०६८

व्यास उवाच-

विश्वास-प्रस्तुतिः

बलं च निहतं दृष्ट्वा नमुचिं च स्वकाग्रजम्
मुचिस्तत्राब्रवीद्वाक्यं ज्येष्ठो मे सूदितस्त्वया॥ १ ॥

मूलम्

परोक्षेणाधुना त्वां च शरैर्नेष्यामि भास्करिम्
तमब्रवीन्महातेजाः शक्रः सर्वसुरार्चितः॥ २ ॥

भ्रातुस्ते धर्मपन्थानमिदानीं लप्स्यसे ध्रुवम्
वह्नेरुष्णमविज्ञाय प्रमोहाच्छलभा यथा॥ ३ ॥

सहसा प्रविशन्त्यग्निं तथा मां योद्धुमिच्छसि
एवं ब्रुवाणमिन्द्रं च जघान विशिखैस्त्रिभिः॥ ४ ॥

स चिच्छेद त्रिभिर्बाणैः शक्रः परपुरञ्जयः
ततो जघान दशभिरिन्द्रमैरावणं त्रिभिः॥ ५ ॥

सप्तभिर्मातलिं छित्वा नादैरुच्चैर्ननाद ह
शक्रं प्रति पुनर्दैत्यो भ्रामयामास सम्भ्रमात्॥ ६ ॥

आयसीं तां गदां कोपान्महाबलपराक्रमः
ततस्तु लाघवाच्छक्रो जघान कुलिशेन हि॥ ७ ॥

भिदुरस्यावपातेन गतासुर्निपपात ह
दनुजस्य प्रपातेन सञ्चचाल वसुन्धरा॥ ८ ॥

मूलम्

भिदुरस्यावपातेन गतासुर्निपपात ह
दनुजस्य प्रपातेन सञ्चचाल वसुन्धरा॥ ८ ॥

विश्वास-प्रस्तुतिः

देवाः प्रचक्रुर्नृत्यानि दानवा विप्रदुद्रुवुः॥ ९ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे मुचिवधोनामाष्टषष्टितमोऽध्यायः६८