व्यास उवाच-
विश्वास-प्रस्तुतिः
ततो देवान्तको दैत्यो व्यनदत्समरं प्रति
रणं चकार धर्मेण सन्दष्टौष्ठपुटो बली॥ १ ॥
मूलम्
ततो देवान्तको दैत्यो व्यनदत्समरं प्रति
रणं चकार धर्मेण सन्दष्टौष्ठपुटो बली॥ १ ॥
विश्वास-प्रस्तुतिः
स गत्वा चाब्रवीद्वाक्यं सर्वलोकविगर्हितं
न जानासि महद्धर्मं दुष्ट मोहाद्यथाक्रमम्॥ २ ॥
मूलम्
स गत्वा चाब्रवीद्वाक्यं सर्वलोकविगर्हितं
न जानासि महद्धर्मं दुष्ट मोहाद्यथाक्रमम्॥ २ ॥
विश्वास-प्रस्तुतिः
पापपुण्यप्रयोगेण निग्रहानुग्रहे प्रभुः
अहं च निर्मितो धात्रा करोमि तव शासनम्॥ ३ ॥
मूलम्
पापपुण्यप्रयोगेण निग्रहानुग्रहे प्रभुः
अहं च निर्मितो धात्रा करोमि तव शासनम्॥ ३ ॥
विश्वास-प्रस्तुतिः
न जानासि यतो धर्मं कालमृत्यु पुरःसरः
न रोगो न जरा कालो न मृत्युर्न च किङ्करः॥ ४ ॥
मूलम्
न जानासि यतो धर्मं कालमृत्यु पुरःसरः
न रोगो न जरा कालो न मृत्युर्न च किङ्करः॥ ४ ॥
विश्वास-प्रस्तुतिः
धर्मात्प्रचलितः कर्मी कष्टं याति दिवानिशम्
उक्तं वसुं महावीर्यं यमं धर्मैकसाक्षिकम्॥ ५ ॥
मूलम्
धर्मात्प्रचलितः कर्मी कष्टं याति दिवानिशम्
उक्तं वसुं महावीर्यं यमं धर्मैकसाक्षिकम्॥ ५ ॥
विश्वास-प्रस्तुतिः
स जघान त्रिभिर्बाणैः कालमृत्युसमप्रभैः
प्रचिच्छेद स धर्मात्मा ते त्वन्यैर्विशिखैस्त्रिभिः॥ ६ ॥
मूलम्
स जघान त्रिभिर्बाणैः कालमृत्युसमप्रभैः
प्रचिच्छेद स धर्मात्मा ते त्वन्यैर्विशिखैस्त्रिभिः॥ ६ ॥
विश्वास-प्रस्तुतिः
ततस्तूच्चैः शरैः प्राज्यैर्युगान्तानलसप्रभैः
निजघान यमं सङ्ख्ये स चिच्छेद शरैः शरान्॥ ७ ॥
मूलम्
ततस्तूच्चैः शरैः प्राज्यैर्युगान्तानलसप्रभैः
निजघान यमं सङ्ख्ये स चिच्छेद शरैः शरान्॥ ७ ॥
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे क्रुद्धौ परस्परजयैषिणौ
जघ्नतुः समरेन्योन्यं महाबलपराक्रमौ॥ ८ ॥
मूलम्
एतस्मिन्नन्तरे क्रुद्धौ परस्परजयैषिणौ
जघ्नतुः समरेन्योन्यं महाबलपराक्रमौ॥ ८ ॥
विश्वास-प्रस्तुतिः
अहोरात्रं तयोर्युद्धमवर्त्तत सुदारुणम्
एतस्मिन्नन्तरे क्रुद्धः शक्त्या प्रशमनं रुषा॥ ९ ॥
मूलम्
अहोरात्रं तयोर्युद्धमवर्त्तत सुदारुणम्
एतस्मिन्नन्तरे क्रुद्धः शक्त्या प्रशमनं रुषा॥ ९ ॥
विश्वास-प्रस्तुतिः
बिभेद दैत्यशार्दूलो ह्यहङ्कारयुतो बली
तामेवाथ रुषा धर्मो गृहीत्वा शक्तिकां द्रुतं॥ १० ॥
मूलम्
बिभेद दैत्यशार्दूलो ह्यहङ्कारयुतो बली
तामेवाथ रुषा धर्मो गृहीत्वा शक्तिकां द्रुतं॥ १० ॥
विश्वास-प्रस्तुतिः
निजघान तयैवामुंस्तनयोरन्तरे भृशम्
स विह्वलित सर्वाङ्गो मुखादागतशोणितः॥ ११ ॥
मूलम्
निजघान तयैवामुंस्तनयोरन्तरे भृशम्
स विह्वलित सर्वाङ्गो मुखादागतशोणितः॥ ११ ॥
विश्वास-प्रस्तुतिः
ततः क्रुद्धो महातेजा धृत्वा दण्डं सुदारुणम्
अमोघं पातयामास तस्य दैत्यस्य विग्रहे॥ १२ ॥
मूलम्
ततः क्रुद्धो महातेजा धृत्वा दण्डं सुदारुणम्
अमोघं पातयामास तस्य दैत्यस्य विग्रहे॥ १२ ॥
विश्वास-प्रस्तुतिः
साश्वं रथं तथा सूतं योद्धारं शस्त्रसञ्चयम्
चकार भस्मसात्तं च शमनः क्रोधमूर्च्छितः॥ १३ ॥
मूलम्
साश्वं रथं तथा सूतं योद्धारं शस्त्रसञ्चयम्
चकार भस्मसात्तं च शमनः क्रोधमूर्च्छितः॥ १३ ॥
विश्वास-प्रस्तुतिः
पतिते च तथा दैत्ये दुर्धर्षो नाम दानवः
शमनं शूलहस्तस्तु प्रदुद्राव जिघांसया॥ १४ ॥
मूलम्
पतिते च तथा दैत्ये दुर्धर्षो नाम दानवः
शमनं शूलहस्तस्तु प्रदुद्राव जिघांसया॥ १४ ॥
विश्वास-प्रस्तुतिः
शूलहस्तं समायान्तं बडवानलसन्निभम्
आससाद रणे मृत्युः शक्तिहस्तोतिनिर्भयः॥ १५ ॥
मूलम्
शूलहस्तं समायान्तं बडवानलसन्निभम्
आससाद रणे मृत्युः शक्तिहस्तोतिनिर्भयः॥ १५ ॥
विश्वास-प्रस्तुतिः
स च दृष्ट्वाऽसुरो मृत्युं शूलेनैव जघान ह
शक्तिं चैव ततो मृत्युः प्रचिक्षेप रणाजिरे॥ १६ ॥
मूलम्
स च दृष्ट्वाऽसुरो मृत्युं शूलेनैव जघान ह
शक्तिं चैव ततो मृत्युः प्रचिक्षेप रणाजिरे॥ १६ ॥
विश्वास-प्रस्तुतिः
सन्दह्य सहसा शूलं वह्निकूटसमप्रभम्
दैत्यस्य हृदयं भित्वा गता सा च धरातलम्॥ १७ ॥
मूलम्
सन्दह्य सहसा शूलं वह्निकूटसमप्रभम्
दैत्यस्य हृदयं भित्वा गता सा च धरातलम्॥ १७ ॥
विश्वास-प्रस्तुतिः
सरथः स पपातोर्व्यां शक्तिजर्जरविग्रहः
अथान्यो दुर्मुखो मृत्युं कृष्टचापो महाबलः॥ १८ ॥
मूलम्
सरथः स पपातोर्व्यां शक्तिजर्जरविग्रहः
अथान्यो दुर्मुखो मृत्युं कृष्टचापो महाबलः॥ १८ ॥
विश्वास-प्रस्तुतिः
खड्गचर्मधरः कालो रथ एव गतोभवत्
दृष्ट्वा तं विशिखैः प्राज्यैर्जघान स यमं रणे॥ १९ ॥
मूलम्
खड्गचर्मधरः कालो रथ एव गतोभवत्
दृष्ट्वा तं विशिखैः प्राज्यैर्जघान स यमं रणे॥ १९ ॥
विश्वास-प्रस्तुतिः
स चाप्लत्य रथाद्देवो ह्यसिना च सकुण्डलम्
शिरश्चिच्छेद सहसा पातयित्वा च भूतले॥ २० ॥
मूलम्
स चाप्लत्य रथाद्देवो ह्यसिना च सकुण्डलम्
शिरश्चिच्छेद सहसा पातयित्वा च भूतले॥ २० ॥
विश्वास-प्रस्तुतिः
हतशेषं बलं सर्वं प्रदुद्राव दिशो दश॥ २१ ॥
मूलम्
हतशेषं बलं सर्वं प्रदुद्राव दिशो दश॥ २१ ॥
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे देवान्तकर्दुर्धर्षदुर्मुखवधोनाम सप्ततिमोऽध्यायः७०