०७४

व्यास उवाच-

विश्वास-प्रस्तुतिः

चतुर्भिस्तुरगैर्जुष्टं रथं सूर्यसमप्रभं
त्रैपुरिः संरुरोहाथाब्रवीद्वाक्यं गणाधिपं॥ १ ॥

मूलम्

चतुर्भिस्तुरगैर्जुष्टं रथं सूर्यसमप्रभं
त्रैपुरिः संरुरोहाथाब्रवीद्वाक्यं गणाधिपं॥ १ ॥

विश्वास-प्रस्तुतिः

पिता मे निहतः पित्रा तव यस्माद्गणाधिप
तस्मात्त्वामद्य विशिखैर्नयामि यमसादनं॥ २ ॥

मूलम्

पिता मे निहतः पित्रा तव यस्माद्गणाधिप
तस्मात्त्वामद्य विशिखैर्नयामि यमसादनं॥ २ ॥

विश्वास-प्रस्तुतिः

ततस्तमब्रवीद्देवो गणेशस्त्रिपुरात्मजं
तव तातेन दुष्टेन सुराणामहितं पुरा॥ ३ ॥

मूलम्

ततस्तमब्रवीद्देवो गणेशस्त्रिपुरात्मजं
तव तातेन दुष्टेन सुराणामहितं पुरा॥ ३ ॥

विश्वास-प्रस्तुतिः

कृतं कर्ममहत्पापं श्रुतं नो जनकेन हि
पापकर्मरतं दुष्टं ज्ञात्वा ज्ञानबलेन च॥ ४ ॥

मूलम्

कृतं कर्ममहत्पापं श्रुतं नो जनकेन हि
पापकर्मरतं दुष्टं ज्ञात्वा ज्ञानबलेन च॥ ४ ॥

विश्वास-प्रस्तुतिः

अवधीत्तं शरैकेन पितरं ते बलेन च
पङ्कात्प्रतारितो मोहात्प्रेषितो यममन्दिरं॥ ५ ॥

मूलम्

अवधीत्तं शरैकेन पितरं ते बलेन च
पङ्कात्प्रतारितो मोहात्प्रेषितो यममन्दिरं॥ ५ ॥

विश्वास-प्रस्तुतिः

त्वां चाहं तत्पथं दैत्य प्रेषयामि क्षणादिह
उक्तवन्तं महाप्राज्ञं सुराणां च गणाधिपं॥ ६ ॥

मूलम्

त्वां चाहं तत्पथं दैत्य प्रेषयामि क्षणादिह
उक्तवन्तं महाप्राज्ञं सुराणां च गणाधिपं॥ ६ ॥

विश्वास-प्रस्तुतिः

विव्याध दशभिस्तीक्ष्णैः कालानलसमप्रभैः
ततः शरसहस्रैस्तु दैत्यं विव्याध साहसात्॥ ७ ॥

मूलम्

विव्याध दशभिस्तीक्ष्णैः कालानलसमप्रभैः
ततः शरसहस्रैस्तु दैत्यं विव्याध साहसात्॥ ७ ॥

विश्वास-प्रस्तुतिः

यमदण्डसमैर्बाणैः क्षुरप्रैश्च शिलीमुखैः
कङ्कपत्रैर्महातीक्ष्णैर्वज्रानलसमप्रभैः॥ ८ ॥

मूलम्

यमदण्डसमैर्बाणैः क्षुरप्रैश्च शिलीमुखैः
कङ्कपत्रैर्महातीक्ष्णैर्वज्रानलसमप्रभैः॥ ८ ॥

विश्वास-प्रस्तुतिः

विचकर्त शरांश्चास्य लम्बोदरः सुरार्चितः
पुनर्विव्याध विशिखैः सहसाभि दुरोपमैः॥ ९ ॥

मूलम्

विचकर्त शरांश्चास्य लम्बोदरः सुरार्चितः
पुनर्विव्याध विशिखैः सहसाभि दुरोपमैः॥ ९ ॥

विश्वास-प्रस्तुतिः

शरैरर्दितसर्वाङ्गो मूर्च्छितस्त्वपतद्भुवि
ततो भद्रश्च सौभद्रो भीषणो निर्जरान्तकः॥ १० ॥

मूलम्

शरैरर्दितसर्वाङ्गो मूर्च्छितस्त्वपतद्भुवि
ततो भद्रश्च सौभद्रो भीषणो निर्जरान्तकः॥ १० ॥

विश्वास-प्रस्तुतिः

स्वां स्वां गदां समादाय दुद्रुवुस्तं विनायकम्
युगपत्ते गदापातैर्निजघ्नुर्गणनायकम्॥ ११ ॥

मूलम्

स्वां स्वां गदां समादाय दुद्रुवुस्तं विनायकम्
युगपत्ते गदापातैर्निजघ्नुर्गणनायकम्॥ ११ ॥

विश्वास-प्रस्तुतिः

लाघवात्तु वृथा कृत्वा गदास्तेषां महाबलः
भद्रकस्य तु शीर्षे चाहनत्परशुना तदा॥ १२ ॥

मूलम्

लाघवात्तु वृथा कृत्वा गदास्तेषां महाबलः
भद्रकस्य तु शीर्षे चाहनत्परशुना तदा॥ १२ ॥

विश्वास-प्रस्तुतिः

सौभद्रस्योत्तमाङ्गं च असिनाग्रे निपातितम्
भीषणस्य कुठारेण खड्गेन निर्जरान्तकम्॥ १३ ॥

मूलम्

सौभद्रस्योत्तमाङ्गं च असिनाग्रे निपातितम्
भीषणस्य कुठारेण खड्गेन निर्जरान्तकम्॥ १३ ॥

विश्वास-प्रस्तुतिः

पातयित्वा च हेरम्बो महागिरिसमांस्तदा
चतुरो गणमुख्यांश्च अन्यांश्चापातयद्द्विषः॥ १४ ॥

मूलम्

पातयित्वा च हेरम्बो महागिरिसमांस्तदा
चतुरो गणमुख्यांश्च अन्यांश्चापातयद्द्विषः॥ १४ ॥

विश्वास-प्रस्तुतिः

ततः सञ्ज्ञां समालभ्य त्रैपुरिश्चासुरोत्तमः
समारुह्य रथं स्वं च जघान सुरसत्तमम्॥ १५ ॥

मूलम्

ततः सञ्ज्ञां समालभ्य त्रैपुरिश्चासुरोत्तमः
समारुह्य रथं स्वं च जघान सुरसत्तमम्॥ १५ ॥

विश्वास-प्रस्तुतिः

विशिखैरर्धचन्द्रैश्च क्षुरप्रैर्भल्लकैस्तथा
तांस्तु चिच्छेद धर्मात्मा पुनर्विव्याध तं शरैः॥ १६ ॥

मूलम्

विशिखैरर्धचन्द्रैश्च क्षुरप्रैर्भल्लकैस्तथा
तांस्तु चिच्छेद धर्मात्मा पुनर्विव्याध तं शरैः॥ १६ ॥

विश्वास-प्रस्तुतिः

चतुर्भिः सैन्धवांश्चैव शरैकेन च सारथिम्
शरैः सम्पातयामास धरण्यां गणनायकान्॥ १७ ॥

मूलम्

चतुर्भिः सैन्धवांश्चैव शरैकेन च सारथिम्
शरैः सम्पातयामास धरण्यां गणनायकान्॥ १७ ॥

विश्वास-प्रस्तुतिः

लाघवात्तु रथं चान्यं गत्वा त्रिपुरनन्दनः
विशिखैर्वज्रसङ्काशैः सम्बिभेद गणाधिपम्॥ १८ ॥

मूलम्

लाघवात्तु रथं चान्यं गत्वा त्रिपुरनन्दनः
विशिखैर्वज्रसङ्काशैः सम्बिभेद गणाधिपम्॥ १८ ॥

विश्वास-प्रस्तुतिः

रुधिरेणावसिक्ताङ्गो रुषा घोर यमप्रभः
ललाटे च त्रिभिर्बाणैस्सप्तभिश्च स्तनान्तरे॥ १९ ॥

मूलम्

रुधिरेणावसिक्ताङ्गो रुषा घोर यमप्रभः
ललाटे च त्रिभिर्बाणैस्सप्तभिश्च स्तनान्तरे॥ १९ ॥

विश्वास-प्रस्तुतिः

चतुर्भिर्नाभिदेशे च पञ्चभिर्मुष्टिमस्तके
सम्बिभेद महाक्रोधो बलिनं शम्भुनन्दनः॥ २० ॥

मूलम्

चतुर्भिर्नाभिदेशे च पञ्चभिर्मुष्टिमस्तके
सम्बिभेद महाक्रोधो बलिनं शम्भुनन्दनः॥ २० ॥

विश्वास-प्रस्तुतिः

शरैरर्दितसर्वाङ्गः स दैत्यो रणमूर्धनि
कश्मलं परमं गत्वा सम्पपात रथोपरि॥ २१ ॥

मूलम्

शरैरर्दितसर्वाङ्गः स दैत्यो रणमूर्धनि
कश्मलं परमं गत्वा सम्पपात रथोपरि॥ २१ ॥

विश्वास-प्रस्तुतिः

ततः सूतेन धीरेण अपनीतो रणाजिरात्
विमुखं नाहनच्छूरो विनायकः सुरार्चितः॥ २२ ॥

मूलम्

ततः सूतेन धीरेण अपनीतो रणाजिरात्
विमुखं नाहनच्छूरो विनायकः सुरार्चितः॥ २२ ॥

विश्वास-प्रस्तुतिः

चिरात्सञ्ज्ञां समालभ्य यन्तारं चाब्रवीद्वचः
गच्छ सूत रणे भीरुं विनायकं हरात्मजम्॥ २३ ॥

मूलम्

चिरात्सञ्ज्ञां समालभ्य यन्तारं चाब्रवीद्वचः
गच्छ सूत रणे भीरुं विनायकं हरात्मजम्॥ २३ ॥

विश्वास-प्रस्तुतिः

ततो यन्ताब्रवीद्वाक्यं सत्यं पथ्यं च कोमलम्
हरात्मजशरान्सोढुं कस्समर्थो रणाजिरे॥ २४ ॥

मूलम्

ततो यन्ताब्रवीद्वाक्यं सत्यं पथ्यं च कोमलम्
हरात्मजशरान्सोढुं कस्समर्थो रणाजिरे॥ २४ ॥

विश्वास-प्रस्तुतिः

तस्मान्मोहगतस्त्वं च मयानीतः प्रभासुत
एतज्ज्ञात्वा त्विदानीं भो यद्युक्तं तद्विधीयताम्॥ २५ ॥

मूलम्

तस्मान्मोहगतस्त्वं च मयानीतः प्रभासुत
एतज्ज्ञात्वा त्विदानीं भो यद्युक्तं तद्विधीयताम्॥ २५ ॥

विश्वास-प्रस्तुतिः

एतस्मिन्नन्तरे राज्ञा प्रेरितः कविसत्तमः
औषधादिप्रयोगेण गजः सञ्ज्ञामबोधयत्॥ २६ ॥

मूलम्

एतस्मिन्नन्तरे राज्ञा प्रेरितः कविसत्तमः
औषधादिप्रयोगेण गजः सञ्ज्ञामबोधयत्॥ २६ ॥

विश्वास-प्रस्तुतिः

अकारयच्छतगुण प्राणं च जयमादिशत्
प्राग्जलं मन्त्रितं दत्वा रुरोधास्याङ्गकव्रणान्॥ २७ ॥

मूलम्

अकारयच्छतगुण प्राणं च जयमादिशत्
प्राग्जलं मन्त्रितं दत्वा रुरोधास्याङ्गकव्रणान्॥ २७ ॥

विश्वास-प्रस्तुतिः

स गजो दशनैरेव स्फोटयामास वै गिरिम्
एवं शतसहस्राणि सैन्यानि सैन्यपालकान्॥ २८ ॥

मूलम्

स गजो दशनैरेव स्फोटयामास वै गिरिम्
एवं शतसहस्राणि सैन्यानि सैन्यपालकान्॥ २८ ॥

विश्वास-प्रस्तुतिः

पातयामास समितौ गजः परमदुर्जयः
स दैत्यस्तस्य पृष्ठस्थः शरैः कालानलप्रभैः॥ २९ ॥

मूलम्

पातयामास समितौ गजः परमदुर्जयः
स दैत्यस्तस्य पृष्ठस्थः शरैः कालानलप्रभैः॥ २९ ॥

विश्वास-प्रस्तुतिः

हत्वा त्वपातयच्चोर्व्यां मुख्यमुख्यान्सुराधिपान्
शरैस्तस्य तदा देवा यमदण्डसमप्रभैः॥ ३० ॥

मूलम्

हत्वा त्वपातयच्चोर्व्यां मुख्यमुख्यान्सुराधिपान्
शरैस्तस्य तदा देवा यमदण्डसमप्रभैः॥ ३० ॥

विश्वास-प्रस्तुतिः

निपतन्ति महावीर्या रुधिरौघपरिप्लुताः
यस्मिन्यस्मिंश्च मार्गे तु स दैत्यः सगजो गतः॥ ३१ ॥

मूलम्

निपतन्ति महावीर्या रुधिरौघपरिप्लुताः
यस्मिन्यस्मिंश्च मार्गे तु स दैत्यः सगजो गतः॥ ३१ ॥

विश्वास-प्रस्तुतिः

तत्र तत्र चकाराशु भीषणं सञ्चितं शरैः
गजेन पातिताः केचिद्गजारोहेण चापरे॥ ३२ ॥

मूलम्

तत्र तत्र चकाराशु भीषणं सञ्चितं शरैः
गजेन पातिताः केचिद्गजारोहेण चापरे॥ ३२ ॥

विश्वास-प्रस्तुतिः

वेगेन भ्रमणेनैव सुराः केचित्प्रतापिताः
एवं सुरगणाध्यक्षाः शस्त्रास्त्रैर्विविधैश्च तम्॥ ३३ ॥

मूलम्

वेगेन भ्रमणेनैव सुराः केचित्प्रतापिताः
एवं सुरगणाध्यक्षाः शस्त्रास्त्रैर्विविधैश्च तम्॥ ३३ ॥

विश्वास-प्रस्तुतिः

सगजं युद्धनिर्भीता निजघ्नुर्बहुभिः शरैः
तथापि तद्गजं योद्धुं न शक्तास्ते महाबलाः॥ ३४ ॥

मूलम्

सगजं युद्धनिर्भीता निजघ्नुर्बहुभिः शरैः
तथापि तद्गजं योद्धुं न शक्तास्ते महाबलाः॥ ३४ ॥

विश्वास-प्रस्तुतिः

क्षिप्रं तांस्तु गजो दन्तैस्त्रैपुरोऽपातयच्छरैः
न गता ये धरण्यां च देवा जर्जरविग्रहाः॥ ३५ ॥

मूलम्

क्षिप्रं तांस्तु गजो दन्तैस्त्रैपुरोऽपातयच्छरैः
न गता ये धरण्यां च देवा जर्जरविग्रहाः॥ ३५ ॥

विश्वास-प्रस्तुतिः

शरण्यं गणपं जग्मुर्भीतास्ते वेदनातुराः
देवानां कदनं दृष्ट्वा गणाधीशः प्रतापवान्॥ ३६ ॥

मूलम्

शरण्यं गणपं जग्मुर्भीतास्ते वेदनातुराः
देवानां कदनं दृष्ट्वा गणाधीशः प्रतापवान्॥ ३६ ॥

विश्वास-प्रस्तुतिः

स गजं ताडयामास वज्रानलसमैः शरैः
स गजो वेगसंरुद्धः शरेण च समुत्थितः॥ ३७ ॥

मूलम्

स गजं ताडयामास वज्रानलसमैः शरैः
स गजो वेगसंरुद्धः शरेण च समुत्थितः॥ ३७ ॥

विश्वास-प्रस्तुतिः

अथोतौ द्वौ शरैरेव बिभिदाते परस्परम्
उभौ तौ नर्दमानौ च अन्योन्यं जयमैच्छताम्॥ ३८ ॥

मूलम्

अथोतौ द्वौ शरैरेव बिभिदाते परस्परम्
उभौ तौ नर्दमानौ च अन्योन्यं जयमैच्छताम्॥ ३८ ॥

विश्वास-प्रस्तुतिः

शोणितैर्लिप्तसर्वाङ्गौ वीरमुख्यौ सुरासुरौ
अथाखुं स गजो मत्तो बिभेद दशनैः स्वकैः॥ ३९ ॥

मूलम्

शोणितैर्लिप्तसर्वाङ्गौ वीरमुख्यौ सुरासुरौ
अथाखुं स गजो मत्तो बिभेद दशनैः स्वकैः॥ ३९ ॥

विश्वास-प्रस्तुतिः

आखुनाभिद्रुतो नागो घोरयुद्धं तयोः परम्
अधोर्ध्वं संविभागे च चतुर्भिर्युद्धमद्भुतम्॥ ४० ॥

मूलम्

आखुनाभिद्रुतो नागो घोरयुद्धं तयोः परम्
अधोर्ध्वं संविभागे च चतुर्भिर्युद्धमद्भुतम्॥ ४० ॥

विश्वास-प्रस्तुतिः

सशब्दं तुमुलं युद्धं सर्वलोकभयङ्करम्
दशनैर्दशनैरेव शरैरेव शरोत्तमैः॥ ४१ ॥

मूलम्

सशब्दं तुमुलं युद्धं सर्वलोकभयङ्करम्
दशनैर्दशनैरेव शरैरेव शरोत्तमैः॥ ४१ ॥

विश्वास-प्रस्तुतिः

तद्घोरमभवद्युद्धं देवदानवसङ्गरे
आखुको भेदयाञ्चक्रे महानाङ्गं महाबलम्॥ ४२ ॥

मूलम्

तद्घोरमभवद्युद्धं देवदानवसङ्गरे
आखुको भेदयाञ्चक्रे महानाङ्गं महाबलम्॥ ४२ ॥

विश्वास-प्रस्तुतिः

पर्शुना पृष्ठवंशाग्रे स्थित्वा तेनाहनत्पुनः
दैत्यस्य दशनद्वारे हृदिस्कन्धेथ लाघवात्॥ ४३ ॥

मूलम्

पर्शुना पृष्ठवंशाग्रे स्थित्वा तेनाहनत्पुनः
दैत्यस्य दशनद्वारे हृदिस्कन्धेथ लाघवात्॥ ४३ ॥

विश्वास-प्रस्तुतिः

सगजः स पपातोर्व्यां गतासुर्लोहितं वमन्
शशंसुर्मुनयो देवास्साधुसाध्विति चाब्रुवत्॥ ४४ ॥

मूलम्

सगजः स पपातोर्व्यां गतासुर्लोहितं वमन्
शशंसुर्मुनयो देवास्साधुसाध्विति चाब्रुवत्॥ ४४ ॥

विश्वास-प्रस्तुतिः

अत्रान्येस्त्रैरमोघैश्च दैत्यानाजघ्नुराहवे
यावत्तु सेनयोर्नैव जययुद्धं समापयेत्॥ ४५ ॥

मूलम्

अत्रान्येस्त्रैरमोघैश्च दैत्यानाजघ्नुराहवे
यावत्तु सेनयोर्नैव जययुद्धं समापयेत्॥ ४५ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे त्रैपुरिविमर्दोनाम चतुस्सप्ततितमोऽध्यायः७४