०५८

व्यास उवाच-

विश्वास-प्रस्तुतिः

शाखिनामेव सर्वेषां फलं वक्ष्यामि यादृशम्
तच्छृणुध्वं महाभागा रोपणे च पृथक्पृथक्॥ १ ॥

मूलम्

यस्तु रोपयते तीरे पुण्यवृक्षान्समन्ततः
तस्य पुण्यफलं ज्ञातुं कथितुं नैव शक्यते॥ २ ॥

अन्यत्र रोपणं कृत्वा शाखिनां यत्फलं लभेत्
ततो जलसमीपे तु लक्षकोटिगुणं भवेत्॥ ३ ॥

स्वयं पुष्करिणी तीरे त्वनन्तं फलमश्नुते
तस्माच्छतगुणं ब्रूमः शाखिनां पुण्यकारिणाम्॥ ४ ॥

अश्वत्थरोपणं कृत्वा जलाशयसमीपतः
यत्फलं लभते मर्त्यो न तत्क्रतुशतैरपि॥ ५ ॥

पतन्ति यानि पत्राणि जले पर्वणि पर्वणि
तानि पिण्डसमानीह पितॄणामक्षयं ययुः॥ ६ ॥

मूलम्

पतन्ति यानि पत्राणि जले पर्वणि पर्वणि
तानि पिण्डसमानीह पितॄणामक्षयं ययुः॥ ६ ॥

विश्वास-प्रस्तुतिः

खादन्ति पतगास्तत्र फलानि कामतो ध्रुवम्
ब्रह्मभक्ष्यसमं तस्य पुण्यं भवति चाक्षयम्॥ ७ ॥

अश्वत्थेनैव भक्ष्येण रोपणेनैव यत्फलम्
तद्वै क्रतुशतैर्नैव पुत्रैरेव शतैरपि॥ ८ ॥

उष्णेच्छायां प्रगृह्णन्ति गावो देवद्विजातयः
कर्तुः पितृगणानां च स्वर्गो भवति चाक्षयः॥ ९ ॥

कर्तुं स्वस्थस्य वै विघ्नमक्षयत्वान्न शक्यते
तस्मात्सर्वप्रयत्नेन रोपयेद्वृक्षमाधवम्॥ १० ॥

एकं वृक्षं समारोप्य नरः स्वर्गान्न हीयते
तस्मादेव महावृक्षं रोपयध्वं द्विजोत्तमाः॥ ११ ॥

जलानां निकटे रम्ये रसानां क्रयविक्रये
मार्गे जलाशये वृक्षान्रोपयेद्यो महाशयः॥ १२ ॥

अश्वत्थादीन्समारोप्य स्वर्गं याति मनोरमम्
अर्चयित्वा तु यत्पुण्यं प्रवक्ष्यामि द्विजातयः॥ १३ ॥

स्नात्वाश्वत्थं स्पृशेद्यस्तु सर्वपापैः प्रमुच्यते
अस्नातो यः स्पृशेन्मर्त्यो लभते स्नानजं फलम्॥ १४ ॥

दृष्ट्वा च नाशयेत्पापं स्पृष्ट्वा लक्ष्मीं प्रपद्यते
प्रदक्षिणे भवेदायुः सदाश्वत्थ नमोस्तु ते॥ १५ ॥

चलद्दलाय वृक्षाय सदा विष्णुस्थिताय च
बोधिसत्वाय योग्याय सदाश्वत्थ नमोस्तु ते॥ १६ ॥

अश्वत्थाय तु हव्यं तु पयो नैवेद्यमेव च
पुष्पं धूपं दीपकं च दत्वा स्वर्गान्न हीयते॥ १७ ॥

सपुत्रं चाक्षयं विद्धि धनवृद्धियशस्करम्
विजयं मानदं भद्रमश्वत्थस्य प्रपूजनम्॥ १८ ॥

यज्जप्तं च हुतं स्तोत्रं यन्त्रमन्त्रादिकं च यत्
सर्वं कोटिगुणं प्रोक्तं मूले चलदलस्य च॥ १९ ॥

यस्य मूले स्थितो विष्णुर्मध्ये तिष्ठति शङ्करः
अग्रभागे स्थितो ब्रह्मा कस्तं जगति नार्चयेत्॥ २० ॥

सोमवारे त्वमायां च स्नानं यन्मौनिना कृतम्
दानस्य गोसहस्रस्य फलं चाश्वत्थवन्दने॥ २१ ॥

सप्तप्रदक्षिणेनैव गवामयुतजं फलम्
प्रचुराल्लक्षकोटिश्च तस्मात्कार्या हि सा सदा॥ २२ ॥

यत्किञ्चिद्दीयते तत्र फलमूलजलादिकम्
सर्वं तच्चाक्षयफलं जन्मजन्मसु जायते॥ २३ ॥

अहोश्वत्थसमो नास्ति वृक्षरूपी हरिर्भुवि
यथा पूज्यो द्विजो लोके यथा गावो यथामराः॥ २४ ॥

तथाश्वत्थवृक्षरूपी देवः पूज्यतमः स्मृतः
रोपणे रक्षणे स्पर्शे पूजाकर्मणि वै सदा॥ २५ ॥

ददाति वित्तं पुत्रांश्च स्वर्गं मोक्षं पुनः क्रमात्
किञ्चिच्छेदं तु यः कुर्यादश्वत्थस्य तनौ नरः॥ २६ ॥

कल्पैकं निरयं भुक्त्वा चाण्डालादौ प्रजायते
मूलच्छेदेन तस्यैव स च यात्यपुनर्भवम्॥ २७ ॥

पुरुषास्तस्य तिष्ठन्ति रौरवे घोरदर्शने
अश्वत्थस्यैकवृक्षस्य रोपणे यत्फलं भवेत्॥ २८ ॥

तथैव चम्पकेर्के च त्रयाणां रोपणेपि च
अष्टौ बिल्वस्य वृक्षाश्च न्यग्रोधाश्चैव सप्त च॥ २९ ॥

निम्बस्य दशवृक्षाश्च फलं चैषां समं भवेत्
एकैकस्य फलं चोक्तं वृक्षाणां रोपणे द्विजाः॥ ३० ॥

एवं बुध्वा तु धर्मात्मा यः कुर्यात्कृत्रिमं वनम्
कल्पकोटिसहस्राणि कल्पकोटिशतानि च॥ ३१ ॥

नाकमेति स चूतस्य समारोप्य सहस्रकम्
ततो द्वित्रिगुणेनैव न्यूने वा प्रचुरेपि वा॥ ३२ ॥

भुङ्क्ते भुक्त्वा पुनः कुर्यान्नृपो वाथ सदीश्वरः
स्वर्गं भोग्यं ततो राज्यं कल्याणं मङ्गलं शुभम्॥ ३३ ॥

आरोग्यं शौर्यसम्पन्नमारामादेव जायते
फलानि यस्य खादन्ति जन्तवोथ सहस्रशः॥ ३४ ॥

आश्रिता विहगाः कीटाः पतगाः शलभादयः
छायाश्रिताश्च ये सत्वास्तत्सङ्ख्याताः पृथग्जनाः॥ ३५ ॥

तस्य किङ्करतां यान्ति शतशो देवतार्चिताः
ये च वृक्षा महासत्वास्सर्वे ते देवरूपिणः॥ ३६ ॥

तदर्चा पितृवत्कार्या शुश्रूषां जलपिण्डकम्
मर्त्यलोके च ते पुत्रास्तस्य जन्मनि जन्मनि॥ ३७ ॥

सुरूपाः सुविनीताश्च सदापुण्यक्रिया शुभाः
एवं गणेशतां यान्ति जन्तवश्चूतलग्नकाः॥ ३८ ॥

धात्री हरीतकी चान्ये कटुतिक्ताम्लसम्भवाः
सर्वे चारामतः शुद्धाः फलदाः शिवदाः सदा॥ ३९ ॥

प्रासादा यत्र सौवर्णाः सर्वरत्नविभूषिताः
सर्वाभरणसंयुक्ता विमानाश्चानिलोपमाः॥ ४० ॥

शातकुम्भमया वृक्षाः सदैव सर्वदायिनः
सर्वर्तुसुखदाः सौम्यकन्यका अप्सरस्समाः॥ ४१ ॥

गीतनृत्यपराधीरास्तत्र तिष्ठन्ति वृक्षदाः
पुष्करिण्यो विशेषेण खातान्यन्यानि यानि च॥ ४२ ॥

शुद्धोपलान्तरचिता नद्यः पायसकर्द्दमाः
पुनर्दुग्धसफेनाश्च अन्नादिषड्रसान्विताः॥ ४३ ॥

मर्त्यलोके यथा भोग्यं पुनः स्वर्गे पुनर्भुवि
पुनरेव तदभ्यासात्खातमारामकं पुनः॥ ४४ ॥

यथा पुण्यादिकं कृत्वा स्वर्गमर्त्याधिपः पुमान्
अशक्तस्तु प्रपां कृत्वा पुष्करिण्याः फलं लभेत्॥ ४५ ॥

प्रपाया लक्षणं चात्र सर्वपापहरं परं
सर्वभोगप्रदं शुद्धं स्वर्गापवर्गदं स्थिरं॥ ४६ ॥

लक्षणं च प्रवक्ष्यामि प्रपायाः कीर्तिवर्धनम्
निर्जलेऽध्वनि पृक्ते च स्थाने कृत्वा च मण्डपम्॥ ४७ ॥

बहुपान्थे समायाते ग्रीष्मवर्षाशरत्स्वपि
अगरुकादि सौगन्ध्यं जलं पूगं सचन्द्रकम्॥ ४८ ॥

आसनं चैव ताम्बूलं दत्वा स्वर्गान्न हीयते
एवं वर्षत्रयेणैव पुष्करिण्याः फलं लभेत्॥ ४९ ॥

स्वर्गाच्चैवाच्युतो मर्त्यो देवैरपि प्रपूज्यते
मासमेकं तु यो दद्यात्प्रपां ग्रीष्मेथ निर्जले५० 1.58.50
कल्पैकं तु वसेत्स्वर्गे स्वर्गाद्भ्रष्टो महीयते
प्रपादास्तत्र तिष्ठन्ति यत्र पुष्करिणीप्रदाः॥ ५१ ॥

नोचेद्धर्मघटो देयः पुण्यः पापक्षयाय च
एष धर्मघटो ज्ञेयो ब्रह्मविष्णुशिवात्मकः॥ ५२ ॥

तवप्रसादात्सफलाः मम सन्तु मनोरथाः
स्वर्णमाषं चतुर्भागं दक्षिणार्थं घटस्य च॥ ५३ ॥

एवं वर्षत्रयेणैव प्रपादानफलं लभेत्
यः पठेच्छ्रावयेद्वापि पुष्करिण्यादिजं फलम्॥ ५४ ॥

साक्षात्पापाद्भवेन्मुक्तस्तत्प्रसादात्तु सद्गतिः
जनेषु श्रावयेद्यस्तु पुण्याख्यानमिदं शुभम्॥ ५५ ॥

कल्पकोटिसहस्राणि सुरलोके स तिष्ठति॥ ५६ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे पुष्करिण्यादिधर्मकीर्तनन्नामाष्टपञ्चाशत्तमो
ऽध्यायः५८