व्यास उवाच-
विश्वास-प्रस्तुतिः
दिव्यं रथं समास्थाय धनुर्हस्तो बलैर्युतः
गत्वा च माधवं सङ्ख्ये देवासुरगणाग्रतः॥ १ ॥
मूलम्

क्रोधेन महताविष्टो मधुर्निर्जरमर्दनः
अब्रवीत्परुषं वाक्यमव्ययं हरिमीश्वरम्॥ २ ॥

नारायण न जानासि युद्धधर्ममितः कथम्
अन्यायाद्दुर्वधोपायं कृत्वा नष्टो न शोचसि॥ ३ ॥

अनेन पङ्कयोगेन व्यवहारा कृतस्य च
सुरत्वं चोपनष्टं स्यादन्यसृष्टिं करोम्यहम्॥ ४ ॥

त्वामेव निहनिष्यामि सह देवगणैरिह
इत्युक्त्वा धनुरादाय जघान विशिखैर्विभुम्॥ ५ ॥

माधवस्तान्बिभेदाथ शरैर्वज्रसमप्रभैः
बहुभिस्सर्वगात्रेषु जघान च मधुं ततः॥ ६ ॥

मायया छादितः सोभूद्दैत्यस्तं सुरसत्तमाः
ये वै शूराश्च रुद्राद्यास्त्रिदशास्सत्त्वधारिणः॥ ७ ॥

देव्यो नानाविधाश्चापि सायुधा वाहनान्विताः
सेनान्यो गणपा देवा लोकेश हरविष्णवः॥ ८ ॥

अन्ये ग्रहादयो देवाः सर्वे युध्यन्ति सङ्गताः
विनष्टाश्च तदा देवा मधोर्वै मायया ध्रुवम्॥ ९ ॥

सम्मुखे विमुखे चैव शरशक्त्यृष्टिवृष्टिभिः
पतन्ति सहसा देवा भूमौ शस्त्राभिपीडिताः॥ १० ॥

एतस्मिन्नन्तरे विष्णुर्गृहीत्वा च सुदर्शनम्
असुरान्मायया देवान्जघान रणमूर्धनि॥ ११ ॥

अथ तेषां शिरांस्येष छित्वा चैव सहस्रशः
पातयामास देवेशो दैत्यानां च सुरात्मनाम्॥ १२ ॥

एवमन्यान्विभुर्दैत्यान्द्रावयामास सङ्गरात्
तं दृष्ट्वा मुनयो देवाः सर्वे विस्मयमाययुः॥ १३ ॥

कर्णे कर्णे प्रजल्पन्ते देवा मुनिगणास्तथा
सदा देवैकगोप्ता च हरिरव्यय ईश्वरः॥ १४ ॥

सर्वसाक्षी त्वयं देवो दैत्यजिष्णुर्युगे युगे
कथं हन्ति सुरान्सर्वान्कल्पान्त इह जायते॥ १५ ॥

एतस्मिन्नन्तरे दूरे मधुर्मायां प्रयोजिता
हररूपधरो भूत्वा अब्रवीद्धरिमव्ययम्॥ १६ ॥

दैत्यानामग्रतः पाप रणे देवान्समन्ततः
हत्वा किं ते शिवं चाद्य धर्मकीर्ति यशो गुणाः॥ १७ ॥

महतोन्मत्तभावेन न जानासि परान्स्वकान्
अतस्त्वां निशितैर्बाणैर्नयामि यमसादनम्॥ १८ ॥

एवमुक्त्वा शरैरुग्रैर्जघान केशवं रणे
निचकर्त शरांस्तांस्तु माधवो वाक्यमब्रवीत्॥ १९ ॥

जानामि त्वां रणे दैत्यं हररूपधरं प्रियम्
शूरं शूरविकर्माणं मधुं मायानियोजितम्॥ २० ॥

मिथ्यालोकं प्रदास्यामि पातयित्वा रणाजिरे
एतस्मिन्नन्तरे तीक्ष्णैः शरैर्विव्याध संयुगे॥ २१ ॥

जटिलं वृषकेतुं च वृषभस्थं महेश्वरम्
तयोर्युद्धमतीवासीद्देवदानवयोस्तदा॥ २२ ॥
मूलम्
जटिलं वृषकेतुं च वृषभस्थं महेश्वरम्
तयोर्युद्धमतीवासीद्देवदानवयोस्तदा॥ २२ ॥
विश्वास-प्रस्तुतिः
परस्परं भिन्दतोश्च प्राप्तान्प्राप्तान्शरान्शरैः
क्षुरप्रेण धनुस्तस्य चिच्छेद हरिरव्ययः॥ २३ ॥

ततश्च पातयामास घोटकं वृषरूपिणम्
स दैत्यश्शूलहस्तोथ प्रदुद्राव जगत्पतिम्॥ २४ ॥

भ्रामयित्वा ततः शूलं जघान परमेश्वरम्
त्रिभिश्चिच्छेद बाणैश्च शूलं कालानलप्रभम्॥ २५ ॥

ततः क्रूरो महाबाहुर्मधुर्मायातिमायिकः
देवीरूपं समास्थाय सिंहस्थः प्रययौ हरिः॥ २६ ॥

शरैर्बहुविधैर्विष्णुं जघानैवाब्रवीद्वचः
स्वामी तु मे सुरश्रेष्ठ त्वयैव पातितो युधि॥ २७ ॥

अहं त्वां च हनिष्यामि सुतौ स्कन्दविनायकौ
उक्तवन्तं च दैतेयं जघान बहुमार्गणैः॥ २८ ॥

स पपात महीपृष्ठे गतासुर्लोहितोद्गिरः
पितरौ निहतौ दृष्ट्वा मायाबद्धो महाबलः॥ २९ ॥

स्कन्दः शक्तिं समादाय प्रायाद्योधयितुं हरिम्
ततो धाताऽब्रवीद्वाक्यं स्कन्दं मोहप्रपीडितम्॥ ३० ॥

पश्य ते पितरौ दूरे पश्यन्तौ युद्धमीदृशम्
अन्तरिक्षे भ्रमन्तौ च संस्थितौ लोकसाक्षिणौ॥ ३१ ॥

एतच्छ्रुत्वा ततो दृष्ट्वा तत्रैवान्तरधीयत
ततो धुन्धुश्च सुन्धुश्च भ्रातरावतिदर्पितौ॥ ३२ ॥

वधं प्रति हरेर्युद्धे पेततुर्गरुडोपरि
खड्गहस्तं च धुन्धुं च सगदं सुन्धुमेव च॥ ३३ ॥

चिच्छेद नन्दकेनैकं गदया सादयत्परम्
पेततुस्तौ धरापृष्ठे प्रवीरौ क्षतविक्षतौ॥ ३४ ॥

मधुस्तदागतस्तूर्णमन्तर्धानं तमोवृतः
पातयामास विष्णौ च मायया शतपर्वतान्॥ ३५ ॥

ततस्तान्पर्वतांश्छित्वा तमसोऽन्तर्गतो युधि
क्रोधात्सुदर्शनेनैव शिरश्छित्वा निपातितः॥ ३६ ॥

ततो ब्रह्मादिभिर्देवैश्शम्भुना त्रिदशैरपि
मधुसूदन इतिख्यातिर्विष्णोर्लोकेषु कारिता॥ ३७ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे मधुवधोनामद्विसप्ततितमोऽध्यायः७२