वैशम्पायन उवाच-
विश्वास-प्रस्तुतिः
श्रुतो ग्रहेश्वरस्यैष प्रभावस्त्वत्प्रसादतः
रव्यादीनां ग्रहाणां च साधनं नो वद द्विज॥ १ ॥
मूलम्

के ते रव्यादयस्तेषां कथं तोषः कथं प्रियम्
काले देशे तु सम्प्राप्ते दर्शनं तच्छिवाशिवम्॥ २ ॥

व्यास उवाच-
ग्रहादयो ये लोके तु भुञ्जन्ति पुण्यपातकम्
शिवाशिवं च कुर्वन्ति विश्वकर्मक्षयाय वै॥ ३ ॥

सूरः कालोन्तको ज्ञेयो जनेषु च ग्रहेषु च
तिग्मसौम्याच्च योगात्स निग्रहानुग्रहे प्रभुः॥ ४ ॥

ग्रहभावाच्च तस्यैव सन्तोषं निगदाम्यहम्
उदुम्बरपलाशाभ्यां पल्लवाभ्यां जुहोति यः॥ ५ ॥

आकृष्णेनेति मन्त्रेण मूलकेनाथ शान्तये
जुहुयादाज्ययुक्ताभ्यामभीष्टफलहेतवे॥ ६ ॥
मूलम्
आकृष्णेनेति मन्त्रेण मूलकेनाथ शान्तये
जुहुयादाज्ययुक्ताभ्यामभीष्टफलहेतवे॥ ६ ॥
विश्वास-प्रस्तुतिः
शान्तये सर्वरोगाणां वधबन्धविमोचने
एकैकेन तु मन्त्रेण होतव्यं च शतंशतम्॥ ७ ॥

शितं चच्छागलं दद्यात्सूरायादित्यवासरे
भोजयेद्ब्राह्मणान्शक्त्या हव्यकव्यैर्मनोहरैः॥ ८ ॥

सप्तम्यां च सिते पक्षे पञ्चदश्यां तथैव च
रोगाद्विमुच्यते रोगी न रोगात्कृच्छ्रमेष्यति॥ ९ ॥

परमं चामरं सत्वमाब्रह्मस्तम्बमात्रके
ब्रह्माण्डे चाणुमात्रे च सूरः सम्भावयिष्यते॥ १० ॥

संहारान्तं क्रमात्सर्वमुत्पत्तिस्थितिकारणात्
प्राणसर्गे जनानां स पाता विश्वचरस्तनौ॥ ११ ॥

मृत्युकाले तनोर्मध्यात्प्राणेन सह गच्छति
शीर्षान्तस्थः सदा चन्द्रो द्विरष्टकलया युतः॥ १२ ॥

अहर्निशं सुधावृष्टिं देहे वर्षत्यधोमुखः
जन्तवस्तेन जीवन्ति महासत्वानुमात्रकाः॥ १३ ॥

उर्व्यां सस्यानि पुष्णाति तथा स्थावरजङ्गमान्
एताभ्यां पुष्पवद्भ्यां च धारितं जनितं जगत्॥ १४ ॥

तयोराराधनात्पुष्टिः सदा पुण्यापरार्धिका
साधयेत्सर्वकार्याणि साधकः सर्वदा शुचिः॥ १५ ॥

न पूजयति यो मोहात्सुधांशुं मानवाधमः
आयुस्तस्य क्षयं याति नरकं चाधिगच्छति॥ १६ ॥

निष्कलङ्क कलाधार गङ्गाधर शिरोमणे
द्वितीयायां जगन्नाथ तुभ्यं चन्द्र नमोस्तु ते॥ १७ ॥

तिथिमन्यामनुप्राप्य नमस्कारं विधोरपि
प्रकरोति नरो यस्तु सोभीष्टं फलमाप्नुयात्॥ १८ ॥

अत्रिनेत्रोद्भव श्रीमन्क्षीरोद मथनोद्भव
महेशमुकटावास तुभ्यं चन्द्र नमोस्तुते॥ १९ ॥

दिव्यरूप नमस्तुभ्यं सुधाकर जगत्पते
शुक्लपक्षे तथा कृष्णे त्रियामायां विदुर्बुधाः॥ २० ॥

ऊँ ह्रां ह्रीं सोमाय नमः इति जप्यमन्त्रः
प्रभाते जपनीयः-
एवं यः पूजयेत्सोमं श्रावयेच्च शृणोति वा
स पीयूषसमो लोके भवेज्जन्मनि जन्मनि॥ २१ ॥

एवं सहस्रनाम्ना यः स्तौति पूजयते भुवि
सोऽक्षयं लभते स्वर्गं पुनरावृत्तिदुर्लभम्॥ २२ ॥

इति सोमपूजा-
पित्तले भाजने कांस्ये दधिपूर्णे घृते शिवे
न्यूनोऽधिकस्तु विभवाच्छ्रुत्वा कर्मविमत्सरः॥ २३ ॥

स्वर्णे वा राजते वारे सौम्ये कृष्णभवे बुधम्
संस्थाप्य सर्वसंस्थाने दद्याद्बहुसुताय च॥ २४ ॥

परं भवति सौभाग्यं पीयूषादधिकं भृशम्
स्त्रीणां च पुरुषाणां च न दौर्भाग्यं कदाचन॥ २५ ॥

रूपसौभाग्यकामोहं दधिपूर्णं च भाजनम्
ददामि कांस्यपात्रस्थं देहि सौभाग्यरूपकम्॥ २६ ॥

द्विजाय वाक्यपूर्वेण दद्याद्विमत्सरो नरः
शक्तितो दक्षिणा देया तथा वस्त्रादिकं नवम्॥ २७ ॥

भोज्यान्नं सर्वसम्पूर्णं ताम्बूलं सुमनोहरम्
पुष्पमालादिकं दद्याद्रूपसौभाग्यहेतवे॥ २८ ॥

एवं यः कुरुते दानं सोमोद्दिष्टं द्विजातये
स्वर्लोके नरलोके वा रूपसौभाग्यभुग्भवेत्॥ २९ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे सोमार्चनं
नामाशीतितमोऽध्यायः८०