व्यास उवाच-
विश्वास-प्रस्तुतिः
तारेयो बलसम्पन्नः शक्रतुल्यपराक्रमः
जघान विशिखैस्स्कन्दं पितृघातिनमाहवे॥ १ ॥
मूलम्
तारेयो बलसम्पन्नः शक्रतुल्यपराक्रमः
जघान विशिखैस्स्कन्दं पितृघातिनमाहवे॥ १ ॥
विश्वास-प्रस्तुतिः
ततस्स्कन्दो महाबाहुर्हरितुल्यपराक्रमः
विचकर्त शरांस्तांस्तान्निर्बिभेद शरोत्तमैः॥ २ ॥
मूलम्
ततस्स्कन्दो महाबाहुर्हरितुल्यपराक्रमः
विचकर्त शरांस्तांस्तान्निर्बिभेद शरोत्तमैः॥ २ ॥
विश्वास-प्रस्तुतिः
स दैत्यस्सहसा स्कन्दं छादयामास मार्गणैः
असम्भ्रान्तः प्रचिच्छेद विशाखो विशिखैस्तदा॥ ३ ॥
मूलम्
स दैत्यस्सहसा स्कन्दं छादयामास मार्गणैः
असम्भ्रान्तः प्रचिच्छेद विशाखो विशिखैस्तदा॥ ३ ॥
विश्वास-प्रस्तुतिः
तारेयोग्निशरैः स्कन्दं जघान रणमूर्धनि
विशिखं भिदुरप्रख्यं चखान हरनन्दने॥ ४ ॥
मूलम्
तारेयोग्निशरैः स्कन्दं जघान रणमूर्धनि
विशिखं भिदुरप्रख्यं चखान हरनन्दने॥ ४ ॥
विश्वास-प्रस्तुतिः
वैश्वानरेण सेनानीस्तत्र सम्पर्यवारयत्
रौद्रमस्त्रं पुनर्दैत्यः प्रेषयामास तं प्रति॥ ५ ॥
मूलम्
वैश्वानरेण सेनानीस्तत्र सम्पर्यवारयत्
रौद्रमस्त्रं पुनर्दैत्यः प्रेषयामास तं प्रति॥ ५ ॥
विश्वास-प्रस्तुतिः
तन्निरस्तं कृतं तेन बाणेनास्फालितेन च
अघोरं प्राक्षिपद्दैत्यो घोररूपं सुदारुणं॥ ६ ॥
मूलम्
तन्निरस्तं कृतं तेन बाणेनास्फालितेन च
अघोरं प्राक्षिपद्दैत्यो घोररूपं सुदारुणं॥ ६ ॥
विश्वास-प्रस्तुतिः
भूधरा विटपास्सिंहास्तथा सर्पादयः शराः
धावन्ति पार्वतीपुत्रं कोटिकोटिसहस्रशः॥ ७ ॥
मूलम्
भूधरा विटपास्सिंहास्तथा सर्पादयः शराः
धावन्ति पार्वतीपुत्रं कोटिकोटिसहस्रशः॥ ७ ॥
विश्वास-प्रस्तुतिः
छित्वा तांस्तुशरान्स्कन्दो बिभेद दैत्यपुङ्गवं
आपादं शीर्षपर्यन्तं शरैरग्न्यर्कसन्निभैः॥ ८ ॥
मूलम्
छित्वा तांस्तुशरान्स्कन्दो बिभेद दैत्यपुङ्गवं
आपादं शीर्षपर्यन्तं शरैरग्न्यर्कसन्निभैः॥ ८ ॥
विश्वास-प्रस्तुतिः
स्वर्णपुङ्खाः शरा लग्ना देहे दैत्यपतेर्भृशं
रेजुस्ते स्वर्णशकला यथा कृष्णशिलोच्चये॥ ९ ॥
मूलम्
स्वर्णपुङ्खाः शरा लग्ना देहे दैत्यपतेर्भृशं
रेजुस्ते स्वर्णशकला यथा कृष्णशिलोच्चये॥ ९ ॥
विश्वास-प्रस्तुतिः
तस्य देहात्ततश्चैव बहु सुस्राव शोणितं
यथा च माधवे मासि पुरुपुष्पश्शमी तरुः॥ १० ॥
मूलम्
तस्य देहात्ततश्चैव बहु सुस्राव शोणितं
यथा च माधवे मासि पुरुपुष्पश्शमी तरुः॥ १० ॥
विश्वास-प्रस्तुतिः
स्यन्दनाधश्चराश्वाश्च शिश्यिरे भूमिलग्नकाः
अथ क्रुद्धो महादैत्यः शूलं भीमं च दारुणं॥ ११ ॥
मूलम्
स्यन्दनाधश्चराश्वाश्च शिश्यिरे भूमिलग्नकाः
अथ क्रुद्धो महादैत्यः शूलं भीमं च दारुणं॥ ११ ॥
विश्वास-प्रस्तुतिः
धृत्वा तं प्रतिचिक्षेप कालमृत्युसमप्रभं
पार्वतीनन्दनेनापि शूलं पाशुपतेन ह॥ १२ ॥
मूलम्
धृत्वा तं प्रतिचिक्षेप कालमृत्युसमप्रभं
पार्वतीनन्दनेनापि शूलं पाशुपतेन ह॥ १२ ॥
विश्वास-प्रस्तुतिः
क्षिप्तं तेन कृतं दग्धं मुहूर्तेन रणाजिरे
पुनः शक्तिं मुमोचाथ ब्रह्मदत्तान्तु दानवः॥ १३ ॥
मूलम्
क्षिप्तं तेन कृतं दग्धं मुहूर्तेन रणाजिरे
पुनः शक्तिं मुमोचाथ ब्रह्मदत्तान्तु दानवः॥ १३ ॥
विश्वास-प्रस्तुतिः
शूलं प्रतिजघानाथ शतकूटसमप्रभम्
ततोऽस्त्रे वज्रसङ्काशे जघटाते वियत्यपि॥ १४ ॥
मूलम्
शूलं प्रतिजघानाथ शतकूटसमप्रभम्
ततोऽस्त्रे वज्रसङ्काशे जघटाते वियत्यपि॥ १४ ॥
विश्वास-प्रस्तुतिः
तयोस्सवीर्ययोरस्त्रे धरण्यां प्रणिपेततुः
ततो दैत्यपतिः स्कन्दं शरैरग्निशिखोपमैः॥ १५ ॥
मूलम्
तयोस्सवीर्ययोरस्त्रे धरण्यां प्रणिपेततुः
ततो दैत्यपतिः स्कन्दं शरैरग्निशिखोपमैः॥ १५ ॥
विश्वास-प्रस्तुतिः
अर्दयामास सहसा घनधारेव पर्वतं
तांस्तु च्छित्वा महाबाहुः सेनानीश्चापमस्य वै॥ १६ ॥
मूलम्
अर्दयामास सहसा घनधारेव पर्वतं
तांस्तु च्छित्वा महाबाहुः सेनानीश्चापमस्य वै॥ १६ ॥
विश्वास-प्रस्तुतिः
विचकर्तार्धचन्द्रेण तथा यन्तुः शिरोमहत्
तथाश्वान्बहुभिर्बाणैः पातयामास भूतले॥ १७ ॥
मूलम्
विचकर्तार्धचन्द्रेण तथा यन्तुः शिरोमहत्
तथाश्वान्बहुभिर्बाणैः पातयामास भूतले॥ १७ ॥
विश्वास-प्रस्तुतिः
गृहीत्वा मुसलं वेगात्स दुद्राव स्थले गुहं
जघान तेन दैत्येन्द्रः शिखिनं शिखिवाहनं॥ १८ ॥
मूलम्
गृहीत्वा मुसलं वेगात्स दुद्राव स्थले गुहं
जघान तेन दैत्येन्द्रः शिखिनं शिखिवाहनं॥ १८ ॥
विश्वास-प्रस्तुतिः
ततो मोहं गतो बर्ही प्रचकम्पे मुहुर्मुहुः
ततः स्कन्दः पुनस्तं च जघानासुरपुङ्गवं॥ १९ ॥
मूलम्
ततो मोहं गतो बर्ही प्रचकम्पे मुहुर्मुहुः
ततः स्कन्दः पुनस्तं च जघानासुरपुङ्गवं॥ १९ ॥
विश्वास-प्रस्तुतिः
प्रचिच्छेदासिना वेगान्मुसलं चातिदारुणं
तारेयः शक्तिमादाय जघान क्रौञ्चदारणम्॥ २० ॥
मूलम्
प्रचिच्छेदासिना वेगान्मुसलं चातिदारुणं
तारेयः शक्तिमादाय जघान क्रौञ्चदारणम्॥ २० ॥
विश्वास-प्रस्तुतिः
सोपि शक्तिं मुमोचाथ अमोघां दुष्टघातिनीम्
ततः सन्दह्य सा शक्तिर्विश्वप्रलयकारिणी॥ २१ ॥
मूलम्
सोपि शक्तिं मुमोचाथ अमोघां दुष्टघातिनीम्
ततः सन्दह्य सा शक्तिर्विश्वप्रलयकारिणी॥ २१ ॥
विश्वास-प्रस्तुतिः
यमदण्डसमानं च भित्वा पुनर्गुहं गता
स गतासुः पपातोर्व्यां चालयंश्च वसुन्धरां॥ २२ ॥
मूलम्
यमदण्डसमानं च भित्वा पुनर्गुहं गता
स गतासुः पपातोर्व्यां चालयंश्च वसुन्धरां॥ २२ ॥
विश्वास-प्रस्तुतिः
पुष्पधूपादिभिः स्कन्दः सर्वदेवैः प्रपूजितः॥ २३ ॥
मूलम्
पुष्पधूपादिभिः स्कन्दः सर्वदेवैः प्रपूजितः॥ २३ ॥
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे तारेयवधोनामैकोनसप्ततितमोऽध्यायः६९