०६२

द्विषष्टितमोऽध्यायः 1.62

विश्वास-प्रस्तुतिः

द्विजाऊचुः-
मज्जनादखिलं पापं क्षयं यान्ति सुनिश्चितम्
महापातकमन्यच्च तदादेशं वदस्व नः॥ १ ॥

मूलम्

पापात्पूतोऽक्षयं नाकमश्नुते दिवि शक्रवत्
सुरयोनेर्न हानिः स्यादुपदेशं वदस्व नः॥ २ ॥

अत्र भोग्यं परं सर्वं मृते स्वर्गे सुरोत्तमः
कलिपापहतानां च स्वर्गसोपानमुच्यते॥ ३ ॥

व्यास उवाच-
गतिं चिन्तयतां विप्रास्तूर्णं सामान्यजन्मनाम्
स्त्रीपुंसामीक्षणाद्यस्माद्गङ्गा पापं व्यपोहति॥ ४ ॥

गङ्गेति स्मरणादेव क्षयं याति च पातकम्
कीर्तनादतिपापानि दर्शनाद्गुरुकल्मषम्॥ ५ ॥

स्नानात्पानाच्च जाह्नव्यां पितॄणां तर्पणात्तथा
महापातकवृन्दानि क्षयं यान्ति दिनेदिने॥ ६ ॥

अग्निना दह्यते तूलं तृणं शुष्कं क्षणाद्यथा
तथा गङ्गाजलस्पर्शात्पुंसां पापं दहेत्क्षणात्॥ ७ ॥

सम्प्राप्नोत्यक्षयं स्वर्गं गङ्गास्नानेन केशवम्
यशो राज्यं लभेत्पुण्यें स्वर्गमन्ते परां गतिम्॥ ८ ॥

पितॄनुद्दिश्य गङ्गायां यस्तु पिण्डं प्रयच्छति
विधिना वाक्यपूर्वेण तस्य पुण्यफलं शृणु॥ ९ ॥

अन्नैकेन तु साहस्रं वर्षं पूज्यः सुरालये
तिलेन द्विगुणं विद्धि तथा मेध्यफलेन च॥ १० ॥

गव्येन विधिना विप्राः स्वर्गस्यान्तो न विद्यते
एवं पिण्डप्रदानेन नित्यं क्रतुशतं भवेत्॥ ११ ॥

पितरो निरयस्था ये धन्यास्ते मर्त्यवासिनः
धनपुत्रयुतारोग्यं सुखसम्मानपूजिताः॥ १२ ॥

रसातलगता ये च ये च कीटा महीतले
स्थावरे पक्षिसङ्घादौ ते मर्त्या धनिनो नृपाः॥ १३ ॥

तत्तत्पुत्रैश्च पौत्रैश्च गोत्रैर्दौहित्रकैस्तथा
जामातृभागिनेयैश्च सुहृन्मित्रैः प्रियाप्रियैः॥ १४ ॥

प्रदीयते जलं पिण्डं यथोपकरणान्वितम्
गङ्गातोयेषु तीरेषु तेषां स्वर्गोऽक्षयो भवेत्॥ १५ ॥

पिण्डादूर्ध्वं स्थिता ये च पितरो मातृगोत्रजाः
भवन्ति सुखिनः सर्वे मर्त्याश्शतसहस्रशः॥ १६ ॥

स्वर्गे तस्य स्थिताः सत्वा अधःस्था मध्यवासिनः
नित्यं वाञ्ञ्छन्ति सद्गङ्गां गच्छन्तु सुरनिम्नगाम्॥ १७ ॥

एको गच्छति गङ्गां यः पूयन्ते तस्य पूरुषाः
एतदेव महापुण्यं तरते तारयत्यपि॥ १८ ॥

गङ्गा कृत्स्नगुणं वक्तुं न शक्तश्चतुराननः
अतः किञ्चिद्वदाम्यत्र भागीरथ्या द्विजा गुणम्॥ १९ ॥

मुनयः सिद्धगन्धर्वा ये चान्ये सुरसत्तमाः
गङ्गातीरे तपस्तप्त्वा स्वर्गलोकेऽच्युताभवन्॥ २० ॥

दिव्येन वपुषा सर्वे कामगेन रथेन च
अद्यापि न निवर्तन्ते रत्नपूर्णक्षयेषु वै॥ २१ ॥

प्रासादा यत्र सौवर्णास्सर्वलोकोर्ध्वगाश्शिवाः
इष्टद्रव्यैः सुसम्पूर्णाः स्त्रियो यत्र मनोरमाः॥ २२ ॥

पारिजातः समाः पुष्पवृक्षाः कल्पद्रुमोपमाः
गङ्गातीरे तपस्तप्त्वा तत्रैश्वर्यं लभन्ति हि॥ २३ ॥

तपोभिर्बहुभिर्यज्ञैर्व्रतैर्नानाविधैस्तथा
पुरुदानैर्गतिर्या च गङ्गां संसेवतां च सा॥ २४ ॥

जारजं पतितं दुष्टमन्त्यजं गुरुघातिनम्
सर्वद्रोहेण संयुक्तं सर्वपातकसंयुतम्॥ २५ ॥

त्यजन्ति पितरं पुत्राः प्रियं पत्न्यः सुहृद्गणाः
अन्ये च बान्धवाः सर्वे गङ्गा तु न परित्यजेत्॥ २६ ॥

यथा माता स्वयं जन्ममलशौचं च कारयेत्
क्रोडीकृत्य तथा तेषां गङ्गा प्रक्षालयेन्मलम्॥ २७ ॥

भवन्ति ते सुविख्याता भोग्यालङ्कारपूजिताः
दर्शने क्रियते गङ्गा सकृद्भक्त्या नरैस्तु यैः॥ २८ ॥

तेषां कुलानां लक्षं तु भवात्तारयते शिवा
स्मृतार्ति हर्त्री यैर्ध्याता संस्तुता साधुमोदिता॥ २९ ॥

गङ्गा तारयते नॄणामुभौ वंशौ भवार्णवात्
सङ्क्रान्तिषु व्यतीपाते ग्रहणे चन्द्रसूर्ययोः॥ ३० ॥

पुण्ये स्नात्वा तु गङ्गायां कुलकोटिं समुद्धरेत्
शुक्लपक्षे दिवामर्त्या गङ्गायामुत्तरायणे॥ ३१ ॥

धन्या देहं विमुञ्चन्ति हृदिस्थे च जनार्दने
अनेन विधिना यस्तु भागीरथ्या जले शुभे॥ ३२ ॥

प्राणांस्त्यक्त्वा व्रजेत्स्वर्गं पुनरावृत्तिवर्जितम्
यो गङ्गानुगतो नित्यं सर्वदेवानुगो हि सः॥ ३३ ॥

सर्वदेवमयो विष्णुर्गङ्गा विष्णुमयी यतः
गङ्गायां पिण्डदानेन पितॄणां वै तिलोदकैः॥ ३४ ॥

नरकस्था दिवं यान्ति स्वर्गस्था मोक्षमाप्नुयुः
परदारपरद्रव्य बाधा द्रोहपरस्य च॥ ३५ ॥

गतिर्मनुष्यमात्रस्य गङ्गैव परमा गतिः
वेदशास्त्रविहीनस्य गुरुनिन्दापरस्य च॥ ३६ ॥

समयाचारहीनस्य नास्ति गङ्गासमा गतिः
किं यज्ञैर्बहुवित्ताढ्यैः किं तपोभिः सुदुष्करैः॥ ३७ ॥

स्वर्गमोक्षप्रदा गङ्गा सुखसौभाग्यपूजिता
नियमैः परमैर्नित्यं किं योगैश्चित्तरोधकैः॥ ३८ ॥

भुक्तिमुक्तिप्रदा गङ्गा सुखमोक्षाग्रतः स्थिता
अनेकजन्मसङ्घात पापं पुंसां विनश्यति॥ ३९ ॥

स्नानमात्रेण गङ्गायां सद्यः स्यात्पुण्यभाङ्नरः
प्रभासे गोसहस्रस्य राहुग्रस्ते दिवाकरे॥ ४० ॥

लभते यत्फलं दाने गङ्गास्नानाद्दिनेदिने
दृष्ट्वा तु हरते पापं स्पृष्ट्वा तु लभते दिवम्॥ ४१ ॥

प्रसङ्गादपि सा गङ्गा मोक्षदा त्ववगाहिता
सर्वेन्द्रियाणां चापल्यं वासनाशक्तिसम्भवम्॥ ४२ ॥

निर्घृणत्वं ततो गङ्गा दर्शनात्प्रविनश्यति
परद्रव्याभिकाङ्क्षित्वं परदाराभिलाषिता॥ ४३ ॥

परधर्मे रुचिश्चैव दर्शनादेव नश्यति
यदृच्छालाभ सन्तोषस्स्वधर्मेषु प्रवर्तते॥ ४४ ॥

सर्वभूतसमत्वं च गङ्गायां मज्जनाद्भवेत्
यस्तु गङ्गां समाश्रित्य सुखं तिष्ठति मानवः॥ ४५ ॥

जीवन्मुक्तस्स एवेह सर्वेषामुत्तमोत्तमः
गङ्गां संश्रित्य यस्तिष्ठेत्तस्य कार्यं न विद्यते॥ ४६ ॥

कृतकृत्यस्स वै मुक्तो जीवन्मुक्तश्च मानवः
यज्ञो दानं तपो जप्यं श्राद्धं च सुरपूजनम्॥ ४७ ॥

गङ्गायां तु कृतं नित्यं कोटिकोटि गुणं भवेत्
अन्यस्थाने कृतं पापं गङ्गातीरे विनश्यति॥ ४८ ॥

गङ्गातीरे कृतं पापं गङ्गास्नानेन नश्यति
आत्मनो जन्मनक्षत्रे जाह्नवीसङ्गते दिने॥ ४९ ॥

नरः स्नात्वा तु गङ्गायां स्वकुलं च समुद्धरेत्
आदरेण यथा स्तौति धनवन्तं सदा नरः५० 1.62.50
सकृद्गङ्गां तथा स्तुत्वा भवेत्स्वर्गस्य भाजनम्
अश्रद्धयापि गङ्गायां योसौ नामानुकीर्तनं॥ ५१ ॥

करोति पुण्यवाहिन्यास्स वै स्वर्गस्य भाजनम्
क्षितौ भावयतो मर्त्यान्नागांस्तारयतेप्यधः॥ ५२ ॥

दिवि तारयते देवान्गङ्गा त्रिपथगा स्मृता
ज्ञानतोज्ञानतो वापि कामतोऽकामतोपि वा॥ ५३ ॥

गङ्गायां च मृतो मर्त्यः स्वर्गं मोक्षं च विन्दति
या गतिर्योगयुक्तस्य सत्वस्थस्य मनीषिणः॥ ५४ ॥

सा गतिस्त्यजतः प्राणान्गङ्गायां तु शरीरिणः
चान्द्रायणसहस्राणि यश्चरेत्कायशोधनम्॥ ५५ ॥

पानं कुर्याद्यथेच्छं च गङ्गाम्भः स विशिष्यते
तावत्प्रभावस्तीर्थानां देवानां तु विशेषतः॥ ५६ ॥

तावत्प्रभावो वेदानां यावन्नाप्नोति जाह्नवीम्
तिस्रः कोट्योर्धकोटी च तीर्थानां वायुरब्रवीत्॥ ५७ ॥

दिविभुव्यन्तरिक्षे च तानि ते सन्ति जाह्नवि
विष्णुपादाब्जसम्भूते गङ्गे त्रिपथगामिनि॥ ५८ ॥

धर्मद्रवेति विख्याते पापं मे हर जाह्नवि
विष्णुपादप्रसूतासि वैष्णवी विष्णुपूजिता॥ ५९ ॥

त्राहि मामेनसस्तस्मादाजन्ममरणान्तिकात्
श्रद्धया धर्मसम्पूर्णे श्रीमता रजसा च ते॥ ६० ॥

अमृतेन महादेवि भागीरथि पुनीहि मां
त्रिभिः श्लोकवरैरेभिर्यः स्नायाज्जाह्नवी जले॥ ६१ ॥

जन्मकोटिकृतात्पापान्मुच्यते नात्र संशयः
मूलमन्त्रं प्रवक्ष्यामि जाह्नव्या हरभाषितम्॥ ६२ ॥

सकृज्जपान्नरः पूतो विष्णुदेहे प्रतिष्ठति
मन्त्रश्चायं-
ॐनमो गङ्गायै विश्वरूपिण्यै नारायण्यै नमोनमः॥ ६३ ॥

जाह्नवीतीरसम्भूतां मृदं मूर्ध्ना बिभर्ति यः
सर्वपापविनिर्मुक्तो गङ्गास्नानं विना नरः॥ ६४ ॥

गङ्गाजलोर्मिनिर्धूत पवनं स्पृशते यदि
स पूतः कल्मषाद्घोरात्स्वर्गं चाक्षयमश्नुते॥ ६५ ॥

यावदस्थि मनुष्यस्य गङ्गातोये प्रतिष्ठति
तावद्वर्षसहस्राणि स्वर्गलोके महीयते॥ ६६ ॥

पित्रोर्बन्धुजनानां च अनाथानां गुरोरपि
गङ्गायामस्थिपातेन नरः स्वर्गान्न हीयते॥ ६७ ॥

गङ्गां प्रतिवहेद्यस्तु पितॄणामस्थिखण्डकम्
पदेपदेश्वमेधस्य फलं प्राप्नोति मानवः॥ ६८ ॥

धन्या जानपदा ये च पशवः पक्षिकीटकाः
स्थावरा जङ्गमाश्चान्ये गङ्गातीरसमाश्रिताः॥ ६९ ॥

क्रोशान्तर मृता ये च जाह्नव्या द्विजसत्तमाः
मानवा देवतास्सन्ति इतरे मानवा भुवि॥ ७० ॥

गङ्गास्नानाय सङ्गच्छन्पथि सम्म्रियते यदि
स च स्वर्गमवाप्नोति गङ्गास्नानफलं लभेत्॥ ७१ ॥

गङ्गाजले प्रयास्यन्ति ते जीवाः पथि ये मृताः
कीटाः पन्तङ्गाश्शलभाः पादाघातेन गच्छतां॥ ७२ ॥

ये वदन्ति समुद्देशं गङ्गां प्रति जनं द्विजाः
ते च यान्ति परं पुण्यं गङ्गास्नानफलं नराः॥ ७३ ॥

जाह्नवीं ये च निन्दन्ति पाषण्डैर्हतचेतसः
ते यान्ति नरकं घोरं पुनरावृत्तिदुर्लभम्॥ ७४ ॥

दुस्थोवापि स्मरन्नित्यं गङ्गेति परिकीर्तयन्
पठन्स्वर्गमवाप्नोति किमन्यैर्बहुभाषितैः॥ ७५ ॥

गङ्गागङ्गेति यो ब्रूयाद्योजनानां शतैरपि
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति॥ ७६ ॥

अन्धाश्च पङ्गवस्ते च वृथाभव समुद्भवाः
गर्भपाताद्विपद्यन्ते ये गङ्गां न गता नराः॥ ७७ ॥

न कीर्तयन्ति ये गङ्गां जडतुल्या नराधमाः
परान्नोपदिशन्ति स्म वातूलाश्चित्तविभ्रमाः॥ ७८ ॥

न पठन्ति जना ये च तेषां शास्त्रं विनिष्फलम्
गङ्गापुण्यफलं विप्राः कुधियः पतिताधमाः॥ ७९ ॥

पाठयन्ति जना ये च श्रद्धया निपठन्ति च
गच्छन्ति ते दिवं धीरास्तारयन्ति पितॄन्गुरून्॥ ८० ॥

पाथेयकं गच्छतां यो वसु शक्त्या प्रयच्छति
भागीरथ्या लभेत्स्नानं यः परान्नेन गच्छति॥ ८१ ॥

कर्तुः स्नानफलं विद्याद्द्विगुणं प्रेरकस्य च
इच्छयानिच्छया चापि प्रेरणेनान्यसेवया॥ ८२ ॥

जाह्नवीं यो गतः पुण्यां स गच्छेन्निर्जरालयम्
द्विजा ऊचुः-
गङ्गायाः कीर्तनं व्यास श्रुतं त्वत्तो विनिर्मलम्॥ ८३ ॥

गङ्गा कस्मात्किमाकारा कुतः सा ह्यतिपावनी
व्यास उवाच-
शृणुध्वं कथयाम्यद्य कथां पुण्यां पुरातनीं॥ ८४ ॥

यां श्रुत्वा मोक्षमार्गं च प्राप्नोति नरसत्तमः
ब्रह्मलोकं पुरा गत्वा नारदो मुनिपुङ्गवः॥ ८५ ॥

नत्वा विधिं च पप्रच्छ पूतं त्रैलोक्यपावनम्
किं सृष्टं च त्वया तात सम्मतं शम्भुकृष्णयोः॥ ८६ ॥

सर्वलोकहितार्थाय भुवःस्थाने समीहितम्
देवी वा देवता का वा सर्वासामुत्तमोत्तमा॥ ८७ ॥

यां समासाद्य देवाश्च दैत्यमानुषपन्नगाः
अण्डजाः स्वेदजा वृक्षा ये चान्य उद्भिज्जादयः॥ ८८ ॥

सर्वे यान्ति शिवं ब्रह्मन्समग्रं विभवं ध्रुवम्
ब्रह्मोवाच-
सृजता च पुरा प्रोक्ता माया प्रकृतिरूपिणी॥ ८९ ॥

आद्या भव स्वलोकानां त्वत्तो भवं सृजाम्यहम्
एतच्छ्रुत्वा परा सा च सप्तधा चाभवत्तदा॥ ९० ॥

गायत्रीवाक्च स्वर्लक्ष्मीस्सर्वसस्य वसुप्रदा
ज्ञानविद्या उमादेवी शक्तिबीजा तपस्विनी॥ ९१ ॥

वर्णिका धर्मद्रवा च एतास्सप्त प्रकीर्तिताः
गायत्रीप्रभवा वेदा वेदात्सर्वं स्थितं जगत्॥ ९२ ॥

स्वस्ति स्वाहा स्वधा दीक्षा एता गायत्रिजा स्मृताः
उच्चारयेत्सदा यज्ञे गायत्रीं मातृकादिभिः॥ ९३ ॥

क्रतौ देवाः स्वधां प्राप्य भवेयुरजरामराः
ततस्सुधारसं देवा मुमुचुर्धरणीतले॥ ९४ ॥

अथ सस्यवती पृथ्वी ओषधीनां परा शुभा
फलमूलैरसैर्भक्ष्यैर्जनाः सुस्थतराभवन्॥ ९५ ॥

भारती सर्वलोकानां चानने मानसे स्थिता
तथैव सर्वशास्त्रेषु धर्मोद्देशं करोति सा॥ ९६ ॥

विज्ञानं कलहं शोकं मोहामोहं शिवाशिवम्
तया विना जगत्सर्वं यात्यतत्त्वमिति स्मृतम्॥ ९७ ॥

कमलासम्भवश्चैव वस्त्रभूषणसञ्चयः
सुखं राज्यं त्रिलोके तु ततः सा हरिवल्लभा॥ ९८ ॥

उमया हेतुना शम्भोर्ज्ञानं लोकेषु सन्ततम्
ज्ञानमाता च सा ज्ञेया शम्भोरर्धाङ्गवासिनी॥ ९९ ॥

वर्णिकाशक्तिरत्युग्रा सर्वलोकप्रमोहिनी
सर्वलोकेषु लोकानां स्थितिसंहारकारिणी१०० 1.62.100
देव्या च निहतौ पूर्वमसुरौ मधुकैटभौ
रुरुश्चापि हतो घोरः सर्वलोकपरिश्रुतः१०१
सर्वदेवैकजेतारं सा जघ्ने महिषासुरम्
निहता लीलया देव्या येऽसुरा दैत्यपुङ्गवाः१०२
एवं बलानि दैत्यानां निहत्य सर्वदा तया
पालितं मोदितं चैव कृत्स्नमेतज्जगत्त्रयम्१०३
धर्मद्रवस्वरूपा च सर्वधर्मप्रतिष्ठिता
महतीं तां समालोक्य मया कमण्डलौ धृता१०४
विष्णुपादाब्जसम्भूता शम्भुना शिरसा धृता
अस्माभिश्च त्रिभिर्युक्ता ब्रह्मविष्णुमहेश्वरैः१०५
धर्मद्रवा परिख्याता जलरूपा कमण्डलौ
बलियज्ञेषु सम्भूता विष्णुना प्रभविष्णुना१०६
छद्मना छलितः पूर्वं बलिर्बलवतां वरः
ततः पादद्वयेनैव क्रान्तं सर्वं महीतलम्१०७
नभः पादश्च ब्रह्माण्डं भित्वा मम पुरः स्थितः
मया सम्पूजितः पादः कमण्डलुजलेन वै१०८
प्रक्षाल्यैवार्चितात्पादाद्धेमकूटेऽपतज्जलम्
तत्कूटाच्छङ्करं प्राप्य भ्रमते सा जटास्थिता१०९
ततो भगीरथेनैव समाराध्य शिवं भुवि
आनीयाराधितो नित्यं तपसा गजपुङ्गवः११०
तेन भित्वा नगं वीर्यात्त्रिभिर्दन्तैः कृतं बिलम्
ततस्त्रिबिलगा यस्मात्त्रिस्रोता लोकविश्रुता१११
हरिब्रह्महरयोगात्पूता लोकस्य पावनी
समासाद्य च तां देवीं सर्वधर्मफलं लभेत्११२
पाठयज्ञपरैः सर्वैर्मन्त्र होम सुरार्चनैः
सा गतिर्न भवेज्जन्तोर्गङ्गा संसेवया च या११३
धर्मस्य साधनोपायो ह्यतः परो न विद्यते
त्रैलोक्यपुण्यसंयोगात्तस्मात्तां व्रज नारद११४
गङ्गातोयास्थिसंयोगात्सुतास्ते सगरस्य च
स्वर्गताः पितृभिश्चैव स्वपूर्वापरजैः सह११५
ततो ब्रह्ममुखाच्छ्रुत्वा नारदो मुनिपुङ्गवः
गङ्गाद्वारे तपः कृत्वा ब्रह्मणा सदृशोभवत्११६
सर्वत्र सुलभा गङ्गा त्रिषुस्थानेषु दुर्लभा
गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे११७
त्रिरात्रेणैकरात्रेण नरो याति परां गतिम्
तस्मात्सर्वप्रयत्नेन सद्यो मुक्तिं विचिन्तयेत्११८
ततो गच्छत धर्मज्ञाः शिवां भागीरथीमिह
अचिरेणैव कालेन स्वर्गं मोक्षं प्रगच्छथ११९
विशेषात्कलिकाले च गङ्गा मोक्षप्रदा नृणां
कृच्छ्राच्च क्षीणसत्वानामनन्तः पुण्यसम्भवः१२०
ततस्ते ब्राह्मणा हृष्टाः श्रुत्वा व्यासाद्गिरं शुभाम्
गङ्गायां तु तपस्तप्त्वा मोक्षमार्गं ययुस्तदा१२१
य इदं शृणुयान्मर्त्यः पुण्याख्यानमनुत्तमम्
सर्वं तरति दुःखौघ गङ्गास्नानफलं लभेत्१२२
सकृदुच्चारिते चैव सर्वयज्ञफलं लभेत्
दानं जप्यं तथा ध्यानं स्तोत्रं मन्त्रं सुरार्चनम्१२३
तत्रैव कारयेद्यस्तु स चानन्तफलं लभेत्
तस्मात्तत्रैव कर्त्तव्यं जपहोमादिकं नरैः१२४
अनन्तं च फलं प्रोक्तं जन्मजन्मसु लभ्यते१२५
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे गङ्गामाहात्म्यन्नाम
द्विषष्टितमोऽध्यायः६२