०७९

व्यास उवाच-

विश्वास-प्रस्तुतिः

मध्यदेशे स्वराट् सम्राट् भद्रेश्वर इति श्रुतः
तपोभिर्बहुभिः पूतो व्रतैर्नानाविधैरपि॥ १ ॥

मूलम्

मध्यदेशे स्वराट् सम्राट् भद्रेश्वर इति श्रुतः
तपोभिर्बहुभिः पूतो व्रतैर्नानाविधैरपि॥ १ ॥

विश्वास-प्रस्तुतिः

देवांस्तु पूजयेन्नित्यं सुभावेन सदा खलु
तस्य सव्येऽभवत्कुष्ठं करे श्वेतमजायत॥ २ ॥

मूलम्

देवांस्तु पूजयेन्नित्यं सुभावेन सदा खलु
तस्य सव्येऽभवत्कुष्ठं करे श्वेतमजायत॥ २ ॥

विश्वास-प्रस्तुतिः

ततो भिषक्प्रयोगाच्च लक्षणं दृश्यते पुरा
आहूय द्विजमुख्यांश्च मन्त्रिणः सोब्रवीद्वचः॥ ३ ॥

मूलम्

ततो भिषक्प्रयोगाच्च लक्षणं दृश्यते पुरा
आहूय द्विजमुख्यांश्च मन्त्रिणः सोब्रवीद्वचः॥ ३ ॥

विश्वास-प्रस्तुतिः

राजोवाच-
किल्बिषं मे करे विप्रा दुःसहं लोकगर्हितं
तस्मात्पुण्यं महाक्षेत्रं यत्र त्यक्ष्यामि विग्रहं॥ ४ ॥

मूलम्

राजोवाच-
किल्बिषं मे करे विप्रा दुःसहं लोकगर्हितं
तस्मात्पुण्यं महाक्षेत्रं यत्र त्यक्ष्यामि विग्रहं॥ ४ ॥

विश्वास-प्रस्तुतिः

आज्ञापयत धर्मज्ञाः परलोकहिताय वै
वंशहीनस्य मे वीराः प्रेत्यामुत्र हितं च यत्॥ ५ ॥

मूलम्

आज्ञापयत धर्मज्ञाः परलोकहिताय वै
वंशहीनस्य मे वीराः प्रेत्यामुत्र हितं च यत्॥ ५ ॥

विश्वास-प्रस्तुतिः

तद्ब्रूत सुप्रसन्ना म उद्दिष्टं यत्करोम्यहं
द्विजा ऊचुः
परित्यक्ते त्वया राष्ट्रे धर्मशीलेन धीमता॥ ६ ॥

मूलम्

तद्ब्रूत सुप्रसन्ना म उद्दिष्टं यत्करोम्यहं
द्विजा ऊचुः
परित्यक्ते त्वया राष्ट्रे धर्मशीलेन धीमता॥ ६ ॥

विश्वास-प्रस्तुतिः

नष्टं जगदिदं राजंस्तस्मान्नो वक्तुमर्हसि
अयमस्य प्रतीकारो ह्यस्माभिरवगम्यते॥ ७ ॥

मूलम्

नष्टं जगदिदं राजंस्तस्मान्नो वक्तुमर्हसि
अयमस्य प्रतीकारो ह्यस्माभिरवगम्यते॥ ७ ॥

विश्वास-प्रस्तुतिः

सूरं मन्त्रैर्महादेवं यत्नादाराधय प्रभो
राजोवाच-
केनोपायेन विप्रेन्द्रास्तोषयिष्यामि भास्करं॥ ८ ॥

मूलम्

सूरं मन्त्रैर्महादेवं यत्नादाराधय प्रभो
राजोवाच-
केनोपायेन विप्रेन्द्रास्तोषयिष्यामि भास्करं॥ ८ ॥

विश्वास-प्रस्तुतिः

अमेध्येनाथ कुष्ठेन लोकानां गर्हितेन च
अदृश्यः सर्वभूतानां गर्हितोस्मि द्विजातयः॥ ९ ॥

मूलम्

अमेध्येनाथ कुष्ठेन लोकानां गर्हितेन च
अदृश्यः सर्वभूतानां गर्हितोस्मि द्विजातयः॥ ९ ॥

विश्वास-प्रस्तुतिः

किं करिष्यामि राज्यं च किं स्यादाराधनेन तु
द्विजा ऊचुः-
अत्र स्थित्वा स्वराज्ये तु समुपास्य विरोचनं॥ १० ॥

मूलम्

किं करिष्यामि राज्यं च किं स्यादाराधनेन तु
द्विजा ऊचुः-
अत्र स्थित्वा स्वराज्ये तु समुपास्य विरोचनं॥ १० ॥

विश्वास-प्रस्तुतिः

प्रमुच्य किल्विषाद्घोरात्स्वर्गं मोक्षं च लप्स्यसे
एतच्छ्रुत्वा तु राजेन्द्रः प्रणिपत्य द्विजोत्तमान्॥ ११ ॥

मूलम्

प्रमुच्य किल्विषाद्घोरात्स्वर्गं मोक्षं च लप्स्यसे
एतच्छ्रुत्वा तु राजेन्द्रः प्रणिपत्य द्विजोत्तमान्॥ ११ ॥

विश्वास-प्रस्तुतिः

आकार्षीत्तस्य सूर्यस्य परमाराधनं च यत्
नित्यपूजां तथा मन्त्रैरुपहारैर्विलेपनैः॥ १२ ॥

मूलम्

आकार्षीत्तस्य सूर्यस्य परमाराधनं च यत्
नित्यपूजां तथा मन्त्रैरुपहारैर्विलेपनैः॥ १२ ॥

विश्वास-प्रस्तुतिः

फलैर्नानाविधैरर्घैरक्षतातप तण्डुलैः
जपापुष्पार्कपर्णैश्च करवीरकरञ्जकैः॥ १३ ॥

मूलम्

फलैर्नानाविधैरर्घैरक्षतातप तण्डुलैः
जपापुष्पार्कपर्णैश्च करवीरकरञ्जकैः॥ १३ ॥

विश्वास-प्रस्तुतिः

रक्तकुङ्कुमसिन्दूरैस्तथा वासन्तिकादिभिः
सुगन्धकदलीपत्रैस्तत्फलैः सुमनोहरैः॥ १४ ॥

मूलम्

रक्तकुङ्कुमसिन्दूरैस्तथा वासन्तिकादिभिः
सुगन्धकदलीपत्रैस्तत्फलैः सुमनोहरैः॥ १४ ॥

विश्वास-प्रस्तुतिः

अर्घ्यमौदुम्बरे कृत्वा सदा सूर्याय पार्थिवः
आदित्यसम्मुखो दत्ते सदा मन्त्रिपुरोहितैः॥ १५ ॥

मूलम्

अर्घ्यमौदुम्बरे कृत्वा सदा सूर्याय पार्थिवः
आदित्यसम्मुखो दत्ते सदा मन्त्रिपुरोहितैः॥ १५ ॥

विश्वास-प्रस्तुतिः

महिषीभिस्तथा चार्घो भोगिनीभिः समन्ततः
सर्वैरन्तःपुरस्थैश्च सपत्नीकैश्च रक्षिभिः॥ १६ ॥

मूलम्

महिषीभिस्तथा चार्घो भोगिनीभिः समन्ततः
सर्वैरन्तःपुरस्थैश्च सपत्नीकैश्च रक्षिभिः॥ १६ ॥

विश्वास-प्रस्तुतिः

चेटवर्गैस्तथान्यैश्च दीयतेऽर्घो दिनेदिने
अर्कशान्तिभिरत्युग्रैः स्तोत्रमन्त्रादिभिः परैः॥ १७ ॥

मूलम्

चेटवर्गैस्तथान्यैश्च दीयतेऽर्घो दिनेदिने
अर्कशान्तिभिरत्युग्रैः स्तोत्रमन्त्रादिभिः परैः॥ १७ ॥

विश्वास-प्रस्तुतिः

मूलमन्त्रान्यमन्त्रैश्च यजन्ति स्म दिवाकरं
तथार्काङ्गव्रतं चान्यत्कृतं तैः सुसमाहितैः॥ १८ ॥

मूलम्

मूलमन्त्रान्यमन्त्रैश्च यजन्ति स्म दिवाकरं
तथार्काङ्गव्रतं चान्यत्कृतं तैः सुसमाहितैः॥ १८ ॥

विश्वास-प्रस्तुतिः

क्रमात्समांसमासाद्य रोगस्यान्तं गतो नृपः
बाधिते चामये घोरे स राजा निखिलं जगत्॥ १९ ॥

मूलम्

क्रमात्समांसमासाद्य रोगस्यान्तं गतो नृपः
बाधिते चामये घोरे स राजा निखिलं जगत्॥ १९ ॥

विश्वास-प्रस्तुतिः

नियम्य कारयामास कल्ये च याजनव्रतम्
एवमेव जपापुष्पं सुगन्धं कदलीफलम्॥ २० ॥

मूलम्

नियम्य कारयामास कल्ये च याजनव्रतम्
एवमेव जपापुष्पं सुगन्धं कदलीफलम्॥ २० ॥

विश्वास-प्रस्तुतिः

बाणैर्जायाभिरालभ्यमर्कपर्णान्यपुष्पकं
एवमेव महापुण्यं कृत्वा सर्वजनप्रियं॥ २१ ॥

मूलम्

बाणैर्जायाभिरालभ्यमर्कपर्णान्यपुष्पकं
एवमेव महापुण्यं कृत्वा सर्वजनप्रियं॥ २१ ॥

विश्वास-प्रस्तुतिः

हविष्यान्नो निराहारो जनो यजति भास्करम्
एवमेव त्रिभिर्वर्गैरर्चितस्तैर्विभाकरः॥ २२ ॥

मूलम्

हविष्यान्नो निराहारो जनो यजति भास्करम्
एवमेव त्रिभिर्वर्गैरर्चितस्तैर्विभाकरः॥ २२ ॥

विश्वास-प्रस्तुतिः

सन्तुष्टो भूपमागम्य कृपया चाब्रवीद्वचः
वरं वरय चाभीष्टं यस्ते मनसि वर्तते॥ २३ ॥

मूलम्

सन्तुष्टो भूपमागम्य कृपया चाब्रवीद्वचः
वरं वरय चाभीष्टं यस्ते मनसि वर्तते॥ २३ ॥

विश्वास-प्रस्तुतिः

सर्वेषां वो हितार्थाय सानुगः पुरवासिनाम्
राजोवाच-
यदीच्छसि वरं दातुं सर्वलोचनमत्प्रियम्॥ २४ ॥

मूलम्

सर्वेषां वो हितार्थाय सानुगः पुरवासिनाम्
राजोवाच-
यदीच्छसि वरं दातुं सर्वलोचनमत्प्रियम्॥ २४ ॥

विश्वास-प्रस्तुतिः

सर्वेषां नः परं स्वर्गं त्वत्सकाशे भवत्विति
सूर्य उवाच-
अमात्यास्ते द्विजा विप्राः सदारास्सपरिच्छदाः॥ २५ ॥

मूलम्

सर्वेषां नः परं स्वर्गं त्वत्सकाशे भवत्विति
सूर्य उवाच-
अमात्यास्ते द्विजा विप्राः सदारास्सपरिच्छदाः॥ २५ ॥

विश्वास-प्रस्तुतिः

नवीनयौवनाः शुद्धा यावदाभूतसम्प्लवम्
तिष्ठन्तु मत्पुरे रम्ये सर्वभोगैर्निरामयाः॥ २६ ॥

मूलम्

नवीनयौवनाः शुद्धा यावदाभूतसम्प्लवम्
तिष्ठन्तु मत्पुरे रम्ये सर्वभोगैर्निरामयाः॥ २६ ॥

विश्वास-प्रस्तुतिः

सुरद्रुमैः सुसम्पूर्णैः प्रासादैर्द्रुमकल्पकैः
प्रमदाभिर्महाभाग नृत्यगीतादिभिः परैः॥ २७ ॥

मूलम्

सुरद्रुमैः सुसम्पूर्णैः प्रासादैर्द्रुमकल्पकैः
प्रमदाभिर्महाभाग नृत्यगीतादिभिः परैः॥ २७ ॥

विश्वास-प्रस्तुतिः

पञ्चकल्पान्तरे राजा मन्वादौ त्वं भविष्यसि
अमी ते मनुजा भूप पुरस्थाश्च पुरोधसः॥ २८ ॥

मूलम्

पञ्चकल्पान्तरे राजा मन्वादौ त्वं भविष्यसि
अमी ते मनुजा भूप पुरस्थाश्च पुरोधसः॥ २८ ॥

विश्वास-प्रस्तुतिः

तथा जनपदस्थाश्च विद्वांसो धनिनो नराः
तत्र मत्तो वरं लब्ध्वा सुखं स्वर्गमवाप्स्यथ॥ २९ ॥

मूलम्

तथा जनपदस्थाश्च विद्वांसो धनिनो नराः
तत्र मत्तो वरं लब्ध्वा सुखं स्वर्गमवाप्स्यथ॥ २९ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा जगच्चक्षुस्तत्रैवान्तरधीयत
ततो भद्रेश्वरो राजा सपुरो दिवि मोदते॥ ३० ॥

मूलम्

एवमुक्त्वा जगच्चक्षुस्तत्रैवान्तरधीयत
ततो भद्रेश्वरो राजा सपुरो दिवि मोदते॥ ३० ॥

विश्वास-प्रस्तुतिः

तत्र कीटादयो ये च ते पीताः ससुतादयः
स्वर्गे देवद्रुमे भोग्यं कुर्वन्ति महदद्भुतम्॥ ३१ ॥

मूलम्

तत्र कीटादयो ये च ते पीताः ससुतादयः
स्वर्गे देवद्रुमे भोग्यं कुर्वन्ति महदद्भुतम्॥ ३१ ॥

विश्वास-प्रस्तुतिः

एवमेव नृपा विप्रा मुनयश्शंसितव्रताः
ये च क्षत्रादयो वर्णास्सूर स्वर्गं ययुर्द्रुतम्॥ ३२ ॥

मूलम्

एवमेव नृपा विप्रा मुनयश्शंसितव्रताः
ये च क्षत्रादयो वर्णास्सूर स्वर्गं ययुर्द्रुतम्॥ ३२ ॥

विश्वास-प्रस्तुतिः

कैश्चिदभ्यर्थितं वित्तं पुत्रदारास्तथापरैः
सुखं स्वर्गं तथारोग्यं भास्करस्य प्रसादतः॥ ३३ ॥

मूलम्

कैश्चिदभ्यर्थितं वित्तं पुत्रदारास्तथापरैः
सुखं स्वर्गं तथारोग्यं भास्करस्य प्रसादतः॥ ३३ ॥

विश्वास-प्रस्तुतिः

पुण्यकूटमिदं भद्रं यः पठेन्मानवः शुचिः
सर्वपापक्षयस्तस्य रुद्रवत्पूजितो भुवि॥ ३४ ॥

मूलम्

पुण्यकूटमिदं भद्रं यः पठेन्मानवः शुचिः
सर्वपापक्षयस्तस्य रुद्रवत्पूजितो भुवि॥ ३४ ॥

विश्वास-प्रस्तुतिः

सर्वसाक्षी भवेत्स्वर्गे वरदो भास्करप्रियः
शृणोति संयतो मर्त्यः सोभीष्टं फलमाप्नुयात्॥ ३५ ॥

मूलम्

सर्वसाक्षी भवेत्स्वर्गे वरदो भास्करप्रियः
शृणोति संयतो मर्त्यः सोभीष्टं फलमाप्नुयात्॥ ३५ ॥

विश्वास-प्रस्तुतिः

पारगः सर्वपापानां भास्करस्यैव संसदि
वावदूको भवेन्नित्यं श्रवणात्पुण्यवान्धनी॥ ३६ ॥

मूलम्

पारगः सर्वपापानां भास्करस्यैव संसदि
वावदूको भवेन्नित्यं श्रवणात्पुण्यवान्धनी॥ ३६ ॥

विश्वास-प्रस्तुतिः

इदं गुह्यातिगुह्यं च भास्करेण प्रचारितं
इदं यमाय कथितं क्षितौ व्यासेन कीर्तितम्॥ ३७ ॥

मूलम्

इदं गुह्यातिगुह्यं च भास्करेण प्रचारितं
इदं यमाय कथितं क्षितौ व्यासेन कीर्तितम्॥ ३७ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे भद्रेश्वराख्यानं नामैकोनाशीतितमोऽध्यायः७९