सञ्जय उवाच-
विश्वास-प्रस्तुतिः
येऽसुराश्च मृता युद्धे सम्मुखे विमुखेऽपि वा
गतिं तेषामहं ब्रह्मन्श्रोतुमिच्छामि तत्त्वतः॥ १ ॥
मूलम्
येऽसुराश्च मृता युद्धे सम्मुखे विमुखेऽपि वा
गतिं तेषामहं ब्रह्मन्श्रोतुमिच्छामि तत्त्वतः॥ १ ॥
विश्वास-प्रस्तुतिः
असङ्ख्याता इमे दैत्यास्त्रैलोक्ये सचराचरे
अद्याप्यासन्गताः कुत्र एतन्मे शंस भो गुरो॥ २ ॥
मूलम्
असङ्ख्याता इमे दैत्यास्त्रैलोक्ये सचराचरे
अद्याप्यासन्गताः कुत्र एतन्मे शंस भो गुरो॥ २ ॥
विश्वास-प्रस्तुतिः
व्यास उवाच-
ये मृतास्सम्मुखे शूरा दैत्यानां प्रवरा रणे
स्वयं प्राप्य च देवत्वं भोग्यमश्नन्ति शाश्वतम्॥ ३ ॥
मूलम्
व्यास उवाच-
ये मृतास्सम्मुखे शूरा दैत्यानां प्रवरा रणे
स्वयं प्राप्य च देवत्वं भोग्यमश्नन्ति शाश्वतम्॥ ३ ॥
विश्वास-प्रस्तुतिः
प्रासादा यत्र सौवर्णा नानारत्नाविभूषिताः
सर्वकामप्रदा वृक्षाः स्वर्णदीतोय संयुताः॥ ४ ॥
मूलम्
प्रासादा यत्र सौवर्णा नानारत्नाविभूषिताः
सर्वकामप्रदा वृक्षाः स्वर्णदीतोय संयुताः॥ ४ ॥
विश्वास-प्रस्तुतिः
पद्मोत्पलसुकल्हारैर्गन्धाढ्यैरन्यपुष्पकैः
दधिदुग्धाज्यखण्डैश्च युता पुष्करिणी शुभा॥ ५ ॥
मूलम्
पद्मोत्पलसुकल्हारैर्गन्धाढ्यैरन्यपुष्पकैः
दधिदुग्धाज्यखण्डैश्च युता पुष्करिणी शुभा॥ ५ ॥
विश्वास-प्रस्तुतिः
अतीवरूपसम्पन्नाः सदैव नवयौवनाः
तत्र राज्यं प्रकुर्वन्ति तथैव वसुधातले॥ ६ ॥
मूलम्
अतीवरूपसम्पन्नाः सदैव नवयौवनाः
तत्र राज्यं प्रकुर्वन्ति तथैव वसुधातले॥ ६ ॥
विश्वास-प्रस्तुतिः
एवं जन्माष्टकं प्राप्य धनिनोऽध्यक्षमन्त्रिणः
अर्धसम्मुखगात्रेण दिवमश्नन्ति शाश्वतम्॥ ७ ॥
मूलम्
एवं जन्माष्टकं प्राप्य धनिनोऽध्यक्षमन्त्रिणः
अर्धसम्मुखगात्रेण दिवमश्नन्ति शाश्वतम्॥ ७ ॥
विश्वास-प्रस्तुतिः
विमुखाः कातरा भीता ये च मायाविनो रणे
ते यान्ति निरयं घोरं ये च देवद्विजद्विषः॥ ८ ॥
मूलम्
विमुखाः कातरा भीता ये च मायाविनो रणे
ते यान्ति निरयं घोरं ये च देवद्विजद्विषः॥ ८ ॥
विश्वास-प्रस्तुतिः
पतितं मूर्च्छितं भग्नमन्ययोद्धारमाहवे
हन्तारो निरयं यान्ति ते च म्लेच्छाः कुवाचकाः॥ ९ ॥
मूलम्
पतितं मूर्च्छितं भग्नमन्ययोद्धारमाहवे
हन्तारो निरयं यान्ति ते च म्लेच्छाः कुवाचकाः॥ ९ ॥
विश्वास-प्रस्तुतिः
परन्यासापहर्तारो विमुखास्सन्ति तत्त्वतः
रात्रौ वा विपिने नष्टे चोरास्साहसकारिणः॥ १० ॥
मूलम्
परन्यासापहर्तारो विमुखास्सन्ति तत्त्वतः
रात्रौ वा विपिने नष्टे चोरास्साहसकारिणः॥ १० ॥
विश्वास-प्रस्तुतिः
सर्वभक्षरता मूढा म्लेच्छा गोब्रह्मघातकाः
कुवाचकाः परे म्लेच्छा एते ये कूटयोनयः॥ ११ ॥
मूलम्
सर्वभक्षरता मूढा म्लेच्छा गोब्रह्मघातकाः
कुवाचकाः परे म्लेच्छा एते ये कूटयोनयः॥ ११ ॥
विश्वास-प्रस्तुतिः
तेषां पैशाचिकी भाषा लोकाचारो न विद्यते
नास्ति शौचं तपो ज्ञानं न देवपितृतर्पणम्॥ १२ ॥
मूलम्
तेषां पैशाचिकी भाषा लोकाचारो न विद्यते
नास्ति शौचं तपो ज्ञानं न देवपितृतर्पणम्॥ १२ ॥
विश्वास-प्रस्तुतिः
दानश्राद्धादिकं यज्ञे सुराणां च प्रपूजनम्
पितॄणां च न शुश्रूषा द्विजदेवतपस्विनाम्॥ १३ ॥
मूलम्
दानश्राद्धादिकं यज्ञे सुराणां च प्रपूजनम्
पितॄणां च न शुश्रूषा द्विजदेवतपस्विनाम्॥ १३ ॥
विश्वास-प्रस्तुतिः
ज्ञानलोपादतस्तेषां मलशौचं न विद्यते
मातरं भगिनीं चान्यां गृहिणीं कामयन्ति च॥ १४ ॥
मूलम्
ज्ञानलोपादतस्तेषां मलशौचं न विद्यते
मातरं भगिनीं चान्यां गृहिणीं कामयन्ति च॥ १४ ॥
विश्वास-प्रस्तुतिः
सर्वो विपर्ययो लोकात्सदाचारो मलीमसः
तार्क्ष्यस्योद्ववनानां च अन्येषां गोत्रवासिनाम्॥ १५ ॥
मूलम्
सर्वो विपर्ययो लोकात्सदाचारो मलीमसः
तार्क्ष्यस्योद्ववनानां च अन्येषां गोत्रवासिनाम्॥ १५ ॥
विश्वास-प्रस्तुतिः
कुलजातास्सदा दैत्या येषां पुण्यमकारणम्
दुर्गतिं च मृता यान्ति द्विजस्त्रीशिशुघातिनः॥ १६ ॥
मूलम्
कुलजातास्सदा दैत्या येषां पुण्यमकारणम्
दुर्गतिं च मृता यान्ति द्विजस्त्रीशिशुघातिनः॥ १६ ॥
विश्वास-प्रस्तुतिः
गवाशिनो दुरात्मानो ह्यभक्ष्यभक्षणे रताः
कीटयोनिं व्रजन्त्येते तरवश्च पिपीलिकाः॥ १७ ॥
मूलम्
गवाशिनो दुरात्मानो ह्यभक्ष्यभक्षणे रताः
कीटयोनिं व्रजन्त्येते तरवश्च पिपीलिकाः॥ १७ ॥
विश्वास-प्रस्तुतिः
न मन्त्रेषु न देवेषु कल्पन्ते ते सुरद्विषः
अग्रजः सहजस्तेषां सदृङ्नो ग्राम्यवृत्तयः॥ १८ ॥
मूलम्
न मन्त्रेषु न देवेषु कल्पन्ते ते सुरद्विषः
अग्रजः सहजस्तेषां सदृङ्नो ग्राम्यवृत्तयः॥ १८ ॥
विश्वास-प्रस्तुतिः
लोमकेशप्रणेतारः क्रव्यभक्षरता भुवि
साहसं च व्रतं दानं स्नानं यज्ञादिकं च यत्॥ १९ ॥
मूलम्
लोमकेशप्रणेतारः क्रव्यभक्षरता भुवि
साहसं च व्रतं दानं स्नानं यज्ञादिकं च यत्॥ १९ ॥
विश्वास-प्रस्तुतिः
मत्स्यमांसादिषु प्रीता मृषावचनभाषिणः
सदाकामास्सदा लोभास्सदा क्रोधमदान्विताः॥ २० ॥
मूलम्
मत्स्यमांसादिषु प्रीता मृषावचनभाषिणः
सदाकामास्सदा लोभास्सदा क्रोधमदान्विताः॥ २० ॥
विश्वास-प्रस्तुतिः
वधबन्धरतोद्वेगा द्यूतसङ्गीतसम्प्रियाः
कुभृत्याः कुजनप्रीताः पूतिगन्धरता नराः॥ २१ ॥
मूलम्
वधबन्धरतोद्वेगा द्यूतसङ्गीतसम्प्रियाः
कुभृत्याः कुजनप्रीताः पूतिगन्धरता नराः॥ २१ ॥
विश्वास-प्रस्तुतिः
न देवेषु न विज्ञेषु न धर्मश्रवणेषु च
स्तोत्रमन्त्रादिके पुण्ये यथाकार्येष्वनिश्चयाः॥ २२ ॥
मूलम्
न देवेषु न विज्ञेषु न धर्मश्रवणेषु च
स्तोत्रमन्त्रादिके पुण्ये यथाकार्येष्वनिश्चयाः॥ २२ ॥
विश्वास-प्रस्तुतिः
बहुरोगाधिरोषाश्च बहुरूपपरिच्छदाः
नरजातिषु दैत्यानां चिह्नान्येतानि भूतले॥ २३ ॥
मूलम्
बहुरोगाधिरोषाश्च बहुरूपपरिच्छदाः
नरजातिषु दैत्यानां चिह्नान्येतानि भूतले॥ २३ ॥
विश्वास-प्रस्तुतिः
न जानन्ति परं लोकं न गुरुं स्वं न चापरं
गर्भपूरणमिच्छन्ति नातिथिं न गुरून्द्विजान्॥ २४ ॥
मूलम्
न जानन्ति परं लोकं न गुरुं स्वं न चापरं
गर्भपूरणमिच्छन्ति नातिथिं न गुरून्द्विजान्॥ २४ ॥
विश्वास-प्रस्तुतिः
न देवं न सुतं गोत्रं न मित्रं न च बान्धवं
स्वप्ने दानं न जानन्ति भक्षणान्न परिच्छदं॥ २५ ॥
मूलम्
न देवं न सुतं गोत्रं न मित्रं न च बान्धवं
स्वप्ने दानं न जानन्ति भक्षणान्न परिच्छदं॥ २५ ॥
विश्वास-प्रस्तुतिः
गोपायन्ति धनं यस्मात्ते यक्षा नररूपिणः
प्राणान्तेपि धनं किचिन्न दिशन्ति च राजनि॥ २६ ॥
मूलम्
गोपायन्ति धनं यस्मात्ते यक्षा नररूपिणः
प्राणान्तेपि धनं किचिन्न दिशन्ति च राजनि॥ २६ ॥
विश्वास-प्रस्तुतिः
ते यक्षा दुर्गतिस्थाश्च परार्थे भारवाहकाः
प्रेतानां लक्षणं यद्वा सर्वलोकविगर्हितं॥ २७ ॥
मूलम्
ते यक्षा दुर्गतिस्थाश्च परार्थे भारवाहकाः
प्रेतानां लक्षणं यद्वा सर्वलोकविगर्हितं॥ २७ ॥
विश्वास-प्रस्तुतिः
स्त्रीणां च पुरुषाणां च शृणुष्वैकमना मम
मलपङ्कधरा नित्यं सत्यशौचविवर्जिताः॥ २८ ॥
मूलम्
स्त्रीणां च पुरुषाणां च शृणुष्वैकमना मम
मलपङ्कधरा नित्यं सत्यशौचविवर्जिताः॥ २८ ॥
विश्वास-प्रस्तुतिः
दन्तकुन्तलवस्त्राणां वपुषो मलसञ्चयाः
गृहपीठादिपात्राणां सकृच्छौचं न रोचते॥ २९ ॥
मूलम्
दन्तकुन्तलवस्त्राणां वपुषो मलसञ्चयाः
गृहपीठादिपात्राणां सकृच्छौचं न रोचते॥ २९ ॥
विश्वास-प्रस्तुतिः
न पश्यन्ति सुखं स्त्रीणां विशन्ति कानने द्रुतं
विघसोच्छिष्टपूतीनां भक्षणेभिरता भुवि॥ ३० ॥
मूलम्
न पश्यन्ति सुखं स्त्रीणां विशन्ति कानने द्रुतं
विघसोच्छिष्टपूतीनां भक्षणेभिरता भुवि॥ ३० ॥
विश्वास-प्रस्तुतिः
अन्नपानं च शयनमन्धकारेषु रोचते
कदाचित्स्वस्थता नास्ति क्वचिद्वा शुचितातनौ॥ ३१ ॥
मूलम्
अन्नपानं च शयनमन्धकारेषु रोचते
कदाचित्स्वस्थता नास्ति क्वचिद्वा शुचितातनौ॥ ३१ ॥
विश्वास-प्रस्तुतिः
लक्षणं नरलोकेषु प्रेतानामीदृशं किल
हिताहितं न जानन्ति मित्रामित्रं गुणागुणम्॥ ३२ ॥
मूलम्
लक्षणं नरलोकेषु प्रेतानामीदृशं किल
हिताहितं न जानन्ति मित्रामित्रं गुणागुणम्॥ ३२ ॥
विश्वास-प्रस्तुतिः
पापपुण्यादिकं स्थानं स्नानं देवद्विजार्चनं
अरिमित्रमुदासीनं न विन्दन्ति स्वभावतः॥ ३३ ॥
मूलम्
पापपुण्यादिकं स्थानं स्नानं देवद्विजार्चनं
अरिमित्रमुदासीनं न विन्दन्ति स्वभावतः॥ ३३ ॥
विश्वास-प्रस्तुतिः
मर्त्यस्थाः पशवस्ते च ज्ञायन्ते बुद्धिसम्मतैः
बुद्ध्या नानात्वभावाश्च भ्रमन्ति च मृषा भुवि॥ ३४ ॥
मूलम्
मर्त्यस्थाः पशवस्ते च ज्ञायन्ते बुद्धिसम्मतैः
बुद्ध्या नानात्वभावाश्च भ्रमन्ति च मृषा भुवि॥ ३४ ॥
विश्वास-प्रस्तुतिः
यक्षरूपा नरास्ते च सर्वकर्मबहिष्कृताः
एषां भेदं प्रवक्ष्यामि लक्षणं धरणीतले॥ ३५ ॥
मूलम्
यक्षरूपा नरास्ते च सर्वकर्मबहिष्कृताः
एषां भेदं प्रवक्ष्यामि लक्षणं धरणीतले॥ ३५ ॥
विश्वास-प्रस्तुतिः
विजाता मर्त्यलोकेषु पापस्यैवानुरूपतः
मलीमस भुविप्रस्थं नागरं छद्मरूपिणं॥ ३६ ॥
मूलम्
विजाता मर्त्यलोकेषु पापस्यैवानुरूपतः
मलीमस भुविप्रस्थं नागरं छद्मरूपिणं॥ ३६ ॥
विश्वास-प्रस्तुतिः
विघसादिप्रभोक्तारं काकमाहुर्मनीषिणः
अभक्ष्ये निरतः पापः कुकुरः पूतिसम्प्रियः॥ ३७ ॥
मूलम्
विघसादिप्रभोक्तारं काकमाहुर्मनीषिणः
अभक्ष्ये निरतः पापः कुकुरः पूतिसम्प्रियः॥ ३७ ॥
विश्वास-प्रस्तुतिः
प्रवृत्तस्सर्वगृह्येषु भक्ष्याभक्ष्यसजीवनः
भूम्यां पश्वादियोनीनां कुलेषु प्राप्तसम्भवाः॥ ३८ ॥
मूलम्
प्रवृत्तस्सर्वगृह्येषु भक्ष्याभक्ष्यसजीवनः
भूम्यां पश्वादियोनीनां कुलेषु प्राप्तसम्भवाः॥ ३८ ॥
विश्वास-प्रस्तुतिः
शुनो विगृह्य हस्तेन म्लेच्छानां भक्षणप्रियाः
विशेषात्सूकराणां च तथा च रणयोधिनां॥ ३९ ॥
मूलम्
शुनो विगृह्य हस्तेन म्लेच्छानां भक्षणप्रियाः
विशेषात्सूकराणां च तथा च रणयोधिनां॥ ३९ ॥
विश्वास-प्रस्तुतिः
पोषणे भक्षणे प्रीताः पूतिगर्ह्येष्वसाधुषु
पर्वतेकरणाद्वह्नेः काष्ठसञ्चयसङ्ग्रहे॥ ४० ॥
मूलम्
पोषणे भक्षणे प्रीताः पूतिगर्ह्येष्वसाधुषु
पर्वतेकरणाद्वह्नेः काष्ठसञ्चयसङ्ग्रहे॥ ४० ॥
विश्वास-प्रस्तुतिः
विज्ञेयास्ते सदा म्लेच्छाः क्षत्रियाणां भयाकुलाः
लोकानां नष्टधर्मे च सदा शौचविवर्जिते॥ ४१ ॥
मूलम्
विज्ञेयास्ते सदा म्लेच्छाः क्षत्रियाणां भयाकुलाः
लोकानां नष्टधर्मे च सदा शौचविवर्जिते॥ ४१ ॥
विश्वास-प्रस्तुतिः
कुलीनानां तदा म्लेच्छा भविष्यन्ति च दस्यवः
तेषां संसर्गतोन्ये च सम्बन्धादन्नभोजनात्॥ ४२ ॥
मूलम्
कुलीनानां तदा म्लेच्छा भविष्यन्ति च दस्यवः
तेषां संसर्गतोन्ये च सम्बन्धादन्नभोजनात्॥ ४२ ॥
विश्वास-प्रस्तुतिः
मैथुनात्तस्य योषासु तद्भावं तु व्रजन्ति ते
तस्मिन्काले जनास्सर्वे दुःखरोगप्रतापिताः॥ ४३ ॥
मूलम्
मैथुनात्तस्य योषासु तद्भावं तु व्रजन्ति ते
तस्मिन्काले जनास्सर्वे दुःखरोगप्रतापिताः॥ ४३ ॥
विश्वास-प्रस्तुतिः
दुर्भिक्षान्न परामूढाः सदा राजप्रपीडिताः
तत्रासत्येरता मर्त्याः सर्वशौचविवर्जिताः॥ ४४ ॥
मूलम्
दुर्भिक्षान्न परामूढाः सदा राजप्रपीडिताः
तत्रासत्येरता मर्त्याः सर्वशौचविवर्जिताः॥ ४४ ॥
विश्वास-प्रस्तुतिः
न श्रूयन्ते जनैरेव पुराणागमसंहिताः
मद्यमांसप्रियाः पापास्सर्वभक्षास्सुदारुणाः॥ ४५ ॥
मूलम्
न श्रूयन्ते जनैरेव पुराणागमसंहिताः
मद्यमांसप्रियाः पापास्सर्वभक्षास्सुदारुणाः॥ ४५ ॥
विश्वास-प्रस्तुतिः
दारुणाचारनिरता नित्यं छलपरायणाः
न पुष्णन्ति सुतास्तातं प्रसुवं च गुरूनपि॥ ४६ ॥
मूलम्
दारुणाचारनिरता नित्यं छलपरायणाः
न पुष्णन्ति सुतास्तातं प्रसुवं च गुरूनपि॥ ४६ ॥
विश्वास-प्रस्तुतिः
न शुश्रूषन्ति वै भृत्याः स्वामिनं गुणशालिनम्
भर्तारं न स्त्रियः काश्चिच्छ्वशुरौ च स्वमातरः॥ ४७ ॥
मूलम्
न शुश्रूषन्ति वै भृत्याः स्वामिनं गुणशालिनम्
भर्तारं न स्त्रियः काश्चिच्छ्वशुरौ च स्वमातरः॥ ४७ ॥
विश्वास-प्रस्तुतिः
नित्यकष्टा नरास्तत्र कलहश्च गृहे गृहे
नृपा म्लेच्छाः सुरापाश्च तथा मन्त्रिपुरोहिताः॥ ४८ ॥
मूलम्
नित्यकष्टा नरास्तत्र कलहश्च गृहे गृहे
नृपा म्लेच्छाः सुरापाश्च तथा मन्त्रिपुरोहिताः॥ ४८ ॥
विश्वास-प्रस्तुतिः
मनुष्यैश्च बलिस्तेषां मत्स्यैर्मांसैर्निरामिषः
पाषण्डायासयोगेभ्यः प्रधाना गुणवार्तयोः॥ ४९ ॥
मूलम्
मनुष्यैश्च बलिस्तेषां मत्स्यैर्मांसैर्निरामिषः
पाषण्डायासयोगेभ्यः प्रधाना गुणवार्तयोः॥ ४९ ॥
विश्वास-प्रस्तुतिः
धनिकैः कोकिलैर्मन्दैर्व्याप्तं तैस्तु महीतलम्
ततोन्योन्यं प्रिया मूढा वने वा नगरेषु च५० 1.76.50
भक्ष्याभक्ष्यं समश्नन्ति मत्स्यमांसादिकं नराः
वने द्विजातयश्चान्ये भुञ्जते चानुपापकम्॥ ५१ ॥

भक्तिमन्तं पशुं चान्यत्सर्वे यान्त्यपुनर्भवम्
पातयन्ति पितॄन्पापाः सर्वे ते पूर्वदेवकाः॥ ५२ ॥
मूलम्
भक्तिमन्तं पशुं चान्यत्सर्वे यान्त्यपुनर्भवम्
पातयन्ति पितॄन्पापाः सर्वे ते पूर्वदेवकाः॥ ५२ ॥
विश्वास-प्रस्तुतिः
पिशाचा राक्षसा ये च मुर्त्यका गुह्यका ध्रुवम्
एते चाविनयप्रीता न देवा न च मानुषाः॥ ५३ ॥
मूलम्
पिशाचा राक्षसा ये च मुर्त्यका गुह्यका ध्रुवम्
एते चाविनयप्रीता न देवा न च मानुषाः॥ ५३ ॥
विश्वास-प्रस्तुतिः
सञ्जय उवाच-
कथं च मर्त्यभावेषु लक्षञ्जानन्तितात्त्विकाः
एतं मे संशयं नाथ दूरीकुरु ततस्ततः॥ ५४ ॥
मूलम्
सञ्जय उवाच-
कथं च मर्त्यभावेषु लक्षञ्जानन्तितात्त्विकाः
एतं मे संशयं नाथ दूरीकुरु ततस्ततः॥ ५४ ॥
विश्वास-प्रस्तुतिः
व्यास उवाच-
कृतपापानुरूपास्तु द्विजातिष्वन्यजातिषु
असुरा राक्षसाः प्रेताः स्वभावं न त्यजन्ति ते॥ ५५ ॥
मूलम्
व्यास उवाच-
कृतपापानुरूपास्तु द्विजातिष्वन्यजातिषु
असुरा राक्षसाः प्रेताः स्वभावं न त्यजन्ति ते॥ ५५ ॥
विश्वास-प्रस्तुतिः
जाता ये चासुरा मर्त्ये सदाते कलहोत्सुकाः
कुहकाः कच्चराः क्रूराः विज्ञेया राक्षसाभुवि॥ ५६ ॥
मूलम्
जाता ये चासुरा मर्त्ये सदाते कलहोत्सुकाः
कुहकाः कच्चराः क्रूराः विज्ञेया राक्षसाभुवि॥ ५६ ॥
विश्वास-प्रस्तुतिः
जनोद्विग्नादिकं दानं तथा देवार्चनं भुवि
उग्रभावाद्धनं लब्ध्वा राज्यं भुञ्जन्ति शाश्वतम्॥ ५७ ॥
मूलम्
जनोद्विग्नादिकं दानं तथा देवार्चनं भुवि
उग्रभावाद्धनं लब्ध्वा राज्यं भुञ्जन्ति शाश्वतम्॥ ५७ ॥
विश्वास-प्रस्तुतिः
जयं शौर्यादिकं पुण्यं पुनःपापक्षयं व्रजेत्
एवमुर्व्यां तथा नाके नागलोके यमालये॥ ५८ ॥
मूलम्
जयं शौर्यादिकं पुण्यं पुनःपापक्षयं व्रजेत्
एवमुर्व्यां तथा नाके नागलोके यमालये॥ ५८ ॥
विश्वास-प्रस्तुतिः
उग्रेण तपसा कश्चित्सुरत्वं लभते दिवि
वासुदेवं समाराध्य प्रह्लादः सुरपूजितः॥ ५९ ॥
मूलम्
उग्रेण तपसा कश्चित्सुरत्वं लभते दिवि
वासुदेवं समाराध्य प्रह्लादः सुरपूजितः॥ ५९ ॥
विश्वास-प्रस्तुतिः
हरं तथान्धको दैत्यः स्तुत्वा तत्सभ्यकोऽभवत्
तस्यैव गणमुख्यत्वं लेभे भृङ्गी महाबलः॥ ६० ॥
मूलम्
हरं तथान्धको दैत्यः स्तुत्वा तत्सभ्यकोऽभवत्
तस्यैव गणमुख्यत्वं लेभे भृङ्गी महाबलः॥ ६० ॥
विश्वास-प्रस्तुतिः
एते चान्ये च बहवो बलिरिन्द्रो भविष्यति
गच्छन्ति सद्गतिं तात इहामुत्र च सर्वदा॥ ६१ ॥
मूलम्
एते चान्ये च बहवो बलिरिन्द्रो भविष्यति
गच्छन्ति सद्गतिं तात इहामुत्र च सर्वदा॥ ६१ ॥
विश्वास-प्रस्तुतिः
केचिद्दैत्यकुले जाताः पृथिव्यां सुरसत्तमाः
भावयन्ति पितॄन्सर्वान्शतशोथ सहस्रशः॥ ६२ ॥
मूलम्
केचिद्दैत्यकुले जाताः पृथिव्यां सुरसत्तमाः
भावयन्ति पितॄन्सर्वान्शतशोथ सहस्रशः॥ ६२ ॥
विश्वास-प्रस्तुतिः
एकेनापि सुपुत्रेण कुलत्राणं च धीमता
एकोपि वैष्णवः पुत्रः कुलकोटिं समुद्धरेत्॥ ६३ ॥
मूलम्
एकेनापि सुपुत्रेण कुलत्राणं च धीमता
एकोपि वैष्णवः पुत्रः कुलकोटिं समुद्धरेत्॥ ६३ ॥
विश्वास-प्रस्तुतिः
जितेन्द्रियोपि धर्मात्मा द्विजदेवार्चने रतः
क्षये धर्मे कलौ शेषे पुरे जनपदेषु च॥ ६४ ॥
मूलम्
जितेन्द्रियोपि धर्मात्मा द्विजदेवार्चने रतः
क्षये धर्मे कलौ शेषे पुरे जनपदेषु च॥ ६४ ॥
विश्वास-प्रस्तुतिः
एको रक्षति धर्मात्मा पुरे ग्रामं जनं कुलम्
विज्ञातृमेदुरं चासीद्ब्राह्मणानां पुरं महत्॥ ६५ ॥
मूलम्
एको रक्षति धर्मात्मा पुरे ग्रामं जनं कुलम्
विज्ञातृमेदुरं चासीद्ब्राह्मणानां पुरं महत्॥ ६५ ॥
विश्वास-प्रस्तुतिः
तत्र सर्वे द्विजाः शश्वत्सन्ध्योपासनतत्पराः
वेदपाठरता धीरा देवातिथिद्विजार्चकाः॥ ६६ ॥
मूलम्
तत्र सर्वे द्विजाः शश्वत्सन्ध्योपासनतत्पराः
वेदपाठरता धीरा देवातिथिद्विजार्चकाः॥ ६६ ॥
विश्वास-प्रस्तुतिः
यज्ञव्रताग्निकर्माणः षट्कर्मपरिनिश्चयाः
अतिकृच्छ्रे च तेषां वै न पापे वर्तते मनः॥ ६७ ॥
मूलम्
यज्ञव्रताग्निकर्माणः षट्कर्मपरिनिश्चयाः
अतिकृच्छ्रे च तेषां वै न पापे वर्तते मनः॥ ६७ ॥
विश्वास-प्रस्तुतिः
कुर्वन्ति सततं वीरा व्रतं यज्ञं सनातनम्
कदाचिद्दैवयोगाच्च गृहस्थश्च स कोविदः॥ ६८ ॥
मूलम्
कुर्वन्ति सततं वीरा व्रतं यज्ञं सनातनम्
कदाचिद्दैवयोगाच्च गृहस्थश्च स कोविदः॥ ६८ ॥
विश्वास-प्रस्तुतिः
वह्नौ जुहोति विप्रर्षि राज्यं मन्त्रेण मन्त्रवित्
तस्मिन्काले च तस्यैव मूत्रकृच्छ्रं सुदारुणम्॥ ६९ ॥
मूलम्
वह्नौ जुहोति विप्रर्षि राज्यं मन्त्रेण मन्त्रवित्
तस्मिन्काले च तस्यैव मूत्रकृच्छ्रं सुदारुणम्॥ ६९ ॥
विश्वास-प्रस्तुतिः
तत्प्रोज्झितुं गतः सोपि रक्षार्थं स्थाप्य चेटिकाम्
तस्यास्त्वनवधानेन शुना चाज्यं च भक्षितम्॥ ७० ॥
मूलम्
तत्प्रोज्झितुं गतः सोपि रक्षार्थं स्थाप्य चेटिकाम्
तस्यास्त्वनवधानेन शुना चाज्यं च भक्षितम्॥ ७० ॥
विश्वास-प्रस्तुतिः
भिया तया ततः पात्रं स्वीयमूत्रेण सम्भृतम्
असंलक्ष्या जुहोदग्नौ स विप्रस्त्वरया ततः॥ ७१ ॥
मूलम्
भिया तया ततः पात्रं स्वीयमूत्रेण सम्भृतम्
असंलक्ष्या जुहोदग्नौ स विप्रस्त्वरया ततः॥ ७१ ॥
विश्वास-प्रस्तुतिः
आश्चर्यं च ततो वह्नौ लक्षितं तेन तत्क्षणात्
कूटं हेममयं साक्षात्स्वर्णं जाम्बूनदप्रभं॥ ७२ ॥
मूलम्
आश्चर्यं च ततो वह्नौ लक्षितं तेन तत्क्षणात्
कूटं हेममयं साक्षात्स्वर्णं जाम्बूनदप्रभं॥ ७२ ॥
विश्वास-प्रस्तुतिः
गृहीत्वा तन्मुदा विप्रः पापयोगं चकार ह
पप्रच्छ विस्मयाद्दासीं कथमेतद्वद प्रिये॥ ७३ ॥
मूलम्
गृहीत्वा तन्मुदा विप्रः पापयोगं चकार ह
पप्रच्छ विस्मयाद्दासीं कथमेतद्वद प्रिये॥ ७३ ॥
विश्वास-प्रस्तुतिः
मुदा तत्र यथावृत्तं कथितं तु तया द्विज
ततो नित्यं यथाकालं तच्च तस्य प्रवर्तते॥ ७४ ॥
मूलम्
मुदा तत्र यथावृत्तं कथितं तु तया द्विज
ततो नित्यं यथाकालं तच्च तस्य प्रवर्तते॥ ७४ ॥
विश्वास-प्रस्तुतिः
समृद्धिरद्भुता गेहे लोकविस्मयकारिणी
ततः परस्पराच्छ्रुत्वा सर्वैरेव च तत्पुरे॥ ७५ ॥
मूलम्
समृद्धिरद्भुता गेहे लोकविस्मयकारिणी
ततः परस्पराच्छ्रुत्वा सर्वैरेव च तत्पुरे॥ ७५ ॥
विश्वास-प्रस्तुतिः
कृतं कर्म दुराचारं श्रुत्वा लोभादसाधुभिः
गुरुलोभाच्च सुमहत्स्वान्ते पङ्कं विशत्यपि॥ ७६ ॥
मूलम्
कृतं कर्म दुराचारं श्रुत्वा लोभादसाधुभिः
गुरुलोभाच्च सुमहत्स्वान्ते पङ्कं विशत्यपि॥ ७६ ॥
विश्वास-प्रस्तुतिः
पङ्कादेव भयान्मोहान्मतिभ्रंशोऽभवत्ततः
अथ किल्बिषकूटेन दग्धमेव पुरं च तत्॥ ७७ ॥
मूलम्
पङ्कादेव भयान्मोहान्मतिभ्रंशोऽभवत्ततः
अथ किल्बिषकूटेन दग्धमेव पुरं च तत्॥ ७७ ॥
विश्वास-प्रस्तुतिः
स्त्रियो दुष्टा जना दुष्टाः सर्वे पापबलात्तदा
वृद्धो ज्ञाता द्विजस्तत्र तत्कार्ये न मतिं दधौ॥ ७८ ॥
मूलम्
स्त्रियो दुष्टा जना दुष्टाः सर्वे पापबलात्तदा
वृद्धो ज्ञाता द्विजस्तत्र तत्कार्ये न मतिं दधौ॥ ७८ ॥
विश्वास-प्रस्तुतिः
तस्य भार्या तदा साध्वी पुरुदुःखेन संयुता
भर्तारं कृच्छ्रसन्तप्ता पुरकार्यं जगाद सा॥ ७९ ॥
मूलम्
तस्य भार्या तदा साध्वी पुरुदुःखेन संयुता
भर्तारं कृच्छ्रसन्तप्ता पुरकार्यं जगाद सा॥ ७९ ॥
विश्वास-प्रस्तुतिः
ब्राह्मण्युवाच-
कष्टं मे वर्तते नाथ दृष्ट्वा त्वां दुःखसंयुतम्
ग्रामाचारमिमं यद्वाप्यऽपरं कर्तुमर्हसि॥ ८० ॥
मूलम्
ब्राह्मण्युवाच-
कष्टं मे वर्तते नाथ दृष्ट्वा त्वां दुःखसंयुतम्
ग्रामाचारमिमं यद्वाप्यऽपरं कर्तुमर्हसि॥ ८० ॥
विश्वास-प्रस्तुतिः
ततस्तत्र स दोषज्ञः स्मित्वा वचनमब्रवीत्
यस्तु जीवति पापेन त्यक्त्वा धर्मं परं हितम्॥ ८१ ॥
मूलम्
ततस्तत्र स दोषज्ञः स्मित्वा वचनमब्रवीत्
यस्तु जीवति पापेन त्यक्त्वा धर्मं परं हितम्॥ ८१ ॥
विश्वास-प्रस्तुतिः
स वैधेयो महाभागे प्रगच्छत्यपुनर्भवम्
एते विप्रा दुराचाराः सदारास्सपरिच्छदाः॥ ८२ ॥
मूलम्
स वैधेयो महाभागे प्रगच्छत्यपुनर्भवम्
एते विप्रा दुराचाराः सदारास्सपरिच्छदाः॥ ८२ ॥
विश्वास-प्रस्तुतिः
अतिपातकयोगाच्च महापातकसम्मताः
सह पापेन महता प्रयास्यन्ति रसातलम्॥ ८३ ॥
मूलम्
अतिपातकयोगाच्च महापातकसम्मताः
सह पापेन महता प्रयास्यन्ति रसातलम्॥ ८३ ॥
विश्वास-प्रस्तुतिः
अन्तेऽपुनर्भवं प्राप्यापराधान्तो न विद्यते
अहमेकोत्र तिष्ठामि स्वपुण्यपरिरक्षणात्॥ ८४ ॥
मूलम्
अन्तेऽपुनर्भवं प्राप्यापराधान्तो न विद्यते
अहमेकोत्र तिष्ठामि स्वपुण्यपरिरक्षणात्॥ ८४ ॥
विश्वास-प्रस्तुतिः
ततस्सा तमुवाचेदं लोकहास्यवचस्तव
वक्तुमर्हसि नश्चाग्रे न पुरोऽन्यस्य कस्यचित्॥ ८५ ॥
मूलम्
ततस्सा तमुवाचेदं लोकहास्यवचस्तव
वक्तुमर्हसि नश्चाग्रे न पुरोऽन्यस्य कस्यचित्॥ ८५ ॥
विश्वास-प्रस्तुतिः
द्विज उवाच-
यदि यास्यामि चान्यत्र इतोऽहं तत्क्षणात्प्रिये
सवित्तैः स्वजनैरेव पुरीयास्यत्यथोगतिम्॥ ८६ ॥
मूलम्
द्विज उवाच-
यदि यास्यामि चान्यत्र इतोऽहं तत्क्षणात्प्रिये
सवित्तैः स्वजनैरेव पुरीयास्यत्यथोगतिम्॥ ८६ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा परमप्रीतः सङ्गृह्य च धनं स्वकम्
क्षिप्रं स च तया सार्धं ययौ सीमान्तरं द्विजः॥ ८७ ॥
मूलम्
इत्युक्त्वा परमप्रीतः सङ्गृह्य च धनं स्वकम्
क्षिप्रं स च तया सार्धं ययौ सीमान्तरं द्विजः॥ ८७ ॥
विश्वास-प्रस्तुतिः
स्थित्वाऽपश्यत्पुरी तावत्स्थिरा तिष्ठति पूर्ववत्
सा चाह तं पतिं साध्वी पुरी चेयं न नश्यति॥ ८८ ॥
मूलम्
स्थित्वाऽपश्यत्पुरी तावत्स्थिरा तिष्ठति पूर्ववत्
सा चाह तं पतिं साध्वी पुरी चेयं न नश्यति॥ ८८ ॥
विश्वास-प्रस्तुतिः
विमृश्यतामुवाचेदं विप्रवर्यस्सुविस्मितः
किं नु तिष्ठति तत्रैव द्रव्यमस्मद्गृहाद्बहिः॥ ८९ ॥
मूलम्
विमृश्यतामुवाचेदं विप्रवर्यस्सुविस्मितः
किं नु तिष्ठति तत्रैव द्रव्यमस्मद्गृहाद्बहिः॥ ८९ ॥
विश्वास-प्रस्तुतिः
विचार्य सा धवं प्राह मया भ्रान्त्या उपानहौ
नानीते तिष्ठतस्तत्र धारयिष्यामि किं नु वै॥ ९० ॥
मूलम्
विचार्य सा धवं प्राह मया भ्रान्त्या उपानहौ
नानीते तिष्ठतस्तत्र धारयिष्यामि किं नु वै॥ ९० ॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा पतिं साध्वी गृहीत्वा ते उपागता
पत्युरभ्याशतो दृष्टं पुरं निर्व्यथनं गतम्॥ ९१ ॥
मूलम्
एवमुक्त्वा पतिं साध्वी गृहीत्वा ते उपागता
पत्युरभ्याशतो दृष्टं पुरं निर्व्यथनं गतम्॥ ९१ ॥
विश्वास-प्रस्तुतिः
ततो विप्रादयो वर्णाः कच्चराः पुरवासिनः
तिष्ठन्ति नरके घोरे दुःखिताश्चापुनर्भवे॥ ९२ ॥
मूलम्
ततो विप्रादयो वर्णाः कच्चराः पुरवासिनः
तिष्ठन्ति नरके घोरे दुःखिताश्चापुनर्भवे॥ ९२ ॥
विश्वास-प्रस्तुतिः
कृच्छाद्यमपुरं यान्ति नास्ति तेषां च निष्कृतिः
पूतिगन्धं ततो मेध्यं वर्जनीयं प्रकीर्तितम्॥ ९३ ॥
मूलम्
कृच्छाद्यमपुरं यान्ति नास्ति तेषां च निष्कृतिः
पूतिगन्धं ततो मेध्यं वर्जनीयं प्रकीर्तितम्॥ ९३ ॥
विश्वास-प्रस्तुतिः
पूर्ववद्भक्षणे प्रीतो ह्यद्यपापं करोति च
स्तेयशीलो निशाचारी बुधैर्ज्ञेयस्स वञ्चकः॥ ९४ ॥
मूलम्
पूर्ववद्भक्षणे प्रीतो ह्यद्यपापं करोति च
स्तेयशीलो निशाचारी बुधैर्ज्ञेयस्स वञ्चकः॥ ९४ ॥
विश्वास-प्रस्तुतिः
अबुधः सर्वकार्येषु अज्ञातः सर्वकर्मसु
समयाचारहीनस्तु पशुरेव स बालिशः॥ ९५ ॥
मूलम्
अबुधः सर्वकार्येषु अज्ञातः सर्वकर्मसु
समयाचारहीनस्तु पशुरेव स बालिशः॥ ९५ ॥
विश्वास-प्रस्तुतिः
एवमुष्ट्रादयस्सन्ति भक्षादि नकुलादयः
हिंस्रो ज्ञातिजनोद्वेगरिते युद्धे च कातरः॥ ९६ ॥
मूलम्
एवमुष्ट्रादयस्सन्ति भक्षादि नकुलादयः
हिंस्रो ज्ञातिजनोद्वेगरिते युद्धे च कातरः॥ ९६ ॥
विश्वास-प्रस्तुतिः
विघसादिप्रियो नित्यं नरः श्वा कीर्तितो बुधैः
चौर्यकर्मरतो नित्यं बहुमित्रप्रवञ्चकः॥ ९७ ॥
मूलम्
विघसादिप्रियो नित्यं नरः श्वा कीर्तितो बुधैः
चौर्यकर्मरतो नित्यं बहुमित्रप्रवञ्चकः॥ ९७ ॥
विश्वास-प्रस्तुतिः
मिथुने कलहो नित्यं मर्त्यस्तु परिकीर्तितः
प्रकृत्या चपलो नित्यं सदा भोजनचञ्चलः॥ ९८ ॥
मूलम्
मिथुने कलहो नित्यं मर्त्यस्तु परिकीर्तितः
प्रकृत्या चपलो नित्यं सदा भोजनचञ्चलः॥ ९८ ॥
विश्वास-प्रस्तुतिः
प्लवगः काननप्रीतो नरः शाखामृगो भुवि
सूचको भाषया बुध्या स्वजनेऽन्यजनेषु च॥ ९९ ॥
मूलम्
प्लवगः काननप्रीतो नरः शाखामृगो भुवि
सूचको भाषया बुध्या स्वजनेऽन्यजनेषु च॥ ९९ ॥
उद्वेगजनकत्वाच्च स पुमानुरगः स्मृतः
बलवान्क्रान्तशीलश्च सततं चानपत्रपः१०० 1.76.100
पूतिमांसप्रियो भोगी नृसिंहस्समुदाहृतः
तत्स्वनादेव सीदन्ति भीता अन्ये वृकादयः१०१
द्विरदादि नरा ये च ज्ञायन्ते दूरदर्शिनः
एवमादि क्रमेणैव विजानीयान्नरेषु च१०२
सुराणां लक्षणं ब्रूमो नररूपं व्यवस्थितम्
द्विजदेवातिथीनां च गुरुसाधुतपस्विनाम्१०३
पूजातपोरतोनित्यं धर्मशास्त्रेषु नीतिषु
क्षमाशीलो जितक्रोधः सत्यवादी जितेन्द्रिंयः१०४
दयालुर्दयितो लोके रूपवान्मधुरस्वरः
वागीशः सर्वकार्येषु गुणी दक्षो महाबलः१०५
साक्षरश्चापि विद्वांश्च गीतनृत्यार्थतत्त्ववित्
आत्मविद्यादिकार्येषु सर्वतन्त्रीस्वरेषु च१०६
हविष्येषु च सर्वेषु गव्येषु च निरामिषे
सद्योगास्वादद्रव्ये च प्रत्यग्रे चातिशोभने१०७
गन्धमाल्येषु वस्त्रेषु शास्त्रेष्वाभरणेषु च
सम्प्रीतश्चातिथौ दाने पार्वणादिषु कर्मसु१०८
स्नानदानादिभिः कार्ये व्रतैर्यज्ञैः सुरार्चनैः
कालो गच्छति पाठैश्च न क्लीबं वासरं भवेत्१०९
अयमेव मनुष्याणां सदाचारो निरन्तरम्
देववन्मानवाचारो गीयते मुनिसत्तमैः११०
किन्तु सत्त्वाधिको देवो मनुष्यो भीत एव च
गम्भीरः सर्वदा देवः सदैव मानवो मृदुः१११
द्वयोस्तुत्या च सम्प्रीतिर्न दैत्यादौ भवेत्किल
प्रीतिभावं परं सौख्यं सौहृदं सुकृतं शुभम्११२
दैवमानुषयोरेव दैत्यराक्षसयोस्तथा
प्रेतादीनां च प्रेतेषु पशौ प्रीतिः पशोरपि११३
काकादयः स्वजातौ च तथान्ये च स्वजातिषु
प्रीता भवन्ति चाप्रीता विद्या तेषां च लक्षणम्११४
एवं पुण्यविशेषेण सविशेषा सुजातिषु
प्रियाप्रियं विजानीयात्पुण्यापुण्यं गुणागुणम्११५
दम्पत्योर्न सुखं किञ्चिज्जातिभेदान्नृणां भुवि
स्वजातिषु भवेत्प्रीतिर्मुक्तो वा निरयेपि वा११६
अतिपुण्याल्लभेदायुः शोभनाः पुण्यकारिणः
पापात्मानो लभन्तेऽन्तं ये च दैत्यादयो नराः११७
कृते जाताः सुरा भूमौ न दैत्याश्चान्यजातयः
त्रेतायामेकपादं च द्विपदं द्वापरे युगे११८
सन्ध्यायां च कलेरेव सर्वपादं च सङ्कुलम्
देवादीनां भवेज्जातं भारतं यत्प्रवर्तितम्११९
ये ते दुर्योधनस्यैव योधाः सैन्यादयस्तथा
ते च दैत्यादयः सर्वे ये च कर्णादयो भुवि१२०
गाङ्गेयो वसुमुख्यश्च द्रोणो देवमुनिः प्रभुः
अश्वत्थामा हरः साक्षाद्धरिर्नन्दकुलोद्भवः१२१
पञ्चेन्द्राः पाण्डवा जाता विदुरो धर्म एव च
गान्धारी द्रौपदी कुन्ती चैता देव्यो धरातले१२२
देवदैत्याः कलेर्मध्ये दैत्याश्शेषे च मानवाः
उत्पत्स्यन्ते सदा प्रेताः क्रव्यादाः पशुपक्षिणः१२३
तेषां च कुलटा दासी नित्यकष्टा यवीयसी
नित्यं द्वन्द्वेषु सम्प्रीत्या तेषामाचारभाषिणी१२४
किल्बिषेषु च सर्वेषु कलहेऽन्यायकर्मणि
रता दैत्यादयो ये ते सर्वे निरयगामिनः१२५
वैशम्पायन उवाच-
दैत्यादीनां मृषाभावात्सुरत्वं न सुरालयम्
कथं भोग्यं कथं सौख्यमारोग्यं बलसञ्चयम्१२६
राज्यमायुस्तथा कीर्तिरभीष्टं दयितं बलम्
नीतिविद्यादिकं भाव्यं जन्मवृद्धं सनातनम्१२७
दानाध्ययनकर्माणि यज्ञादि च कथं प्रभो
एतदाप्ताय शिष्याय मह्यं भो वक्तुमर्हसि१२८
व्यास उवाच-
दैत्यानां साहसादेव तपो भवति निश्चितम्
व्रतं यज्ञादिकं चैव सम्प्रीतिः स्वजनस्य च१२९
यो दान्तो विगुणैर्मुक्तो नीतिशास्रार्थतत्त्वगः
एतैश्च विविधैः पूतः स भवेत्सुरलक्षणः१३०
पुराणागमकर्माणि नाकेष्वत्र च वै द्विज
स्वयमाचरते पुण्यं स धरोद्धरणक्षमः१३१
विशेषाद्वैष्णवं दृष्ट्वा प्रीयते पूजयेच्च यः
विमुक्तस्सर्वपापेभ्यस्स धरोद्धरणक्षमः१३२
षट्कर्मनिरतो विप्रस्सर्वयज्ञरतस्सदा
धर्माख्यानप्रियो नित्यं स धरोद्धरणक्षमः१३३
विश्वासघातिनो ये च कृतघ्ना व्रतलोपिनः
द्विजदेवेषु विद्विष्टाः शातयन्ति धरां नराः१३४
ये च मद्यरताः पापा द्यूतकर्मरतास्तथा
पाषण्डपतितालापाः शातयन्ति धरां नराः१३५
सुकर्मरहिता ये च नित्योद्वेगाश्च निर्भयाः
स्मृतिशास्त्रार्थकोद्विग्नाश्शातयन्ति धरां नराः१३६
निजवृत्तिं परित्यज्य कुर्वन्ति चाधमां च ये
गुरुनिन्दारता द्वेषाच्छातयन्ति धरां नराः१३७
दातारं ये रोधयन्ति पातके प्रेरयन्ति च
दीनानाथान्पीडयन्ति शातयन्ति धरां नराः१३८
एते चान्ये च बहवः पापकर्मकृतो नराः
पुरुषान्पातयित्वा तु शातयन्ति धरां नराः१३९
य इदं शृणुयाद्रम्यं गुह्याद्गुह्यं परं हितम्
न तस्य दुर्गतिर्दुःखं दौर्भाग्यं दीनता भुवि१४०
न दैत्यादौ भवेज्जन्म स्वर्लोके शाश्वतं सुखम्
नाकाले मरणं तस्य न च पापैः प्रलिप्यते१४१
इह सर्वजनाध्यक्षस्त्रिदिवे त्रिदिवेश्वरः
कल्पङ्कल्पं दिवं भुक्त्वा मोक्षमार्गं व्रजत्यसौ१४२
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे पुण्यव्यक्तिर्नाम षट्सप्ततितमोऽध्यायः७६