०६६

व्यास उवाच-

विश्वास-प्रस्तुतिः

भ्रातरं निहतं दृष्ट्वा कालेयो नाम दानवः
चित्ररथं प्रदुद्राव धृत्वा बाणं सकार्मुकम्॥ १ ॥

मूलम्

भ्रातरं निहतं दृष्ट्वा कालेयो नाम दानवः
चित्ररथं प्रदुद्राव धृत्वा बाणं सकार्मुकम्॥ १ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वासुरं विधावन्तं कालमृत्युसमप्रभम्
अरौत्सीत्तं महावीर्यो जयन्तः पाकशासनिः॥ २ ॥

मूलम्

दृष्ट्वासुरं विधावन्तं कालमृत्युसमप्रभम्
अरौत्सीत्तं महावीर्यो जयन्तः पाकशासनिः॥ २ ॥

विश्वास-प्रस्तुतिः

अब्रवीच्च महातेजा दैतेयं सुरसत्तमः
तथ्यं धर्माभिसंयुक्तं लोकद्वयहितं ध्रुवम्॥ ३ ॥

मूलम्

अब्रवीच्च महातेजा दैतेयं सुरसत्तमः
तथ्यं धर्माभिसंयुक्तं लोकद्वयहितं ध्रुवम्॥ ३ ॥

विश्वास-प्रस्तुतिः

शस्त्राभिघातदुःखार्तं कश्मलं चान्यसंयुतम्
प्रभग्नं च निरस्तं च यो हन्ति स च बालिशः॥ ४ ॥

मूलम्

शस्त्राभिघातदुःखार्तं कश्मलं चान्यसंयुतम्
प्रभग्नं च निरस्तं च यो हन्ति स च बालिशः॥ ४ ॥

विश्वास-प्रस्तुतिः

सुचिरं रौरवं भुक्त्वा तस्य दासो भवेच्चिरम्
तस्मान्मामुं प्रयुध्यस्व युद्धधर्मस्थितो भव॥ ५ ॥

मूलम्

सुचिरं रौरवं भुक्त्वा तस्य दासो भवेच्चिरम्
तस्मान्मामुं प्रयुध्यस्व युद्धधर्मस्थितो भव॥ ५ ॥

विश्वास-प्रस्तुतिः

जयन्तमब्रवीद्वाक्यं कालेयः क्रोधमूर्च्छितः
निहत्य भ्रातृहन्तारमथ त्वांहन्मि साम्प्रतम्॥ ६ ॥

मूलम्

जयन्तमब्रवीद्वाक्यं कालेयः क्रोधमूर्च्छितः
निहत्य भ्रातृहन्तारमथ त्वांहन्मि साम्प्रतम्॥ ६ ॥

विश्वास-प्रस्तुतिः

ततस्तं चासुरश्रेष्ठं कालानलसमप्रभम्
जयन्तो निशितैर्बाणैर्जघान सुरसत्तमः॥ ७ ॥

मूलम्

ततस्तं चासुरश्रेष्ठं कालानलसमप्रभम्
जयन्तो निशितैर्बाणैर्जघान सुरसत्तमः॥ ७ ॥

विश्वास-प्रस्तुतिः

निचकर्त्त शरान्सोपि त्रिभिर्विव्याध चासुरः
यथावृष्टिगणं प्राप्य नदी गैरिकवाहिनी॥ ८ ॥

मूलम्

निचकर्त्त शरान्सोपि त्रिभिर्विव्याध चासुरः
यथावृष्टिगणं प्राप्य नदी गैरिकवाहिनी॥ ८ ॥

विश्वास-प्रस्तुतिः

तथा तौ च महावीर्यौ न क्षीणौ न च कातरौ
न शर्म परिलेभाते परस्परजयैषिणौ॥ ९ ॥

मूलम्

तथा तौ च महावीर्यौ न क्षीणौ न च कातरौ
न शर्म परिलेभाते परस्परजयैषिणौ॥ ९ ॥

विश्वास-प्रस्तुतिः

अथ तस्य च दैत्यस्य धनुश्चिच्छेद चेषुणा
यन्तारं पञ्चभिर्बाणैः पातयामास भूतले॥ १० ॥

मूलम्

अथ तस्य च दैत्यस्य धनुश्चिच्छेद चेषुणा
यन्तारं पञ्चभिर्बाणैः पातयामास भूतले॥ १० ॥

विश्वास-प्रस्तुतिः

अष्टाभिर्निशितैर्बाणैश्चतुरोश्वानपातयात्
शक्तिं सङ्गृह्य भूमिष्ठः कुमारं च जघान ह॥ ११ ॥

मूलम्

अष्टाभिर्निशितैर्बाणैश्चतुरोश्वानपातयात्
शक्तिं सङ्गृह्य भूमिष्ठः कुमारं च जघान ह॥ ११ ॥

विश्वास-प्रस्तुतिः

गदया पीडितं साश्वं सवरूथं सकूबरम्
पातयित्वा धरण्यां च सिंहनादं ननाद ह॥ १२ ॥

मूलम्

गदया पीडितं साश्वं सवरूथं सकूबरम्
पातयित्वा धरण्यां च सिंहनादं ननाद ह॥ १२ ॥

विश्वास-प्रस्तुतिः

लाघवात्स धरां गत्वा गदापाणिरुपस्थितः
वज्रपाताद्यथा शब्दो लोकानां दुःसहो भवेत्॥ १३ ॥

मूलम्

लाघवात्स धरां गत्वा गदापाणिरुपस्थितः
वज्रपाताद्यथा शब्दो लोकानां दुःसहो भवेत्॥ १३ ॥

विश्वास-प्रस्तुतिः

तथा तयोर्गदापाते शब्दः स्यात्तु मुहुर्मुहुः
एवं तयोर्गदायुद्धं यावदब्दचतुष्टयम्॥ १४ ॥

मूलम्

तथा तयोर्गदापाते शब्दः स्यात्तु मुहुर्मुहुः
एवं तयोर्गदायुद्धं यावदब्दचतुष्टयम्॥ १४ ॥

विश्वास-प्रस्तुतिः

प्रभग्ने ते गदे खस्थौ खड्गचर्मधरावुभौ
तदा पदातिनोर्युद्धमद्भुतं लोमहर्षणं॥ १५ ॥

मूलम्

प्रभग्ने ते गदे खस्थौ खड्गचर्मधरावुभौ
तदा पदातिनोर्युद्धमद्भुतं लोमहर्षणं॥ १५ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा च विस्मयं जग्मुर्देवासुरमहोरगाः
खड्गपातैर्मुहूर्तान्ते तयोश्छिन्ने तु वर्मणी॥ १६ ॥

मूलम्

दृष्ट्वा च विस्मयं जग्मुर्देवासुरमहोरगाः
खड्गपातैर्मुहूर्तान्ते तयोश्छिन्ने तु वर्मणी॥ १६ ॥

विश्वास-प्रस्तुतिः

अभवत्खड्गयुद्धं च तयोर्युद्धातिशीलिनोः
दधार चिकुरे तस्य जयन्तो भीमविक्रमः॥ १७ ॥

मूलम्

अभवत्खड्गयुद्धं च तयोर्युद्धातिशीलिनोः
दधार चिकुरे तस्य जयन्तो भीमविक्रमः॥ १७ ॥

विश्वास-प्रस्तुतिः

शिरश्छित्वास्य खड्गेन पातयामास भूतले
ततस्तु जयशब्देन देवाः सर्वे ननन्दिरे॥ १८ ॥

मूलम्

शिरश्छित्वास्य खड्गेन पातयामास भूतले
ततस्तु जयशब्देन देवाः सर्वे ननन्दिरे॥ १८ ॥

विश्वास-प्रस्तुतिः

प्रभग्ना दैत्यसङ्घाश्च दिशः सर्वाः प्रदुद्रुवुः॥ १९ ॥

मूलम्

प्रभग्ना दैत्यसङ्घाश्च दिशः सर्वाः प्रदुद्रुवुः॥ १९ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे कालेयवधोनाम षट्षष्टितमोऽध्यायः६६