व्यास उवाच-
विश्वास-प्रस्तुतिः
अथान्यो नमुचिः क्रुद्धः स्यन्दनस्थो दिवौकसः
विशिखैरर्दयामस घोरैराशीविषोपमैः॥ १ ॥
मूलम्

ततस्तु संयुगे देवाः सिद्धकिन्नरपन्नगाः
न शक्नुवन्ति बाणानां वेगं सोढुं समन्ततः॥ २ ॥

रथमुच्चैश्श्रवोश्वेन युक्तं मातलिनेरितम्
पुरुहूतः समास्थाय प्रागमत्तं महाबलम्॥ ३ ॥

दृष्ट्वा शक्रं महावीर्यं नमुचिर्दैत्यपुङ्गवः
अब्रवीद्वासवं सङ्ख्ये वचनं सानुगं तदा॥ ४ ॥

प्राकृतं निर्जरं हत्वा न यशोस्ति न च प्रियम्
न लाभकृतकं वापि न जयस्तु पुरष्टुत॥ ५ ॥

तस्मात्वयि हतेत्रैव सर्वं भवति शाश्वतम्
देवराज्यं प्रलप्स्यामि सुखं भोग्यं सुरालये॥ ६ ॥

तमब्रवीन्महातेजाः शक्रः परपुरञ्जयः
शूरता वाक्यमात्रेण सर्वत्र सुलभा भवेत्॥ ७ ॥

महापराक्रमं यद्वा अस्ति ते दानवाधम
दर्शयस्वाहवे वीर्यं पुरं नेष्यामि भास्करेः॥ ८ ॥

एतच्छ्रुत्वा महातेजाश्चुकोप दैत्यपुङ्गवः
पञ्चभिर्निशितैर्बाणैर्जघान सुरसत्तमम्॥ ९ ॥

तांस्तु चिच्छेद मघवा क्षुरप्रैः पञ्चभिर्द्रुतम्
जग्मतुस्तौ महावीर्यौ समरे विषयैषिणौ॥ १० ॥

अन्योन्यं सहसा वेगाच्छरैश्चिच्छिदतुः शरान्
बिभिदातेथ गात्राणि विशिखैर्भिदुरोपमैः॥ ११ ॥

अत्यपूर्वं कृतं कर्म ताभ्यामेव रणे भृशम्
लाघवं शरसन्धान ग्रहमोक्षं सुदुर्लभम्॥ १२ ॥

दृष्ट्वा तु विस्मयं जग्मुर्देवासुरगणास्तदा
एतस्मिन्नन्तरे दैत्यो मायास्सम्प्रमुमोच ह॥ १३ ॥

विशिखाः शतशस्तत्र विनिश्चेरुस्समन्ततः
शक्रः कोपात्पुनः शीघ्रं धनुरुद्यम्य वीर्यवान्॥ १४ ॥

जघान विशिखैरुग्रैः सर्वगात्रेषु सञ्ज्वलन्
ततो मार्गणसाहस्रैरष्टभिस्त्वधिकं तथा॥ १५ ॥

बिभिदाते ततोन्योन्यं चिच्छिदाते परस्परम्
शरैर्निरन्तराकाशं ददृशुस्तत्र संयुगे॥ १६ ॥

निपतन्ति धरापृष्ठे खड्गपातैः सहस्रशः
एवं सुदीर्घकाले तु गते तस्मिन्महाहवे॥ १७ ॥

मायास्त्रं दर्शयामास क्रूरकृन्नमुचिस्तदा
तामसं त्रिषुलोकेषु कृतं स्यात्तु निरन्तरम्॥ १८ ॥

परस्परं न पश्यन्ति देवासुरगणा भृशम्
सूर्यचन्द्रग्रहाणां च वह्नीनां च दिवौकसाम्॥ १९ ॥

तस्मिंस्तमसि दुष्पारे गभस्तिर्नैव दृश्यते
दैत्यस्य च ततस्तूर्णं शरैरग्निशिखोपमैः॥ २० ॥

विभग्नाः सर्वदेवाश्च शक्रश्चरणसम्मुखे
शरैर्विभिन्नदेहास्तु निपेतुर्धरणीतले॥ २१ ॥

प्रभग्नाश्चापरे शूरास्संयान्ति च दिशो दश
कूटं तस्य परिज्ञाय सर्वदेवार्चितो हरिः॥ २२ ॥

सौम्यमस्त्रं मुमोचाथ दिवि सूर्यशतप्रभम्
विलम्बितं समालोक्य शक्त्या च बहुघण्टया॥ २३ ॥

जघानोरसि दैत्यस्य स पपात व्यथान्वितः
चिरात्संलभ्य सञ्ज्ञां च दैतेयः क्रोधमूर्च्छितः॥ २४ ॥

गत्वा वेगात्सुरश्रेष्ठमैरावतं दधार ह
त्रासयामास सुतरामिन्द्रस्य द्विरदं रुषा॥ २५ ॥

धृत्वा स तु गजं सेन्द्रं मुमोच धरणीतले
ततो भूमिगतः शक्रः कश्मलं च क्षणं गतः॥ २६ ॥

अवप्लुत्य स दैत्येन्द्रो गजदन्तान्तरस्थितः
शक्रं ग्रहीतुकामस्य वधार्थं यूथपस्य सः॥ २७ ॥

असिनाऽसुरमुख्यस्य शिरश्छित्वा न्यपातयत्
सर्वे प्रजहृषुर्देवा गन्धर्वा ललितं जगुः
मुदितास्ते च मुनयः स्तुवन्ति सुरसत्तमम्॥ २८ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे द्वितीय नमुचिवधोनामैकसप्ततितमोऽध्यायः७१