०६०

स्कन्दउवाच-

विश्वास-प्रस्तुतिः

अपरस्यापि पृच्छामि फलस्य पूततां तरोः
सर्वलोकहितार्थाय वद नो जगदीश्वर॥ १ ॥

मूलम्

अपरस्यापि पृच्छामि फलस्य पूततां तरोः
सर्वलोकहितार्थाय वद नो जगदीश्वर॥ १ ॥

विश्वास-प्रस्तुतिः

ईश्वर उवाच-
धात्रीफलं परं पूतं सर्वलोकेषु विश्रुतम्
यस्य रोपान्नरो नारी मुच्यते जन्मबन्धनात्॥ २ ॥

मूलम्

ईश्वर उवाच-
धात्रीफलं परं पूतं सर्वलोकेषु विश्रुतम्
यस्य रोपान्नरो नारी मुच्यते जन्मबन्धनात्॥ २ ॥

विश्वास-प्रस्तुतिः

पावनं वासुदेवस्य फलं प्रीतिकरं शुभम्
अस्य भक्षणमात्रेण मुच्यते सर्वकल्मषात्॥ ३ ॥

मूलम्

पावनं वासुदेवस्य फलं प्रीतिकरं शुभम्
अस्य भक्षणमात्रेण मुच्यते सर्वकल्मषात्॥ ३ ॥

विश्वास-प्रस्तुतिः

भक्षणे च भवेदायुः पाने वै धर्मसञ्चयः
अलक्ष्मीनाशनं स्नाने सर्वैश्वर्यमवाप्नुयात्॥ ४ ॥

मूलम्

भक्षणे च भवेदायुः पाने वै धर्मसञ्चयः
अलक्ष्मीनाशनं स्नाने सर्वैश्वर्यमवाप्नुयात्॥ ४ ॥

विश्वास-प्रस्तुतिः

यस्मिन्गृहे महासेन धात्री तिष्ठति सर्वदा
तस्मिन्गृहे न गच्छन्ति प्रेता दैतेय राक्षसाः ॥ ५ ॥

मूलम्

यस्मिन्गृहे महासेन धात्री तिष्ठति सर्वदा
तस्मिन्गृहे न गच्छन्ति प्रेता दैतेय राक्षसाः ॥ ५ ॥

विश्वास-प्रस्तुतिः

न गङ्गा न गया चैव न काशी न च पुष्करम्
एकैव हि नृणां धात्री सम्प्राप्ते हरिवासरे ॥ ६ ॥

मूलम्

न गङ्गा न गया चैव न काशी न च पुष्करम्
एकैव हि नृणां धात्री सम्प्राप्ते हरिवासरे ॥ ६ ॥

विश्वास-प्रस्तुतिः

एकादश्यां पक्षयुगे धात्रीस्नानं करोति यः
सर्वपापक्षयं यान्ति विष्णुलोके महीयते ॥ ७ ॥

मूलम्

एकादश्यां पक्षयुगे धात्रीस्नानं करोति यः
सर्वपापक्षयं यान्ति विष्णुलोके महीयते ॥ ७ ॥

विश्वास-प्रस्तुतिः

धात्रीफलं सदा सेव्यं भक्षणे स्नान एव च
नियतं पारणे विष्णोः स्नानमात्रे हरेर्दिने ॥ ८ ॥

मूलम्

धात्रीफलं सदा सेव्यं भक्षणे स्नान एव च
नियतं पारणे विष्णोः स्नानमात्रे हरेर्दिने ॥ ८ ॥

विश्वास-प्रस्तुतिः

संयते पारणे चैव धात्र्येकस्पर्शने नरः
भुक्त्वा तु लङ्घयेद्यस्तु एकादश्यां सितासिते ॥ ९ ॥

मूलम्

संयते पारणे चैव धात्र्येकस्पर्शने नरः
भुक्त्वा तु लङ्घयेद्यस्तु एकादश्यां सितासिते ॥ ९ ॥

विश्वास-प्रस्तुतिः

एकेनैवोपवासेन कृतेन तु षडानन
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥ १० ॥

मूलम्

एकेनैवोपवासेन कृतेन तु षडानन
सप्तजन्मकृतात्पापान्मुच्यते नात्र संशयः ॥ १० ॥

विश्वास-प्रस्तुतिः

अक्षयं लभते स्वर्गं विष्णुसायुज्यमाव्रजेत्
तस्मात्सर्वप्रयत्नेन धात्रीव्रतं समाचर ॥ ११ ॥

मूलम्

अक्षयं लभते स्वर्गं विष्णुसायुज्यमाव्रजेत्
तस्मात्सर्वप्रयत्नेन धात्रीव्रतं समाचर ॥ ११ ॥

विश्वास-प्रस्तुतिः

धात्रीद्रवेण सततं यस्य केशाः सुरञ्जिताः
न पिबेत्स पुनर्मातुः स्तनं कश्चित्षडानन ॥ १२ ॥

मूलम्

धात्रीद्रवेण सततं यस्य केशाः सुरञ्जिताः
न पिबेत्स पुनर्मातुः स्तनं कश्चित्षडानन ॥ १२ ॥

विश्वास-प्रस्तुतिः

धात्रीदर्शनसंस्पर्शान्नाम्न उच्चारणेपि वा
वरदः सम्मुखो विष्णुः सन्तुष्टो भवति प्रियः ॥ १३ ॥

मूलम्

धात्रीदर्शनसंस्पर्शान्नाम्न उच्चारणेपि वा
वरदः सम्मुखो विष्णुः सन्तुष्टो भवति प्रियः ॥ १३ ॥

विश्वास-प्रस्तुतिः

धात्रीफलं च यत्रास्ते तत्र तिष्ठति केशवः
तत्र ब्रह्मा स्थिरा पद्मा तस्मात्तां तु गृहे न्यसेत् ॥ १४ ॥

मूलम्

धात्रीफलं च यत्रास्ते तत्र तिष्ठति केशवः
तत्र ब्रह्मा स्थिरा पद्मा तस्मात्तां तु गृहे न्यसेत् ॥ १४ ॥

विश्वास-प्रस्तुतिः

अलक्ष्मीर्नश्यते तत्र यत्र धात्री प्रतिष्ठति
सन्तुष्टास्सर्वदेवाश्च न त्यजन्ति क्षणं मुदा॥ १५ ॥

मूलम्

अलक्ष्मीर्नश्यते तत्र यत्र धात्री प्रतिष्ठति
सन्तुष्टास्सर्वदेवाश्च न त्यजन्ति क्षणं मुदा॥ १५ ॥

विश्वास-प्रस्तुतिः

धात्रीफलेन नैवेद्यं यो ददाति महाधनम्
तस्य तुष्टो भवेद्विष्णुर्नान्यैः क्रतुशतैरपि ॥ १६ ॥

मूलम्

धात्रीफलेन नैवेद्यं यो ददाति महाधनम्
तस्य तुष्टो भवेद्विष्णुर्नान्यैः क्रतुशतैरपि ॥ १६ ॥

विश्वास-प्रस्तुतिः

स्नात्वा धात्रीद्रवेणैव पूजयेद्यस्तु माधवम्
सोभीष्टफलमाप्नोति यद्वा मनसि वर्तते ॥ १७ ॥

मूलम्

स्नात्वा धात्रीद्रवेणैव पूजयेद्यस्तु माधवम्
सोभीष्टफलमाप्नोति यद्वा मनसि वर्तते ॥ १७ ॥

विश्वास-प्रस्तुतिः

तथैव लक्षणं स्मृत्वा पूजयित्वा फलेन तु
सुवर्णशतसाहस्रं फलमेति नरोत्तमः ॥ १८ ॥

मूलम्

तथैव लक्षणं स्मृत्वा पूजयित्वा फलेन तु
सुवर्णशतसाहस्रं फलमेति नरोत्तमः ॥ १८ ॥

विश्वास-प्रस्तुतिः

या गतिर्ज्ञानिनां स्कन्द मुनीनां योगसेविनाम्
गतिं तां समवाप्नोति धात्रीसेवा रतो नरः॥ १९ ॥

मूलम्

या गतिर्ज्ञानिनां स्कन्द मुनीनां योगसेविनाम्
गतिं तां समवाप्नोति धात्रीसेवा रतो नरः॥ १९ ॥

विश्वास-प्रस्तुतिः

तीर्थसेवाभिगमने व्रतैश्च विविधैस्तथा
सा गतिर्लभ्यते पुंसां धात्रीफलसुसेवया॥ २० ॥

मूलम्

तीर्थसेवाभिगमने व्रतैश्च विविधैस्तथा
सा गतिर्लभ्यते पुंसां धात्रीफलसुसेवया॥ २० ॥

विश्वास-प्रस्तुतिः

प्रीतिश्च सर्वदेवानां देवीनां नो गणस्य च
सम्मुखा वरदा स्नाने धात्रीफलनिषेवणे ॥ २१ ॥

मूलम्

प्रीतिश्च सर्वदेवानां देवीनां नो गणस्य च
सम्मुखा वरदा स्नाने धात्रीफलनिषेवणे ॥ २१ ॥

विश्वास-प्रस्तुतिः

ग्रहा दुष्टाश्च ये केचिदुग्राश्च दैत्यराक्षसाः
सर्वे न दुष्टतां यान्तिधात्रीफल सुसेवनात् ॥ २२ ॥

मूलम्

ग्रहा दुष्टाश्च ये केचिदुग्राश्च दैत्यराक्षसाः
सर्वे न दुष्टतां यान्तिधात्रीफल सुसेवनात् ॥ २२ ॥

विश्वास-प्रस्तुतिः

सर्वयज्ञेषु कार्येषु शस्तं चामलकीफलम्
सर्वदेवस्य पूजायां वर्जयित्वा रविं सुत ॥ २३ ॥

मूलम्

सर्वयज्ञेषु कार्येषु शस्तं चामलकीफलम्
सर्वदेवस्य पूजायां वर्जयित्वा रविं सुत ॥ २३ ॥

विश्वास-प्रस्तुतिः

तस्माद्रविदिने तात सप्तम्यां च विशेषतः
धात्रीफलानि सततं दूरतः परिवर्जयेत् ॥ २४ ॥

मूलम्

तस्माद्रविदिने तात सप्तम्यां च विशेषतः
धात्रीफलानि सततं दूरतः परिवर्जयेत् ॥ २४ ॥

विश्वास-प्रस्तुतिः

यस्तु स्नाति तथाश्नाति धात्रीं च रविवासरे
आयुर्वित्तं कलत्रं च सर्वं तस्य विनश्यति ॥ २५ ॥

मूलम्

यस्तु स्नाति तथाश्नाति धात्रीं च रविवासरे
आयुर्वित्तं कलत्रं च सर्वं तस्य विनश्यति ॥ २५ ॥

विश्वास-प्रस्तुतिः

सङ्क्रान्तौ च भृगोर्वारे षष्ठ्यां प्रतिपिदि(?) ध्रुवम्
नवम्यां चाप्यमायां च धात्रीं दूरात्परित्यजेत्॥ २६ ॥

मूलम्

सङ्क्रान्तौ च भृगोर्वारे षष्ठ्यां प्रतिपिदि(?) ध्रुवम्
नवम्यां चाप्यमायां च धात्रीं दूरात्परित्यजेत्॥ २६ ॥

विश्वास-प्रस्तुतिः

नासिकाकर्णतुण्डेषु मृतस्य चिकुरेषु वा
तिष्ठेद्धात्रीफलं यस्य स याति विष्णुमन्दिरम्॥ २७ ॥

मूलम्

नासिकाकर्णतुण्डेषु मृतस्य चिकुरेषु वा
तिष्ठेद्धात्रीफलं यस्य स याति विष्णुमन्दिरम्॥ २७ ॥

विश्वास-प्रस्तुतिः

धात्रीसम्पर्कमात्रेण मृतो यात्यच्युतालयम्
सर्वपापक्षयस्तस्य स्वर्गं याति रथेन तु॥ २८ ॥

मूलम्

धात्रीसम्पर्कमात्रेण मृतो यात्यच्युतालयम्
सर्वपापक्षयस्तस्य स्वर्गं याति रथेन तु॥ २८ ॥

विश्वास-प्रस्तुतिः

धात्रीद्रवं नरो लिप्त्वा यस्तु स्नानं समाचरेत्
पदेपदेश्वमेधस्य फलं प्राप्नोति धार्मिकः॥ २९ ॥

मूलम्

धात्रीद्रवं नरो लिप्त्वा यस्तु स्नानं समाचरेत्
पदेपदेश्वमेधस्य फलं प्राप्नोति धार्मिकः॥ २९ ॥

विश्वास-प्रस्तुतिः

अस्य दर्शनमात्रेण ये वै पापिष्ठजन्तवः
सर्वे ते प्रपलायन्ते ग्रहा दुष्टाश्च दारुणाः॥ ३० ॥

मूलम्

अस्य दर्शनमात्रेण ये वै पापिष्ठजन्तवः
सर्वे ते प्रपलायन्ते ग्रहा दुष्टाश्च दारुणाः॥ ३० ॥

विश्वास-प्रस्तुतिः

पुरैकः पुल्कसः स्कन्द मृगयार्थं वनं गतः
मृगपक्षिगणान्हत्वा तृषया परिपीडितः॥ ३१ ॥

मूलम्

पुरैकः पुल्कसः स्कन्द मृगयार्थं वनं गतः
मृगपक्षिगणान्हत्वा तृषया परिपीडितः॥ ३१ ॥

विश्वास-प्रस्तुतिः

क्षुधयामलकीवृक्षं पुरः पीनफलान्वितम्
दृष्ट्वा संरुह्य सहसा चखाद फलमुत्तमम्॥ ३२ ॥

मूलम्

क्षुधयामलकीवृक्षं पुरः पीनफलान्वितम्
दृष्ट्वा संरुह्य सहसा चखाद फलमुत्तमम्॥ ३२ ॥

विश्वास-प्रस्तुतिः

ततो दैवात्सवृक्षाग्रान्निपपात महीतले
वेदनागाढसंविद्धः पञ्चत्वमगमत्तदा॥ ३३ ॥

मूलम्

ततो दैवात्सवृक्षाग्रान्निपपात महीतले
वेदनागाढसंविद्धः पञ्चत्वमगमत्तदा॥ ३३ ॥

विश्वास-प्रस्तुतिः

ततः प्रेतगणाः सर्वे रक्षोभूतगणास्तथा
तनुं वोढुं मुदा सर्वे ये वै शमनसेवकाः॥ ३४ ॥

मूलम्

ततः प्रेतगणाः सर्वे रक्षोभूतगणास्तथा
तनुं वोढुं मुदा सर्वे ये वै शमनसेवकाः॥ ३४ ॥

विश्वास-प्रस्तुतिः

न शक्नुवन्ति चाण्डालं मृतं द्रष्टुं महाबलाः
अन्योन्यं विग्रहस्तेषां ममायमिति भाषताम्॥ ३५ ॥

मूलम्

न शक्नुवन्ति चाण्डालं मृतं द्रष्टुं महाबलाः
अन्योन्यं विग्रहस्तेषां ममायमिति भाषताम्॥ ३५ ॥

विश्वास-प्रस्तुतिः

ग्रहीतुं चापि नेतुं च न शक्तास्ते परस्परम्
ततस्ते तु समालोक्य गता मुनिगणान्प्रति॥ ३६ ॥

मूलम्

ग्रहीतुं चापि नेतुं च न शक्तास्ते परस्परम्
ततस्ते तु समालोक्य गता मुनिगणान्प्रति॥ ३६ ॥

विश्वास-प्रस्तुतिः

प्रेता ऊचुः-
किमर्थं मुनयो धीराश्चाण्डालं पापकारिणम्
प्रेक्षितुं न वयं शक्ता न चापि यमसेवकाः॥ ३७ ॥

मूलम्

प्रेता ऊचुः-
किमर्थं मुनयो धीराश्चाण्डालं पापकारिणम्
प्रेक्षितुं न वयं शक्ता न चापि यमसेवकाः॥ ३७ ॥

विश्वास-प्रस्तुतिः

म्रियन्ते पातिता ये च स्थिरैर्युद्धपराङ्मुखाः
साहसैः पातिता भीता वज्राग्निकाष्ठपीडिताः॥ ३८ ॥

मूलम्

म्रियन्ते पातिता ये च स्थिरैर्युद्धपराङ्मुखाः
साहसैः पातिता भीता वज्राग्निकाष्ठपीडिताः॥ ३८ ॥

विश्वास-प्रस्तुतिः

सिंहव्याघ्रहता मर्त्या व्याघ्रैर्वा जलजन्तुभिः
जलस्थलस्थिताः प्रेताः वृक्षपर्वतपातिताः॥ ३९ ॥

मूलम्

सिंहव्याघ्रहता मर्त्या व्याघ्रैर्वा जलजन्तुभिः
जलस्थलस्थिताः प्रेताः वृक्षपर्वतपातिताः॥ ३९ ॥

विश्वास-प्रस्तुतिः

पशुपक्षिहता ये च कारागारे गरे मृताः
आत्मघातमृता ये च श्राद्धादिकर्मवर्जिताः॥ ४० ॥

मूलम्

पशुपक्षिहता ये च कारागारे गरे मृताः
आत्मघातमृता ये च श्राद्धादिकर्मवर्जिताः॥ ४० ॥

विश्वास-प्रस्तुतिः

गूढकर्ममृता धूर्ता गुरुविप्रनृपद्विषः
पाषण्डाः कौलिकाः क्रूरा गरदाः कूटसाक्षिणः॥ ४१ ॥

मूलम्

गूढकर्ममृता धूर्ता गुरुविप्रनृपद्विषः
पाषण्डाः कौलिकाः क्रूरा गरदाः कूटसाक्षिणः॥ ४१ ॥

विश्वास-प्रस्तुतिः

आशौचान्नस्य भोक्तारः प्रेतभोग्या न संशयः
ममायमिति भाषन्तो नेतुं तं च न शक्नुमः॥ ४२ ॥

मूलम्

आशौचान्नस्य भोक्तारः प्रेतभोग्या न संशयः
ममायमिति भाषन्तो नेतुं तं च न शक्नुमः॥ ४२ ॥

विश्वास-प्रस्तुतिः

आदित्य इव दुष्प्रेक्ष्यः किंवा कस्य प्रभावतः
मुनय ऊचुः-
अनेन भक्षितं प्रेताः पक्वं चामलकीफलम्॥ ४३ ॥

मूलम्

आदित्य इव दुष्प्रेक्ष्यः किंवा कस्य प्रभावतः
मुनय ऊचुः-
अनेन भक्षितं प्रेताः पक्वं चामलकीफलम्॥ ४३ ॥

विश्वास-प्रस्तुतिः

तत्सङ्गं यान्ति तस्यैव फलानि प्रचुराणि च
तेनैव कारणेनायं दुष्प्रेक्ष्यो भवतां ध्रुवम्॥ ४४ ॥

मूलम्

तत्सङ्गं यान्ति तस्यैव फलानि प्रचुराणि च
तेनैव कारणेनायं दुष्प्रेक्ष्यो भवतां ध्रुवम्॥ ४४ ॥

विश्वास-प्रस्तुतिः

वृक्षाग्रपतितस्याथ प्राणः स्नेहान्न च त्यजेत्
नायं चारेण सूर्यस्य न चान्ये पापकारिणः॥ ४५ ॥

मूलम्

वृक्षाग्रपतितस्याथ प्राणः स्नेहान्न च त्यजेत्
नायं चारेण सूर्यस्य न चान्ये पापकारिणः॥ ४५ ॥

विश्वास-प्रस्तुतिः

धात्रीभक्षणमात्रेण पापात्पूतो व्रजेद्दिवम्
प्रेता ऊचुः-
पृच्छामो वो ह्यविज्ञानान्न वयं निन्दकाः क्वचित्॥ ४६ ॥

मूलम्

धात्रीभक्षणमात्रेण पापात्पूतो व्रजेद्दिवम्
प्रेता ऊचुः-
पृच्छामो वो ह्यविज्ञानान्न वयं निन्दकाः क्वचित्॥ ४६ ॥

विश्वास-प्रस्तुतिः

विष्णुलोकाद्विमानं तु यावन्नैवात्र गच्छति
उच्यतां मुनिशार्दूला वो द्रुतं मनसि स्थितम्॥ ४७ ॥

मूलम्

विष्णुलोकाद्विमानं तु यावन्नैवात्र गच्छति
उच्यतां मुनिशार्दूला वो द्रुतं मनसि स्थितम्॥ ४७ ॥

विश्वास-प्रस्तुतिः

यावद्द्विजा न घोषन्ति वेदमन्त्रादिकल्पितम्
घोष्यन्ते यत्र वेदाश्च मन्त्राणि विविधानि च॥ ४८ ॥

मूलम्

यावद्द्विजा न घोषन्ति वेदमन्त्रादिकल्पितम्
घोष्यन्ते यत्र वेदाश्च मन्त्राणि विविधानि च॥ ४८ ॥

विश्वास-प्रस्तुतिः

पुराणस्मृतयो यत्र क्षणं स्थातुं न शक्नुमः
यज्ञहोमजपस्थानदेवतार्चनकर्मणाम्॥ ४९ ॥

मूलम्

पुराणस्मृतयो यत्र क्षणं स्थातुं न शक्नुमः
यज्ञहोमजपस्थानदेवतार्चनकर्मणाम्॥ ४९ ॥

विश्वास-प्रस्तुतिः

पुरतो वै न तिष्ठामस्तस्माद्वृत्तं समुच्यताम्
किं वै कृत्वा प्रेतयोनिं लभन्ते हि नरा द्विजाः५० 1.60.50
श्रोतुमिच्छामहे सम्यक्कथं वै विकृतं वपुः
द्विजा ऊचुः-
शीतवातातपक्लेशैः क्षुत्पिपासाविशेषकैः॥ ५१ ॥

अन्यैरपि च दुःखैर्ये पीडिताः कूटसाक्षिणः
वधबन्धप्रमीताश्च प्रेतास्ते निरयं गताः॥ ५२ ॥

मूलम्

अन्यैरपि च दुःखैर्ये पीडिताः कूटसाक्षिणः
वधबन्धप्रमीताश्च प्रेतास्ते निरयं गताः॥ ५२ ॥

विश्वास-प्रस्तुतिः

छिद्रान्वेषपरा ये च द्विजानां कर्मघातिनः
तथैव च गुरूणां च ते प्रेताश्चापुनर्भवाः॥ ५३ ॥

मूलम्

छिद्रान्वेषपरा ये च द्विजानां कर्मघातिनः
तथैव च गुरूणां च ते प्रेताश्चापुनर्भवाः॥ ५३ ॥

विश्वास-प्रस्तुतिः

दीयमाने द्विजाग्र्ये तु दातारं प्रतिविध्यति
चिरं प्रेतत्वमाश्रित्य नरकान्न निवर्तते॥ ५४ ॥

मूलम्

दीयमाने द्विजाग्र्ये तु दातारं प्रतिविध्यति
चिरं प्रेतत्वमाश्रित्य नरकान्न निवर्तते॥ ५४ ॥

विश्वास-प्रस्तुतिः

परस्य वाऽत्मनो वा गां कृत्वा पीडनवाहने
न पालयन्ति ये मूढास्ते प्रेताः कर्मजा भुवि॥ ५५ ॥

मूलम्

परस्य वाऽत्मनो वा गां कृत्वा पीडनवाहने
न पालयन्ति ये मूढास्ते प्रेताः कर्मजा भुवि॥ ५५ ॥

विश्वास-प्रस्तुतिः

हीनप्रतिज्ञाश्चासत्यास्तथा भग्नव्रता नराः
नलिनीदलभुक्ताश्च ते प्रेताः कर्मजा भुवि॥ ५६ ॥

मूलम्

हीनप्रतिज्ञाश्चासत्यास्तथा भग्नव्रता नराः
नलिनीदलभुक्ताश्च ते प्रेताः कर्मजा भुवि॥ ५६ ॥

विश्वास-प्रस्तुतिः

विक्रीणन्ति सुतां शुद्धां स्त्रियं साध्वीमकण्टकाम्
पितृव्यमातुलादेश्च ते प्रेताः कर्मजा भुवि॥ ५७ ॥

मूलम्

विक्रीणन्ति सुतां शुद्धां स्त्रियं साध्वीमकण्टकाम्
पितृव्यमातुलादेश्च ते प्रेताः कर्मजा भुवि॥ ५७ ॥

विश्वास-प्रस्तुतिः

एते चान्ये च बहवः प्रेता जाताः स्वकर्मभिः
प्रेता ऊचुः-
न भवन्ति कथं प्रेताः कर्मणा केन वा द्विजाः॥ ५८ ॥

मूलम्

एते चान्ये च बहवः प्रेता जाताः स्वकर्मभिः
प्रेता ऊचुः-
न भवन्ति कथं प्रेताः कर्मणा केन वा द्विजाः॥ ५८ ॥

विश्वास-प्रस्तुतिः

हिताय वदनस्तूर्णं सर्वलोकहितं परम्
द्विजा ऊचुः-
येन चैव कृतं स्नानं जले तीर्थस्य धीमता॥ ५९ ॥

मूलम्

हिताय वदनस्तूर्णं सर्वलोकहितं परम्
द्विजा ऊचुः-
येन चैव कृतं स्नानं जले तीर्थस्य धीमता॥ ५९ ॥

विश्वास-प्रस्तुतिः

नमस्कृतं परं लिगं न प्रेतो जायते नरः
एकादश्यामुपोष्यैव द्वादश्यां च विशेषतः॥ ६० ॥

मूलम्

नमस्कृतं परं लिगं न प्रेतो जायते नरः
एकादश्यामुपोष्यैव द्वादश्यां च विशेषतः॥ ६० ॥

विश्वास-प्रस्तुतिः

पूजयित्वा हरिं मर्त्याः प्रेतत्वं न व्रजन्ति वै
वेदाक्षरप्रसूतैश्च स्तोत्रमन्त्रादिभिस्तथा॥ ६१ ॥

मूलम्

पूजयित्वा हरिं मर्त्याः प्रेतत्वं न व्रजन्ति वै
वेदाक्षरप्रसूतैश्च स्तोत्रमन्त्रादिभिस्तथा॥ ६१ ॥

विश्वास-प्रस्तुतिः

देवानां पूजने रक्ता न वै प्रेता भवन्ति ते
श्रुत्वा पौराणिकं वाक्यं दिव्यं च धर्मसंहितम्॥ ६२ ॥

मूलम्

देवानां पूजने रक्ता न वै प्रेता भवन्ति ते
श्रुत्वा पौराणिकं वाक्यं दिव्यं च धर्मसंहितम्॥ ६२ ॥

विश्वास-प्रस्तुतिः

पाठयित्वा पठित्वा च पिशाचत्वं न गच्छति
व्रतैश्च विविधैः पूताः पद्माक्षधारणैस्तथा॥ ६३ ॥

मूलम्

पाठयित्वा पठित्वा च पिशाचत्वं न गच्छति
व्रतैश्च विविधैः पूताः पद्माक्षधारणैस्तथा॥ ६३ ॥

विश्वास-प्रस्तुतिः

जप्त्वा पद्माक्षमालायां प्रेतत्वं नैव गच्छति
धात्रीफलद्रवैः स्नात्वा नित्यं तद्भक्षणे रताः॥ ६४ ॥

मूलम्

जप्त्वा पद्माक्षमालायां प्रेतत्वं नैव गच्छति
धात्रीफलद्रवैः स्नात्वा नित्यं तद्भक्षणे रताः॥ ६४ ॥

विश्वास-प्रस्तुतिः

तेन विष्णुं सुसम्पूज्य न गछन्ति पिशाचताम्
प्रेता ऊचुः-
सतां सन्दर्शनात्पुण्यमिति पौराणिका विदुः॥ ६५ ॥

मूलम्

तेन विष्णुं सुसम्पूज्य न गछन्ति पिशाचताम्
प्रेता ऊचुः-
सतां सन्दर्शनात्पुण्यमिति पौराणिका विदुः॥ ६५ ॥

विश्वास-प्रस्तुतिः

तस्माद्वो दर्शनं जातं हितं नः कर्तुमर्हथ
प्रेतभावाद्यथामुक्तिः सर्वेषां नो भविष्यति॥ ६६ ॥

मूलम्

तस्माद्वो दर्शनं जातं हितं नः कर्तुमर्हथ
प्रेतभावाद्यथामुक्तिः सर्वेषां नो भविष्यति॥ ६६ ॥

विश्वास-प्रस्तुतिः

व्रतोपदेशकं धीरा युष्माकं शरणागताः
ततो दयालवः सर्वे तानूचुर्द्विजसत्तमाः॥ ६७ ॥

मूलम्

व्रतोपदेशकं धीरा युष्माकं शरणागताः
ततो दयालवः सर्वे तानूचुर्द्विजसत्तमाः॥ ६७ ॥

विश्वास-प्रस्तुतिः

धात्रीणां भक्षणं शीघ्रं कुर्वतां मुक्तिहेतवे
प्रेता ऊचुः
धात्रीणां दर्शने विप्रा वयं स्थातुं न शक्नुमः॥ ६८ ॥

मूलम्

धात्रीणां भक्षणं शीघ्रं कुर्वतां मुक्तिहेतवे
प्रेता ऊचुः
धात्रीणां दर्शने विप्रा वयं स्थातुं न शक्नुमः॥ ६८ ॥

विश्वास-प्रस्तुतिः

कथं तेषां फलानां च शक्ता वै भक्षणेधुना
द्विजा ऊचुः-
अस्माकं वचनेनात्र धात्रीणां भक्षणं शिवम्॥ ६९ ॥

मूलम्

कथं तेषां फलानां च शक्ता वै भक्षणेधुना
द्विजा ऊचुः-
अस्माकं वचनेनात्र धात्रीणां भक्षणं शिवम्॥ ६९ ॥

विश्वास-प्रस्तुतिः

फलिष्यति परं लोकं तस्माद्गन्तुं समर्हथ
अथ तेभ्यो वरं लब्ध्वा धात्रीवृक्षं पिशाचकैः॥ ७० ॥

मूलम्

फलिष्यति परं लोकं तस्माद्गन्तुं समर्हथ
अथ तेभ्यो वरं लब्ध्वा धात्रीवृक्षं पिशाचकैः॥ ७० ॥

विश्वास-प्रस्तुतिः

समारुह्य फलं प्राप्य भक्षितं लीलया तदा
ततो देवालयात्तूर्णं रथं पीनसुशोभनम्॥ ७१ ॥

मूलम्

समारुह्य फलं प्राप्य भक्षितं लीलया तदा
ततो देवालयात्तूर्णं रथं पीनसुशोभनम्॥ ७१ ॥

विश्वास-प्रस्तुतिः

आगतं तं समारुह्य सचाण्डालपिशाचकाः
गतास्ते त्रिदिवं पुत्र व्रतैर्यज्ञैः सुदुर्लभम्॥ ७२ ॥

मूलम्

आगतं तं समारुह्य सचाण्डालपिशाचकाः
गतास्ते त्रिदिवं पुत्र व्रतैर्यज्ञैः सुदुर्लभम्॥ ७२ ॥

विश्वास-प्रस्तुतिः

स्कन्द उवाच-
धात्रीभक्षणमात्रेण पुण्यं लब्ध्वा दिवं गताः
तद्भक्षिणः कथं स्वर्गं न गच्छन्ति नरादयः॥ ७३ ॥

मूलम्

स्कन्द उवाच-
धात्रीभक्षणमात्रेण पुण्यं लब्ध्वा दिवं गताः
तद्भक्षिणः कथं स्वर्गं न गच्छन्ति नरादयः॥ ७३ ॥

विश्वास-प्रस्तुतिः

ईश्वर उवाच-
पूर्वं ते ज्ञानलोपाच्च न जानन्ति हिताहितम्
उच्छिष्टं श्वभिरुत्स्पृष्टं श्लेष्ममूत्रं शकृत्तु वा॥ ७४ ॥

मूलम्

ईश्वर उवाच-
पूर्वं ते ज्ञानलोपाच्च न जानन्ति हिताहितम्
उच्छिष्टं श्वभिरुत्स्पृष्टं श्लेष्ममूत्रं शकृत्तु वा॥ ७४ ॥

विश्वास-प्रस्तुतिः

मत्वा च मोहिताः श्रेष्ठं प्रेतादन्ति सदैव हि
शकृच्छौचजलं वान्तं बलिसूकरकुक्कुटैः॥ ७५ ॥

मूलम्

मत्वा च मोहिताः श्रेष्ठं प्रेतादन्ति सदैव हि
शकृच्छौचजलं वान्तं बलिसूकरकुक्कुटैः॥ ७५ ॥

विश्वास-प्रस्तुतिः

मृतके सूतके जप्यं न त्यक्तं येन केनचित्
तस्यान्नं च जलं प्रेताः खादन्ति तु सदैव हि॥ ७६ ॥

मूलम्

मृतके सूतके जप्यं न त्यक्तं येन केनचित्
तस्यान्नं च जलं प्रेताः खादन्ति तु सदैव हि॥ ७६ ॥

विश्वास-प्रस्तुतिः

दुर्दान्ता गृहिणी यस्य शुचिसंयमवर्जिता
गुरुनिःसारिता दुष्टा सन्ति प्रेताश्च तत्र वै॥ ७७ ॥

मूलम्

दुर्दान्ता गृहिणी यस्य शुचिसंयमवर्जिता
गुरुनिःसारिता दुष्टा सन्ति प्रेताश्च तत्र वै॥ ७७ ॥

विश्वास-प्रस्तुतिः

अपुङ्गवाः कुलैर्जात्या बलोत्साहविवर्जिताः
बधिराश्च कृशा दीनाः पिशाचाः कर्मजातयः॥ ७८ ॥

मूलम्

अपुङ्गवाः कुलैर्जात्या बलोत्साहविवर्जिताः
बधिराश्च कृशा दीनाः पिशाचाः कर्मजातयः॥ ७८ ॥

विश्वास-प्रस्तुतिः

क्षणं च मङ्गलं नास्ति दुःखैर्देहयुता भृशम्
तेनैव विकृताकाराः सर्वभोगविवर्जिताः॥ ७९ ॥

मूलम्

क्षणं च मङ्गलं नास्ति दुःखैर्देहयुता भृशम्
तेनैव विकृताकाराः सर्वभोगविवर्जिताः॥ ७९ ॥

विश्वास-प्रस्तुतिः

नग्नका रोगसन्तप्ता मृता रूक्षा मलीमसाः
एते चान्ये च दुःखार्ताः सदैव प्रेतजातयः॥ ८० ॥

मूलम्

नग्नका रोगसन्तप्ता मृता रूक्षा मलीमसाः
एते चान्ये च दुःखार्ताः सदैव प्रेतजातयः॥ ८० ॥

विश्वास-प्रस्तुतिः

तेन कर्मविपाकेन जायन्ते काममीदृशाः
पितृमातृगुरूणां च देवनिन्दापराश्च ये॥ ८१ ॥

मूलम्

तेन कर्मविपाकेन जायन्ते काममीदृशाः
पितृमातृगुरूणां च देवनिन्दापराश्च ये॥ ८१ ॥

विश्वास-प्रस्तुतिः

पाषण्डाः कौलिकाः पापास्ते प्रेताः कर्मजा भुवि
गलपाशैर्जलैः शस्त्रैर्गरलैरात्मघातकाः॥ ८२ ॥

मूलम्

पाषण्डाः कौलिकाः पापास्ते प्रेताः कर्मजा भुवि
गलपाशैर्जलैः शस्त्रैर्गरलैरात्मघातकाः॥ ८२ ॥

विश्वास-प्रस्तुतिः

इहलोके च ते प्रेताश्चाण्डालादिषु सम्भवाः
अन्त्यजाः पतिताश्चैव पापरोगमृताश्च ये॥ ८३ ॥

मूलम्

इहलोके च ते प्रेताश्चाण्डालादिषु सम्भवाः
अन्त्यजाः पतिताश्चैव पापरोगमृताश्च ये॥ ८३ ॥

विश्वास-प्रस्तुतिः

अन्त्यजैर्घातिता युद्धे ते प्रेता निश्चिता भुवि
महापातकसंयुक्ता विवाहे च बहिष्कृताः॥ ८४ ॥

मूलम्

अन्त्यजैर्घातिता युद्धे ते प्रेता निश्चिता भुवि
महापातकसंयुक्ता विवाहे च बहिष्कृताः॥ ८४ ॥

विश्वास-प्रस्तुतिः

शौर्यात्साहसिका ये च ते प्रेताः कर्मजा भुवि
राजद्रोहकरा ये च पितॄणां द्रोहचिन्तकाः॥ ८५ ॥

मूलम्

शौर्यात्साहसिका ये च ते प्रेताः कर्मजा भुवि
राजद्रोहकरा ये च पितॄणां द्रोहचिन्तकाः॥ ८५ ॥

विश्वास-प्रस्तुतिः

ध्यानाध्ययनहीनाश्च व्रतैर्देवार्चनादिभिः
अमन्त्राः स्नानहीनाश्च गुरुस्त्रीगमने रताः॥ ८६ ॥

मूलम्

ध्यानाध्ययनहीनाश्च व्रतैर्देवार्चनादिभिः
अमन्त्राः स्नानहीनाश्च गुरुस्त्रीगमने रताः॥ ८६ ॥

विश्वास-प्रस्तुतिः

तथैव चान्त्यजस्त्रीषु दुर्गतासु च सङ्गताः
मृताः क्रूरोपवासेन म्लेच्छदेशस्थिता मृताः॥ ८७ ॥

मूलम्

तथैव चान्त्यजस्त्रीषु दुर्गतासु च सङ्गताः
मृताः क्रूरोपवासेन म्लेच्छदेशस्थिता मृताः॥ ८७ ॥

विश्वास-प्रस्तुतिः

म्लेच्छभाषायुताशुद्धास्तथाम्लेच्छोपजीविनः
अनुवर्तन्ति ये म्लेच्छान्स्त्रीधनैरुपजीवकाः॥ ८८ ॥

मूलम्

म्लेच्छभाषायुताशुद्धास्तथाम्लेच्छोपजीविनः
अनुवर्तन्ति ये म्लेच्छान्स्त्रीधनैरुपजीवकाः॥ ८८ ॥

विश्वास-प्रस्तुतिः

स्त्रियो यैश्च न रक्ष्यन्ते ते प्रेता नात्र संशयः
क्षुधासन्तप्तदेहं तु श्रान्तं विप्रं गृहागतम्॥ ८९ ॥

मूलम्

स्त्रियो यैश्च न रक्ष्यन्ते ते प्रेता नात्र संशयः
क्षुधासन्तप्तदेहं तु श्रान्तं विप्रं गृहागतम्॥ ८९ ॥

विश्वास-प्रस्तुतिः

गुणपुण्यातिथिं त्यक्त्वा पिशाचत्वं व्रजन्ति ते
विक्रीणन्ति च वै गाश्च म्लेच्छेषु च गवाशिषु॥ ९० ॥

मूलम्

गुणपुण्यातिथिं त्यक्त्वा पिशाचत्वं व्रजन्ति ते
विक्रीणन्ति च वै गाश्च म्लेच्छेषु च गवाशिषु॥ ९० ॥

विश्वास-प्रस्तुतिः

प्रेतलोके सुखं स्थित्वा ते च यान्त्यपुनर्भवम्
अशौचाभ्यन्तरे ये च जाताश्च पशवो मृताः॥ ९१ ॥

मूलम्

प्रेतलोके सुखं स्थित्वा ते च यान्त्यपुनर्भवम्
अशौचाभ्यन्तरे ये च जाताश्च पशवो मृताः॥ ९१ ॥

विश्वास-प्रस्तुतिः

चिरं प्रेताः पिशाचाश्च मृता जाताः पुनः पुनः
जातकर्ममुखैश्चैव संस्कारैर्ये विविर्जिताः॥ ९२ ॥

मूलम्

चिरं प्रेताः पिशाचाश्च मृता जाताः पुनः पुनः
जातकर्ममुखैश्चैव संस्कारैर्ये विविर्जिताः॥ ९२ ॥

विश्वास-प्रस्तुतिः

एकैकस्मिश्च संस्कारे प्रेतत्वं परिहीयते
स्नानसन्ध्यासुरार्चाभिर्वेदयज्ञव्रताक्षरैः॥ ९३ ॥

मूलम्

एकैकस्मिश्च संस्कारे प्रेतत्वं परिहीयते
स्नानसन्ध्यासुरार्चाभिर्वेदयज्ञव्रताक्षरैः॥ ९३ ॥

विश्वास-प्रस्तुतिः

आजन्मवर्जिताः पापास्ते प्रेताश्चापुनर्भवाः
भोजनोच्छिष्टपात्राणि यानि देहमलानि च॥ ९४ ॥

मूलम्

आजन्मवर्जिताः पापास्ते प्रेताश्चापुनर्भवाः
भोजनोच्छिष्टपात्राणि यानि देहमलानि च॥ ९४ ॥

विश्वास-प्रस्तुतिः

निपातयन्ति ये तीर्थे ते प्रेता नात्र संशयः
दानमानार्चनैर्नैव यैर्विप्रा भुवि तर्पिताः॥ ९५ ॥

मूलम्

निपातयन्ति ये तीर्थे ते प्रेता नात्र संशयः
दानमानार्चनैर्नैव यैर्विप्रा भुवि तर्पिताः॥ ९५ ॥

विश्वास-प्रस्तुतिः

पितरो गुरवश्चैव प्रेतास्ते कर्मजा भृशम्
पतिं त्यक्त्वा च या नार्यो वसन्ति चेतरैर्जनैः॥ ९६ ॥

मूलम्

पितरो गुरवश्चैव प्रेतास्ते कर्मजा भृशम्
पतिं त्यक्त्वा च या नार्यो वसन्ति चेतरैर्जनैः॥ ९६ ॥

विश्वास-प्रस्तुतिः

प्रेतलोके चिरं स्थित्वा जायन्ते चान्त्ययोनिषु
पतिं च वञ्चयित्वा या विषयेन्द्रियमोहिताः॥ ९७ ॥

मूलम्

प्रेतलोके चिरं स्थित्वा जायन्ते चान्त्ययोनिषु
पतिं च वञ्चयित्वा या विषयेन्द्रियमोहिताः॥ ९७ ॥

विश्वास-प्रस्तुतिः

मिष्टं चादन्ति याः पापास्तास्तु प्रेताश्चिरं भुवि
विण्मूत्रभक्षका ये च ब्रह्मस्व भक्षणे रताः॥ ९८ ॥

मूलम्

मिष्टं चादन्ति याः पापास्तास्तु प्रेताश्चिरं भुवि
विण्मूत्रभक्षका ये च ब्रह्मस्व भक्षणे रताः॥ ९८ ॥

विश्वास-प्रस्तुतिः

अभक्ष्यभक्षकाश्चान्ये ते प्रेताश्चापुनर्भवाः
बलाद्ये परवस्तूनि गृह्णन्ति न ददत्यपि॥ ९९ ॥

मूलम्

अभक्ष्यभक्षकाश्चान्ये ते प्रेताश्चापुनर्भवाः
बलाद्ये परवस्तूनि गृह्णन्ति न ददत्यपि॥ ९९ ॥

अतिथीनवमन्यन्ते प्रेता निरयमास्थिताः
तस्मादामलकीं भुक्त्वा स्नात्वा तस्य द्रवेण च १०० 1.60.100
सर्वपापाद्विनिर्मुक्तो विष्णुलोके महीयते
तस्मात्सर्वप्रयत्नेन सेवयामलकीं शिवाम् १०१
य इदं शृणुयान्नित्यं पुण्याख्यानमिदं शुभम्
सर्वपाप प्रपूतात्मा विष्णुलोके महीयते १०२
श्रावयेत्सततं लोके वैष्णवेषु विशेषतः
स याति विष्णुसायुज्यमिति पौराणिका विदुः १०३
स्कन्द उवाच-
महीरुह फलं ज्ञातं प्रपूतं द्विविधं प्रभो
इदानीं श्रोतुमिच्छामि पत्रं पुष्पं सुमोक्षदम् १०४
ईश्वर उवाच-
सर्वेभ्यः पत्रपुष्पेभ्यः सत्तमा तुलसी शिवा
सर्वकामप्रदा शुद्धा वैष्णवी विष्णुसुप्रिया १०५
भुक्तिमुक्तिप्रदा मुख्या सर्वलोकपरा शुभा
यामाश्रित्य गताः स्वर्गमक्षयं मुनिसत्तमाः १०६
हितार्थं सर्वलोकानां विष्णुनारोपिता पुरा
तुलसीपत्रपुष्पं च सर्वधर्मप्रतिष्ठितम् १०७
यथा विष्णोः प्रियालक्ष्मीर्यथाहं प्रिय एव च
तथेयं तुलसीदेवी चतुर्थो नोपपद्यते १०८
तुलसीपत्रमेकं तु शतहेमफलप्रदम्
नान्यैः पुष्पैस्तथापत्रैर्नान्यैर्गन्धानुलेपनैः १०९
तुष्यते दैत्यहा विष्णुस्तुलस्याश्च दलैर्विना
अनेन पूजितो येन हरिर्नित्यं पराशया ११०
तेन दत्तं हुतं ज्ञातं कृतं यज्ञव्रतादिकम्
जन्मजन्मनि भासित्वं सुखं भाग्यं यशः श्रियं १११
कुलं शीलं कलत्रं च पुत्रं दुहितरं तथा
धनं राज्यमरोगत्वं ज्ञानं विज्ञानमेव च ११२
वेदवेदाङ्गशास्त्रं च पुराणागमसंहिताः
सर्वं करगतं मन्ये तुलस्याभ्यर्चने हरेः ११३
यथा गङ्गा पवित्राङ्गी सुरलोके विमोक्षदा
यथा भागीरथी पुण्या तथैवं तुलसी शिवा ११४
किं च गङ्गाजले नैव किञ्च पुष्करसेवया
तुलसीदलमिश्रेण जलेनैव प्रमोद्यते ११५
माधवः सम्मुखो यस्य जन्मजन्मसुधीमतः
तस्य श्रद्धा भवेछ्रुत्वा तुलस्या हरिमर्चितुम् ११६
यो मञ्जरीदलैरेव तुलस्या विष्णुमर्चयेत्
तस्य पुण्यफलं स्कन्द कथितुं नैव शक्यते ११७
तत्र केशवसान्निध्यं यत्रास्ति तुलसीवनम्
तत्र ब्रह्मा च कमला सर्वदेवगणैः सह ११८
तस्मात्तां सन्निकृष्टे तु सदा देवीं प्रपूजयेत्
स्तोत्रमन्त्रादिकं यद्वा सर्वमानन्त्यमश्नुते ११९
ये च प्रेताश्च कूश्माण्डाः पिशाचा ब्रह्मराक्षसाः
भूतदैत्यादयस्तत्र पलायन्ते सदैव हि १२०
अलक्ष्मीर्नाशिनी घूर्णा या डाकिन्यादि मातरः
सर्वाः सङ्कोचितां यान्ति दृष्ट्वा तु तुलसीदलं १२१
ब्रह्महत्यादयः पापव्याधयः पापसम्भवाः
कुमन्त्रिणा कृता ये च सर्वे नश्यन्ति तत्र वै १२२
भूतले वापि तं येन हर्यर्थं तुलसीवनम्
कृतं क्रतुशतं तेन विधिवत्प्रियदक्षिणम् १२३
हरिलिङ्गेषु चान्येषु सालग्रामशिलासु च
तुलसीग्रहणं कृत्वा विष्णोः सायुज्यमाव्रजेत् १२४
नन्दन्ति पुरुषास्तस्य माधवार्थे क्षितौ तु यः
तुलसीं रोपयेद्धीरः स याति माधवालयम् १२५
पूजयित्वा हरिं देवं निर्माल्यं तुलसीदलम्
धारयेद्यः स्वशीर्षे तु पापात्पूतो दिवं व्रजेत्१२६
पूजने कीर्त्तने ध्याने रोपणे धारणे कलौ
तुलसी दहते पापं र्स्वर्गं मोक्षं ददाति च १२७
उपदेशं दिशेदस्याः स्वयमाचरते पुनः १२८
स याति परमं स्थानं माधवस्य निकेतनम्
हरेः प्रियकरं यच्च तन्मे प्रियतरं भवेत् १२९
सर्वेषामपि देवानां देवीनां च समन्ततः
श्राद्धेषु यज्ञकार्येषु पर्णमेकं षडानन १३०
तस्मात्सर्वप्रयत्नेन तुलसीसेवनं कुरु
तुलसी सेविता येन तेन सर्वं तु सेवितम् १३१
गुरुं विप्रं देवतीर्थं तस्मात्सेवय षण्मुख
शिखायां तुलसीं कृत्वा यस्तु प्राणान्परित्यजेत् १३२
दुष्कृतौघाद्विनिर्मुक्तः स्वर्गमेति निरामयम्
राजसूयादिभिर्यज्ञैर्व्रतैश्च विविधैर्यमैः १३३
या गतिः प्राप्यते धीरैः तुलसीसेविनां भवेत्
तुलसीदलेन चैकेन पूजयित्वा हरिं नरः १३४
वैष्णवत्वमवाप्नोति किमन्यैः शास्त्रविस्तरैः
न पिबेत्स पयो मातुस्तुलस्याः कोटिसङ्ख्यकैः १३५
अर्चितः केशवो येन शाखामृदुलपल्लवैः
भावयेत्पुरुषान्मर्त्यः शतशोथ सहस्रशः १३६
पूजयित्वा हरिं नित्यं कोमलैस्तुलसीदलैः
प्रधानतो गुणास्तात तुलस्या गदिता मया १३७
निखिलं पुरुकालेन गुणं वक्तुं न शक्नुमः
यस्त्विदं शृणुयान्नित्यमाख्यानं पुण्यसञ्चयम् १३८
पूर्वजन्मकृतात्पापान्मुच्यते जन्मबन्धनात्
सकृत्पठनमात्रेण वह्निष्टोमफलं लभेत् १३९
न तस्य व्याधयः पुत्र मूर्खत्वं न कदाचन
सर्वदा जयमाप्नोति न गच्छेत्स पराजयं १४०
लेखस्तिष्ठेद्गृहे यस्य तस्य लक्ष्मीः प्रवर्तते
न चाधयो न च प्रेता न शोको नावमानना १४१
न तिष्ठन्ति क्षणं तत्र यत्रेयं वर्तते लिपिः १४२
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे तुलसीमाहात्म्यं नाम षष्टितमोऽध्यायः ६०