०६७

व्यास उवाच-

विश्वास-प्रस्तुतिः

एतच्छ्रुत्वा तु दैत्येन्द्रो हिरण्याक्षो महाबलः
सरोषश्चातिताम्राक्षो ह्यसुरानादिदेश ह॥ १ ॥

मूलम्

एतच्छ्रुत्वा तु दैत्येन्द्रो हिरण्याक्षो महाबलः
सरोषश्चातिताम्राक्षो ह्यसुरानादिदेश ह॥ १ ॥

विश्वास-प्रस्तुतिः

स्वयं गच्छामि युद्धाय देवानां विजिघांसया
नागच्छन्ति न युद्ध्यन्ते तेन मार्गाद्विशन्त्वितः॥ २ ॥

मूलम्

स्वयं गच्छामि युद्धाय देवानां विजिघांसया
नागच्छन्ति न युद्ध्यन्ते तेन मार्गाद्विशन्त्वितः॥ २ ॥

विश्वास-प्रस्तुतिः

एतच्छ्रुत्वा तु वचनं शेषा दैत्यगणाधिपाः
युद्धाय प्रययुः सर्वे शूलपाशातिपण्डिताः॥ ३ ॥

मूलम्

एतच्छ्रुत्वा तु वचनं शेषा दैत्यगणाधिपाः
युद्धाय प्रययुः सर्वे शूलपाशातिपण्डिताः॥ ३ ॥

विश्वास-प्रस्तुतिः

अधिकं पूर्वसैन्याश्च तथा शतगुणैरपि
निरन्तरं तथाकाशं प्रययुर्युद्धकाङ्क्षिणः॥ ४ ॥

मूलम्

अधिकं पूर्वसैन्याश्च तथा शतगुणैरपि
निरन्तरं तथाकाशं प्रययुर्युद्धकाङ्क्षिणः॥ ४ ॥

विश्वास-प्रस्तुतिः

ततो रुद्रास्स साध्याश्च विश्वे च वसवस्तथा
स्कन्दश्च गणपश्चैव विष्णुजिष्णुपुरोगमाः॥ ५ ॥

मूलम्

ततो रुद्रास्स साध्याश्च विश्वे च वसवस्तथा
स्कन्दश्च गणपश्चैव विष्णुजिष्णुपुरोगमाः॥ ५ ॥

विश्वास-प्रस्तुतिः

सर्वे योद्धुं गतास्ते च हृष्टा रणसमुत्सुकाः
एतस्मिन्नन्तरे युद्धं देवदानवयोरपि॥ ६ ॥

मूलम्

सर्वे योद्धुं गतास्ते च हृष्टा रणसमुत्सुकाः
एतस्मिन्नन्तरे युद्धं देवदानवयोरपि॥ ६ ॥

विश्वास-प्रस्तुतिः

न भूतं न श्रुतं पूर्वं सर्वलोकभयङ्करम्
शस्त्रास्त्रैबर्हुधा युक्तं शिशिरेणेव काननम्॥ ७ ॥

मूलम्

न भूतं न श्रुतं पूर्वं सर्वलोकभयङ्करम्
शस्त्रास्त्रैबर्हुधा युक्तं शिशिरेणेव काननम्॥ ७ ॥

विश्वास-प्रस्तुतिः

धरां स्वर्गौक आकाशं संरुध्य युद्धमाबभौ
अन्योन्यं जघ्नुराकाशे तथान्योन्यं महीतले॥ ८ ॥

मूलम्

धरां स्वर्गौक आकाशं संरुध्य युद्धमाबभौ
अन्योन्यं जघ्नुराकाशे तथान्योन्यं महीतले॥ ८ ॥

विश्वास-प्रस्तुतिः

शक्तिभिर्मुसलैर्भल्लैर्बहुभिः शरवृष्टिभिः
दारुणैः खड्गपातैश्च तथा चक्रपरःश्वधैः॥ ९ ॥

मूलम्

शक्तिभिर्मुसलैर्भल्लैर्बहुभिः शरवृष्टिभिः
दारुणैः खड्गपातैश्च तथा चक्रपरःश्वधैः॥ ९ ॥

विश्वास-प्रस्तुतिः

अन्यायुधैश्च विविधैर्निर्जघ्नुस्ते परस्परम्
अभवन्घोररूपाणि धराकाशे व्ययानि च॥ १० ॥

मूलम्

अन्यायुधैश्च विविधैर्निर्जघ्नुस्ते परस्परम्
अभवन्घोररूपाणि धराकाशे व्ययानि च॥ १० ॥

विश्वास-प्रस्तुतिः

शस्त्रैः शरैरसृक्पातैः कङ्कवायसजम्बुकैः
यथा मुसलधाराभिर्घना वर्षन्ति लोहितम्॥ ११ ॥

मूलम्

शस्त्रैः शरैरसृक्पातैः कङ्कवायसजम्बुकैः
यथा मुसलधाराभिर्घना वर्षन्ति लोहितम्॥ ११ ॥

विश्वास-प्रस्तुतिः

तथैव क्षतजैः स्रस्तैः स्वाङ्गाच्च देवदानवाः
केचित्पतन्ति मुह्यन्ति स्खलन्ति च हसन्ति च॥ १२ ॥

मूलम्

तथैव क्षतजैः स्रस्तैः स्वाङ्गाच्च देवदानवाः
केचित्पतन्ति मुह्यन्ति स्खलन्ति च हसन्ति च॥ १२ ॥

विश्वास-प्रस्तुतिः

मुञ्चन्ति चार्तनादांश्च सिंहनादं मुहुर्मुहुः
केषाञ्चिद्बाहवश्छिन्नाश्छिन्नपादास्तथापरे॥ १३ ॥

मूलम्

मुञ्चन्ति चार्तनादांश्च सिंहनादं मुहुर्मुहुः
केषाञ्चिद्बाहवश्छिन्नाश्छिन्नपादास्तथापरे॥ १३ ॥

विश्वास-प्रस्तुतिः

छिन्नपार्श्वोदराः केचिन्निपेतुः शतशो भुवि
कोटिकोटिसहस्राणि गजवाज्यसुराणि च॥ १४ ॥

मूलम्

छिन्नपार्श्वोदराः केचिन्निपेतुः शतशो भुवि
कोटिकोटिसहस्राणि गजवाज्यसुराणि च॥ १४ ॥

विश्वास-प्रस्तुतिः

अपतन्धरणीपृष्ठे रक्तौघे बहुधा भुवि
ततस्तु धरणीपृष्ठे त्वभवल्लोहितार्णवः॥ १५ ॥

मूलम्

अपतन्धरणीपृष्ठे रक्तौघे बहुधा भुवि
ततस्तु धरणीपृष्ठे त्वभवल्लोहितार्णवः॥ १५ ॥

विश्वास-प्रस्तुतिः

विपरीतास्ततो नद्यः सद्यस्तत्र विसुस्रुवुः
तृणकाष्ठपरास्तत्र शक्तयो दारुसञ्चयाः॥ १६ ॥

मूलम्

विपरीतास्ततो नद्यः सद्यस्तत्र विसुस्रुवुः
तृणकाष्ठपरास्तत्र शक्तयो दारुसञ्चयाः॥ १६ ॥

विश्वास-प्रस्तुतिः

मुद्गरा मुसलाः शूला मकराद्या भवन्ति च
जयन्तिका ध्वजा मीनाः कमठाश्चर्मकायकाः॥ १७ ॥

मूलम्

मुद्गरा मुसलाः शूला मकराद्या भवन्ति च
जयन्तिका ध्वजा मीनाः कमठाश्चर्मकायकाः॥ १७ ॥

विश्वास-प्रस्तुतिः

शरादिभिर्महोष्ट्रैश्च निरुद्धाः प्रचुरैस्तथा
केशचामरशैवालाः सम्पूर्णास्तास्ततःस्ततः॥ १८ ॥

मूलम्

शरादिभिर्महोष्ट्रैश्च निरुद्धाः प्रचुरैस्तथा
केशचामरशैवालाः सम्पूर्णास्तास्ततःस्ततः॥ १८ ॥

विश्वास-प्रस्तुतिः

पतद्भिश्च तथान्यैश्च विविधैः क्षतजार्णवः
तदा वसुन्धरा सर्वा सशैलवनकानना॥ १९ ॥

मूलम्

पतद्भिश्च तथान्यैश्च विविधैः क्षतजार्णवः
तदा वसुन्धरा सर्वा सशैलवनकानना॥ १९ ॥

विश्वास-प्रस्तुतिः

रुधिरौघा महाघोरा सर्वलोकभयङ्करा
स्कन्दस्य शक्तिपातेन गता दैत्या यमक्षयम्॥ २० ॥

मूलम्

रुधिरौघा महाघोरा सर्वलोकभयङ्करा
स्कन्दस्य शक्तिपातेन गता दैत्या यमक्षयम्॥ २० ॥

विश्वास-प्रस्तुतिः

पर्शुना परमेणैव अग्निनाग्निशिखैः शरैः
वरुणस्य च पाशेन बद्धा मग्ना यमक्षये॥ २१ ॥

मूलम्

पर्शुना परमेणैव अग्निनाग्निशिखैः शरैः
वरुणस्य च पाशेन बद्धा मग्ना यमक्षये॥ २१ ॥

विश्वास-प्रस्तुतिः

येषां पुत्रैश्च पौत्रैश्च पुरोगैः सचिवैस्तथा
निपातिताश्च दैतेयाः शरशक्त्यृष्टिवृष्टिभिः॥ २२ ॥

मूलम्

येषां पुत्रैश्च पौत्रैश्च पुरोगैः सचिवैस्तथा
निपातिताश्च दैतेयाः शरशक्त्यृष्टिवृष्टिभिः॥ २२ ॥

विश्वास-प्रस्तुतिः

ग्रहैश्च श्वसनैरेव यक्षगन्धर्वकिन्नरैः
महत्या गदया चैव कुबेरेण च धीमता॥ २३ ॥

मूलम्

ग्रहैश्च श्वसनैरेव यक्षगन्धर्वकिन्नरैः
महत्या गदया चैव कुबेरेण च धीमता॥ २३ ॥

विश्वास-प्रस्तुतिः

घनानां निकरैर्वज्रैस्तुषारैर्विधुनेरितैः
पन्नगानां विषैर्घोरैर्दैत्याः पेतुर्धरातले॥ २४ ॥

मूलम्

घनानां निकरैर्वज्रैस्तुषारैर्विधुनेरितैः
पन्नगानां विषैर्घोरैर्दैत्याः पेतुर्धरातले॥ २४ ॥

विश्वास-प्रस्तुतिः

अन्यैश्च विविधैर्देवैः कोटिकोटिसहस्रशः
पातिताः प्रययुस्सर्वे धरण्यां तु गतासवः॥ २५ ॥

मूलम्

अन्यैश्च विविधैर्देवैः कोटिकोटिसहस्रशः
पातिताः प्रययुस्सर्वे धरण्यां तु गतासवः॥ २५ ॥

विश्वास-प्रस्तुतिः

देहांस्त्यक्त्वा दिवं यान्ति केचिच्च यममन्दिरम्
केचिद्गच्छन्ति पातालं पुण्यापुण्यप्रयोगतः॥ २६ ॥

मूलम्

देहांस्त्यक्त्वा दिवं यान्ति केचिच्च यममन्दिरम्
केचिद्गच्छन्ति पातालं पुण्यापुण्यप्रयोगतः॥ २६ ॥

विश्वास-प्रस्तुतिः

एतस्मिन्नन्तरे वेदाञ्जजल्पुः परमर्षयः
स्वस्त्यस्तु ब्राह्मणेभ्यश्च गोभ्यः स्त्रीभ्यस्तपस्विषु॥ २७ ॥

मूलम्

एतस्मिन्नन्तरे वेदाञ्जजल्पुः परमर्षयः
स्वस्त्यस्तु ब्राह्मणेभ्यश्च गोभ्यः स्त्रीभ्यस्तपस्विषु॥ २७ ॥

विश्वास-प्रस्तुतिः

प्रयुध्यमानेष्वन्येषु साम्प्रतं सर्वजन्तुषु
विबुधैरर्दिता दैत्याः शेषाः पर्वतमाश्रिताः॥ २८ ॥

मूलम्

प्रयुध्यमानेष्वन्येषु साम्प्रतं सर्वजन्तुषु
विबुधैरर्दिता दैत्याः शेषाः पर्वतमाश्रिताः॥ २८ ॥

विश्वास-प्रस्तुतिः

प्रजग्मुश्च दिशः सर्वाः कातरा रणभीरवः
दैत्यव्यूहे प्रभग्ने च बलो नाम महाबलः॥ २९ ॥

मूलम्

प्रजग्मुश्च दिशः सर्वाः कातरा रणभीरवः
दैत्यव्यूहे प्रभग्ने च बलो नाम महाबलः॥ २९ ॥

विश्वास-प्रस्तुतिः

अर्दयामास देवांश्च संयम्याग्निसमैः शरैः
तस्य बाणार्दिता देवा बहवो बलदर्पिताः॥ ३० ॥

मूलम्

अर्दयामास देवांश्च संयम्याग्निसमैः शरैः
तस्य बाणार्दिता देवा बहवो बलदर्पिताः॥ ३० ॥

विश्वास-प्रस्तुतिः

पतिता धरणीपृष्ठे केचिद्भग्ना रणाजिरे
दृष्ट्वा तस्य महत्कर्म दारुणं लोकभीषणम्॥ ३१ ॥

मूलम्

पतिता धरणीपृष्ठे केचिद्भग्ना रणाजिरे
दृष्ट्वा तस्य महत्कर्म दारुणं लोकभीषणम्॥ ३१ ॥

विश्वास-प्रस्तुतिः

शशंसुर्ऋषयो देवास्तत्र शिष्टाः प्रचुक्रुशुः
अथ क्रुद्धो महातेजाश्शतक्रतुररिन्दमः॥ ३२ ॥

मूलम्

शशंसुर्ऋषयो देवास्तत्र शिष्टाः प्रचुक्रुशुः
अथ क्रुद्धो महातेजाश्शतक्रतुररिन्दमः॥ ३२ ॥

विश्वास-प्रस्तुतिः

जघान शरसन्दोहैर्बलं बलवतां वरम्
सोपि क्रुद्धो बलो युद्धे तथा शक्रं ससम्भ्रमः॥ ३३ ॥

मूलम्

जघान शरसन्दोहैर्बलं बलवतां वरम्
सोपि क्रुद्धो बलो युद्धे तथा शक्रं ससम्भ्रमः॥ ३३ ॥

विश्वास-प्रस्तुतिः

रुधिरेणावसिक्ताङ्गौ प्रसृतेन महाबलौ
तौ यथा माधवे मासि पुष्पितौ किंशुकद्रुमौ॥ ३४ ॥

मूलम्

रुधिरेणावसिक्ताङ्गौ प्रसृतेन महाबलौ
तौ यथा माधवे मासि पुष्पितौ किंशुकद्रुमौ॥ ३४ ॥

विश्वास-प्रस्तुतिः

चक्राणि च सहस्राणि शूलानि मुसलानि च
निचखान रणे शक्रे चपले चासुरोत्तमः॥ ३५ ॥

मूलम्

चक्राणि च सहस्राणि शूलानि मुसलानि च
निचखान रणे शक्रे चपले चासुरोत्तमः॥ ३५ ॥

विश्वास-प्रस्तुतिः

तानि चक्राणि शूलानि निचकर्त्त शरोत्तमैः
सुरराट्सहसा भ्रान्तो लीलया समरे बली॥ ३६ ॥

मूलम्

तानि चक्राणि शूलानि निचकर्त्त शरोत्तमैः
सुरराट्सहसा भ्रान्तो लीलया समरे बली॥ ३६ ॥

विश्वास-प्रस्तुतिः

स च दैत्यो महातेजाः शक्त्या चैव पुरन्दरम्
निजघान तदा तूर्णं गजस्थं च स्तनान्तरे॥ ३७ ॥

मूलम्

स च दैत्यो महातेजाः शक्त्या चैव पुरन्दरम्
निजघान तदा तूर्णं गजस्थं च स्तनान्तरे॥ ३७ ॥

विश्वास-प्रस्तुतिः

तया विनिहतः शक्रः प्रचचाल गजोपरि
लब्धसञ्ज्ञो बलं जिष्णुर्बिभेद दनुजं क्षणात्॥ ३८ ॥

मूलम्

तया विनिहतः शक्रः प्रचचाल गजोपरि
लब्धसञ्ज्ञो बलं जिष्णुर्बिभेद दनुजं क्षणात्॥ ३८ ॥

विश्वास-प्रस्तुतिः

रथसंस्थस्य हस्तौ च धनुश्चिच्छेद चेषुणा
चर्मतीक्ष्णं ध्वजं तस्य शरेणैकेन वीरहा॥ ३९ ॥

मूलम्

रथसंस्थस्य हस्तौ च धनुश्चिच्छेद चेषुणा
चर्मतीक्ष्णं ध्वजं तस्य शरेणैकेन वीरहा॥ ३९ ॥

विश्वास-प्रस्तुतिः

चतुर्भिर्निशितैर्बाणैर्विव्याध चतुरो हयान्
शरेणैकेन सूतस्य शिरश्चिच्छेद तत्क्षणात्॥ ४० ॥

मूलम्

चतुर्भिर्निशितैर्बाणैर्विव्याध चतुरो हयान्
शरेणैकेन सूतस्य शिरश्चिच्छेद तत्क्षणात्॥ ४० ॥

विश्वास-प्रस्तुतिः

छिन्नधन्वा हतरथो हताश्वो हतसारथिः
निपत्य मूर्च्छितः पृथ्व्यां मुहूर्तान्मृत्युमाप सः॥ ४१ ॥

मूलम्

छिन्नधन्वा हतरथो हताश्वो हतसारथिः
निपत्य मूर्च्छितः पृथ्व्यां मुहूर्तान्मृत्युमाप सः॥ ४१ ॥

विश्वास-प्रस्तुतिः

अथ क्रुद्धो महादैत्यो नमुचिः सुरदर्पहा
गदामादाय सहसा स जघान महागजम्॥ ४२ ॥

मूलम्

अथ क्रुद्धो महादैत्यो नमुचिः सुरदर्पहा
गदामादाय सहसा स जघान महागजम्॥ ४२ ॥

विश्वास-प्रस्तुतिः

यथा मेरुगिरेः शृङ्गे वज्रपातो भवेद्ध्रुवम्
तथैव च महाशब्दो ह्यभवल्लोमहर्षणः॥ ४३ ॥

मूलम्

यथा मेरुगिरेः शृङ्गे वज्रपातो भवेद्ध्रुवम्
तथैव च महाशब्दो ह्यभवल्लोमहर्षणः॥ ४३ ॥

विश्वास-प्रस्तुतिः

प्रहारेणार्दितः पद्मी सञ्चचाल स विह्वलः
रुधिरेणावसिक्ताङ्गो विमुखो वेदनातुरः॥ ४४ ॥

मूलम्

प्रहारेणार्दितः पद्मी सञ्चचाल स विह्वलः
रुधिरेणावसिक्ताङ्गो विमुखो वेदनातुरः॥ ४४ ॥

विश्वास-प्रस्तुतिः

शतक्रतुं विधावन्ति शतशोथ सहस्रशः
अर्धचन्द्रैक्षुःरप्रैश्च चिच्छेद पाकशासनः॥ ४५ ॥

मूलम्

शतक्रतुं विधावन्ति शतशोथ सहस्रशः
अर्धचन्द्रैक्षुःरप्रैश्च चिच्छेद पाकशासनः॥ ४५ ॥

विश्वास-प्रस्तुतिः

जन्तुभिस्तस्य मायाभिरर्दितास्सुरपुङ्गवाः
भूमौ निपतिताः केचित्केचित्सुप्ता रथोपरि॥ ४६ ॥

मूलम्

जन्तुभिस्तस्य मायाभिरर्दितास्सुरपुङ्गवाः
भूमौ निपतिताः केचित्केचित्सुप्ता रथोपरि॥ ४६ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा तस्य महत्कर्म माधवो विशिखांस्तथा
जन्तुभूतान्स चक्रेण चिच्छेद देहलग्नकान्॥ ४७ ॥

मूलम्

दृष्ट्वा तस्य महत्कर्म माधवो विशिखांस्तथा
जन्तुभूतान्स चक्रेण चिच्छेद देहलग्नकान्॥ ४७ ॥

विश्वास-प्रस्तुतिः

ततो जिष्णुस्त्रिभिर्बाणैः पातयामास भूतले
पृथिव्यां पतितो दैत्यो मूर्च्छितस्खलितः पुनः॥ ४८ ॥

मूलम्

ततो जिष्णुस्त्रिभिर्बाणैः पातयामास भूतले
पृथिव्यां पतितो दैत्यो मूर्च्छितस्खलितः पुनः॥ ४८ ॥

विश्वास-प्रस्तुतिः

दधार मुद्गरं घोरं शक्रं हन्तुं समुद्यतः
ततो जघान मघवा कुलिशेन महासुरम्॥ ४९ ॥

मूलम्

दधार मुद्गरं घोरं शक्रं हन्तुं समुद्यतः
ततो जघान मघवा कुलिशेन महासुरम्॥ ४९ ॥

विश्वास-प्रस्तुतिः

स पपात महीपृष्ठे क्षतवक्षा महाबलः
साधुसाध्विति देवाश्च सिद्धाश्चैव महर्षयः५० 1.67.50
अपूजयंस्तदा शक्रं बहुभिः पुष्पवृष्टिभिः
ततो दैत्यगणाः सर्वे भीतास्तत्र प्रदुद्रुवुः
गीतं गायन्ति गन्धर्वा ननृतुश्चाप्सरोगणाः॥ ५१ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे बलनमुचिवधोनाम सप्तषष्टितमोऽध्यायः६७