०८१

वैशम्पायन उवाच-

विश्वास-प्रस्तुतिः

उद्भवं लोहिताङ्गस्य सन्तोषं तु जनेषु च
प्रभावं वैभवं तेजः श्रोतुमिच्छामि तत्त्वतः॥ १ ॥

मूलम्

व्यास उवाच-
हरांशसम्भवो देवः कुजातः पृथिवीसुतः
सत्त्वस्थस्सत्वसम्पूर्णश्शूरः शक्तिधरो भुवि॥ २ ॥

तीक्ष्णः क्रूरग्रहो देवो लोहिताङ्गः प्रतापवान्
कुमारो रूपसम्पन्नो विद्युत्पातमयः प्रभुः॥ ३ ॥

अनेन भर्जिता दैत्याः क्रव्यादाय सुरद्विषः
दशायोगाच्च मनुजा उद्भिज्जाः पशुपक्षिणः॥ ४ ॥

मूलम्

अनेन भर्जिता दैत्याः क्रव्यादाय सुरद्विषः
दशायोगाच्च मनुजा उद्भिज्जाः पशुपक्षिणः॥ ४ ॥

विश्वास-प्रस्तुतिः

वैशम्पायन उवाच-
शम्भोरेष कथं जातः कथं जातो महीसुतः
ग्रहो देवः कथं क्रूर एतदिच्छामि वेदितुम्॥ ५ ॥

कथमस्य भवेत्तुष्टिः सर्वलोकेषु सर्वदा
गुरो मय्याप्तभावे तु वद निस्संशयं मुखात्॥ ६ ॥

हिरण्याक्षकुले धीमानसुराणां च पार्थिवः
अन्धकेति समाख्यातो दैत्यः सर्वसुरान्तकृत्॥ ७ ॥

जातो विष्णुवरादेव जातो विष्णुपराक्रमः
तेनैव निर्जिता देवास्सेन्द्राः क्रतुभुजः क्रमात्॥ ८ ॥

ततो देवा विधिं गत्वा वचनं चेदमब्रुवन्
अन्धकेनैव चास्माकं हृतं राज्यं सुखं मखः॥ ९ ॥

तस्मात्तस्य वधोपाय उच्यतां तद्विधीयताम्
अथ धाताऽब्रवीद्वाक्यं देवानस्य च नैधनम्॥ १० ॥

नास्ति विष्णुवरादेव पीयूषस्य च भक्षणात्
किन्तु तस्यासुरत्वस्य यथा परिभवो ध्रुवम्॥ ११ ॥

कुर्वे लोकहितार्थाय श्रद्धां कामसमन्विताम्
विचिकित्सा तु तत्रैव सर्वास्त्रीरतिगच्छति॥ १२ ॥

त्यक्त्वैकां पार्वतीं दुर्गां न तस्य मानसं स्थिरम्
ततः क्रुद्धो जगत्स्वामी तं च वैरूप्यतां नयेत्॥ १३ ॥

ततोऽसुरत्वं सन्त्यज्य गणस्तस्य भविष्यति
एवमुक्त्वा प्रजाध्यक्षः श्रद्धां कामसमन्विताम्॥ १४ ॥

विचिकित्सां स्वमायां च प्रेषयामास तं प्रति
ततो विचेष्टितः कामाद्योषान्वेषणतत्परः॥ १५ ॥

स्वदारान्परयोषां च नापश्यद्विचिकित्सया
ततो मायाप्रयुक्तोसौ त्रैलोक्यं विचचार ह॥ १६ ॥

दृष्टं च हिमवत्पृष्ठे स्त्रीरत्नं चातिशोभनं
दृष्ट्वा च पार्वतीं दैत्यः कामस्य वशगोऽभवत्॥ १७ ॥

ज्ञानलोपात्ततो दुर्गां ग्रहीतुं तां स चेच्छति
उमा च कोटवीरूपं कृत्वा देहस्य चात्मनः॥ १८ ॥

ईश्वरस्यान्तिकस्था च ग्रहीतुं तां ससार सः
ततः कामविचेताश्च उन्मत्तीकृतचेतनः॥ १९ ॥

न जहाति शिवां धात्रीं पार्वतीं दैत्यपुङ्गवः
ततो ध्यानात्समागम्य मिलितः पार्वतीं धवः॥ २० ॥

दृष्ट्वा तं च स दैत्येन्द्रः प्रगतस्तु स्वमालयम्
सज्जीकृत्य स्वयोधांश्च शम्भुं जेतुं समुत्सुकः॥ २१ ॥

गौरीमेव समानेतुं काममोहादचेतनः
एतच्छ्रुत्वा तु त्रिदशा गत्वा तं नन्दिनेरिताः॥ २२ ॥

अकुर्वंश्च महद्युद्धं घोरं लोकभयङ्करम्
दैत्यान्रणे मृतांस्तत्र दैत्याचार्यो ह्यजीवयत्॥ २३ ॥

एतद्वृत्तं तु कैलासे सर्वे चैव न्यवेदयन्
क्रोधाच्छम्भुस्तदा वाक्यं नन्दिनं निजगाद ह॥ २४ ॥

गच्छ दैत्यालयं वीर द्रुतमेव ममाज्ञया
पश्यतां सर्वदैत्यानां दैत्येन्द्रस्य च संसदि॥ २५ ॥

गृहीत्वा चिकुरेऽत्यर्थं भार्गवं तं दुरात्मकम्
लब्ध्वा चास्मत्सकाशं वै विह्वलं चानय क्षणात्॥ २६ ॥

ततो नन्दीश्वरः श्रीमान्पार्वतीपतिनेरितः
काव्यं तं कुन्तले धृत्वा दैत्यानां पुरतो बलात्॥ २७ ॥

आनयन्तं च तं दैत्या जघ्नुः प्रहरणैः शरैः
न शेकुस्ते रुजां कर्तुं नन्दिनो बलशालिनः॥ २८ ॥

देवानामग्रतो नन्दी गृहीत्वा तं च कुन्तले
हरस्य पुरतो हृष्टः सह तेन समाययौ॥ २९ ॥

गृहीत्वा भार्गवं शम्भुरसुराणां गुरुं रुषा
अगिलद्रौद्रमूर्तोऽसौ कालान्तकसमः प्रभुः॥ ३० ॥

ततो दैत्यपतिः क्रुद्धः सर्वसैन्यवृतो बली
दुद्राव शङ्करं तत्र घोरैः प्रहरणादिभिः॥ ३१ ॥

त्रिदशाश्च तथा क्रुद्धास्ततो विद्याधरादयः
प्रययुः समरं तत्र दैत्यानां च भृशं रुषा॥ ३२ ॥

एतस्मिन्नन्तरे घोरं युद्धं भीष्मं समुत्थितम्
देवदानवयोरेवं सर्वलोकभयङ्करम्॥ ३३ ॥

ततः प्रत्ययितास्त्रैश्च देवा निघ्नन्ति दानवान्
दनुजा निर्जरांस्तत्र विनिघ्नन्ति महाहवे॥ ३४ ॥

शातकुम्भमयाङ्गैस्ते शरैर्वज्रसमानकैः
बिभिदू रत्नपुङ्खैश्च परस्परजयैषिणः॥ ३५ ॥

दीपयन्ति भृशं कान्तैस्तद्गात्राणि नभांसि च
वीर्यवन्तो महादैत्या न मोघैरस्त्रसञ्चयैः॥ ३६ ॥

हत्वा च पातयामासुः काश्यपाः सुरसत्तमाः
जगद्व्याप्तं महासैन्यं बलायुधसुसंवृतम्॥ ३७ ॥

नीतं क्षयं सुरैः सर्वैः शस्त्रैः प्रत्ययितैः क्षणात्
स्वयं च युध्यमानेन महादेवेन यत्नतः॥ ३८ ॥

शूलोद्धृतोपि सुचिरमविनष्टोऽथ नम्रधीः
अन्धको गणतां नीत्वा कृतो भृङ्गीरिटिर्द्विज॥ ३९ ॥

ततो देवान्समाभाष्य शुक्रमुद्गीर्णवान्शिवः
भूमौ निपतितो गर्भस्ततो भौम इति स्मृतः॥ ४० ॥

शुक्रश्शिवं समाभाष्य गतो दैत्यान्मुदान्वितः
एवं भौमस्समुत्पन्नो हरांशो भूसमुद्भवः॥ ४१ ॥

तस्य पूजा चतुर्थ्यां तु भौमवारे च सुव्रतैः
दशाद्यरिष्टे च तथा गोचरेऽनिष्टराशिगे॥ ४२ ॥

त्रिकोणे मण्डले चैव रक्तपुष्पानुलेपनैः
एवं वै पूजितो भौमः प्रयच्छति मतिं धनम्॥ ४३ ॥

पुत्रान्सुखंयशश्चैवकिम्भूयःश्रोतुमिच्छसि
व्यास उवाच-
एतद्वः कथितं शिष्या धर्माख्यानं शुभावहम्॥ ४४ ॥

यच्छ्रुत्वा न पुनर्भूयो जायते म्रियतेपि वा
द्विजातीनां पुण्यदं च संसेव्यं च शुभेप्सुभिः॥ ४५ ॥

यथासुखं च गच्छध्वं कृतकृत्या ममाज्ञया
ब्रह्मोवाच-
एवं विश्राव्य भगवान्व्यासः सत्यवतीसुतः॥ ४६ ॥

निर्णीय धर्मं विविधं शम्याप्रासमगात्सुत
त्वमपि श्रद्धया वत्स ज्ञात्वा तत्त्वं यथासुखम्॥ ४७ ॥

विहरस्व यथाकालं गायमानो हरिं मुदा
लोकान्धर्मं चोपदिशन्प्रीणयन्जगतां गुरुम्॥ ४८ ॥

पुलस्त्य उवाच-
इत्युक्तः प्रययौ भूप नारदो गन्धमादनम्
नारायणं मुनिवरं द्रष्टुं बदरिकाश्रमे॥ ४९ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे भौमोत्पत्तिपूजनं नामैकाशीतितमोऽध्यायः८१