व्यास उवाच-
विश्वास-प्रस्तुतिः
श्रुत्वा महेश्वराद्वाक्यं देवाः शक्रपुरोगमाः
दुद्रुवुर्दैत्यसङ्घांस्तान्सर्वे सर्वान्समन्ततः॥ १ ॥
मूलम्
श्रुत्वा महेश्वराद्वाक्यं देवाः शक्रपुरोगमाः
दुद्रुवुर्दैत्यसङ्घांस्तान्सर्वे सर्वान्समन्ततः॥ १ ॥
विश्वास-प्रस्तुतिः
आजगाम महाबाहुः कुम्भो नाम महासुरः
नैर्ऋतो यक्षराजानं गदया चाहनद्भृशम्॥ २ ॥
मूलम्
आजगाम महाबाहुः कुम्भो नाम महासुरः
नैर्ऋतो यक्षराजानं गदया चाहनद्भृशम्॥ २ ॥
विश्वास-प्रस्तुतिः
गुह्यकेशो गदापातैर्जघान भृशमुत्तमम्
ततोन्योन्यं गदायुद्धमभवद्भीषणं तयोः॥ ३ ॥
मूलम्
गुह्यकेशो गदापातैर्जघान भृशमुत्तमम्
ततोन्योन्यं गदायुद्धमभवद्भीषणं तयोः॥ ३ ॥
विश्वास-प्रस्तुतिः
चक्रबन्धं महाबन्धं पुरोवध्यनिबन्धनम्
प्राचुरं भीषणं यानं स्फोटतैलाभिवास्तिकम्॥ ४ ॥
मूलम्
चक्रबन्धं महाबन्धं पुरोवध्यनिबन्धनम्
प्राचुरं भीषणं यानं स्फोटतैलाभिवास्तिकम्॥ ४ ॥
विश्वास-प्रस्तुतिः
तेन कृत्वा महायुद्धमवसाने धनेश्वरः
पातयामास तं स्फोटं तस्य कुम्भस्य चोरसि॥ ५ ॥
मूलम्
तेन कृत्वा महायुद्धमवसाने धनेश्वरः
पातयामास तं स्फोटं तस्य कुम्भस्य चोरसि॥ ५ ॥
विश्वास-प्रस्तुतिः
भग्नदंष्ट्रस्ततः कुम्भो निपपात महीतले
स्यन्दनस्थो महावीर्यो जम्भो हरिहयं तदा॥ ६ ॥
मूलम्
भग्नदंष्ट्रस्ततः कुम्भो निपपात महीतले
स्यन्दनस्थो महावीर्यो जम्भो हरिहयं तदा॥ ६ ॥
विश्वास-प्रस्तुतिः
जघानशरसङ्घैश्च तथैवैरावणं भृशम्
वासवो भिदुरेणैव सम्बिभेदासुरोत्तमम्॥ ७ ॥
मूलम्
जघानशरसङ्घैश्च तथैवैरावणं भृशम्
वासवो भिदुरेणैव सम्बिभेदासुरोत्तमम्॥ ७ ॥
विश्वास-प्रस्तुतिः
स पपात धरापृष्ठे गतासुर्लोहितोक्षितः
तथारण्यं सुघोरं च अघोरं घोरमेव च॥ ८ ॥
मूलम्
स पपात धरापृष्ठे गतासुर्लोहितोक्षितः
तथारण्यं सुघोरं च अघोरं घोरमेव च॥ ८ ॥
विश्वास-प्रस्तुतिः
चतुरो गणमुख्यांश्च शक्त्या बिभेद संयुगे
सेनान्यश्चैव प्रत्येकं पातयामास लाघवात्॥ ९ ॥
मूलम्
चतुरो गणमुख्यांश्च शक्त्या बिभेद संयुगे
सेनान्यश्चैव प्रत्येकं पातयामास लाघवात्॥ ९ ॥
विश्वास-प्रस्तुतिः
सौरभं शरसङ्घैश्च जयन्तो वशमानयत्
शक्तिहस्तं च संह्रादं यमदण्डं नरान्तकम्॥ १० ॥
मूलम्
सौरभं शरसङ्घैश्च जयन्तो वशमानयत्
शक्तिहस्तं च संह्रादं यमदण्डं नरान्तकम्॥ १० ॥
विश्वास-प्रस्तुतिः
हत्वा च पातयामास स भस्मीकृतविग्रहः
कालश्च खड्गपातेन पातयामास बाभ्रवम्॥ ११ ॥
मूलम्
हत्वा च पातयामास स भस्मीकृतविग्रहः
कालश्च खड्गपातेन पातयामास बाभ्रवम्॥ ११ ॥
विश्वास-प्रस्तुतिः
शक्त्या मृत्युर्बिभेदाश्वं तथा निर्घृणकं रणे
अग्निना दह्यमानाश्च सप्तैते च महाबलाः॥ १२ ॥
मूलम्
शक्त्या मृत्युर्बिभेदाश्वं तथा निर्घृणकं रणे
अग्निना दह्यमानाश्च सप्तैते च महाबलाः॥ १२ ॥
विश्वास-प्रस्तुतिः
भद्रबाहुर्महाबाहुः सुगन्धो गन्ध एव च
भौरिको वल्लिको भीम एते सेनाग्रगामिनः॥ १३ ॥
मूलम्
भद्रबाहुर्महाबाहुः सुगन्धो गन्ध एव च
भौरिको वल्लिको भीम एते सेनाग्रगामिनः॥ १३ ॥
विश्वास-प्रस्तुतिः
रणे सन्दग्धदेहाश्च पेतुरुर्व्यां गतासवः
पाशबद्धा महावीर्या वरुणस्य महात्मनः॥ १४ ॥
मूलम्
रणे सन्दग्धदेहाश्च पेतुरुर्व्यां गतासवः
पाशबद्धा महावीर्या वरुणस्य महात्मनः॥ १४ ॥
विश्वास-प्रस्तुतिः
पेतुरुर्व्यां महासत्वाः शूराः शूरभयानकाः
शूरस्य रश्मिजालेन निहताः पञ्चदानवाः॥ १५ ॥
मूलम्
पेतुरुर्व्यां महासत्वाः शूराः शूरभयानकाः
शूरस्य रश्मिजालेन निहताः पञ्चदानवाः॥ १५ ॥
विश्वास-प्रस्तुतिः
तुरुतुम्बुरुदुर्मेधस्साधका साधकाभिधाः
क्रूर क्रौञ्च रणेशान मोदसम्मोद षण्मुखाः॥ १६ ॥
मूलम्
तुरुतुम्बुरुदुर्मेधस्साधका साधकाभिधाः
क्रूर क्रौञ्च रणेशान मोदसम्मोद षण्मुखाः॥ १६ ॥
विश्वास-प्रस्तुतिः
शरैर्निपातिता दैत्याः संयुगे मातरिश्वना
नैर्ऋतो गदया भीमं पातयामास भूतले॥ १७ ॥
मूलम्
शरैर्निपातिता दैत्याः संयुगे मातरिश्वना
नैर्ऋतो गदया भीमं पातयामास भूतले॥ १७ ॥
विश्वास-प्रस्तुतिः
शूलपातैश्च रुद्राणां शतशो दैत्यदानवाः
निपेतुः संयुगे भीताः सम्मुखा रणपण्डिताः॥ १८ ॥
मूलम्
शूलपातैश्च रुद्राणां शतशो दैत्यदानवाः
निपेतुः संयुगे भीताः सम्मुखा रणपण्डिताः॥ १८ ॥
विश्वास-प्रस्तुतिः
वसूनां शरपातैश्च शूराणां रश्मिमालिनाम्
मेघानां करकाभिश्च वज्रपातैस्सुदारुणैः॥ १९ ॥
मूलम्
वसूनां शरपातैश्च शूराणां रश्मिमालिनाम्
मेघानां करकाभिश्च वज्रपातैस्सुदारुणैः॥ १९ ॥
विश्वास-प्रस्तुतिः
निपातिता रणे दैत्याः शतशो बलशालिनः
कुबेरस्य गदापातैर्निपतन्ति सहस्रशः॥ २० ॥
मूलम्
निपातिता रणे दैत्याः शतशो बलशालिनः
कुबेरस्य गदापातैर्निपतन्ति सहस्रशः॥ २० ॥
विश्वास-प्रस्तुतिः
शक्रस्य भिदुरेणैव भेदिता दैत्यपुङ्गवाः
असङ्ख्याताः पतन्त्युर्व्यां स्कन्दशक्त्या तथा हताः॥ २१ ॥
मूलम्
शक्रस्य भिदुरेणैव भेदिता दैत्यपुङ्गवाः
असङ्ख्याताः पतन्त्युर्व्यां स्कन्दशक्त्या तथा हताः॥ २१ ॥
विश्वास-प्रस्तुतिः
गणेशपर्शुपातेन पतन्ति मुख्यमुख्यकाः
वैकुण्ठकरमुक्तेन चक्रेण तीव्रकर्मणा॥ २२ ॥
मूलम्
गणेशपर्शुपातेन पतन्ति मुख्यमुख्यकाः
वैकुण्ठकरमुक्तेन चक्रेण तीव्रकर्मणा॥ २२ ॥
विश्वास-प्रस्तुतिः
दैत्यानां प्रवराणां च शिरांसि निपतन्ति कौ
शमनो यमदण्डेन कोटिकोटिसहस्रशः॥ २३ ॥
मूलम्
दैत्यानां प्रवराणां च शिरांसि निपतन्ति कौ
शमनो यमदण्डेन कोटिकोटिसहस्रशः॥ २३ ॥
विश्वास-प्रस्तुतिः
अपातयत्तदा भूम्यां कालः खड्गेन दानवान्
मृत्युश्शक्त्या तथा दैत्यान्पाशी पाशेन चापरान्॥ २४ ॥
मूलम्
अपातयत्तदा भूम्यां कालः खड्गेन दानवान्
मृत्युश्शक्त्या तथा दैत्यान्पाशी पाशेन चापरान्॥ २४ ॥
विश्वास-प्रस्तुतिः
पातेन तक्षकादीनां सुधांशोः शिशिरेण च
अश्वारोही खरोमन्योहनिपाशस्तथा गजान्॥ २५ ॥
मूलम्
पातेन तक्षकादीनां सुधांशोः शिशिरेण च
अश्वारोही खरोमन्योहनिपाशस्तथा गजान्॥ २५ ॥
विश्वास-प्रस्तुतिः
परिघेण गजं कुम्भे दैत्यानां नाशयत्ततः
एवमश्वान्गजांश्चैव लाघवात्स न्यपातयत्॥ २६ ॥
मूलम्
परिघेण गजं कुम्भे दैत्यानां नाशयत्ततः
एवमश्वान्गजांश्चैव लाघवात्स न्यपातयत्॥ २६ ॥
विश्वास-प्रस्तुतिः
एवं सिद्धैश्च गन्धर्वैरप्सरोभिर्महाबलैः
अन्याभिर्देवताभिश्च समातृगणनायकैः॥ २७ ॥
मूलम्
एवं सिद्धैश्च गन्धर्वैरप्सरोभिर्महाबलैः
अन्याभिर्देवताभिश्च समातृगणनायकैः॥ २७ ॥
विश्वास-प्रस्तुतिः
निपातिता महोघोरा ये ते प्रलयदानवाः
शरैश्च खड्गपातैश्च शूलशक्तिपरश्वधैः॥ २८ ॥
मूलम्
निपातिता महोघोरा ये ते प्रलयदानवाः
शरैश्च खड्गपातैश्च शूलशक्तिपरश्वधैः॥ २८ ॥
विश्वास-प्रस्तुतिः
यष्टिपरिघकुन्तैश्च पातयन्त्यसुरान्सुराः
एवं सङ्क्षीयमाणेषु दैत्यराट्समपद्यत॥ २९ ॥
मूलम्
यष्टिपरिघकुन्तैश्च पातयन्त्यसुरान्सुराः
एवं सङ्क्षीयमाणेषु दैत्यराट्समपद्यत॥ २९ ॥
विश्वास-प्रस्तुतिः
आदित्यरथसङ्काशं रथरत्नविभूषितम्
शातकुम्भमयं दिव्यं घण्टाचामरभूषितम्॥ ३० ॥
मूलम्
आदित्यरथसङ्काशं रथरत्नविभूषितम्
शातकुम्भमयं दिव्यं घण्टाचामरभूषितम्॥ ३० ॥
विश्वास-प्रस्तुतिः
पताकाध्वजसम्पूर्णं रम्यं शक्ररथोपमम्
समारुह्य महावीरो हिरण्याक्षोऽसुराधिपः॥ ३१ ॥
मूलम्
पताकाध्वजसम्पूर्णं रम्यं शक्ररथोपमम्
समारुह्य महावीरो हिरण्याक्षोऽसुराधिपः॥ ३१ ॥
विश्वास-प्रस्तुतिः
जघान शरजालैश्च दुर्निवार्यः सुरासुरैः
ससैन्यानि गजान्वीरो रथांश्च सह सैन्धवान्॥ ३२ ॥
मूलम्
जघान शरजालैश्च दुर्निवार्यः सुरासुरैः
ससैन्यानि गजान्वीरो रथांश्च सह सैन्धवान्॥ ३२ ॥
विश्वास-प्रस्तुतिः
पातयामास भूमौ च शतशोथ सहस्रशः
एवं चरन्स वृन्देषु निखिलेषु दिवौकसाम्॥ ३३ ॥
मूलम्
पातयामास भूमौ च शतशोथ सहस्रशः
एवं चरन्स वृन्देषु निखिलेषु दिवौकसाम्॥ ३३ ॥
विश्वास-प्रस्तुतिः
पातयामास दैत्येन्द्रः शरौघान्मृत्युसन्निभान्
क्रमेण समरे चाथ देवसैन्यान्यमन्थत॥ ३४ ॥
मूलम्
पातयामास दैत्येन्द्रः शरौघान्मृत्युसन्निभान्
क्रमेण समरे चाथ देवसैन्यान्यमन्थत॥ ३४ ॥
विश्वास-प्रस्तुतिः
यथा पुष्करिणीवृन्दे गजः कञ्जवनं शितैः
शरपातैरथो वेगात्सिंहनादैः पुनः पुनः॥ ३५ ॥
मूलम्
यथा पुष्करिणीवृन्दे गजः कञ्जवनं शितैः
शरपातैरथो वेगात्सिंहनादैः पुनः पुनः॥ ३५ ॥
विश्वास-प्रस्तुतिः
धरण्यां पतिता वेगात्तदा दैत्येश्वरस्य च
दशभिश्च सुतीक्ष्णाग्रैर्जयन्तं स जघान ह॥ ३६ ॥
मूलम्
धरण्यां पतिता वेगात्तदा दैत्येश्वरस्य च
दशभिश्च सुतीक्ष्णाग्रैर्जयन्तं स जघान ह॥ ३६ ॥
विश्वास-प्रस्तुतिः
रेमन्तं पञ्चभिर्बाणैः शक्रं पञ्चदशेन तु
चित्ररथं विंशतिभिःपञ्चविंशतिभिर्गुहम्॥ ३७ ॥
मूलम्
रेमन्तं पञ्चभिर्बाणैः शक्रं पञ्चदशेन तु
चित्ररथं विंशतिभिःपञ्चविंशतिभिर्गुहम्॥ ३७ ॥
विश्वास-प्रस्तुतिः
हेरम्बं त्रिशरेणैव चत्वारिंशच्छरैर्यमम्
तथैव कालं मृत्युं च पाणिना द्विगुणेन च॥ ३८ ॥
मूलम्
हेरम्बं त्रिशरेणैव चत्वारिंशच्छरैर्यमम्
तथैव कालं मृत्युं च पाणिना द्विगुणेन च॥ ३८ ॥
विश्वास-प्रस्तुतिः
गुह्यकेशं जगत्प्राणं दशभिर्दशभिः शरैः
षडिभश्च सप्तभिश्चैव रुद्रान्सर्वान्पृथक्पृथक्॥ ३९ ॥
मूलम्
गुह्यकेशं जगत्प्राणं दशभिर्दशभिः शरैः
षडिभश्च सप्तभिश्चैव रुद्रान्सर्वान्पृथक्पृथक्॥ ३९ ॥
विश्वास-प्रस्तुतिः
वसून्सर्वांश्च सशरैः सिद्धगन्धर्वपन्नगान्
दशाष्टदशभिः षडिभर्युद्धे देवान्भिनत्त्यसौ॥ ४० ॥
मूलम्
वसून्सर्वांश्च सशरैः सिद्धगन्धर्वपन्नगान्
दशाष्टदशभिः षडिभर्युद्धे देवान्भिनत्त्यसौ॥ ४० ॥
विश्वास-प्रस्तुतिः
ओजौघादतिवीर्यात्तु शीघ्रलाघवर्दशनान्
आपत्प्राप्ताः सुरा भीत्या प्रतिकर्तुं न चेश्वराः॥ ४१ ॥
मूलम्
ओजौघादतिवीर्यात्तु शीघ्रलाघवर्दशनान्
आपत्प्राप्ताः सुरा भीत्या प्रतिकर्तुं न चेश्वराः॥ ४१ ॥
विश्वास-प्रस्तुतिः
महेशशूलसङ्काशैः शरैर्मर्मविभेदिभिः
ताडिता निर्जरा युद्धे मूर्च्छिता धरणीं ययुः॥ ४२ ॥
मूलम्
महेशशूलसङ्काशैः शरैर्मर्मविभेदिभिः
ताडिता निर्जरा युद्धे मूर्च्छिता धरणीं ययुः॥ ४२ ॥
विश्वास-प्रस्तुतिः
तस्यैव सम्मुखे स्थातुं न शेकुः प्रवरास्सुराः
ततो देवा विनिर्धूतास्त्रिदिवेशेन संयुताः॥ ४३ ॥
मूलम्
तस्यैव सम्मुखे स्थातुं न शेकुः प्रवरास्सुराः
ततो देवा विनिर्धूतास्त्रिदिवेशेन संयुताः॥ ४३ ॥
विश्वास-प्रस्तुतिः
शरण्यं ते हरिं तत्र शरणं ताडिता ययुः
एतस्मिन्नन्तरे विष्णुः प्राह जिष्णुं खगेश्वरम्॥ ४४ ॥
मूलम्
शरण्यं ते हरिं तत्र शरणं ताडिता ययुः
एतस्मिन्नन्तरे विष्णुः प्राह जिष्णुं खगेश्वरम्॥ ४४ ॥
विश्वास-प्रस्तुतिः
अधुना गच्छ दैत्यस्य सम्मुखं रणमूर्धनि
नाशाय सततस्तूर्णं गतस्तस्यान्तिकं जवात्॥ ४५ ॥
मूलम्
अधुना गच्छ दैत्यस्य सम्मुखं रणमूर्धनि
नाशाय सततस्तूर्णं गतस्तस्यान्तिकं जवात्॥ ४५ ॥
विश्वास-प्रस्तुतिः
सरथं मार्गणैर्भित्वा विष्णुमारोधयज्जवम्
रथस्य सम्मुखे दैत्य उवाच विष्णुमव्ययम्॥ ४६ ॥
मूलम्
सरथं मार्गणैर्भित्वा विष्णुमारोधयज्जवम्
रथस्य सम्मुखे दैत्य उवाच विष्णुमव्ययम्॥ ४६ ॥
विश्वास-प्रस्तुतिः
अन्य सृष्टिं करोम्यद्य हत्वा त्वां च सनिर्ज्जरम्
ततो विष्णुरुवाचेदं गर्जन्तं दैत्यपुङ्गवम्॥ ४७ ॥
मूलम्
अन्य सृष्टिं करोम्यद्य हत्वा त्वां च सनिर्ज्जरम्
ततो विष्णुरुवाचेदं गर्जन्तं दैत्यपुङ्गवम्॥ ४७ ॥
विश्वास-प्रस्तुतिः
शक्तस्त्वं स्पर्द्धने पाप यदि युद्धे स्थिरो भव
ततः शरशतैरेव जघान विष्णुमव्ययम्॥ ४८ ॥
मूलम्
शक्तस्त्वं स्पर्द्धने पाप यदि युद्धे स्थिरो भव
ततः शरशतैरेव जघान विष्णुमव्ययम्॥ ४८ ॥
विश्वास-प्रस्तुतिः
असम्भ्रान्तः स चिच्छेद यमदण्डनिभान्शरान्
पुनः शरसहस्राणि प्रेरयामास तं रणे॥ ४९ ॥
मूलम्
असम्भ्रान्तः स चिच्छेद यमदण्डनिभान्शरान्
पुनः शरसहस्राणि प्रेरयामास तं रणे॥ ४९ ॥
विश्वास-प्रस्तुतिः
तांश्च छित्वा शरैः शौरिस्तं च विव्याध मार्गणैः
प्रगौरवादहार्याभैः संस्पर्शाद्बाडवानलैः॥ ५० ॥
मूलम्
तांश्च छित्वा शरैः शौरिस्तं च विव्याध मार्गणैः
प्रगौरवादहार्याभैः संस्पर्शाद्बाडवानलैः॥ ५० ॥
विश्वास-प्रस्तुतिः
शरैश्च भेदकैस्तीक्ष्णैः खगमैश्च मनोजवैः
लाघवात्केशवास्त्रस्य तूलशुष्कतृणोपमैः॥ ५१ ॥
मूलम्
शरैश्च भेदकैस्तीक्ष्णैः खगमैश्च मनोजवैः
लाघवात्केशवास्त्रस्य तूलशुष्कतृणोपमैः॥ ५१ ॥
विश्वास-प्रस्तुतिः
हैमैः शरसहस्रैस्तु ताडितो दैत्यपुङ्गवः
बाधयाभ्यर्दितः क्रुद्धो धृत्वा शिखरिणं रणे॥ ५२ ॥
मूलम्
हैमैः शरसहस्रैस्तु ताडितो दैत्यपुङ्गवः
बाधयाभ्यर्दितः क्रुद्धो धृत्वा शिखरिणं रणे॥ ५२ ॥
विश्वास-प्रस्तुतिः
जघान माधवं वेगाद्धिरण्याक्षो महाबलः
तं च सञ्चूर्णयामास गदया लीलया हरिः॥ ५३ ॥
मूलम्
जघान माधवं वेगाद्धिरण्याक्षो महाबलः
तं च सञ्चूर्णयामास गदया लीलया हरिः॥ ५३ ॥
विश्वास-प्रस्तुतिः
एवं पर्वतसाहस्रं पातितं तु क्रमेण हि
तथैव लाघवाच्चूर्णं हरिणा दानवारिणा॥ ५४ ॥
मूलम्
एवं पर्वतसाहस्रं पातितं तु क्रमेण हि
तथैव लाघवाच्चूर्णं हरिणा दानवारिणा॥ ५४ ॥
विश्वास-प्रस्तुतिः
पुनर्बाहुसहस्राणि कृत्वासौ दानवोत्तमः
शरैः शक्तिभिरत्युग्रैः शूलैः परशुकादिभिः॥ ५५ ॥
मूलम्
पुनर्बाहुसहस्राणि कृत्वासौ दानवोत्तमः
शरैः शक्तिभिरत्युग्रैः शूलैः परशुकादिभिः॥ ५५ ॥
विश्वास-प्रस्तुतिः
ववर्ष बहुभिर्विष्णुं क्रोधाविष्टेन चेतसा
तांस्तु तेनैव प्रहितांश्चिच्छेद सुरसत्तमः॥ ५६ ॥
मूलम्
ववर्ष बहुभिर्विष्णुं क्रोधाविष्टेन चेतसा
तांस्तु तेनैव प्रहितांश्चिच्छेद सुरसत्तमः॥ ५६ ॥
विश्वास-प्रस्तुतिः
शरैर्दीप्तैर्महाघोरैरसुराणां भयङ्करैः
विव्याध सर्वगात्रेषु शम्भुशूलोपमैश्शरैः॥ ५७ ॥
मूलम्
शरैर्दीप्तैर्महाघोरैरसुराणां भयङ्करैः
विव्याध सर्वगात्रेषु शम्भुशूलोपमैश्शरैः॥ ५७ ॥
विश्वास-प्रस्तुतिः
दानवाधिपतिः सङ्ख्ये ह्यव्ययो हरिरीश्वरः
स च कश्मलतां गत्वा सर्वशक्तिमनुत्तमाम्॥ ५८ ॥
मूलम्
दानवाधिपतिः सङ्ख्ये ह्यव्ययो हरिरीश्वरः
स च कश्मलतां गत्वा सर्वशक्तिमनुत्तमाम्॥ ५८ ॥
विश्वास-प्रस्तुतिः
कालजिह्वोपमां घोरामष्टघण्टासमन्विताम्
हरेरुरसि पीने च विद्रुत्या पातयद्द्रुतम्॥ ५९ ॥
मूलम्
कालजिह्वोपमां घोरामष्टघण्टासमन्विताम्
हरेरुरसि पीने च विद्रुत्या पातयद्द्रुतम्॥ ५९ ॥
विश्वास-प्रस्तुतिः
शुशुभे स सुरश्रेष्ठस्तडित्त्वत्सान्द्रमेघवत्
ततश्च चुक्रुशुर्दैत्या जयेति साधुवादिनः॥ ६० ॥
मूलम्
शुशुभे स सुरश्रेष्ठस्तडित्त्वत्सान्द्रमेघवत्
ततश्च चुक्रुशुर्दैत्या जयेति साधुवादिनः॥ ६० ॥
विश्वास-प्रस्तुतिः
ततश्चक्रं दैत्यसैन्ये दानवारिर्व्यसर्जयत्
तेषां शिरांसि सञ्च्छिद्य माधवं पुनरागमत्॥ ६१ ॥
मूलम्
ततश्चक्रं दैत्यसैन्ये दानवारिर्व्यसर्जयत्
तेषां शिरांसि सञ्च्छिद्य माधवं पुनरागमत्॥ ६१ ॥
विश्वास-प्रस्तुतिः
स दैत्यं शक्तिपातेन पातयामास वै रणे
चिरात्सञ्ज्ञां समालम्ब्य वह्निबाणेन केशवम्॥ ६२ ॥
मूलम्
स दैत्यं शक्तिपातेन पातयामास वै रणे
चिरात्सञ्ज्ञां समालम्ब्य वह्निबाणेन केशवम्॥ ६२ ॥
विश्वास-प्रस्तुतिः
निजघान रणे क्रुद्धो हरिः कौबेरमाक्षिपत्
ततो मुमोच मायास्त्रं चासुरं चातिदारुणम्॥ ६३ ॥
मूलम्
निजघान रणे क्रुद्धो हरिः कौबेरमाक्षिपत्
ततो मुमोच मायास्त्रं चासुरं चातिदारुणम्॥ ६३ ॥
विश्वास-प्रस्तुतिः
सिंहव्याघ्रलुलायांश्च तद्वद्द्विप सरीसृपान्
जघान समरे विष्णुं हिरण्याक्षः प्रतापवान्॥ ६४ ॥
मूलम्
सिंहव्याघ्रलुलायांश्च तद्वद्द्विप सरीसृपान्
जघान समरे विष्णुं हिरण्याक्षः प्रतापवान्॥ ६४ ॥
विश्वास-प्रस्तुतिः
ततो मायास्त्रसम्भूतान्शस्त्रास्त्रौघान्रणे हरिः
प्रचिच्छेद शरैरेव शूलेनैवमताडयत्॥ ६५ ॥
मूलम्
ततो मायास्त्रसम्भूतान्शस्त्रास्त्रौघान्रणे हरिः
प्रचिच्छेद शरैरेव शूलेनैवमताडयत्॥ ६५ ॥
विश्वास-प्रस्तुतिः
स विह्वलित सर्वाङ्गस्तत्क्षणं लोहितोक्षितः
विचकर्ष हरन्विष्णुरसृग्विप्लुतविग्रहः॥ ६६ ॥
मूलम्
स विह्वलित सर्वाङ्गस्तत्क्षणं लोहितोक्षितः
विचकर्ष हरन्विष्णुरसृग्विप्लुतविग्रहः॥ ६६ ॥
विश्वास-प्रस्तुतिः
तच्छूलं च त्रिभिर्बाणैः प्रविव्याध सुराधिपः
वरूथं सध्वजं केतुं रथं चैवातपत्रकम्॥ ६७ ॥
मूलम्
तच्छूलं च त्रिभिर्बाणैः प्रविव्याध सुराधिपः
वरूथं सध्वजं केतुं रथं चैवातपत्रकम्॥ ६७ ॥
विश्वास-प्रस्तुतिः
यन्तारं च प्रचिच्छेद दशभिश्च हरिः शरैः
पातिते च रथे दैत्यः सम्प्लुत्याथ रथं परम्॥ ६८ ॥
मूलम्
यन्तारं च प्रचिच्छेद दशभिश्च हरिः शरैः
पातिते च रथे दैत्यः सम्प्लुत्याथ रथं परम्॥ ६८ ॥
विश्वास-प्रस्तुतिः
आरुरोह स दैत्येन्द्रः सम्मुखं चाकरोद्बली
ततो युद्धं महाघोरमभवल्लोमहर्षणम्॥ ६९ ॥
मूलम्
आरुरोह स दैत्येन्द्रः सम्मुखं चाकरोद्बली
ततो युद्धं महाघोरमभवल्लोमहर्षणम्॥ ६९ ॥
विश्वास-प्रस्तुतिः
हिरण्याक्षस्य च हरेर्लोकविस्मापनं महत्
अस्त्रयुद्धं तथान्योन्यं कृतप्रतिकृतं च तत्॥ ७० ॥
मूलम्
हिरण्याक्षस्य च हरेर्लोकविस्मापनं महत्
अस्त्रयुद्धं तथान्योन्यं कृतप्रतिकृतं च तत्॥ ७० ॥
विश्वास-प्रस्तुतिः
ततो नियुद्धे सततं दिव्यवर्षशतं गतम्
ततो दैत्यो महासत्वो ववृधे वामनो यथा॥ ७१ ॥
मूलम्
ततो नियुद्धे सततं दिव्यवर्षशतं गतम्
ततो दैत्यो महासत्वो ववृधे वामनो यथा॥ ७१ ॥
विश्वास-प्रस्तुतिः
मुखेन जग्राह रुषा त्रैलोक्यं सचराचरम्
भूमण्डलं समुद्धृत्य विवेश च रसातलम्॥ ७२ ॥
मूलम्
मुखेन जग्राह रुषा त्रैलोक्यं सचराचरम्
भूमण्डलं समुद्धृत्य विवेश च रसातलम्॥ ७२ ॥
विश्वास-प्रस्तुतिः
शेषाश्च विविशुर्दैत्यास्तमनु प्रीतिसंयुताः
ततो विष्णुर्महातेजा ज्ञात्वा दैत्यबलं महत्॥ ७३ ॥
मूलम्
शेषाश्च विविशुर्दैत्यास्तमनु प्रीतिसंयुताः
ततो विष्णुर्महातेजा ज्ञात्वा दैत्यबलं महत्॥ ७३ ॥
विश्वास-प्रस्तुतिः
दधार रूपं वाराहं दैत्यराजजिघांसया
धृत्वा क्रोडतनुं विष्णुर्विवेश तमनुद्रुतम्॥ ७४ ॥
मूलम्
दधार रूपं वाराहं दैत्यराजजिघांसया
धृत्वा क्रोडतनुं विष्णुर्विवेश तमनुद्रुतम्॥ ७४ ॥
विश्वास-प्रस्तुतिः
तत्र गत्वा रसामूले रसातलगतां महीम्
दृष्ट्वा स्वदंष्ट्रयोर्दध्रे लोकाधारां वसुन्धराम्॥ ७५ ॥
मूलम्
तत्र गत्वा रसामूले रसातलगतां महीम्
दृष्ट्वा स्वदंष्ट्रयोर्दध्रे लोकाधारां वसुन्धराम्॥ ७५ ॥
विश्वास-प्रस्तुतिः
तां धृत्वा गच्छतस्तस्य विष्णोरमिततेजसः
समाजगाम दैत्येन्द्रो धृष्टं वाग्भिस्तुदन्ननु॥ ७६ ॥
मूलम्
तां धृत्वा गच्छतस्तस्य विष्णोरमिततेजसः
समाजगाम दैत्येन्द्रो धृष्टं वाग्भिस्तुदन्ननु॥ ७६ ॥
विश्वास-प्रस्तुतिः
मायाक्रोडतनुर्विष्णुर्दुर्वचांसि सहन्रुषा
जलोपरि दधारेमां धरां भूधर एव च॥ ७७ ॥
मूलम्
मायाक्रोडतनुर्विष्णुर्दुर्वचांसि सहन्रुषा
जलोपरि दधारेमां धरां भूधर एव च॥ ७७ ॥
विश्वास-प्रस्तुतिः
तस्यां न्यस्य स्वसत्वं च स चकार तदाचलाम्
ततः पश्चात्स संलग्नो दैत्यराट्समुपस्थितः॥ ७८ ॥
मूलम्
तस्यां न्यस्य स्वसत्वं च स चकार तदाचलाम्
ततः पश्चात्स संलग्नो दैत्यराट्समुपस्थितः॥ ७८ ॥
विश्वास-प्रस्तुतिः
क्रोधेन महताविष्टो जघान गदया हरिम्
मायया सूकरो विष्णुस्तां गदां समवञ्चयत्॥ ७९ ॥
मूलम्
क्रोधेन महताविष्टो जघान गदया हरिम्
मायया सूकरो विष्णुस्तां गदां समवञ्चयत्॥ ७९ ॥
विश्वास-प्रस्तुतिः
योगयुक्तो यथा मृत्युं कौमोदक्याहनच्च तम्
ततः पुना रुषाविष्टो हिरण्याक्षो महाबलः॥ ८० ॥
मूलम्
योगयुक्तो यथा मृत्युं कौमोदक्याहनच्च तम्
ततः पुना रुषाविष्टो हिरण्याक्षो महाबलः॥ ८० ॥
विश्वास-प्रस्तुतिः
मुष्टिना प्राहरद्देवं दक्षिणे तु भुजे प्रभोः
एवं युद्धं महाघोरं सव्यासव्यं गतागतम्॥ ८१ ॥
मूलम्
मुष्टिना प्राहरद्देवं दक्षिणे तु भुजे प्रभोः
एवं युद्धं महाघोरं सव्यासव्यं गतागतम्॥ ८१ ॥
विश्वास-प्रस्तुतिः
परिभ्रमणविक्षेपं कृतानुकरणं तथा
ततो ब्रह्मादयो देवा युद्धं पश्यन्ति खे स्थिताः॥ ८२ ॥
मूलम्
परिभ्रमणविक्षेपं कृतानुकरणं तथा
ततो ब्रह्मादयो देवा युद्धं पश्यन्ति खे स्थिताः॥ ८२ ॥
विश्वास-प्रस्तुतिः
स्वस्ति प्रजाभ्यो देवेभ्य ऋषिभ्यश्चेति चाब्रुवन्
ऊचुश्च देवदेवेशं विष्णुं वाराहरूपिणम्॥ ८३ ॥
मूलम्
स्वस्ति प्रजाभ्यो देवेभ्य ऋषिभ्यश्चेति चाब्रुवन्
ऊचुश्च देवदेवेशं विष्णुं वाराहरूपिणम्॥ ८३ ॥
विश्वास-प्रस्तुतिः
मा क्रीड बालवद्देव जह्यमुं देवकण्टकम्
ततो विष्णुर्महातेजा मायावाराहरूपधृत्॥ ८४ ॥
मूलम्
मा क्रीड बालवद्देव जह्यमुं देवकण्टकम्
ततो विष्णुर्महातेजा मायावाराहरूपधृत्॥ ८४ ॥
विश्वास-प्रस्तुतिः
ब्रह्माद्यनुमतिं प्राप्य चक्रं प्राक्षिपदुल्बणम्
सहस्रसूर्यसङ्काशं सहस्रारं महाप्रभम्॥ ८५ ॥
मूलम्
ब्रह्माद्यनुमतिं प्राप्य चक्रं प्राक्षिपदुल्बणम्
सहस्रसूर्यसङ्काशं सहस्रारं महाप्रभम्॥ ८५ ॥
विश्वास-प्रस्तुतिः
दैत्यान्तकरणं रौद्रं प्रलयाग्निसमप्रभम्
तच्चक्रं विष्णुना मुक्तं हिरण्याक्षं महाबलम्॥ ८६ ॥
मूलम्
दैत्यान्तकरणं रौद्रं प्रलयाग्निसमप्रभम्
तच्चक्रं विष्णुना मुक्तं हिरण्याक्षं महाबलम्॥ ८६ ॥
विश्वास-प्रस्तुतिः
चकार भस्मसात्सद्यो ब्रह्मादीनां च पश्यताम्
दैत्यान्तकरणं रौद्रं चक्रं चागमदच्युतम्॥ ८७ ॥
मूलम्
चकार भस्मसात्सद्यो ब्रह्मादीनां च पश्यताम्
दैत्यान्तकरणं रौद्रं चक्रं चागमदच्युतम्॥ ८७ ॥
विश्वास-प्रस्तुतिः
ततो ब्रह्मादयो देवाः शक्रमुख्याश्च लोकपाः
दृष्ट्वा च विजयं विष्णोः स्तुवन्ति स्म समागताः॥ ८८ ॥
मूलम्
ततो ब्रह्मादयो देवाः शक्रमुख्याश्च लोकपाः
दृष्ट्वा च विजयं विष्णोः स्तुवन्ति स्म समागताः॥ ८८ ॥
विश्वास-प्रस्तुतिः
देवा ऊचुः-
नताः स्म विष्णुं जगदादिभूतं सुरासुरेन्द्रं जगतां प्रपालकम्
यन्नाभिपद्मात्किल पद्मयोनिर्बभूव तं वै शरणं गताः स्मः॥ ८९ ॥
मूलम्
देवा ऊचुः-
नताः स्म विष्णुं जगदादिभूतं सुरासुरेन्द्रं जगतां प्रपालकम्
यन्नाभिपद्मात्किल पद्मयोनिर्बभूव तं वै शरणं गताः स्मः॥ ८९ ॥
विश्वास-प्रस्तुतिः
नमोनमो मत्स्यवपुर्द्धराय नमोस्तु ते कच्छपरूपधारिणे
नमः प्रकुर्मश्च नृसिंहरूपिणे तथा पुनर्वामनरूपिणे नमः॥ ९० ॥
मूलम्
नमोनमो मत्स्यवपुर्द्धराय नमोस्तु ते कच्छपरूपधारिणे
नमः प्रकुर्मश्च नृसिंहरूपिणे तथा पुनर्वामनरूपिणे नमः॥ ९० ॥
विश्वास-प्रस्तुतिः
नमोस्तु ते क्षत्रविनाशनाय रामाय रामाय दशास्यनाशिने
प्रलम्बहन्त्रे शितिवाससे नमो नमोस्तु बुद्धाय च दैत्यमोहिने॥ ९१ ॥
मूलम्
नमोस्तु ते क्षत्रविनाशनाय रामाय रामाय दशास्यनाशिने
प्रलम्बहन्त्रे शितिवाससे नमो नमोस्तु बुद्धाय च दैत्यमोहिने॥ ९१ ॥
विश्वास-प्रस्तुतिः
म्लेच्छान्तकायापि च कल्किनाम्ने नमः पुनः क्रोडवपुर्धराय
जगद्धितार्थं च युगेयुगे भवान्बिभर्ति रूपं त्वसुराभवाय॥ ९२ ॥
मूलम्
म्लेच्छान्तकायापि च कल्किनाम्ने नमः पुनः क्रोडवपुर्धराय
जगद्धितार्थं च युगेयुगे भवान्बिभर्ति रूपं त्वसुराभवाय॥ ९२ ॥
विश्वास-प्रस्तुतिः
निषूदितोऽयं ह्यधुना किल त्वया दैत्यो हिरण्याक्ष इति प्रगल्भः
यश्चेन्द्रमुख्यान्किललोकपालान्संहेलया चैव तिरश्चकार॥ ९३ ॥
मूलम्
निषूदितोऽयं ह्यधुना किल त्वया दैत्यो हिरण्याक्ष इति प्रगल्भः
यश्चेन्द्रमुख्यान्किललोकपालान्संहेलया चैव तिरश्चकार॥ ९३ ॥
विश्वास-प्रस्तुतिः
स वै त्वया देवहितार्थमेव निपातितो देववर प्रसीद
त्वमस्य विश्वस्य विसर्गकर्ता ब्राह्मेण रूपेण च देवदेव॥ ९४ ॥
मूलम्
स वै त्वया देवहितार्थमेव निपातितो देववर प्रसीद
त्वमस्य विश्वस्य विसर्गकर्ता ब्राह्मेण रूपेण च देवदेव॥ ९४ ॥
विश्वास-प्रस्तुतिः
पाता त्वमेवास्य युगेयुगे च रूपाणि धत्से सुमनोहराणि
त्वमेव कालाग्निहरश्च भूत्वा विश्वं क्षयं नेष्यसि चान्तकाले॥ ९५ ॥
मूलम्
पाता त्वमेवास्य युगेयुगे च रूपाणि धत्से सुमनोहराणि
त्वमेव कालाग्निहरश्च भूत्वा विश्वं क्षयं नेष्यसि चान्तकाले॥ ९५ ॥
विश्वास-प्रस्तुतिः
अतो भवानेव च विश्वकारणं न ते परं जीवमजीवमीश
यत्किञ्च भूतं च भविष्यरूपं प्रवर्त्तमानं च तथैव रूपम्॥ ९६ ॥
मूलम्
अतो भवानेव च विश्वकारणं न ते परं जीवमजीवमीश
यत्किञ्च भूतं च भविष्यरूपं प्रवर्त्तमानं च तथैव रूपम्॥ ९६ ॥
विश्वास-प्रस्तुतिः
सर्वं त्वमेवासि चराचराख्यं न भाति विश्वं त्वदृते च किञ्चित्
अस्तीति नास्तीति च भेदनिष्ठं त्वय्येव भातं सदसत्स्वरूपम्॥ ९७ ॥
मूलम्
सर्वं त्वमेवासि चराचराख्यं न भाति विश्वं त्वदृते च किञ्चित्
अस्तीति नास्तीति च भेदनिष्ठं त्वय्येव भातं सदसत्स्वरूपम्॥ ९७ ॥
विश्वास-प्रस्तुतिः
ततो भवन्तं कतमोपि देव न ज्ञातुमर्हत्यविपक्वबुद्धिः
ऋते भवत्पादपरायणं जनं तेनागता स्मश्शरणं शरण्यम्॥ ९८ ॥
मूलम्
ततो भवन्तं कतमोपि देव न ज्ञातुमर्हत्यविपक्वबुद्धिः
ऋते भवत्पादपरायणं जनं तेनागता स्मश्शरणं शरण्यम्॥ ९८ ॥
विश्वास-प्रस्तुतिः
व्यास उवाच-
ततो विष्णुः प्रसन्नात्मा उवाच त्रिदिवौकसः
तुष्टोस्मि देवा भद्रं वो युष्मत्स्तोत्रेण साम्प्रतम्॥ ९९ ॥
मूलम्
व्यास उवाच-
ततो विष्णुः प्रसन्नात्मा उवाच त्रिदिवौकसः
तुष्टोस्मि देवा भद्रं वो युष्मत्स्तोत्रेण साम्प्रतम्॥ ९९ ॥
य इदं प्रपठेद्भक्त्या विजयस्तोत्रमादरात्
न तस्य दुर्लभं देवास्त्रिषुलोकेषु किञ्चन१००
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्
तत्फलं समवाप्नोति कीर्तनाच्छ्रवणान्नरः१०१
सर्वकामप्रदं नित्यं देवदेवस्य कीर्तनम्
अतः परं महाज्ञानं न भूतं न भविष्यति१०२
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे देवासुरसङ्ग्रामसमाप्तौ विजयस्तोत्रन्नाम पञ्चसप्ततितमोऽध्यायः७५