पुलस्त्य उवाच-
विश्वास-प्रस्तुतिः
एतस्मिन्नन्तरे पूर्वं व्यासशिष्यो महामुनिः
नमस्कृत्य गुरुं भीष्म सञ्जयः परिपृच्छति॥ १ ॥
मूलम्

देवानां पूजनोपायं क्रमं ब्रूहि सुनिश्चितम्
अग्रे पूज्यतमः कोसौ को मध्यो नित्यपूजने॥ २ ॥

अन्ते च पूजा कस्यैव कस्य को वा प्रभावकः
किंवा कं च फलं ब्रह्मन्पूजयित्वा लभेन्नरः॥ ३ ॥

व्यास उवाच-
गणेशं पूजयेदग्रे त्वविघ्नार्थं परे त्विह
विनायकत्वमाप्नोति यथा गौरीसुतो हि सः॥ ४ ॥

पार्वत्यजनयत्पूर्वं सुतौ महेश्वरादिमौ
सर्वलोकधरौ शूरौ देवौ स्कन्दगणाधिपौ॥ ५ ॥
मूलम्
पार्वत्यजनयत्पूर्वं सुतौ महेश्वरादिमौ
सर्वलोकधरौ शूरौ देवौ स्कन्दगणाधिपौ॥ ५ ॥
विश्वास-प्रस्तुतिः
तौ च दृष्ट्वा नगसुता सिध्यर्थं पर्यभाषत
इदं तु मोदकं पुत्रौ देवैर्दत्तं मुदान्वितैः॥ ६ ॥

महाबुद्धीति विख्यातं सुधया परिनिर्मितम्
गुणं चास्य प्रवक्ष्यामि शृणुतं तु समाहितौ॥ ७ ॥

अस्यैवाघ्राणमात्रेण अमरत्वं लभेद्ध्रुवम्
सर्वशास्त्रार्थतत्त्वज्ञः सर्वशस्त्रास्त्रकोविदः॥ ८ ॥

निपुणः सर्वतन्त्रेषु लेखकश्चित्रकृत्सुधीः
ज्ञानविज्ञानतत्त्वज्ञः सर्वज्ञो नात्र संशयः॥ ९ ॥

पुत्रौ धर्मादधिकतां प्राप्य सिद्धिशतं व्रजेत्
यस्तस्य वै प्रदास्यामि पितुस्ते सम्मतं त्विदम्॥ १० ॥

श्रुत्वा मातृमुखादेवं वचः परमकोविदः
स्कन्दस्तीर्थं ययौ सद्यः सर्वं त्रिभुवनस्थितं॥ ११ ॥

बर्हिणं स्वं समारुह्य त्वभिषेकः कृतः क्षणात्
पितरौ प्रदक्षिणं कृत्वा लम्बोदरधरस्सुधीः॥ १२ ॥

तत एव मुदायुक्तः पित्रोरेवाग्रत स्थितः
पुरतश्च तथा स्कन्दो मे देहीति ब्रुवन्स्थितः॥ १३ ॥

ततस्तु तौ समीक्ष्याथ पार्वती विस्मिताब्रवीत्
सर्वतीर्थाभिषेकैस्तु सर्वदेवैर्न तैस्तथा॥ १४ ॥

सर्वयज्ञव्रतैर्मन्त्रैर्योगैरन्यैर्यमैस्तथा
पित्रोरर्चाकृतः कोपि कलां नार्हति षोडशीम्॥ १५ ॥

तस्मात्सुतशतादेषोऽधिकः शतगुणैरपि
अतो ददामि हेरम्बे मोदकं देवनिर्मितम्॥ १६ ॥

अस्यैव कारणादस्य अग्रे पूजा मखेषु च
वेदशास्त्रस्तवादौ च नित्यं पूजाविधासु च ॥ १७ ॥

पार्वत्या सह भूतेशो ददौ तस्मै वरं महत्
अस्यैव पूजनादग्रे देवास्तुष्टा भवन्तु च॥ १८ ॥

सर्वासामपि देवीनां पितॄणां च समन्ततः
तपो भवतु नित्यं च पूजितेऽग्रे गणेश्वरे॥ १९ ॥

ततः सर्वेषु यज्ञेषु पूजयेद्गणपं द्विजः
कोटिकोटिगुणं तेषु देवदेवी वचो यथा॥ २० ॥
मूलम्
ततः सर्वेषु यज्ञेषु पूजयेद्गणपं द्विजः
कोटिकोटिगुणं तेषु देवदेवी वचो यथा॥ २० ॥
विश्वास-प्रस्तुतिः
दत्वा सर्वगुणं पुण्यं देवदेव्या तथा मुदा
कृतं गणाधिपत्यं च सर्वदेवाग्रतस्तदा॥ २१ ॥

तस्मात्प्राज्येषु यज्ञेषु स्तोत्रेषु नित्यपूजने
गणेशं पूजयित्वा तु सर्वसिद्धिं लभेन्नरः॥ २२ ॥

एवं ज्ञात्वा तु देवैस्तु दयितप्राप्ति काम्यया
पूजितश्चाथसर्वैस्तु स्वर्गमोक्षार्थतो ध्रुवम्॥ २३ ॥

नक्ताहारश्चतुर्थ्यां तु पूजयित्वा गणाधिपं
लिङ्गे वा प्रतिमा चित्रे देवः पूज्यो भवेद्यदि॥ २४ ॥

गणाधिप नमस्तुभ्यं सर्वविघ्नप्रशान्तिद
उमानन्दप्रद प्राज्ञ त्राहि मां भवसागरात्॥ २५ ॥

हरानन्दकरध्यान ज्ञानविज्ञानद प्रभो
विघ्नराज नमस्तुभ्यं प्रसन्नो भव सर्वदा॥ २६ ॥

कृतोपवासो गणपं पूजयेद्यो नरो मुदा
सर्वपापविनिर्मुक्तः सुरलोके महीयते॥ २७ ॥

स्तोत्रं तस्य प्रवक्ष्यामि नामद्वादशकं शुभं
ॐनमो गणपतये मन्त्र एष उदाहृतः॥ २८ ॥

गणपतिर्विघ्नराजो लम्बतुण्डो गजाननः
द्वैमातुरश्च हेरम्ब एकदन्तो गणाधिपः॥ २९ ॥

विनायकश्चारुकर्णः पशुपालो भवात्मजः
द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत्॥ ३० ॥

विश्वं तस्य भवेद्वश्यं न च विघ्नं भवेत्क्वचित्
महाप्रेताश्शमं यान्ति पीड्यते व्याधिभिर्न च
सर्वपापाद्विनिर्मुक्तो ह्यक्षयं स्वर्गमश्नुते॥ ३१ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे गणपतिस्तोत्रं नाम
त्रिषष्टितमोऽध्यायः६३