वैशम्पायन उवाच-
विश्वास-प्रस्तुतिः
भगवंस्त्वत्प्रसादाच्च श्रुतं मे पावनं व्रतं
अपरं श्रोतुमिच्छामि ब्रध्नस्य च प्रियं च यत्॥ १ ॥
मूलम्

व्यास उवाच-
कैलासशिखरे रम्ये सुखासीनं महेश्वरं
प्रणम्य शिरसा भूमौ स्कन्दो वचनमब्रवीत्॥ २ ॥

अर्काङ्गाख्यविधिस्त्वत्तो मयैवं विस्तराच्छ्रुतः
वारादेर्यत्फलं नाथ श्रोतुमिच्छामि तत्त्वतः॥ ३ ॥

ईश्वर उवाच-
रक्तपुष्पै रवेर्वारे त्वर्घ्यं दद्याद्व्रती नरः
नक्ताहारं हविष्यान्नं कृत्वा स्वर्गान्न हीयते॥ ४ ॥

सप्तम्याश्च सदाचारं सर्वमेवार्कवासरे
कुर्वतः प्रीतिमाप्नोति सगणः परमेश्वरः॥ ५ ॥

शूरस्य सदृशं याति तिथिवारस्य पालनात्
एकेन गाणपत्यस्य यावत्सूरो नभस्तले॥ ६ ॥
मूलम्
शूरस्य सदृशं याति तिथिवारस्य पालनात्
एकेन गाणपत्यस्य यावत्सूरो नभस्तले॥ ६ ॥
विश्वास-प्रस्तुतिः
सर्वकामप्रदं पुण्यमैश्वर्यं रोगनाशनम्
स्वर्गदं मोक्षदं पुण्यं रवेर्वारे व्रतं हितम्॥ ७ ॥

रविवारेण सङ्क्रान्त्या सप्तम्या तद्दिने शिवे
व्रतपूजादिकं चाप्यं सर्वं चाक्षयतां व्रजेत्॥ ८ ॥

आदित्यवासरे शुभ्रे ग्रहाधिपप्रपूजनम्
प्राणादहतवक्त्रेण निःसार्य मण्डले न्यसेत्॥ ९ ॥

द्विभुजं रक्तपद्मस्थं सुगलं रक्तवाससं
सर्वरक्ताभरणं ध्यात्वा हस्ताभ्यां पुष्पं विधृतसङ्घ्रायैशान्यां क्षिपेत्॥ १० ॥

आदित्याय विद्महे भास्कराय धीमहि
तन्नो भानुः प्रचोदयात्॥ ११ ॥
मूलम्
आदित्याय विद्महे भास्कराय धीमहि
तन्नो भानुः प्रचोदयात्॥ ११ ॥
विश्वास-प्रस्तुतिः
ततो गुरूपदिष्टेन विधिना च विलेपनम्
विलेपनान्ते सद्धूपं धूपान्ते च प्रदीपकम्॥ १२ ॥

प्रदीपान्ते च नैवेद्यं ततो वारि निवेदयेत्
ततो जप्यं स्तुतिं मुद्रां नमस्कारं तु कारयेत्॥ १३ ॥

अञ्जलि प्रथमा मुद्रा द्वितीया धेनुका स्मृता
एवं यः पूजयेदर्कं रविसायुज्यमाव्रजेत्॥ १४ ॥

मम ब्रह्मवधं घोरं कपालं करलग्नकम्
रवेस्तस्यप्रसादात्तु मुक्तं वाराणसीतटे॥ १५ ॥

रवेः परतरं दैवं त्रैलोक्ये तु न विद्यते
यस्य प्रसादतो घोरान्मुक्तोहं गुरुकिल्बिषात्॥ १६ ॥

स्कन्द उवाच-
श्रुत्वा त्वत्तो गिरं नाथ विस्मयो मेऽभवत्प्रभो
त्वदन्योस्ति न को देवः कथं ब्रह्मवधं त्वयि॥ १७ ॥

त्वं च ज्ञानीश्वरो योगी लोके भोक्ताऽक्षरोऽव्ययः
देवानां गुरुरेकस्त्वं व्याप्तरूपी महेश्वरः॥ १८ ॥

सर्वज्ञो वरदो नित्यं सर्वेषां प्राणिनां प्रभुः
दुष्कृतं ते कुतो नाथ तथा क्रोधो विशेषतः॥ १९ ॥

शिव उवाच-
लोकानां च हितार्थाय पृथग्भूता युगे युगे
सर्वं कुर्मो वयं पुत्र ब्रह्मविष्णुमहेश्वराः॥ २० ॥

नास्माकं बन्धमोक्षौ च नाकार्यं कार्यमेव वा
तथा लोकस्य रक्षार्थं चरामो विधिपूर्वकम्॥ २१ ॥

सर्वं च परमं चैव सर्वविघ्नविनाशनम्
सर्वरोगप्रशमनं सर्वार्थप्रतिसाधकम्॥ २२ ॥

एकोसौ बहुधा भूत्वा कालभेदादनिन्दितः
मासे मासे तु तपति एको द्वादशतां व्रजेत्॥ २३ ॥

मित्रो मार्गशिरे मासि पौषे विष्णुः सनातनः
वरुणो माघमासे तु सूर्यो वै फाल्गुने तथा॥ २४ ॥

चैत्रे मासि तपेद्भानुर्वैशाखे तापनः स्मृतः
ज्येष्ठमासे तपेदिन्द्र आषाढे तपते रविः॥ २५ ॥

गभस्तिः श्रावणे मासि यमो भाद्रपदे तथा
हिरण्यरेताश्वयुजि कार्तिके तु दिवाकरः॥ २६ ॥

इत्येते द्वादशादित्या मासि मासि प्रकीर्तिताः
उरुरूपा महातेजा युगान्तानलवर्चसः॥ २७ ॥

य इदं पठते नित्यं तस्य पापं न विद्यते
न रोगो न च दारिद्र्यं नावमानो भवेत्क्वचित्॥ २८ ॥

अक्षयं लभते स्वर्गं सुखं राज्यं यशः क्रमात्
महामन्त्रं प्रवक्ष्यामि सर्वप्रीतिकरं परम्॥ २९ ॥

ऊँ नमः सहस्रबाहवे आदित्याय नमोनमः
नमस्ते पद्महस्ताय वरुणाय नमोनमः॥ ३० ॥
मूलम्
ऊँ नमः सहस्रबाहवे आदित्याय नमोनमः
नमस्ते पद्महस्ताय वरुणाय नमोनमः॥ ३० ॥
विश्वास-प्रस्तुतिः
नमस्तिमिरनाशाय श्रीसूर्याय नमोनमः
नमः सहस्रजिह्वाय भानवे च नमोनमः॥ ३१ ॥
मूलम्
नमस्तिमिरनाशाय श्रीसूर्याय नमोनमः
नमः सहस्रजिह्वाय भानवे च नमोनमः॥ ३१ ॥
विश्वास-प्रस्तुतिः
त्वं च ब्रह्मा त्वं च विष्णू रुद्रस्त्वं च नमोनमः
त्वमग्निः सर्वभूतेषु वायुस्त्वं च नमोनमः॥ ३२ ॥

सर्वगः सर्वभूतेषु नहि किञ्चित्त्वया विना
चराचरे जगत्यस्मिन्सर्वदेहे व्यवस्थितः॥ ३३ ॥

इति जप्त्वा लभेत्कामं स्वर्गभोग्यादिकं क्रमात्
आदित्यो भास्करः सूर्यो अर्को भानुर्दिवाकरः॥ ३४ ॥

सुवर्णरेता मित्रश्च पूषा त्वष्टा च ते दश
स्वयम्भूस्तिमिराशश्च द्वादशः परिकीर्तितः॥ ३५ ॥

नामान्येतानि सूर्यस्य शुचिर्यस्तु पठेन्नरः
सर्वपापाच्च रोगाच्च मुक्तो याति परां गतिम्॥ ३६ ॥

पुनरन्यत्प्रवक्ष्यामि भास्करस्य महात्मनः
रक्ताख्याये रक्तनिभास्सिन्दूरारुणविग्रहाः॥ ३७ ॥

यानि नामानि मुख्यानि तच्छृणुष्व षडानन
तपनस्तापनश्चैव कर्त्ता हर्त्ता ग्रहेश्वरः॥ ३८ ॥

लोकसाक्षी त्रिलोकेषु व्योमाधिपो दिवाकरः
अग्निगर्भो महाविप्रः स्वर्गः सप्ताश्ववाहनः॥ ३९ ॥

पद्महस्तस्तमोभेदी ऋग्वेदो यजुस्सामगः
कालप्रियं पुण्डरीकं मूलस्थानं च भावितम्॥ ४० ॥

यः स्मरेच्च सदा भक्त्या तस्य रोगभयं कुतः
शृणु कार्तिक यत्नेन सर्वपापहरं शुभम्॥ ४१ ॥

न सन्देहो मनाक्कार्य आदित्यस्य महामते
ऊँ इन्द्राय नमः ऊँ विष्णवे नमः॥ ४२ ॥
मूलम्
न सन्देहो मनाक्कार्य आदित्यस्य महामते
ऊँ इन्द्राय नमः ऊँ विष्णवे नमः॥ ४२ ॥
विश्वास-प्रस्तुतिः
एष जप्यश्च होमश्च सन्ध्योपासनमेव च
सर्वशान्तिकरश्चैव सर्वविघ्नविनाशनः॥ ४३ ॥

नाशयेत्सर्वरोगांश्च लूताविस्फोटकादिकान्
कामलादिकरोगांश्च ये रोगाश्चैव दारुणाः॥ ४४ ॥

एकाहिकं त्र्यहिकं च ज्वरं चातुर्थिकं तथा
कुष्ठं रोगं क्षयं रोगं कुक्षिरोगं ज्वरं तथा॥ ४५ ॥

अश्मरीमूत्रङ्कृच्छ्रांश्च नानारोगामयांस्तथा
ये वातप्रभवा रोगा ये रोगा गर्भसम्भवाः॥ ४६ ॥

मर्दयन्तो महारोगा मर्दिता वेदनात्मकाः
विलयं यान्ति ते सर्व आदित्योच्चारणेन तु॥ ४७ ॥

रक्ष मां देवदेवेश ग्रहरोगभयेषु च
प्रशमं यान्ति ते सर्वे कीर्तिते तु दिवाकरे॥ ४८ ॥

मूलमन्त्रं प्रवक्ष्यामि सर्वकामार्थसाधकम्
भुक्तिमुक्तिप्रदं नित्यं भास्करस्य महात्मनः॥ ४९ ॥

मन्त्रश्चायं ॐ ह्रां ह्रीं सः सूर्याय नमः
अनेन मन्त्रेण सदा सर्वसिद्धिर्भवेद्ध्रुवं५० 1.78.50
व्याधयो वै न बाधन्ते न चानिष्टं भयं भवेत्
सूर्यावर्तोदकं यस्तु गृहीत्वा तु क्रमेण तु॥ ५१ ॥

तस्य प्राशनमात्रेण नरो रोगात्प्रमुच्यते
न दातव्यं न ख्यातव्यं जप्तव्यं च प्रयत्नतः॥ ५२ ॥

अभक्तेष्वनपत्येषु पाषण्डलौकिकेषु च
कटुतैलसमायुक्तं नस्ये पाने च दापयेत्॥ ५३ ॥

सूर्यावर्तजलं पुत्र सर्वरोगाद्विमुच्यते
मूलमन्त्रस्तु जप्तव्यः सन्ध्यायां होमकर्मसु॥ ५४ ॥

जप्यमाने तु नश्यन्ति रोगाः क्रूरग्रहास्तथा
किमन्यैर्बहुभिः शास्त्रैर्मन्त्रैर्वा बहुविस्तरैः॥ ५५ ॥

सर्वशान्तिरियं वत्स सर्वार्थप्रतिसाधिका
नास्तिकाय न दातव्या देवब्राह्मणनिन्दके॥ ५६ ॥

गुरुभक्ताय दातव्या नान्येभ्योपि कदाचन
प्रातरुत्थाय यो नित्यं कीर्तयिष्यति मानवः॥ ५७ ॥

गोघ्नः कृतघ्नकश्चैव मुच्यते सर्वपातकैः
शरीरारोग्यकृच्चैव धनवृद्धियशस्करः॥ ५८ ॥
मूलम्
गोघ्नः कृतघ्नकश्चैव मुच्यते सर्वपातकैः
शरीरारोग्यकृच्चैव धनवृद्धियशस्करः॥ ५८ ॥
विश्वास-प्रस्तुतिः
जायते नात्र सन्देहो यस्य तुष्येद्दिवाकरः
एककालं द्विकालं वा त्रिकालं नित्यमेव च॥ ५९ ॥

यः पठेद्रविसान्निध्ये सोऽभीष्टं फलमाप्नुयात्
पुत्रार्थी लभते पुत्रं कन्यार्थी कन्यकां लभेत्॥ ६० ॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनं
शृणुयात्संयुतो भक्त्या शुद्धाचारसमन्वितः॥ ६१ ॥

सर्वपापविनिर्मुक्तस्सूर्यलोकं व्रजत्यपि
भास्करस्य व्रते यच्च व्रताचारमखेषु च॥ ६२ ॥

पुण्यस्थानेषु तीर्थेषु पठेत्कोटिगुणं भवेत्
ग्रहे भोज्येषु पूजायां ब्रह्मभोज्ये द्विजाग्रतः॥ ६३ ॥

य इदं पठते विप्रस्तस्यानन्तफलं भवेत्
तपस्विनां च विप्राणां देवानामग्रतः सुधीः॥ ६४ ॥

यः पठेत्पाठयेद्वापि सुरलोके महीयते॥ ६५ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे सूर्यशान्तिर्नामाष्टसप्ततितमोऽध्यायः७८