भीष्म उवाच-
विश्वास-प्रस्तुतिः
श्रुतं सूर्यस्य चन्द्रस्य भौमस्यापि प्रपूजनं
बुधस्य सोमसूनोश्च पूजनं कथयाधुना॥ १ ॥
मूलम्

पुलस्त्य उवाच-
तारागर्भसमुद्भूतो बुधश्चन्द्रकुमारकः
सौम्यः क्रूरो ग्रहो ज्ञेयः शुभाशुभप्रदो नृणां॥ २ ॥

शराकारं मण्डलं तु बुधस्य परिकीर्तितं
हरिन्मणिसमैर्वर्णैश्चूर्णैः कुर्यात्तु मण्डलं॥ ३ ॥

पूजयेत्तत्र गन्धाद्यैः पुष्पैर्धूपैस्सुशोभनैः
दानं च विधिवत्कुर्याद्दशारिष्टे च गोचरे॥ ४ ॥

कर्पूराश्चैव मुद्गाश्च हरिद्वस्त्रं हरिन्मणिः
सुवर्णं च यथाशक्ति दद्याद्बोधनतुष्टये॥ ५ ॥

सोमपुत्र महाप्राज्ञ वेदवेदाङ्गपारग
नमस्ते ग्रहमध्यस्थ प्रसन्नो भव मे सदा॥ ६ ॥

इति स्तुत्वा महाराज बुधं भक्त्या समाहितः
प्राप्नुयान्निखिलान्कामान्सोमसूनुप्रसादतः॥ ७ ॥

गुरोश्च पूजनं प्रोक्तं पट्टसाकारमण्डले
पीतवर्णैः सुनिष्पन्नैश्चूर्णैराजन्सुशोभनैः॥ ८ ॥

पीतैर्गन्धयुतैः पुष्पैर्वस्त्रैर्हेम्ना च पूजयेत्
दशागोचरयोर्दौष्ट्ये दानं दद्याच्च शक्तितः॥ ९ ॥

चणकद्विदलं चैव पीतवस्त्रं सुवर्णकं
पुष्यरागं तु विप्राय दद्याच्चारिष्टशान्तये॥ १० ॥

बृहस्पते सुराचार्य सर्वशास्त्रविशारद
दानेनानेन सन्तुष्टो भव सौम्यो ममाधुना॥ ११ ॥

एवं कृते तु राजेन्द्र स्वानुकूलो भवेद्गुरुः
सर्वान्कामानवाप्नोति नरो गुरुसमर्चनात्॥ १२ ॥

भार्गवस्यापि वक्ष्यामि पूजनं नृपतेधुना
यत्कृत्वा सर्वकामाप्तिः सम्यक्पुंसां प्रजायते॥ १३ ॥

पञ्चकोणं समुद्दिष्टं मण्डलं भार्गवस्य तु
चूर्णकैः श्वेतवर्णैश्च विधिना सुधिया कृतं॥ १४ ॥

श्वेतगन्धैश्च पुष्पैश्च वस्त्रैश्चापि सितैस्तथा
पूजयेद्भार्गवं भक्त्या नरः श्रद्धासमन्वितः॥ १५ ॥

रौप्यं च दक्षिणादानं यथाशक्ति प्रकीर्तितं
दशाद्यरिष्टे चोत्पन्ने सितमश्वं प्रदापयेत्॥ १६ ॥

तण्डुलाः श्वेतवस्त्रं च रौप्यं चन्दनमेव च
कर्पूरं च सुगन्धाढ्यं देयं दानं द्विजातये॥ १७ ॥

भृगुपुत्र महाभाग दानवानां पुरोहित
दानेनानेन सन्तुष्टो भव सर्वासुरार्चित॥ १८ ॥

इति मन्त्रं समुच्चार्य दद्याद्दानं यथोदितं
तस्य तुष्टो भवत्याशु भार्गवः कुरुनन्दन॥ १९ ॥

शनैश्चरस्य पूजार्थं मण्डलं च नराकृति
कृत्वा चूर्णैः कृष्णवर्णैः पूजयेत्तत्र भक्तितः॥ २० ॥

कृष्णैर्गन्धैश्च पुष्पैश्च वस्त्रैश्चापि तथाविधैः
लोहं च दक्षिणादानं पिण्याकं च तिलस्य च॥ २१ ॥

दानं शनैश्चरारिष्टे कृष्णां गां कृष्णवस्त्रकं
सुवर्णं च यथाशक्ति दद्यान्नीलमणिं तथा॥ २२ ॥

सूर्यसूनो महाभाग छायापुत्र महाबल
अधोदृष्टे भव शने प्रसन्नोऽस्मात्प्रदानतः॥ २३ ॥

एवं स्तुत्वा शनिं भक्त्या यश्च दद्याद्द्विजातये
स्वानुकूलो भवेत्तस्य शनिः पापे च गोचरे॥ २४ ॥

राहोर्वर्णादिकं सर्वं शनिवन्मण्डलं तथा
सूर्याकारं समुद्दिष्टं तत्र पूजार्कसूनुवत्॥ २५ ॥

गोमेदं सर्षपाश्चैव तिला माषाश्च कृष्णकाः
महिषी च तथा च्छागो दानं राहोः प्रकीर्तितम्॥ २६ ॥

सिंहिकासुत दैत्येन्द्र राहो चन्द्रार्कमर्दन
भव तुष्टो महाभाग दानेनानेन सुव्रत॥ २७ ॥

केतोर्मण्डलकं कुर्याद्ध्वजाकृतिसुशोभनम्
शनिवत्सकलं ज्ञेयं पूजावर्णादिकं नृप॥ २८ ॥

सप्तधान्यं समुद्दिष्टं सस्वर्णं केतुदानकम्
एवं कृते स्वानुकूलौ भवेतां च नृणां नृप॥ २९ ॥

प्रदद्यातां धनं पुत्रान्सुखं सौभाग्यमेव च
आकृष्णेति रवेर्मन्त्र इमं देवास्तथा विधोः॥ ३० ॥

अग्निर्मूर्धेति भौमस्य मन्त्रो जप्येर्हणे तथा
उद्बुध्यस्वेतीन्दुसूनोर्बृहस्पते गुरोस्तथा॥ ३१ ॥

अन्नात्परीति शुक्रस्य शन्नोदेवीरयं शनेः
कया न इति राहोश्च केतोः केतुमिति स्मृतः॥ ३२ ॥

एते मन्त्रास्समुद्दिष्टा ग्रहणां पूजने जपे
एवं कृते नृपश्रेष्ठानुकूला अखिला ग्रहाः॥ ३३ ॥

भवन्ति पुंसां सततं यच्छन्ति च सुसम्पदः
एतन्महाराज मया समस्तं तुभ्यं समुद्दिष्टमिहक्रमेण॥ ३४ ॥

श्रुत्वा नरः सर्वश्रुतार्थसारमेतीश्वरस्यैव च सन्निधानम्
इदं पवित्रं यशसो निधानमिदं पितॄणामतिवल्लभं स्यात्॥ ३५ ॥

इदं च देवेष्वमृताय कल्पते पुण्यावहं पातकिनां च पुंसाम्
इति पठति यशस्यं यः शृणोतीह भक्त्या मधुमुरनकारेरर्चनं वाथ पश्येत्॥ ३६ ॥

मतिमपि च जनानां यो ददातीन्द्रलोके विधिशिवविबुधेन्द्रैः पूज्यते कल्पमेकम्
य इदं शृणुयान्नित्यमृषीणां चरितं शुभम्॥ ३७ ॥

विमुक्तस्सर्वपापेभ्यः स्वर्गलोके महीयते
तपः कृते प्रशंसन्ति त्रेतायां ज्ञानमेव च॥ ३८ ॥

द्वापरे यज्ञमित्याहुर्दानमेकं कलौ युगे
सर्वेषामेव दानानामिदमेवैकमुत्तमम्॥ ३९ ॥
मूलम्
द्वापरे यज्ञमित्याहुर्दानमेकं कलौ युगे
सर्वेषामेव दानानामिदमेवैकमुत्तमम्॥ ३९ ॥
विश्वास-प्रस्तुतिः
अभयं सर्वभूतानां नास्ति दानमतः परम्
दानं प्रधानं शूद्रस्य त्वित्याह भगवान्प्रभुः॥ ४० ॥

दानेन सर्वकामाप्तिस्तस्य सञ्जायते तपः
पुण्यं पवित्रमायुष्यं सर्वपापविनाशनम्॥ ४१ ॥

पुराणमेतत्कथितं तीर्थश्राद्धानुवर्णनम्
शृणोति यः पठेद्वापि श्रीमान्सञ्जायते नरः॥ ४२ ॥

सर्वपापविनिर्मुक्तः सलक्ष्मीकं हरिं लभेत्
इदं महाराज अगादि तुभ्यं पुण्यं महापातकनाशनं च॥ ४३ ॥

ब्रह्मार्करुद्रैश्च सुपूजितं च श्रोतव्यमेतत्प्रवदन्ति तज्ज्ञाः
सृष्टिखण्डमिदं राजन्मया तुभ्यं प्रकीर्तितम्॥ ४४ ॥

पुराणस्यादिभूतं च नवधा सृष्टि पौष्करम्
द्विजेभ्यः श्रावयेद्विद्वान्यश्च वै शृणुयात्पठेत्
कल्पकोटिशतं साग्रं ब्रह्मलोके स मोदते॥ ४५ ॥

इति श्रीपाद्मपुराणे सृष्टिखण्डे पुराणावतारे ग्रहार्चनवर्णनन्नाम द्व्यशीतितमोऽध्यायः॥ ८२ ॥

सृष्टिखण्डं समाप्तम्
शुभं भवतु