व्यास उवाच-
विश्वास-प्रस्तुतिः
नान्दीमुखेषु सर्वेषु पूजयेद्यो गणाधिपम्
तस्य सर्वो भवेद्वश्यः पुण्यं भवति चाक्षयम्॥ १ ॥
मूलम्
नान्दीमुखेषु सर्वेषु पूजयेद्यो गणाधिपम्
तस्य सर्वो भवेद्वश्यः पुण्यं भवति चाक्षयम्॥ १ ॥
विश्वास-प्रस्तुतिः
गणानां त्वेति मन्त्रेण सर्वयज्ञघटेषु च
सर्वसिद्धिमवाप्नोति स्वर्गं मोक्षं लभेन्नरः॥ २ ॥
मूलम्
गणानां त्वेति मन्त्रेण सर्वयज्ञघटेषु च
सर्वसिद्धिमवाप्नोति स्वर्गं मोक्षं लभेन्नरः॥ २ ॥
विश्वास-प्रस्तुतिः
मृण्मये प्रतिमायां च चित्रे चाथ दृषण्मये
द्वारदारुणि पात्रे च हेरम्बं लेखयेद्बुधः॥ ३ ॥
मूलम्
मृण्मये प्रतिमायां च चित्रे चाथ दृषण्मये
द्वारदारुणि पात्रे च हेरम्बं लेखयेद्बुधः॥ ३ ॥
विश्वास-प्रस्तुतिः
अन्यस्मिन्नपि देशे तु सततं दृष्टिगोचरे
स्थापयित्वा तु हेरम्बं शक्त्या यः पूजयेद्बुधः॥ ४ ॥
मूलम्
अन्यस्मिन्नपि देशे तु सततं दृष्टिगोचरे
स्थापयित्वा तु हेरम्बं शक्त्या यः पूजयेद्बुधः॥ ४ ॥
विश्वास-प्रस्तुतिः
तस्य कार्याणि सिद्ध्यन्ति दयितानि समन्ततः
न विघ्नं जायते किञ्चित्त्रैलोक्यं वशमानयेत्॥ ५ ॥
मूलम्
तस्य कार्याणि सिद्ध्यन्ति दयितानि समन्ततः
न विघ्नं जायते किञ्चित्त्रैलोक्यं वशमानयेत्॥ ५ ॥
विश्वास-प्रस्तुतिः
विद्यार्थी लभते विद्यां वेदशास्त्रसमुद्भवाम्
अन्यां च शिल्पिविद्यां च विजयां स्वर्गदायिनीम्॥ ६ ॥
मूलम्
विद्यार्थी लभते विद्यां वेदशास्त्रसमुद्भवाम्
अन्यां च शिल्पिविद्यां च विजयां स्वर्गदायिनीम्॥ ६ ॥
विश्वास-प्रस्तुतिः
धनार्थी विपुलं वित्तं कन्यां साध्वीं मनोरमाम्
ऐश्वर्यं धर्मसाध्यं च तनयं कुलमोक्षदम्॥ ७ ॥
मूलम्
धनार्थी विपुलं वित्तं कन्यां साध्वीं मनोरमाम्
ऐश्वर्यं धर्मसाध्यं च तनयं कुलमोक्षदम्॥ ७ ॥
विश्वास-प्रस्तुतिः
न रोगैः पीड्यते कश्चिन्न ग्रहैः प्रेतयोनिभिः
शृङ्गिभिर्नापि रक्षोभिर्विद्युद्भिर्वनतस्करैः॥ ८ ॥
मूलम्
न रोगैः पीड्यते कश्चिन्न ग्रहैः प्रेतयोनिभिः
शृङ्गिभिर्नापि रक्षोभिर्विद्युद्भिर्वनतस्करैः॥ ८ ॥
विश्वास-प्रस्तुतिः
न राजा कुप्यति गृहे न च मारी प्रवर्तते
न दौर्भिक्ष्यं न दौर्बल्यं पूजयित्वा विनायकम्॥ ९ ॥
मूलम्
न राजा कुप्यति गृहे न च मारी प्रवर्तते
न दौर्भिक्ष्यं न दौर्बल्यं पूजयित्वा विनायकम्॥ ९ ॥
विश्वास-प्रस्तुतिः
अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि
सर्वविघ्नछिदे तस्मै गणाधिपतये नमः॥ १० ॥
मूलम्
अभिप्रेतार्थसिद्ध्यर्थं पूजितो यः सुरैरपि
सर्वविघ्नछिदे तस्मै गणाधिपतये नमः॥ १० ॥
विश्वास-प्रस्तुतिः
मन्त्रश्चायं ॐ नमो गणपतये
नारायणप्रियैः पुष्पैरन्यैश्चापि सुगन्धिभिः
मोदकैः फलमूलैश्च द्रव्यैः कालोद्भवैस्तथा॥ ११ ॥
मूलम्
मन्त्रश्चायं ॐ नमो गणपतये
नारायणप्रियैः पुष्पैरन्यैश्चापि सुगन्धिभिः
मोदकैः फलमूलैश्च द्रव्यैः कालोद्भवैस्तथा॥ ११ ॥
विश्वास-प्रस्तुतिः
दधिदुग्धैः प्रियैर्वाद्यैरपि धूपसुगन्धिभिः
पूजयेद्गणपं यस्तु सर्वसिद्धिमवाप्नुयात्॥ १२ ॥
मूलम्
दधिदुग्धैः प्रियैर्वाद्यैरपि धूपसुगन्धिभिः
पूजयेद्गणपं यस्तु सर्वसिद्धिमवाप्नुयात्॥ १२ ॥
विश्वास-प्रस्तुतिः
विशेषात्तस्य लिङ्गे तु यो ददाति वसुप्रियम्
पूजोपकरणं वस्त्रं सर्वं लक्षगुणं भवेत्॥ १३ ॥
मूलम्
विशेषात्तस्य लिङ्गे तु यो ददाति वसुप्रियम्
पूजोपकरणं वस्त्रं सर्वं लक्षगुणं भवेत्॥ १३ ॥
विश्वास-प्रस्तुतिः
देशे च भारते वर्षे वनिता पूर्वसन्निधौ
लौहित्यदक्षिणे तीरे लिङ्गरूपो विनायकः॥ १४ ॥
मूलम्
देशे च भारते वर्षे वनिता पूर्वसन्निधौ
लौहित्यदक्षिणे तीरे लिङ्गरूपो विनायकः॥ १४ ॥
विश्वास-प्रस्तुतिः
हरगौरीसमादेशाद्देवानां सम्मतेन च
स्थितो लोकप्रशान्त्यर्थं सर्वविघ्नविनाशनात्॥ १५ ॥
मूलम्
हरगौरीसमादेशाद्देवानां सम्मतेन च
स्थितो लोकप्रशान्त्यर्थं सर्वविघ्नविनाशनात्॥ १५ ॥
विश्वास-प्रस्तुतिः
पूजयित्वा तु तं देवं शक्तितो द्रव्यसञ्चयैः
विनायकत्वमाप्नोति वेदशास्त्रार्थपारगः॥ १६ ॥
मूलम्
पूजयित्वा तु तं देवं शक्तितो द्रव्यसञ्चयैः
विनायकत्वमाप्नोति वेदशास्त्रार्थपारगः॥ १६ ॥
विश्वास-प्रस्तुतिः
सकृत्प्रदक्षिणं कृत्वा दृष्ट्वा स्पृष्ट्वा तु मानवः
अक्षयं लभते स्वर्गं सदा देवैः प्रपूज्यते॥ १७ ॥
मूलम्
सकृत्प्रदक्षिणं कृत्वा दृष्ट्वा स्पृष्ट्वा तु मानवः
अक्षयं लभते स्वर्गं सदा देवैः प्रपूज्यते॥ १७ ॥
विश्वास-प्रस्तुतिः
संसर्गिणां च म्लेछानां गत्यर्थं सुतपस्विनाम्
पुत्रार्थं सर्वलोकानां तत्र शम्भुर्विनायकः॥ १८ ॥
मूलम्
संसर्गिणां च म्लेछानां गत्यर्थं सुतपस्विनाम्
पुत्रार्थं सर्वलोकानां तत्र शम्भुर्विनायकः॥ १८ ॥
विश्वास-प्रस्तुतिः
कृत्वाभिषेकं लौहित्ये स्पृशेद्यस्तु गणाधिपम्
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः॥ १९ ॥
मूलम्
कृत्वाभिषेकं लौहित्ये स्पृशेद्यस्तु गणाधिपम्
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः॥ १९ ॥
विश्वास-प्रस्तुतिः
न वैधव्यं न कार्पण्यं न शोकं न तु मत्सरम्
विनायकं समासाद्य जन्मजन्मनि संलभेत्॥ २० ॥
मूलम्
न वैधव्यं न कार्पण्यं न शोकं न तु मत्सरम्
विनायकं समासाद्य जन्मजन्मनि संलभेत्॥ २० ॥
विश्वास-प्रस्तुतिः
पुनः सिद्धिः पुनर्भोग्यं पुनः कीर्तिः पुनर्बलम्
पूजयित्वा तु गणपं नरस्य नात्र संशयः॥ २१ ॥
मूलम्
पुनः सिद्धिः पुनर्भोग्यं पुनः कीर्तिः पुनर्बलम्
पूजयित्वा तु गणपं नरस्य नात्र संशयः॥ २१ ॥
विश्वास-प्रस्तुतिः
अस्य पूजामकृत्वा च सर्वाभीष्टं विनश्यति
तत्र देवाश्च सुप्रीता ब्रह्मविष्णुहरादयः॥ २२ ॥
मूलम्
अस्य पूजामकृत्वा च सर्वाभीष्टं विनश्यति
तत्र देवाश्च सुप्रीता ब्रह्मविष्णुहरादयः॥ २२ ॥
विश्वास-प्रस्तुतिः
मघोनो गणपस्याथ पूजाविरहितस्य च
अथासुरैर्महावीर्यैर्हिरण्याक्षमुखै रणे॥ २३ ॥
मूलम्
मघोनो गणपस्याथ पूजाविरहितस्य च
अथासुरैर्महावीर्यैर्हिरण्याक्षमुखै रणे॥ २३ ॥
विश्वास-प्रस्तुतिः
मघवा तु जितो वीर्याद्धिरण्याक्षेण वै तदा
ततस्सुराश्च निर्वीर्या यावद्वर्षशतं पुरा॥ २४ ॥
मूलम्
मघवा तु जितो वीर्याद्धिरण्याक्षेण वै तदा
ततस्सुराश्च निर्वीर्या यावद्वर्षशतं पुरा॥ २४ ॥
विश्वास-प्रस्तुतिः
दैवासुरे महायुद्धे सुराणां च पराजयः
ततो देवाधिदेवे तु शिवे देवैर्निवेदितम्॥ २५ ॥
मूलम्
दैवासुरे महायुद्धे सुराणां च पराजयः
ततो देवाधिदेवे तु शिवे देवैर्निवेदितम्॥ २५ ॥
विश्वास-प्रस्तुतिः
भगवन्नसुरैर्नो हि जितं राज्यं गता मखाः
एतस्मिन्नन्तरे शम्भुर्देवान्वचनमब्रवीत्॥ २६ ॥
मूलम्
भगवन्नसुरैर्नो हि जितं राज्यं गता मखाः
एतस्मिन्नन्तरे शम्भुर्देवान्वचनमब्रवीत्॥ २६ ॥
विश्वास-प्रस्तुतिः
हेरम्बाय वरो दत्त उमया प्रीतया मया
पूजया ते परा सिद्धिर्देवादीनां भवत्विति॥ २७ ॥
मूलम्
हेरम्बाय वरो दत्त उमया प्रीतया मया
पूजया ते परा सिद्धिर्देवादीनां भवत्विति॥ २७ ॥
विश्वास-प्रस्तुतिः
अवजानाति यो मोहात्पुरुषस्तु महोत्सवे
न भवेत्तस्य सिद्धिश्च रणे चापि पराजयः॥ २८ ॥
मूलम्
अवजानाति यो मोहात्पुरुषस्तु महोत्सवे
न भवेत्तस्य सिद्धिश्च रणे चापि पराजयः॥ २८ ॥
विश्वास-प्रस्तुतिः
महामखेन युष्माभिः पूजा गणपतेः कृता
हेलया न कृता मोहात्तस्मात्प्राप्तः पराजयः॥ २९ ॥
मूलम्
महामखेन युष्माभिः पूजा गणपतेः कृता
हेलया न कृता मोहात्तस्मात्प्राप्तः पराजयः॥ २९ ॥
विश्वास-प्रस्तुतिः
शीघ्रं गच्छत वै पुण्यां गणपस्य महात्मनः
पूजां कुरुत धर्मज्ञा जयस्तूर्णं भविष्यति॥ ३० ॥
मूलम्
शीघ्रं गच्छत वै पुण्यां गणपस्य महात्मनः
पूजां कुरुत धर्मज्ञा जयस्तूर्णं भविष्यति॥ ३० ॥
विश्वास-प्रस्तुतिः
ततो हरमुखाच्छ्रुत्वा वचः क्षेमपरं हितम्
प्रहृष्टा विबुधास्सर्वे गणपस्य पुरः स्थिताः॥ ३१ ॥
मूलम्
ततो हरमुखाच्छ्रुत्वा वचः क्षेमपरं हितम्
प्रहृष्टा विबुधास्सर्वे गणपस्य पुरः स्थिताः॥ ३१ ॥
विश्वास-प्रस्तुतिः
देवा ऊचुः-
गणाधिप नमस्तुभ्यं सर्वदेवैकपालक
स्वर्गभोगप्रद प्रीत्या हेरम्ब त्वां नताः स्म ह॥ ३२ ॥
मूलम्
देवा ऊचुः-
गणाधिप नमस्तुभ्यं सर्वदेवैकपालक
स्वर्गभोगप्रद प्रीत्या हेरम्ब त्वां नताः स्म ह॥ ३२ ॥
विश्वास-प्रस्तुतिः
जयदं सर्वयुद्धेषु सिद्धिदं सर्वकर्मसु
महामायं महाकायं हेरम्ब त्वां नताः स्म ह॥ ३३ ॥
मूलम्
जयदं सर्वयुद्धेषु सिद्धिदं सर्वकर्मसु
महामायं महाकायं हेरम्ब त्वां नताः स्म ह॥ ३३ ॥
विश्वास-प्रस्तुतिः
एकदन्तं महाप्राज्ञं लम्बतुण्डं विनायकम्
देवं महर्षिदेवानाम्मिन्द्रस्य च नताः स्म ह॥ ३४ ॥
मूलम्
एकदन्तं महाप्राज्ञं लम्बतुण्डं विनायकम्
देवं महर्षिदेवानाम्मिन्द्रस्य च नताः स्म ह॥ ३४ ॥
विश्वास-प्रस्तुतिः
यत्ते पुरार्चनं यज्ञे न कृतं तत्क्षमस्व नः
सुराणां च गिरः श्रुत्वा गणपो वाक्यमब्रवीत्॥ ३५ ॥
मूलम्
यत्ते पुरार्चनं यज्ञे न कृतं तत्क्षमस्व नः
सुराणां च गिरः श्रुत्वा गणपो वाक्यमब्रवीत्॥ ३५ ॥
विश्वास-प्रस्तुतिः
युष्माभिर्व्रियतां देवा वरो मत्तो हि वाञ्च्छितः
ततः शक्रादयः सर्वे बृहस्पतिपुरोगमाः॥ ३६ ॥
मूलम्
युष्माभिर्व्रियतां देवा वरो मत्तो हि वाञ्च्छितः
ततः शक्रादयः सर्वे बृहस्पतिपुरोगमाः॥ ३६ ॥
विश्वास-प्रस्तुतिः
ऊचुर्गणपतिं देवा जयोस्माकं भवत्विति
देवानां वचनं श्रुत्वा गणेशो वाक्यमब्रवीत्॥ ३७ ॥
मूलम्
ऊचुर्गणपतिं देवा जयोस्माकं भवत्विति
देवानां वचनं श्रुत्वा गणेशो वाक्यमब्रवीत्॥ ३७ ॥
विश्वास-प्रस्तुतिः
बाढमेव सुरश्रेष्ठा जयो वो भवतु द्रुतम्
ततो देवगणास्सर्वे हर्षनिर्भरमानसाः॥ ३८ ॥
मूलम्
बाढमेव सुरश्रेष्ठा जयो वो भवतु द्रुतम्
ततो देवगणास्सर्वे हर्षनिर्भरमानसाः॥ ३८ ॥
विश्वास-प्रस्तुतिः
गणेशं पूजयामासुर्गन्धसारैस्तु मण्डनैः
दिव्यधूपैः सुवस्त्रैश्च कुसुमैर्नन्दनोद्भवैः॥ ३९ ॥
मूलम्
गणेशं पूजयामासुर्गन्धसारैस्तु मण्डनैः
दिव्यधूपैः सुवस्त्रैश्च कुसुमैर्नन्दनोद्भवैः॥ ३९ ॥
विश्वास-प्रस्तुतिः
पारिजातादिभिः पुष्पैरन्यैर्देवमनोहरैः
पूजितो गणपो देवैरुवाच सुरसत्तमान्॥ ४० ॥
मूलम्
पारिजातादिभिः पुष्पैरन्यैर्देवमनोहरैः
पूजितो गणपो देवैरुवाच सुरसत्तमान्॥ ४० ॥
विश्वास-प्रस्तुतिः
गच्छध्वं विबुधा देवं विष्णुमद्भुतसाहसम्
स विधास्यति वः कामं वाञ्च्छितं च ततः सुराः॥ ४१ ॥
मूलम्
गच्छध्वं विबुधा देवं विष्णुमद्भुतसाहसम्
स विधास्यति वः कामं वाञ्च्छितं च ततः सुराः॥ ४१ ॥
विश्वास-प्रस्तुतिः
स्वंस्वं रथं समारुह्य गतास्ते हरिमव्ययम्
पीताम्बरं नमस्कृत्य ऊचुर्देवगणा मुदा॥ ४२ ॥
मूलम्
स्वंस्वं रथं समारुह्य गतास्ते हरिमव्ययम्
पीताम्बरं नमस्कृत्य ऊचुर्देवगणा मुदा॥ ४२ ॥
विश्वास-प्रस्तुतिः
हरात्मजं तु सम्प्राप्य पूजयित्वा गणाधिपम्
आगतास्त्वत्सकाशं वै महात्मन्नद्य केशव॥ ४३ ॥
मूलम्
हरात्मजं तु सम्प्राप्य पूजयित्वा गणाधिपम्
आगतास्त्वत्सकाशं वै महात्मन्नद्य केशव॥ ४३ ॥
विश्वास-प्रस्तुतिः
एतच्छ्रुत्वा तु देवानां वचनं हरिरव्ययः
यथातथ्यमुवाचेदं हनिष्ये दैत्यपुङ्गवान्॥ ४४ ॥
मूलम्
एतच्छ्रुत्वा तु देवानां वचनं हरिरव्ययः
यथातथ्यमुवाचेदं हनिष्ये दैत्यपुङ्गवान्॥ ४४ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा वागमृतं देवा नारायणमुखाच्च्युतम्
हृष्टाश्च सुमुदाविष्टा द्रव्यैरिष्टैः समर्चयन्॥ ४५ ॥
मूलम्
श्रुत्वा वागमृतं देवा नारायणमुखाच्च्युतम्
हृष्टाश्च सुमुदाविष्टा द्रव्यैरिष्टैः समर्चयन्॥ ४५ ॥
विश्वास-प्रस्तुतिः
पुनर्विष्णुरुवाचेदं देवानिन्द्रपुरोगमान्
स्वंस्वं बलं समाहृत्य सज्जी भवत विज्वराः॥ ४६ ॥
मूलम्
पुनर्विष्णुरुवाचेदं देवानिन्द्रपुरोगमान्
स्वंस्वं बलं समाहृत्य सज्जी भवत विज्वराः॥ ४६ ॥
विश्वास-प्रस्तुतिः
हरिष्ये तान्दुराचारान्बलं चैव समन्ततः
अस्त्रवृन्दं तु सङ्गृह्य यूयं तिष्ठत निर्भयाः॥ ४७ ॥
मूलम्
हरिष्ये तान्दुराचारान्बलं चैव समन्ततः
अस्त्रवृन्दं तु सङ्गृह्य यूयं तिष्ठत निर्भयाः॥ ४७ ॥
विश्वास-प्रस्तुतिः
माधवस्य वचः श्रुत्वा प्रगताः सुरपुङ्गवाः
विमानानि समारुह्य सर्वे दिव्यास्त्रधारिणः॥ ४८ ॥
मूलम्
माधवस्य वचः श्रुत्वा प्रगताः सुरपुङ्गवाः
विमानानि समारुह्य सर्वे दिव्यास्त्रधारिणः॥ ४८ ॥
विश्वास-प्रस्तुतिः
देवानां हर्षवाक्यानि दैत्यचारैः श्रुतानि वै
राजानं कथयामासुर्हिरण्याक्षं महाबलम्॥ ४९ ॥
मूलम्
देवानां हर्षवाक्यानि दैत्यचारैः श्रुतानि वै
राजानं कथयामासुर्हिरण्याक्षं महाबलम्॥ ४९ ॥
विश्वास-प्रस्तुतिः
श्रुत्वा दैत्यपतिस्तत्र चुकोपाति महाबलः
सचिवांस्तु समाहूय क्रुद्धो वचनमब्रवीत्५० 1.65.50
अधुनेन्द्रादिदेवाश्च निखिलाः क्रूरबुद्धयः
माधवं च परीप्सन्तः शम्भौ सर्वं न्यवेदयन्॥ ५१ ॥
मूलम्
श्रुत्वा दैत्यपतिस्तत्र चुकोपाति महाबलः
सचिवांस्तु समाहूय क्रुद्धो वचनमब्रवीत्५० 1.65.50
अधुनेन्द्रादिदेवाश्च निखिलाः क्रूरबुद्धयः
माधवं च परीप्सन्तः शम्भौ सर्वं न्यवेदयन्॥ ५१ ॥
विश्वास-प्रस्तुतिः
कथं जयं च लप्स्यामो दैत्यवृन्देतिदारुणे
त्रिपुरारिरुवाचेदं गणेशं यजतामराः॥ ५२ ॥
मूलम्
कथं जयं च लप्स्यामो दैत्यवृन्देतिदारुणे
त्रिपुरारिरुवाचेदं गणेशं यजतामराः॥ ५२ ॥
विश्वास-प्रस्तुतिः
पूजयित्वा तु तं देवं जेष्यथासुरदानवान्
ततो देवगणैर्हृष्टैः पूजितो गणनायकः॥ ५३ ॥
मूलम्
पूजयित्वा तु तं देवं जेष्यथासुरदानवान्
ततो देवगणैर्हृष्टैः पूजितो गणनायकः॥ ५३ ॥
विश्वास-प्रस्तुतिः
गणाधिपेन तुष्टेन क्रूरो दत्तो वरो महान्
जेष्यथाद्यासुरान्सर्वांस्ततो देवा मुदान्विताः॥ ५४ ॥
मूलम्
गणाधिपेन तुष्टेन क्रूरो दत्तो वरो महान्
जेष्यथाद्यासुरान्सर्वांस्ततो देवा मुदान्विताः॥ ५४ ॥
विश्वास-प्रस्तुतिः
हरिं निवेदयामासुरस्मद्वधपरीप्सवः
हरेर्बाढमुपश्रुत्य रथिनः शस्त्रपाणयः॥ ५५ ॥
मूलम्
हरिं निवेदयामासुरस्मद्वधपरीप्सवः
हरेर्बाढमुपश्रुत्य रथिनः शस्त्रपाणयः॥ ५५ ॥
विश्वास-प्रस्तुतिः
युद्धार्थमधितिष्ठन्ति निर्जरास्त्वभयामयि
यस्य या शक्तिरस्तीह देवाञ्जेतुं वदत्वलम्॥ ५६ ॥
मूलम्
युद्धार्थमधितिष्ठन्ति निर्जरास्त्वभयामयि
यस्य या शक्तिरस्तीह देवाञ्जेतुं वदत्वलम्॥ ५६ ॥
विश्वास-प्रस्तुतिः
ततो राज्ञोवचः श्रुत्वा मधुर्वचनमब्रवीत्
जेष्यामि च हरिं राजन्सहायं मे नियोजय॥ ५७ ॥
मूलम्
ततो राज्ञोवचः श्रुत्वा मधुर्वचनमब्रवीत्
जेष्यामि च हरिं राजन्सहायं मे नियोजय॥ ५७ ॥
विश्वास-प्रस्तुतिः
जिते नारायणे देवाः सभयास्त्रिदशा ध्रुवम्
तस्मान्नारायणोऽस्माकं भागः सर्वपुरञ्जयः॥ ५८ ॥
मूलम्
जिते नारायणे देवाः सभयास्त्रिदशा ध्रुवम्
तस्मान्नारायणोऽस्माकं भागः सर्वपुरञ्जयः॥ ५८ ॥
विश्वास-प्रस्तुतिः
ततो धुन्धुश्च सुन्दश्च कालकेयो महाबलः
सहायश्च मधोस्तस्य जेष्यामो माधवं नृप॥ ५९ ॥
मूलम्
ततो धुन्धुश्च सुन्दश्च कालकेयो महाबलः
सहायश्च मधोस्तस्य जेष्यामो माधवं नृप॥ ५९ ॥
विश्वास-प्रस्तुतिः
सर्वदैत्यबले मुख्याश्चत्वारो दृढविक्रमाः
कालमृत्युसमा वीराः सर्वास्त्रविधिपारगाः॥ ६० ॥
मूलम्
सर्वदैत्यबले मुख्याश्चत्वारो दृढविक्रमाः
कालमृत्युसमा वीराः सर्वास्त्रविधिपारगाः॥ ६० ॥
विश्वास-प्रस्तुतिः
बलस्तत्राब्रवीद्वाक्यं यस्मिन्जय उपस्थितः
तं च जेष्यामि जिष्णुं च प्रतिज्ञा मे दृढा नृप॥ ६१ ॥
मूलम्
बलस्तत्राब्रवीद्वाक्यं यस्मिन्जय उपस्थितः
तं च जेष्यामि जिष्णुं च प्रतिज्ञा मे दृढा नृप॥ ६१ ॥
विश्वास-प्रस्तुतिः
नमुचिश्च मुचिश्चैव भ्रातरौ बलदर्पितौ
ऊचतुस्तौ नृपं ह्यावां जेष्यावो वै बलाद्बलौ॥ ६२ ॥
मूलम्
नमुचिश्च मुचिश्चैव भ्रातरौ बलदर्पितौ
ऊचतुस्तौ नृपं ह्यावां जेष्यावो वै बलाद्बलौ॥ ६२ ॥
विश्वास-प्रस्तुतिः
जम्भश्चैवाब्रवीद्वाक्यमिन्द्रमिन्द्रपुरोगमान्
जेष्यामि नात्र सन्देहो दैत्या भवत विज्वराः॥ ६३ ॥
मूलम्
जम्भश्चैवाब्रवीद्वाक्यमिन्द्रमिन्द्रपुरोगमान्
जेष्यामि नात्र सन्देहो दैत्या भवत विज्वराः॥ ६३ ॥
विश्वास-प्रस्तुतिः
त्रिपुरश्चाब्रवीद्वाक्यं जेष्यामि च विनायकम्
तावदूचेऽथ सेनानीर्मयो देवान्तको बली॥ ६४ ॥
मूलम्
त्रिपुरश्चाब्रवीद्वाक्यं जेष्यामि च विनायकम्
तावदूचेऽथ सेनानीर्मयो देवान्तको बली॥ ६४ ॥
विश्वास-प्रस्तुतिः
कुबेरं प्रतिरक्षोभिः सर्वांश्चैव हिरण्यकान्
एतस्मिन्नन्तरे तत्र नारदो मुनिसत्तमः॥ ६५ ॥
मूलम्
कुबेरं प्रतिरक्षोभिः सर्वांश्चैव हिरण्यकान्
एतस्मिन्नन्तरे तत्र नारदो मुनिसत्तमः॥ ६५ ॥
विश्वास-प्रस्तुतिः
गत्वोवाच हिरण्याक्षं जिष्णुदूतोहमागतः
राज्यं त्यज स्ववाचा नः प्राणेषु यदि ते हितम्॥ ६६ ॥
मूलम्
गत्वोवाच हिरण्याक्षं जिष्णुदूतोहमागतः
राज्यं त्यज स्ववाचा नः प्राणेषु यदि ते हितम्॥ ६६ ॥
विश्वास-प्रस्तुतिः
न चेद्युध्यस्व मामद्य न वा गच्छ रसातलम्
ततः कोपादुवाचेदं नारदं मुनिसत्तमम्॥ ६७ ॥
मूलम्
न चेद्युध्यस्व मामद्य न वा गच्छ रसातलम्
ततः कोपादुवाचेदं नारदं मुनिसत्तमम्॥ ६७ ॥
विश्वास-प्रस्तुतिः
अहिंस्यस्त्वं ब्राह्माणाद्य गच्छ तूर्णं ममाग्रतः
देवानां च विपत्तिं च कदनं निधनं पुरः॥ ६८ ॥
मूलम्
अहिंस्यस्त्वं ब्राह्माणाद्य गच्छ तूर्णं ममाग्रतः
देवानां च विपत्तिं च कदनं निधनं पुरः॥ ६८ ॥
विश्वास-प्रस्तुतिः
पश्य विप्र क्षणेनान्तं प्राप्तं हरिहरादिकम्
एवमुक्त्वा स दैत्येन्द्रो बलाध्यक्षमुवाच ह॥ ६९ ॥
मूलम्
पश्य विप्र क्षणेनान्तं प्राप्तं हरिहरादिकम्
एवमुक्त्वा स दैत्येन्द्रो बलाध्यक्षमुवाच ह॥ ६९ ॥
विश्वास-प्रस्तुतिः
सज्जीकृत्य बलं सर्वान्रथांश्चानयत द्रुतम्
दैत्यराजवचः श्रुत्वा बलाध्यक्षः समन्ततः॥ ७० ॥
मूलम्
सज्जीकृत्य बलं सर्वान्रथांश्चानयत द्रुतम्
दैत्यराजवचः श्रुत्वा बलाध्यक्षः समन्ततः॥ ७० ॥
विश्वास-प्रस्तुतिः
बलान्याहूय सहसा सन्त्रस्तास्तूर्णमागताः
कोटिकोटिसहस्राणि अक्षौहिण्यो बलानि च॥ ७१ ॥
मूलम्
बलान्याहूय सहसा सन्त्रस्तास्तूर्णमागताः
कोटिकोटिसहस्राणि अक्षौहिण्यो बलानि च॥ ७१ ॥
विश्वास-प्रस्तुतिः
एकैकस्य च वीरस्य वाहनानि महान्ति च
स्यन्दनानि विचित्राणि गजोष्ट्राश्वखरानपि॥ ७२ ॥
मूलम्
एकैकस्य च वीरस्य वाहनानि महान्ति च
स्यन्दनानि विचित्राणि गजोष्ट्राश्वखरानपि॥ ७२ ॥
विश्वास-प्रस्तुतिः
सिंहव्याघ्रलुलायांश्च समारुह्य ययुस्तदा
वाद्यैः सर्वैश्च भूयिष्ठैः सिंहनादैर्भयानकैः॥ ७३ ॥
मूलम्
सिंहव्याघ्रलुलायांश्च समारुह्य ययुस्तदा
वाद्यैः सर्वैश्च भूयिष्ठैः सिंहनादैर्भयानकैः॥ ७३ ॥
विश्वास-प्रस्तुतिः
दिशस्तु पूरयामासुस्सिन्धुवेलाचला धराः
सर्वलोकाश्च वित्रेसुः समुद्राश्च चकम्पिरे॥ ७४ ॥
मूलम्
दिशस्तु पूरयामासुस्सिन्धुवेलाचला धराः
सर्वलोकाश्च वित्रेसुः समुद्राश्च चकम्पिरे॥ ७४ ॥
विश्वास-प्रस्तुतिः
देवदुन्दुभयो नेदुः सर्वदेवैः समीरिताः
वाद्यैश्च विविधैरन्यैर्वायुपूर्णैर्घनस्वनैः॥ ७५ ॥
मूलम्
देवदुन्दुभयो नेदुः सर्वदेवैः समीरिताः
वाद्यैश्च विविधैरन्यैर्वायुपूर्णैर्घनस्वनैः॥ ७५ ॥
विश्वास-प्रस्तुतिः
सर्वलोकाभयत्रस्ता ये च त्रैलोक्यवासिनः
भ्रष्टकामागताकाशं घोरं तीव्रं महाहवम्॥ ७६ ॥
मूलम्
सर्वलोकाभयत्रस्ता ये च त्रैलोक्यवासिनः
भ्रष्टकामागताकाशं घोरं तीव्रं महाहवम्॥ ७६ ॥
विश्वास-प्रस्तुतिः
परिघैः पाशशूलैश्च खड्गयष्टिपरश्वधैः
शरैश्च निशितैर्घोरैर्जघ्नुरन्योन्यमाहवे॥ ७७ ॥
मूलम्
परिघैः पाशशूलैश्च खड्गयष्टिपरश्वधैः
शरैश्च निशितैर्घोरैर्जघ्नुरन्योन्यमाहवे॥ ७७ ॥
विश्वास-प्रस्तुतिः
शस्त्रास्त्रैर्बहुधामुक्तैर्दिशः सर्वा निरन्तरम्
विगृहेषु धरण्यां च पर्वतेषु जलेषु च॥ ७८ ॥
मूलम्
शस्त्रास्त्रैर्बहुधामुक्तैर्दिशः सर्वा निरन्तरम्
विगृहेषु धरण्यां च पर्वतेषु जलेषु च॥ ७८ ॥
विश्वास-प्रस्तुतिः
देवस्थाने तथाकाशे पर्वताग्रेषु सानुषु
गह्वरेषु महारण्ये तयोर्युद्धमवर्तत॥ ७९ ॥
मूलम्
देवस्थाने तथाकाशे पर्वताग्रेषु सानुषु
गह्वरेषु महारण्ये तयोर्युद्धमवर्तत॥ ७९ ॥
विश्वास-प्रस्तुतिः
पुष्कलादि घनानां च वर्षधारा जलं यथा
पतन्त्यस्त्राणि सैन्येषु शतशोथ सहस्रशः॥ ८० ॥
मूलम्
पुष्कलादि घनानां च वर्षधारा जलं यथा
पतन्त्यस्त्राणि सैन्येषु शतशोथ सहस्रशः॥ ८० ॥
विश्वास-प्रस्तुतिः
केचित्पेतुः पृथिव्यां तु शरैः सम्भिन्नविग्रहाः
शक्तिभिर्मुसलैश्चान्ये छत्रशूलपरश्वधैः॥ ८१ ॥
मूलम्
केचित्पेतुः पृथिव्यां तु शरैः सम्भिन्नविग्रहाः
शक्तिभिर्मुसलैश्चान्ये छत्रशूलपरश्वधैः॥ ८१ ॥
विश्वास-प्रस्तुतिः
पतिताः सम्मुखे शूरा युद्धेषु न्यायवर्तिनः
गच्छन्ति सुरसद्मानि स्वाम्यर्थे ये त्वभीरवः॥ ८२ ॥
मूलम्
पतिताः सम्मुखे शूरा युद्धेषु न्यायवर्तिनः
गच्छन्ति सुरसद्मानि स्वाम्यर्थे ये त्वभीरवः॥ ८२ ॥
विश्वास-प्रस्तुतिः
ये चान्ये कातराः पापा हन्तारो विमुखान्रणे
अन्यायैर्ये च योद्धारस्ते यान्ति यममन्दिरं॥ ८३ ॥
मूलम्
ये चान्ये कातराः पापा हन्तारो विमुखान्रणे
अन्यायैर्ये च योद्धारस्ते यान्ति यममन्दिरं॥ ८३ ॥
विश्वास-प्रस्तुतिः
त्रिदिवस्था गजारोहाः सैन्धवस्थास्तथापरान्
रथस्थांश्च रथारोहाः पदगांश्च पदातयः॥ ८४ ॥
मूलम्
त्रिदिवस्था गजारोहाः सैन्धवस्थास्तथापरान्
रथस्थांश्च रथारोहाः पदगांश्च पदातयः॥ ८४ ॥
विश्वास-प्रस्तुतिः
परस्परं विनिघ्नन्ति शूरा युद्धाभिकाङ्क्षिणः
मुदिताः सत्वसम्पन्ना धर्मिष्ठा बलसंवृताः॥ ८५ ॥
मूलम्
परस्परं विनिघ्नन्ति शूरा युद्धाभिकाङ्क्षिणः
मुदिताः सत्वसम्पन्ना धर्मिष्ठा बलसंवृताः॥ ८५ ॥
विश्वास-प्रस्तुतिः
केषाञ्चिद्वाहवश्छिन्ना मुसलैर्भिन्नमस्तकाः
केशाश्शिरांसि वस्त्राणि निपेतुर्धरणीतले॥ ८६ ॥
मूलम्
केषाञ्चिद्वाहवश्छिन्ना मुसलैर्भिन्नमस्तकाः
केशाश्शिरांसि वस्त्राणि निपेतुर्धरणीतले॥ ८६ ॥
विश्वास-प्रस्तुतिः
मध्यच्छिन्नास्तथा भिन्नाः पेतुरुर्व्यां महाबलाः
खड्गपातैस्तथा चोग्रैश्छ्रिन्नभिन्नाः परश्वधैः॥ ८७ ॥
मूलम्
मध्यच्छिन्नास्तथा भिन्नाः पेतुरुर्व्यां महाबलाः
खड्गपातैस्तथा चोग्रैश्छ्रिन्नभिन्नाः परश्वधैः॥ ८७ ॥
विश्वास-प्रस्तुतिः
गामेव पतिता धीरा दिव्यालङ्कारभूषिताः
प्रदीप्तोभूद्धरादेशो वीरैर्नागैर्हयै रथैः॥ ८८ ॥
मूलम्
गामेव पतिता धीरा दिव्यालङ्कारभूषिताः
प्रदीप्तोभूद्धरादेशो वीरैर्नागैर्हयै रथैः॥ ८८ ॥
विश्वास-प्रस्तुतिः
विविधाभरणैर्नष्टैः पताकाभिश्च केतुभिः
ततो वसुन्धरा सर्वा सशैलवनकानना॥ ८९ ॥
मूलम्
विविधाभरणैर्नष्टैः पताकाभिश्च केतुभिः
ततो वसुन्धरा सर्वा सशैलवनकानना॥ ८९ ॥
विश्वास-प्रस्तुतिः
रुधिरौघप्लुता तत्र विबुधासुरयोर्युधि
क्रव्यादैर्बहुभिस्तत्र खादितो द्रव्यसञ्चयः॥ ९० ॥
मूलम्
रुधिरौघप्लुता तत्र विबुधासुरयोर्युधि
क्रव्यादैर्बहुभिस्तत्र खादितो द्रव्यसञ्चयः॥ ९० ॥
विश्वास-प्रस्तुतिः
लोहितं प्रचुरं पीतं रक्षोभिश्च वृकादिभिः
अन्यैर्महागणैरेव क्षतजं पवनान्वितम्॥ ९१ ॥
मूलम्
लोहितं प्रचुरं पीतं रक्षोभिश्च वृकादिभिः
अन्यैर्महागणैरेव क्षतजं पवनान्वितम्॥ ९१ ॥
विश्वास-प्रस्तुतिः
खादितं प्रीतिमद्भिश्च फेरुगृध्रगणैर्मुदा
एतस्मिन्नन्तरे सूरिः सुरपूज्यो बृहस्पतिः॥ ९२ ॥
मूलम्
खादितं प्रीतिमद्भिश्च फेरुगृध्रगणैर्मुदा
एतस्मिन्नन्तरे सूरिः सुरपूज्यो बृहस्पतिः॥ ९२ ॥
विश्वास-प्रस्तुतिः
मृतसञ्जीवनीविद्यां सुराणां सञ्जजाप ह
विशल्यकरणीं दिव्यां ब्रह्मविद्यां महाबलां॥ ९३ ॥
मूलम्
मृतसञ्जीवनीविद्यां सुराणां सञ्जजाप ह
विशल्यकरणीं दिव्यां ब्रह्मविद्यां महाबलां॥ ९३ ॥
विश्वास-प्रस्तुतिः
ततो धन्वन्तरिर्विद्वान्सुरवैद्यो मनोजवः
औषधैस्तत्प्रयोगैश्च रणे पर्यटते मुदा॥ ९४ ॥
मूलम्
ततो धन्वन्तरिर्विद्वान्सुरवैद्यो मनोजवः
औषधैस्तत्प्रयोगैश्च रणे पर्यटते मुदा॥ ९४ ॥
विश्वास-प्रस्तुतिः
तत्र देवाश्च जीवन्ति ये मृताश्च महाहवे
अव्रणा बलसम्पन्नाः प्रयुध्यन्ति भृशं पुनः॥ ९५ ॥
मूलम्
तत्र देवाश्च जीवन्ति ये मृताश्च महाहवे
अव्रणा बलसम्पन्नाः प्रयुध्यन्ति भृशं पुनः॥ ९५ ॥
विश्वास-प्रस्तुतिः
एवं शतसहस्रं तु गणं दैत्यस्य चोद्धतम्
पतितं पुण्ययोगाच्च शरैर्निर्भिन्नकन्धरम्॥ ९६ ॥
मूलम्
एवं शतसहस्रं तु गणं दैत्यस्य चोद्धतम्
पतितं पुण्ययोगाच्च शरैर्निर्भिन्नकन्धरम्॥ ९६ ॥
विश्वास-प्रस्तुतिः
ततस्तु जयशब्देन नन्दन्ति सिद्धचारणाः
ऋषयः खेचराश्चान्ये ये चैवाप्सरसां गणाः॥ ९७ ॥
मूलम्
ततस्तु जयशब्देन नन्दन्ति सिद्धचारणाः
ऋषयः खेचराश्चान्ये ये चैवाप्सरसां गणाः॥ ९७ ॥
विश्वास-प्रस्तुतिः
गीतिं गायन्ति गन्धर्वाः शशंसुः परमर्षयः
अथ क्रुद्धो महातेजा दैत्यमुख्यो महाबलः॥ ९८ ॥
मूलम्
गीतिं गायन्ति गन्धर्वाः शशंसुः परमर्षयः
अथ क्रुद्धो महातेजा दैत्यमुख्यो महाबलः॥ ९८ ॥
विश्वास-प्रस्तुतिः
कालकेय इति ख्यातः सेनानीर्दैत्यपस्य च
स्यन्दनस्थो महावीर्यो धनुरादाय तत्र च॥ ९९ ॥
मूलम्
कालकेय इति ख्यातः सेनानीर्दैत्यपस्य च
स्यन्दनस्थो महावीर्यो धनुरादाय तत्र च॥ ९९ ॥
जघान सुरसङ्घांस्तान्नर्तयामास भूतले
निरन्तरशरौघेण च्छादितं गगनं तदा१०० 1.65.100
निपतन्ति शराः सैन्ये कोटिकोटि सहस्रशः
निपतन्ति ततो देवाः संयुगेष्वनिवर्तिनः१०१
रुधिरोद्गारिणस्सर्वे सिद्धगन्धर्वकिन्नराः
विशिखैः पीडिता देवा निपेतुर्धरणीतले१०२
केचिच्छरशतैर्भिन्नास्सहस्रैरयुतैस्तथा
पेतुरुर्व्यां महावीर्या ये रणे सुरपुङ्गवाः१०३
व्यथिताश्चाभवन्सर्वे स्यन्दनस्था दिवौकसः
शरैः प्रव्यथितास्ते तु स्थातुं शक्ता न सम्मुखे१०४
तेनावगाहितं सैन्यं गजेनेव सरोवनम्
शरैस्तस्यार्दिता देवा वज्रानलसमप्रभैः१०५
न शेकुः समरे स्थातुं मघवन्तं ययुस्तदा
चित्ररथ इति ख्यातो देवश्शस्त्रभृतां वरः१०६
ययौ स्यन्दनमारुह्य युद्धं प्रति धनुर्धरः
अब्रवीद्वचनं सोपि सेनान्यं तु महासुरम्१०७
यथा हंसि महाशूर सुरसेनां मुदान्वितः
स त्वं प्रशंसनीयश्च शूरोसि सुरसम्मतः१०८
हिरण्याक्षप्रियं कर्म कृतं युद्धे त्वयाधुना
इदानीं मम बाणैश्च गच्छस्व यममन्दिरम्१०९
ततश्च कालकेयस्तु स्मितो वचनमब्रवीत्
पुरैव विजितो देव गणः सर्वः प्रलीलया११०
इदानीं तु स्थितं युद्धे बलं सर्वं तु हेलया
यदि ते निधने प्रीतिरस्तीह सुरपुङ्गव१११
एभिस्त्वां निशितैर्बाणैर्नयामि यममन्दिरम्
इत्युक्त्वा परमक्रुद्धो बाणमन्तकसन्निभम्११२
जघान समरे वीरस्त्रिभिश्चिच्छेद सोम्बरे
पुनर्बाणांश्च समरे योजयित्वा द्रुतं रुषा११३
जघान प्रचुरान्दैत्यांस्तांश्चकर्त्त स लाघवात्
ततोन्योन्यं शरैस्तीक्ष्णैः कालानलसमप्रभैः११४
युद्धे धनुष्मतां श्रेष्ठश्चिच्छेद भुवि वेगतः
तद्युद्धमभवद्देवदैत्ययोर्धर्मतो भृशम्११५
द्रष्टुकामागताः पार्श्वमृषि देवाः सुरोरगाः
एवं शतसहस्राणि बाणानां विधृतानि च११६
अन्योन्यं समरे वीरौ विजयाय विरेजतुः
अथ क्रुद्धो महातेजा गन्धर्वाणां पतिस्तदा११७
त्रिभिर्बिभेद बाणैश्च ललाटे हृदि पञ्चभिः
सप्तभिर्जठरे नाभौ बस्तौ तस्य स पञ्चभिः११८
शरैः सम्पातितो दैत्यो मुग्धः कश्मलतां गतः
शिथिलीकृतचापश्च लेभे सञ्ज्ञां चिराद्बली११९
मधुसञ्ज्ञं त्रिभिर्बाणैस्स बिभेद सुरोत्तमम्
चकर्त्त धनुरस्त्रैश्च दैत्यराजस्य पश्यतः१२०
ततो बाणसहस्रैस्तु कालान्तकसमप्रभैः
बिभेद दैत्यसिंहं तु सुराणामुत्तमो बली१२१
हतचेताः स दैत्येन्द्रो बहुशोणितसंस्रवः
विह्वलो बहुबाणार्तः शूलं जग्राह दानवः१२२
शूलहस्तस्य तस्यैव चतुर्भिस्तुरगान्शरैः
हत्वा च पातयामास त्रिभिर्यन्तारमेव च१२३
जघान शूलमुर्वीष्ठस्ततो गन्धर्वसत्तमम्
विचकर्त्त त्रिभिर्बाणैः शूलं चित्ररथो बली१२४
शूलं च नष्टकं दृष्ट्वा हतभोगमिवोरगम्
गृहीत्वा मुद्गरं घोरं प्रदुद्राव सुरं बली१२५
स मुद्गरं समायातं दैत्यसेनाधिपं तदा
विचकर्त्त शिरो देहादर्धचन्द्रेण सम्भ्रमात्१२६
स पपात महीपृष्ठे सञ्चचाल वसुन्धरा
ततो दैत्यगणाः सर्वे विमुखा विप्रदुद्रुवुः१२७
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे कालकेयवधोनाम
पञ्चषष्टितमोऽध्यायः६५