वा दृष्टं ते तपसो बलम् ॥ ४७ ॥

देवैस्तु नास्ति मे कार्यं यदि दातुमिहेच्छसि
यन्मां नयसि गुर्वर्थं तत्कुरुष्व मम प्रियम् ॥ ४८ ॥

देहि त्वं स्वं शिरो विप्र स्वहस्तेन निकृत्य वै
वेदशर्मोवाच-
धन्योहमद्य सञ्जातो मुक्तश्चैव ऋणत्रयात् ॥ ४९ ॥

स्वशिरो देवि दास्यामि गृह्यतां गृह्यतां शुभे
शितेन तीक्ष्णधारेण शस्त्रेण द्विजसत्तमः ॥ ५० ॥

निकृत्य स्वं शिरश्चाथ दत्तं तस्यै प्रहस्य च
रुधिरेण प्लुतं सा च परिगृह्य गता मुनिम् ॥ ५१ ॥

तवार्थे प्रेषितं विप्र पुत्रेण वेदशर्मणा
एतच्छिरः सङ्गृहाण निकृत्तं चात्मनात्मनः ॥ ५२ ॥

उत्तमाङ्गं प्रदत्तं मे पितृभक्तेन तेन ते
तवार्थे द्विजशार्दूल मामेवं परिभुङ्क्ष्व वै ॥ ५३ ॥

तस्य तैर्भ्रातृभिर्दृष्टं साहसं वेदशर्मणः
वेपिताङ्गत्वमापन्नास्ते बभूवुः परस्परम् ॥ ५४ ॥

मृता नो धर्मसाध्वी सा माता सत्यसमाधिना
अयमेव महाभागः पितुरर्थे मृतः शुभः ॥ ५५ ॥

धन्योयं धन्यतां प्राप्तः पितुरर्थे कृतं शुभम्
एवं सम्भाषितं तैस्तु भ्रातृभिः पुण्यचारिभिः ॥ ५६ ॥

समाकर्ण्य द्विजो वाक्यं ज्ञात्वा भक्तिपरायणम्
निकृत्तं च शिरस्तेन पुत्रेण वेदशर्मणा ॥ ५७ ॥

धर्मशर्माणमाहाथ शिर एतत्प्रगृह्यताम् ॥ ५८ ॥

इति श्रीपद्मपुराणे भूमिखण्डे शिवशर्मचरिते प्रथमोऽध्यायः १