०६१

एकषष्टितमोऽध्यायः 1.61

विश्वास-प्रस्तुतिः

द्विजाऊचुः-
तुलसीपुष्पमाहात्म्यं श्रुतं त्वत्तो हरेः शुभम्
तस्या स्तोत्रं कृतं पुण्यं श्रोतुमिच्छामहे वयम् ॥ १ ॥

मूलम्

व्यास उवाच-
पुरा स्कन्दपुराणे च यन्मया कीर्तितं द्विजाः
कथयामि पुराणं च पुरतो मोक्षहेतवे ॥ २ ॥

शतानन्द मुनेः शिष्याः सर्वे ते संशितव्रताः
प्रणिपत्य गुरुं विप्राः पप्रच्छुः पुण्यतो हितम् ॥ ३ ॥

पूर्वं ब्रह्ममुखान्नाथ यच्छ्रुतं तुलसीस्तवम्
तद्वयं श्रोतुमिच्छामस्त्वत्तो ब्रह्मविदांवर ॥ ४ ॥

शतानन्द उवाच-
नामोच्चारे कृते तस्याः प्रीणात्यसुरदर्पहा
पापानि विलयं यान्ति पुण्यं भवति चाक्षयम् ॥ ५ ॥

सा कथं तुलसी लोकैः पूज्यते वन्द्यते नहि
दर्शनादेव यस्यास्तु दानं कोटिगवां भवेत् ॥ ६ ॥

धन्यास्ते मानवा लोके यद्गृहे विद्यते कलौ
सालग्रामशिलार्थं तु तुलसी प्रत्यहं क्षितौ ॥ ७ ॥

तुलसीं ये विचिन्वन्ति धन्यास्ते करपल्लवाः
केशवार्थं कलौ ये च रोपयन्तीह भूतले ॥ ८ ॥

किं करिष्यति संरुष्टो यमोपि सह किङ्करैः
तुलसीदलेन देवेशः पूजितो येन दुःखहा ॥ ९ ॥

तीर्थयात्रादिगमनैः फलैः सिध्यति किन्नरः
स्नाने दाने तथा ध्याने प्राशने केशवार्चने ॥ १० ॥

तुलसी दहते पापं कीर्तने रोपणे कलौ
तुलस्यमृतजन्मासि सदा त्वं केशवप्रिये ॥ ११ ॥

केशवार्थं चिनोमि त्वां वरदा भव शोभने
त्वदङ्गसम्भवैर्नित्यं पूजयामि यथाहरिम् ॥ १२ ॥

तथा कुरु पवित्राङ्गि कलौ मलविनाशिनि
मन्त्रेणानेन यः कुर्याद्विचित्य तुलसीदलम् ॥ १३ ॥

पूजनं वासुदेवस्य लक्षकोटिगुणं भवेत्
प्रभावं तव देवेशि गायन्ति सुरसत्तमाः ॥ १४ ॥

मुनयः सिद्धगन्धर्वाः पाताले नागराट्स्वयम्
न ते प्रभावं जानन्ति देवताः केशवादृते ॥ १५ ॥

गुणानां परिमाणं तु कल्पकोटिशतैरपि
कृष्णानन्दात्समुद्भूता क्षीरोदमथनोद्यमे ॥ १६ ॥

उत्तमाङ्गे पुरा येन तुलसी विष्णुना धृता
प्राप्यैतानि त्वया देवि विष्णोरङ्गानि सर्वशः ॥ १७ ॥

पवित्रता त्वया प्राप्ता तुलसीं त्वां नमाम्यहम्
त्वदङ्गसम्भवैः पत्रैः पूजयामि यथा हरिम् ॥ १८ ॥

तथा कुरुष्व मेऽविघ्नं यतो यामि परां गतिम्
रोपिता गोमतीतीरे स्वयं कृष्णेन पालिता ॥ १९ ॥

जगद्धिताय तुलसी गोपीनां हितहेतवे
वृन्दावने विचरता सेविता विष्णुना स्वयम् ॥ २० ॥

गोकुलस्य विवृद्ध्यर्थं कंसस्य निधनाय च
वसिष्ठवचनात्पूर्वं रामेण सरयूतटे ॥ २१ ॥

मूलम्

गोकुलस्य विवृद्ध्यर्थं कंसस्य निधनाय च
वसिष्ठवचनात्पूर्वं रामेण सरयूतटे ॥ २१ ॥

विश्वास-प्रस्तुतिः

राक्षसानां वधार्थाय रोपिता त्वं जगत्प्रिये
रोपिता तपसो वृद्ध्यै तुलसीं त्वां नमाम्यहम् ॥ २२ ॥

वियोगे वासुदेवस्य ध्यात्वा त्वां जनकात्मजा
अशोकवनमध्ये तु प्रियेण सह सङ्गता ॥ २३ ॥

शङ्करार्थं पुरा देवि पार्वत्या त्वं हिमालये
रोपिता तपसो वृद्ध्यै तुलसीं त्वां नमाम्यहम् ॥ २४ ॥

सर्वाभिर्देवपत्नीभिः किन्नरैश्चापि नन्दने
दुःस्वप्ननाशनार्थाय सेविता त्वं नमोस्तु ते ॥ २५ ॥

धर्मारण्ये गयायां च सेविता पितृभिः स्वयम्
सेविता तुलसी पुण्या आत्मनो हितमिच्छता ॥ २६ ॥

रोपिता रामचन्द्रेण सेविता लक्ष्मणेन च
पालिता सीतया भक्त्या तुलसी दण्डके वने ॥ २७ ॥

त्रैलोक्यव्यापिनी गङ्गा यथा शास्त्रेषु गीयते
तथैव तुलसी देवी दृश्यते सचराचरे ॥ २८ ॥

ऋश्यमूके च वसता कपिराजेन सेविता
तुलसी वालिनाशाय तारासङ्गम हेतवे ॥ २९ ॥

मूलम्

ऋश्यमूके च वसता कपिराजेन सेविता
तुलसी वालिनाशाय तारासङ्गम हेतवे ॥ २९ ॥

विश्वास-प्रस्तुतिः

प्रणम्य तुलसीदेवीं सागरोत्क्रमणं कृतम्
कृतकार्यः प्रहृष्टश्च हनूमान्पुनरागतः ॥ ३० ॥

तुलसीग्रहणं कृत्वा विमुक्तो याति पातकैः
अथवा मुनिशार्दूल ब्रह्महत्यां व्यपोहति ॥ ३१ ॥

तुलसीपत्रगलितं यस्तोयं शिरसा वहेत्
गङ्गास्नानमवाप्नोति दशधेनुफलप्रदम् ॥ ३२ ॥

प्रसीद देवि देवेशि प्रसीद हरिवल्लभे
क्षीरोदमथनोद्भूते तुलसि त्वां नमाम्यहम् ॥ ३३ ॥

द्वादश्यां जागरे रात्रौ यः पठेत्तुलसीस्तवम्
द्वात्रिंशदपराधांश्च क्षमते तस्य केशवः ॥ ३४ ॥

यत्पापं यौवने बाल्ये कौमारे वार्द्धके कृतम्
तत्सर्वं विलयं याति तुलसीस्तव पाठतः ॥ ३५ ॥

प्रीतिमायाति देवेशस्तुष्टो लक्ष्मीं प्रयच्छति
कुरुते शत्रुनाशं च सुखं विद्यां प्रयच्छति॥ ३६ ॥

तुलसीनाममात्रेण देवा यच्छन्ति वाञ्छितम्
गर्ह्याणमपि देवेशो मुक्तिं यच्छति देहिनाम् ॥ ३७ ॥

तुलसी स्तवसन्तुष्टा सुखं वृद्धिं ददाति च
उद्गतं हेलया विद्धि पापं यमपथे स्थितम् ॥ ३८ ॥

यस्मिन्गृहे च लिखितो विद्यते तुलसीस्तवः
नाशुभं विद्यते तस्य शुभमाप्नोति निश्चितम् ॥ ३९ ॥

सर्वं च मङ्गलं तस्य नास्ति किञ्चिदमङ्गलम्
सुभिक्षं सर्वदा तस्य धनं धान्यं च पुष्कलम् ॥ ४० ॥

निश्चला केशवे भक्तिर्न वियोगश्च वैष्णवैः
जीवति व्याधिनिर्मुक्तो नाधर्मे जायते मतिः ॥ ४१ ॥

मूलम्

निश्चला केशवे भक्तिर्न वियोगश्च वैष्णवैः
जीवति व्याधिनिर्मुक्तो नाधर्मे जायते मतिः ॥ ४१ ॥

विश्वास-प्रस्तुतिः

द्वादश्यां जागरे रात्रौ यः पठेत्तुलसीस्तवम्
तीर्थकोटिसहस्रैस्तु यत्फलं लक्षकोटिभिः ॥ ४२ ॥

तत्फलं समवाप्नोति पठित्वा तुलसीस्तवम् ॥ ४३ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे तुलसीस्तवमाहात्म्यं नामैकषष्टितमोऽध्यायः ६१