०७३

व्यास उवाच-

विश्वास-प्रस्तुतिः

ततो वृत्रो महातेजा दैत्यानां प्रवरो युधि
दिग्गजाढ्यं गजारूढः प्राद्रवद्बलसूदनम्॥ १ ॥

मूलम्

ततो वृत्रो महातेजा दैत्यानां प्रवरो युधि
दिग्गजाढ्यं गजारूढः प्राद्रवद्बलसूदनम्॥ १ ॥

विश्वास-प्रस्तुतिः

आगच्छन्तं ततो वृत्रं शरैः कालानलप्रभैः
विव्याध सर्वगात्रेषु द्विरदस्थो महाहवे॥ २ ॥

मूलम्

आगच्छन्तं ततो वृत्रं शरैः कालानलप्रभैः
विव्याध सर्वगात्रेषु द्विरदस्थो महाहवे॥ २ ॥

विश्वास-प्रस्तुतिः

ततो वृत्रस्तु शीर्षं च जिष्णोरेव पतत्रिणा
विव्याध सहसा तेन स चचाल महाबलः॥ ३ ॥

मूलम्

ततो वृत्रस्तु शीर्षं च जिष्णोरेव पतत्रिणा
विव्याध सहसा तेन स चचाल महाबलः॥ ३ ॥

विश्वास-प्रस्तुतिः

आत्मानं च समाश्वास्य धनुरुद्यम्य वीर्यवान्
ववर्ष शरवर्षेण तस्य दैत्यस्य विग्रहे॥ ४ ॥

मूलम्

आत्मानं च समाश्वास्य धनुरुद्यम्य वीर्यवान्
ववर्ष शरवर्षेण तस्य दैत्यस्य विग्रहे॥ ४ ॥

विश्वास-प्रस्तुतिः

शरांश्छित्वा बिभेदाशु शरैराशीविषोपमैः
शतक्रतुं महावीर्यः सर्वदेवाधिपं युधि॥ ५ ॥

मूलम्

शरांश्छित्वा बिभेदाशु शरैराशीविषोपमैः
शतक्रतुं महावीर्यः सर्वदेवाधिपं युधि॥ ५ ॥

विश्वास-प्रस्तुतिः

ततः शरसहस्रैस्तु दैत्यं विव्याध देवराट्
परस्परं शरा यान्ति यथा सप्ताश्व रश्मयः॥ ६ ॥

मूलम्

ततः शरसहस्रैस्तु दैत्यं विव्याध देवराट्
परस्परं शरा यान्ति यथा सप्ताश्व रश्मयः॥ ६ ॥

विश्वास-प्रस्तुतिः

एवं शरसहस्रैस्तु बिभिदाते परस्परम्
मनोजवसमाः शीघ्रा गाढाः शिखरिणो यथा॥ ७ ॥

मूलम्

एवं शरसहस्रैस्तु बिभिदाते परस्परम्
मनोजवसमाः शीघ्रा गाढाः शिखरिणो यथा॥ ७ ॥

विश्वास-प्रस्तुतिः

बडवानलसंस्पर्शाः खगा वज्रारभेदकाः
तयोर्धनुष्मतोर्युद्धे शरास्तुल्यगुणान्विताः॥ ८ ॥

मूलम्

बडवानलसंस्पर्शाः खगा वज्रारभेदकाः
तयोर्धनुष्मतोर्युद्धे शरास्तुल्यगुणान्विताः॥ ८ ॥

विश्वास-प्रस्तुतिः

एवं क्रमेण युद्धे च अहोरात्रमवर्तत
महेन्द्रो द्विरदं तस्य शूलेनैव जघान ह॥ ९ ॥

मूलम्

एवं क्रमेण युद्धे च अहोरात्रमवर्तत
महेन्द्रो द्विरदं तस्य शूलेनैव जघान ह॥ ९ ॥

विश्वास-प्रस्तुतिः

स निपत्य महीपृष्ठे लाघवात्स्वरथं ययौ
रथस्थस्तस्य देवस्य शक्त्या चैरावणं दृढम्॥ १० ॥

मूलम्

स निपत्य महीपृष्ठे लाघवात्स्वरथं ययौ
रथस्थस्तस्य देवस्य शक्त्या चैरावणं दृढम्॥ १० ॥

विश्वास-प्रस्तुतिः

बिभेद लाघवेनाशु वज्रेणेव महागिरिं
शुशुभे कम्पमानस्तु सेन्द्रः स च महागजः॥ ११ ॥

मूलम्

बिभेद लाघवेनाशु वज्रेणेव महागिरिं
शुशुभे कम्पमानस्तु सेन्द्रः स च महागजः॥ ११ ॥

विश्वास-प्रस्तुतिः

ततः शक्तिं समादाय आविध्य मघवाऽसुरम्
बिभेदोरसि दैत्यस्य स पपात रथोपरि॥ १२ ॥

मूलम्

ततः शक्तिं समादाय आविध्य मघवाऽसुरम्
बिभेदोरसि दैत्यस्य स पपात रथोपरि॥ १२ ॥

विश्वास-प्रस्तुतिः

क्षणात्सञ्ज्ञां समालम्ब्य स विनद्य पतत्त्रिणा
बिभेद समरे शक्रं स ततः कश्मलं गतः॥ १३ ॥

मूलम्

क्षणात्सञ्ज्ञां समालम्ब्य स विनद्य पतत्त्रिणा
बिभेद समरे शक्रं स ततः कश्मलं गतः॥ १३ ॥

विश्वास-प्रस्तुतिः

इन्द्रः सञ्ज्ञां पुनः प्राप्य जघान विशिखैः शितैः
शतकोटिसमैर्बाणैरर्दितो व्यथयान्वितः॥ १४ ॥

मूलम्

इन्द्रः सञ्ज्ञां पुनः प्राप्य जघान विशिखैः शितैः
शतकोटिसमैर्बाणैरर्दितो व्यथयान्वितः॥ १४ ॥

विश्वास-प्रस्तुतिः

ततो वृत्रो महाशूलं प्राक्षिपन्निर्जरेश्वरे
शाम्भवास्त्रेण देवेशो वैष्णवास्त्रं मुमोच ह॥ १५ ॥

मूलम्

ततो वृत्रो महाशूलं प्राक्षिपन्निर्जरेश्वरे
शाम्भवास्त्रेण देवेशो वैष्णवास्त्रं मुमोच ह॥ १५ ॥

विश्वास-प्रस्तुतिः

उभयोरम्बरे चास्त्रे वह्निकूटसमप्रभे
अन्योन्यं जघ्नतुस्तत्र स्फुलिगानि विमुञ्चती॥ १६ ॥

मूलम्

उभयोरम्बरे चास्त्रे वह्निकूटसमप्रभे
अन्योन्यं जघ्नतुस्तत्र स्फुलिगानि विमुञ्चती॥ १६ ॥

विश्वास-प्रस्तुतिः

स्पर्शने च स्फुलिङ्गानामुभयोः सेनयोर्भटाः
न शक्ताः सम्मुखे स्थातुं शलभा ज्वलने यथा॥ १७ ॥

मूलम्

स्पर्शने च स्फुलिङ्गानामुभयोः सेनयोर्भटाः
न शक्ताः सम्मुखे स्थातुं शलभा ज्वलने यथा॥ १७ ॥

विश्वास-प्रस्तुतिः

दग्धाः पेतुः पृथिव्यां च दिशस्सर्वाः प्रदुद्रुवुः
देवदानवयोर्वीराः शून्यस्तत्राभवद्रणः॥ १८ ॥

मूलम्

दग्धाः पेतुः पृथिव्यां च दिशस्सर्वाः प्रदुद्रुवुः
देवदानवयोर्वीराः शून्यस्तत्राभवद्रणः॥ १८ ॥

विश्वास-प्रस्तुतिः

अस्त्रं निरस्तकं दृष्ट्वा स दैत्यः क्रोधमूर्च्छितः
मायया शैलसन्दोहमस्त्रं शक्रे मुमोच ह॥ १९ ॥

मूलम्

अस्त्रं निरस्तकं दृष्ट्वा स दैत्यः क्रोधमूर्च्छितः
मायया शैलसन्दोहमस्त्रं शक्रे मुमोच ह॥ १९ ॥

विश्वास-प्रस्तुतिः

बाणौघैः शैलसङ्घातं प्रचिच्छेद रणे हरिः
अघोरं प्रासृजद्दैत्यः पुरुहूते महाबले॥ २० ॥

मूलम्

बाणौघैः शैलसङ्घातं प्रचिच्छेद रणे हरिः
अघोरं प्रासृजद्दैत्यः पुरुहूते महाबले॥ २० ॥

विश्वास-प्रस्तुतिः

कोटिकोटिसहस्राणि जन्तूनां प्रवराणि च
सिंहशार्दूलभल्लूक वृक व्याघ्र महागजाः॥ २१ ॥

मूलम्

कोटिकोटिसहस्राणि जन्तूनां प्रवराणि च
सिंहशार्दूलभल्लूक वृक व्याघ्र महागजाः॥ २१ ॥

विश्वास-प्रस्तुतिः

दन्दशूकादयः सत्वाः प्रधावन्ति सुरेश्वरं
क्षुरप्रैरर्धचन्द्रैश्च भल्लैः शिलीमुखैस्तथा॥ २२ ॥

मूलम्

दन्दशूकादयः सत्वाः प्रधावन्ति सुरेश्वरं
क्षुरप्रैरर्धचन्द्रैश्च भल्लैः शिलीमुखैस्तथा॥ २२ ॥

विश्वास-प्रस्तुतिः

असम्प्राप्तान्प्रचिच्छेद मघवा परवीरहा
ततो वृत्रो महाबाहुर्धनुरुद्यम्य वीर्यवान्॥ २३ ॥

मूलम्

असम्प्राप्तान्प्रचिच्छेद मघवा परवीरहा
ततो वृत्रो महाबाहुर्धनुरुद्यम्य वीर्यवान्॥ २३ ॥

विश्वास-प्रस्तुतिः

बिभेद शरसाहस्रैर्वज्रकल्पैः शतक्रतुं
छित्वा क्षुरप्रैश्शक्रश्च धनुस्तस्य चकर्त च॥ २४ ॥

मूलम्

बिभेद शरसाहस्रैर्वज्रकल्पैः शतक्रतुं
छित्वा क्षुरप्रैश्शक्रश्च धनुस्तस्य चकर्त च॥ २४ ॥

विश्वास-प्रस्तुतिः

सूतं चाश्वान्पृथिव्यां च पातयामास तत्क्षणात्
सकण्टकाङ्गदां भीमां सम्पूज्यासुरसत्तमः॥ २५ ॥

मूलम्

सूतं चाश्वान्पृथिव्यां च पातयामास तत्क्षणात्
सकण्टकाङ्गदां भीमां सम्पूज्यासुरसत्तमः॥ २५ ॥

विश्वास-प्रस्तुतिः

जघान पद्मिनः शीर्षे मोहाद्दन्ती क्षितिं ययौ
सगदः सर्वदेवेशो धरणीं समुपस्थितः॥ २६ ॥

मूलम्

जघान पद्मिनः शीर्षे मोहाद्दन्ती क्षितिं ययौ
सगदः सर्वदेवेशो धरणीं समुपस्थितः॥ २६ ॥

विश्वास-प्रस्तुतिः

ततस्तयोर्गदायुद्धमवर्तत मुहुर्मुहुः
तयोः प्रहरतोः शब्दो गदापातोद्भवो ध्रुवं॥ २७ ॥

मूलम्

ततस्तयोर्गदायुद्धमवर्तत मुहुर्मुहुः
तयोः प्रहरतोः शब्दो गदापातोद्भवो ध्रुवं॥ २७ ॥

विश्वास-प्रस्तुतिः

आवर्तं परिवर्तं च चक्रतुस्तौ पुनः पुनः
अध ऊर्ध्वं प्रहारं च पार्श्वयोरतिभीषणं॥ २८ ॥

मूलम्

आवर्तं परिवर्तं च चक्रतुस्तौ पुनः पुनः
अध ऊर्ध्वं प्रहारं च पार्श्वयोरतिभीषणं॥ २८ ॥

विश्वास-प्रस्तुतिः

बभूवैवं तयोर्युद्धं लोकालोकभयङ्करं
दृष्ट्वा देवगणाः सिद्धा दानवा विस्मयं गताः॥ २९ ॥

मूलम्

बभूवैवं तयोर्युद्धं लोकालोकभयङ्करं
दृष्ट्वा देवगणाः सिद्धा दानवा विस्मयं गताः॥ २९ ॥

विश्वास-प्रस्तुतिः

युद्ध्यमानौ तु तौ वीरौ मृत्युसंशयमागतौ
देवदानववीराश्च द्रष्टुं नैव तदीशिरे॥ ३० ॥

मूलम्

युद्ध्यमानौ तु तौ वीरौ मृत्युसंशयमागतौ
देवदानववीराश्च द्रष्टुं नैव तदीशिरे॥ ३० ॥

विश्वास-प्रस्तुतिः

ईशब्रह्मादयः खे तु स्थिता द्रष्टुं तदद्भुतं
तयोर्हुङ्कारशब्देन गदापातस्वनेन च॥ ३१ ॥

मूलम्

ईशब्रह्मादयः खे तु स्थिता द्रष्टुं तदद्भुतं
तयोर्हुङ्कारशब्देन गदापातस्वनेन च॥ ३१ ॥

विश्वास-प्रस्तुतिः

ऊर्ध्वोर्ध्वमगमच्छब्दो ह्यशनेश्चोपजायते
भग्ने गदे द्वयोरेव करः सम्पुटितस्तयोः॥ ३२ ॥

मूलम्

ऊर्ध्वोर्ध्वमगमच्छब्दो ह्यशनेश्चोपजायते
भग्ने गदे द्वयोरेव करः सम्पुटितस्तयोः॥ ३२ ॥

विश्वास-प्रस्तुतिः

एवं चैवार्धयामेन तयोरस्त्रे निपेततुः
एतस्मिन्न्नन्तरे वीरौ खड्गचर्मधरौ तदा॥ ३३ ॥

मूलम्

एवं चैवार्धयामेन तयोरस्त्रे निपेततुः
एतस्मिन्न्नन्तरे वीरौ खड्गचर्मधरौ तदा॥ ३३ ॥

विश्वास-प्रस्तुतिः

प्रतियोद्धुं महाघोरमाहवे सम्प्रचेरतुः
निस्त्रिंशौ विद्युदुल्काभौ तयोर्गात्रे च चर्मणी॥ ३४ ॥

मूलम्

प्रतियोद्धुं महाघोरमाहवे सम्प्रचेरतुः
निस्त्रिंशौ विद्युदुल्काभौ तयोर्गात्रे च चर्मणी॥ ३४ ॥

विश्वास-प्रस्तुतिः

दृश्येते सर्वलोकैश्च लाघवं विस्मयं गतैः
चिच्छिदाते तयोरेव चर्मणी बहुवर्णके॥ ३५ ॥

मूलम्

दृश्येते सर्वलोकैश्च लाघवं विस्मयं गतैः
चिच्छिदाते तयोरेव चर्मणी बहुवर्णके॥ ३५ ॥

विश्वास-प्रस्तुतिः

भीष्मकं बलयुद्धं च तयोरेवं प्रवर्तते
मण्डलं चक्रधन्वं च लाघवं च परिप्लुतं॥ ३६ ॥

मूलम्

भीष्मकं बलयुद्धं च तयोरेवं प्रवर्तते
मण्डलं चक्रधन्वं च लाघवं च परिप्लुतं॥ ३६ ॥

विश्वास-प्रस्तुतिः

वृत्रवासवयोर्युद्धं वृत्रवासवयोरिव
केशान्वृत्रस्य उत्प्लुत्य सम्प्रधृत्यासिना द्रुतं॥ ३७ ॥

मूलम्

वृत्रवासवयोर्युद्धं वृत्रवासवयोरिव
केशान्वृत्रस्य उत्प्लुत्य सम्प्रधृत्यासिना द्रुतं॥ ३७ ॥

विश्वास-प्रस्तुतिः

शिरश्चिच्छेद सहसा मघवा रणमूर्धनि
जयशब्दस्ततस्त्वासीद्देवानां च समन्ततः॥ ३८ ॥

मूलम्

शिरश्चिच्छेद सहसा मघवा रणमूर्धनि
जयशब्दस्ततस्त्वासीद्देवानां च समन्ततः॥ ३८ ॥

विश्वास-प्रस्तुतिः

प्रोत्फुल्लहृदया देवा मघवन्तमपूजयन्
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः॥ ३९ ॥

मूलम्

प्रोत्फुल्लहृदया देवा मघवन्तमपूजयन्
देवदुन्दुभयो नेदुर्ननृतुश्चाप्सरोगणाः॥ ३९ ॥

विश्वास-प्रस्तुतिः

गीतं गायन्ति गन्धर्वा मुनयः स्तुतिपाठकाः
भीताः पलायिताः सर्वे दैत्यास्त्यक्तायुधा दिशः॥ ४० ॥

मूलम्

गीतं गायन्ति गन्धर्वा मुनयः स्तुतिपाठकाः
भीताः पलायिताः सर्वे दैत्यास्त्यक्तायुधा दिशः॥ ४० ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे वृत्रासुरवधोनाम त्रिसप्ततितमोऽध्यायः७३