द्विजा ऊचुः-
विश्वास-प्रस्तुतिः
कीर्तिर्धर्मोथ लोकेषु सर्वाणि प्रवराणि च
वद नो मुनिशार्दूल यदि नोऽस्ति त्वनुग्रहः॥ १ ॥
मूलम्
कीर्तिर्धर्मोथ लोकेषु सर्वाणि प्रवराणि च
वद नो मुनिशार्दूल यदि नोऽस्ति त्वनुग्रहः॥ १ ॥
विश्वास-प्रस्तुतिः
व्यास उवाच-
यस्य खाते वने गावस्तृप्यन्ति मासमेव च
यद्वा सप्तदिनात्पूतः सर्वदेवैः स पूजितः॥ २ ॥
मूलम्
व्यास उवाच-
यस्य खाते वने गावस्तृप्यन्ति मासमेव च
यद्वा सप्तदिनात्पूतः सर्वदेवैः स पूजितः॥ २ ॥
विश्वास-प्रस्तुतिः
पुष्करिण्या विशेषेण पूता या यज्ञकर्मणा
यत्फलं जलदानेन सर्वमत्रास्यि(?) तच्छृणु॥ ३ ॥
मूलम्
पुष्करिण्या विशेषेण पूता या यज्ञकर्मणा
यत्फलं जलदानेन सर्वमत्रास्यि(?) तच्छृणु॥ ३ ॥
विश्वास-प्रस्तुतिः
हायने हायने चैव कल्पं कल्पं विधीयते
दानात्स्वर्गमवाप्नोति तोयदः सर्वदो भुवि॥ ४ ॥
मूलम्
हायने हायने चैव कल्पं कल्पं विधीयते
दानात्स्वर्गमवाप्नोति तोयदः सर्वदो भुवि॥ ४ ॥
विश्वास-प्रस्तुतिः
मेघे वर्षति खाते च जायन्ते ये तु शीकराः
तावद्वर्षसहस्राणि दिवमश्नाति मानवः॥ ५ ॥
मूलम्
मेघे वर्षति खाते च जायन्ते ये तु शीकराः
तावद्वर्षसहस्राणि दिवमश्नाति मानवः॥ ५ ॥
विश्वास-प्रस्तुतिः
तोयैरन्नादिपाकैश्च प्रसन्नो मानवो भवेत्
प्राणानां च विनान्नैश्च धारणन्नैव जायते॥ ६ ॥
मूलम्
तोयैरन्नादिपाकैश्च प्रसन्नो मानवो भवेत्
प्राणानां च विनान्नैश्च धारणन्नैव जायते॥ ६ ॥
विश्वास-प्रस्तुतिः
पितॄणां तर्पणं शौचं रूपं वै गन्ध्यनाशनम्
बीजं त्विहार्जितं सर्वं सर्वं तोये प्रतिष्ठितम्॥ ७ ॥
मूलम्
पितॄणां तर्पणं शौचं रूपं वै गन्ध्यनाशनम्
बीजं त्विहार्जितं सर्वं सर्वं तोये प्रतिष्ठितम्॥ ७ ॥
विश्वास-प्रस्तुतिः
वस्त्रस्य धावनं रुच्यं भाजनानां तथैव च
तेनैव सर्वकार्यं च पानीयं मेध्यमेव च॥ ८ ॥
मूलम्
वस्त्रस्य धावनं रुच्यं भाजनानां तथैव च
तेनैव सर्वकार्यं च पानीयं मेध्यमेव च॥ ८ ॥
विश्वास-प्रस्तुतिः
तस्मात्सर्वप्रयत्नेन वापीकूपतटाककम्
कारयेच्च बलैः सर्वैस्तथा सर्वधनेन च॥ ९ ॥
मूलम्
तस्मात्सर्वप्रयत्नेन वापीकूपतटाककम्
कारयेच्च बलैः सर्वैस्तथा सर्वधनेन च॥ ९ ॥
विश्वास-प्रस्तुतिः
ततो विनिर्जले देशो यो ददाति जलाशयम्
वासरे वासरे तस्य कल्पं स्वर्गं विनिर्दिशेत्॥ १० ॥
मूलम्
ततो विनिर्जले देशो यो ददाति जलाशयम्
वासरे वासरे तस्य कल्पं स्वर्गं विनिर्दिशेत्॥ १० ॥
विश्वास-प्रस्तुतिः
त्रिविष्टपाच्च्युतो विप्रो वेदशास्त्रार्थपारगः
लोकबन्धुः स धर्मात्मा तपस्तप्त्वा दिवं व्रजेत्॥ ११ ॥
मूलम्
त्रिविष्टपाच्च्युतो विप्रो वेदशास्त्रार्थपारगः
लोकबन्धुः स धर्मात्मा तपस्तप्त्वा दिवं व्रजेत्॥ ११ ॥
विश्वास-प्रस्तुतिः
एवं जन्माष्टकं प्राप्य एकस्याक्षयमिष्यते
क्षत्त्रियाणां कुले जातः सार्वभौमो भवेन्नृपः॥ १२ ॥
मूलम्
एवं जन्माष्टकं प्राप्य एकस्याक्षयमिष्यते
क्षत्त्रियाणां कुले जातः सार्वभौमो भवेन्नृपः॥ १२ ॥
विश्वास-प्रस्तुतिः
विशोऽक्षयं धनं विद्याज्जन्मजन्मसु यत्प्रियम्
शूद्रादयोन्त्यजाश्चान्ये लभन्ते स्वर्गतिं मुहुः॥ १३ ॥
मूलम्
विशोऽक्षयं धनं विद्याज्जन्मजन्मसु यत्प्रियम्
शूद्रादयोन्त्यजाश्चान्ये लभन्ते स्वर्गतिं मुहुः॥ १३ ॥
विश्वास-प्रस्तुतिः
चतुर्हस्तप्रमाणं तु कूपं खनति यः पुमान्
परोपकारकं नित्यं कल्पं स्वर्गं तु हायने॥ १४ ॥
मूलम्
चतुर्हस्तप्रमाणं तु कूपं खनति यः पुमान्
परोपकारकं नित्यं कल्पं स्वर्गं तु हायने॥ १४ ॥
विश्वास-प्रस्तुतिः
द्विगुणे द्विगुणं विद्याच्छतं चैव चतुर्गुणे
विंशत्किष्कुप्रमाणां तु दद्यात्पुष्करिणीं तु यः॥ १५ ॥
मूलम्
द्विगुणे द्विगुणं विद्याच्छतं चैव चतुर्गुणे
विंशत्किष्कुप्रमाणां तु दद्यात्पुष्करिणीं तु यः॥ १५ ॥
विश्वास-प्रस्तुतिः
विष्णोर्धाम लभेत्सोपि दिव्यभोगं तथैव च
अनन्तरं नृपो जातो धनी वागीश्वरो भवेत्॥ १६ ॥
मूलम्
विष्णोर्धाम लभेत्सोपि दिव्यभोगं तथैव च
अनन्तरं नृपो जातो धनी वागीश्वरो भवेत्॥ १६ ॥
विश्वास-प्रस्तुतिः
एवं द्विस्त्रिश्चतुर्वापि गुणतो भोग्यमिष्यते
विस्तीर्णे प्रचुरं विद्धि सहस्रेणाच्युतो दिवः॥ १७ ॥
मूलम्
एवं द्विस्त्रिश्चतुर्वापि गुणतो भोग्यमिष्यते
विस्तीर्णे प्रचुरं विद्धि सहस्रेणाच्युतो दिवः॥ १७ ॥
विश्वास-प्रस्तुतिः
सहस्राद्द्विगुणेनैव सुरपूज्यो भवेन्नरः
जन्तवस्तत्र ये सन्ति यावन्तो जीवनं ययुः॥ १८ ॥
मूलम्
सहस्राद्द्विगुणेनैव सुरपूज्यो भवेन्नरः
जन्तवस्तत्र ये सन्ति यावन्तो जीवनं ययुः॥ १८ ॥
विश्वास-प्रस्तुतिः
तत्सङ्ख्याका जनास्तस्य किङ्कराः पृष्टलग्नकाः
भवन्ति सततं गेहे पुरे जनपदेषु च॥ १९ ॥
मूलम्
तत्सङ्ख्याका जनास्तस्य किङ्कराः पृष्टलग्नकाः
भवन्ति सततं गेहे पुरे जनपदेषु च॥ १९ ॥
विश्वास-प्रस्तुतिः
विहाय पितरं भोग्या धने क्षीणे यथा वनम्
पक्षिणस्सूकरश्चैव महिषी करिणी तथा॥ २० ॥
मूलम्
विहाय पितरं भोग्या धने क्षीणे यथा वनम्
पक्षिणस्सूकरश्चैव महिषी करिणी तथा॥ २० ॥
विश्वास-प्रस्तुतिः
उपदेष्टा च कर्त्ता च षडेते स्वर्गगामिनः
दिव्यं च पक्षिणां चैव शतं स्वर्गं विनिर्दिशेत्॥ २१ ॥
मूलम्
उपदेष्टा च कर्त्ता च षडेते स्वर्गगामिनः
दिव्यं च पक्षिणां चैव शतं स्वर्गं विनिर्दिशेत्॥ २१ ॥
विश्वास-प्रस्तुतिः
क्रोडो वर्षसहस्रं तु महिष्ययुतहायनम्
देवरूपं समास्थाय करिण्या लक्षमुच्यते॥ २२ ॥
मूलम्
क्रोडो वर्षसहस्रं तु महिष्ययुतहायनम्
देवरूपं समास्थाय करिण्या लक्षमुच्यते॥ २२ ॥
विश्वास-प्रस्तुतिः
कोट्येकमुपदेष्टुश्च कर्तुरक्षयमेव च
पुरा धनिसुतेनैव कृतः ख्यातो जलाशयः॥ २३ ॥
मूलम्
कोट्येकमुपदेष्टुश्च कर्तुरक्षयमेव च
पुरा धनिसुतेनैव कृतः ख्यातो जलाशयः॥ २३ ॥
विश्वास-प्रस्तुतिः
अयुतधनव्ययेनैव प्राणेनैव बलेन च
सर्वसत्वोपकाराय शिवश्रद्धायुतेन च॥ २४ ॥
मूलम्
अयुतधनव्ययेनैव प्राणेनैव बलेन च
सर्वसत्वोपकाराय शिवश्रद्धायुतेन च॥ २४ ॥
विश्वास-प्रस्तुतिः
कालेन कियता चापि क्षीणवित्तोऽभवत्किल
कश्चिदर्थी धनी तस्य मूल्यदानाय चोद्यतः॥ २५ ॥
मूलम्
कालेन कियता चापि क्षीणवित्तोऽभवत्किल
कश्चिदर्थी धनी तस्य मूल्यदानाय चोद्यतः॥ २५ ॥
विश्वास-प्रस्तुतिः
विमृश्य धनिना चोक्तं व्याहारं शृणुताधुना
दीनारस्यायुतं वा ते दास्याम्यस्याश्च कारणात्॥ २६ ॥
मूलम्
विमृश्य धनिना चोक्तं व्याहारं शृणुताधुना
दीनारस्यायुतं वा ते दास्याम्यस्याश्च कारणात्॥ २६ ॥
विश्वास-प्रस्तुतिः
लब्धं ते पुष्करिण्याश्च पुण्यं लाभात्प्रमन्यसे
शक्त्या दत्वाथ मूल्यं तां स्वीयां कर्तुं व्यवस्थितः॥ २७ ॥
मूलम्
लब्धं ते पुष्करिण्याश्च पुण्यं लाभात्प्रमन्यसे
शक्त्या दत्वाथ मूल्यं तां स्वीयां कर्तुं व्यवस्थितः॥ २७ ॥
विश्वास-प्रस्तुतिः
एवमुक्ते स तं प्राह वासरेप्ययुतं पुनः
फलं भवति वै नित्यं पुण्यं पुण्यविदो विदुः॥ २८ ॥
मूलम्
एवमुक्ते स तं प्राह वासरेप्ययुतं पुनः
फलं भवति वै नित्यं पुण्यं पुण्यविदो विदुः॥ २८ ॥
विश्वास-प्रस्तुतिः
एतस्मिन्निर्जले देशे शिवं खातं कृतं च मे
स्नानपानादिकं कर्म सर्वे कुर्वन्त्यभीष्टतः॥ २९ ॥
मूलम्
एतस्मिन्निर्जले देशे शिवं खातं कृतं च मे
स्नानपानादिकं कर्म सर्वे कुर्वन्त्यभीष्टतः॥ २९ ॥
विश्वास-प्रस्तुतिः
तस्मान्मेप्ययुतार्थस्य नैत्यकं फलमिष्यते
ततस्तस्याभवद्धास्यं तथैव च सभासदाम्॥ ३० ॥
मूलम्
तस्मान्मेप्ययुतार्थस्य नैत्यकं फलमिष्यते
ततस्तस्याभवद्धास्यं तथैव च सभासदाम्॥ ३० ॥
विश्वास-प्रस्तुतिः
ह्रिया च पीडितः सोपि वाक्यमेतदुवाच ह
सत्यमेतद्वचोस्माकं परीक्षां कुरु धर्मतः॥ ३१ ॥
मूलम्
ह्रिया च पीडितः सोपि वाक्यमेतदुवाच ह
सत्यमेतद्वचोस्माकं परीक्षां कुरु धर्मतः॥ ३१ ॥
विश्वास-प्रस्तुतिः
मत्सरात्स तु तं प्राह शृणु मे वचनं पितः
दीनारायुत मे तत्ते दत्वा चानीय प्रस्तरम्॥ ३२ ॥
मूलम्
मत्सरात्स तु तं प्राह शृणु मे वचनं पितः
दीनारायुत मे तत्ते दत्वा चानीय प्रस्तरम्॥ ३२ ॥
विश्वास-प्रस्तुतिः
पातयिष्यामि ते खाते यथायोगं प्रमज्जतु
उन्मज्जति च यत्काले प्रस्तरः सन्तरत्यपि॥ ३३ ॥
मूलम्
पातयिष्यामि ते खाते यथायोगं प्रमज्जतु
उन्मज्जति च यत्काले प्रस्तरः सन्तरत्यपि॥ ३३ ॥
विश्वास-प्रस्तुतिः
क्षयं यास्यति नो वित्तं नोचेन्मे धर्मतो हि सा
बाढमुक्त्वायुतं तस्य गृहीत्वा स्वगृहं गतः॥ ३४ ॥
मूलम्
क्षयं यास्यति नो वित्तं नोचेन्मे धर्मतो हि सा
बाढमुक्त्वायुतं तस्य गृहीत्वा स्वगृहं गतः॥ ३४ ॥
विश्वास-प्रस्तुतिः
साक्षिणामग्रतस्तेन प्रस्तरः पातितस्तथा
पुष्करिण्यां महत्यां च दृष्टं नरसुरासुरैः॥ ३५ ॥
मूलम्
साक्षिणामग्रतस्तेन प्रस्तरः पातितस्तथा
पुष्करिण्यां महत्यां च दृष्टं नरसुरासुरैः॥ ३५ ॥
विश्वास-प्रस्तुतिः
ततो धर्मतुलायां तु तुलितं धर्मसाक्षिणा
दीनारायुतदानस्य पुष्करिण्या जलस्य तु॥ ३६ ॥
मूलम्
ततो धर्मतुलायां तु तुलितं धर्मसाक्षिणा
दीनारायुतदानस्य पुष्करिण्या जलस्य तु॥ ३६ ॥
विश्वास-प्रस्तुतिः
न समं तु दिनैकं तु जलस्य धर्मतो भृशम्
धनिनो मानसं दुःखं मोघार्थं च परेऽहनि॥ ३७ ॥
मूलम्
न समं तु दिनैकं तु जलस्य धर्मतो भृशम्
धनिनो मानसं दुःखं मोघार्थं च परेऽहनि॥ ३७ ॥
विश्वास-प्रस्तुतिः
शिलोच्चयोऽभवत्तीर्णो द्वीपवच्च जलोपरि
ततः कोलाहलः शब्दो जनानां समुपस्थितः॥ ३८ ॥
मूलम्
शिलोच्चयोऽभवत्तीर्णो द्वीपवच्च जलोपरि
ततः कोलाहलः शब्दो जनानां समुपस्थितः॥ ३८ ॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वाद्भुतवाक्यं च मुदा तौ चागतौ ततः
दृष्ट्वा शैलं तथाभूतं कृतं तेनायुतं तथा॥ ३९ ॥
मूलम्
तच्छ्रुत्वाद्भुतवाक्यं च मुदा तौ चागतौ ततः
दृष्ट्वा शैलं तथाभूतं कृतं तेनायुतं तथा॥ ३९ ॥
विश्वास-प्रस्तुतिः
ततः खाताधिपेनैव शैलं दूरे निपातितम्
पुण्यं खातस्य चोत्खाते प्रलुप्तस्य सुतेन हि॥ ४० ॥
मूलम्
ततः खाताधिपेनैव शैलं दूरे निपातितम्
पुण्यं खातस्य चोत्खाते प्रलुप्तस्य सुतेन हि॥ ४० ॥
विश्वास-प्रस्तुतिः
सोपि नाकं समारुह्य जन्मजन्मसु निर्वृतः
गोत्रमातृगणानां च नृपाणां सुहृदां तथा॥ ४१ ॥
मूलम्
सोपि नाकं समारुह्य जन्मजन्मसु निर्वृतः
गोत्रमातृगणानां च नृपाणां सुहृदां तथा॥ ४१ ॥
विश्वास-प्रस्तुतिः
सखीनां चोपकर्तॄणां खातं खात्वाऽक्षयं फलम्
तपस्विनामनाथानां ब्राह्मणानां विशेषतः॥ ४२ ॥
मूलम्
सखीनां चोपकर्तॄणां खातं खात्वाऽक्षयं फलम्
तपस्विनामनाथानां ब्राह्मणानां विशेषतः॥ ४२ ॥
विश्वास-प्रस्तुतिः
खातं तु जनयित्वा तु स्वर्गं चाक्षयमश्नुते
तस्मात्खातादिकं विप्राः शक्तितो यः करिष्यति॥ ४३ ॥
मूलम्
खातं तु जनयित्वा तु स्वर्गं चाक्षयमश्नुते
तस्मात्खातादिकं विप्राः शक्तितो यः करिष्यति॥ ४३ ॥
विश्वास-प्रस्तुतिः
सर्वपापक्षयात्पुण्यं मोक्षं यायान्न संशयः
य इदं श्रावयेल्लोके धर्माख्यानं महोत्कटम्॥ ४४ ॥
मूलम्
सर्वपापक्षयात्पुण्यं मोक्षं यायान्न संशयः
य इदं श्रावयेल्लोके धर्माख्यानं महोत्कटम्॥ ४४ ॥
विश्वास-प्रस्तुतिः
सर्वखातप्रदानस्य फलमश्नाति धार्मिकः
ग्रहणे भास्करस्यैव भागीरथ्यां तटे वरे॥ ४५ ॥
मूलम्
सर्वखातप्रदानस्य फलमश्नाति धार्मिकः
ग्रहणे भास्करस्यैव भागीरथ्यां तटे वरे॥ ४५ ॥
विश्वास-प्रस्तुतिः
गवां कोटिप्रदानस्य फलं श्रुत्वा लभेन्नरः
न च दारिद्रतामेति न शोकं व्याधिसञ्चयम्॥ ४६ ॥
मूलम्
गवां कोटिप्रदानस्य फलं श्रुत्वा लभेन्नरः
न च दारिद्रतामेति न शोकं व्याधिसञ्चयम्॥ ४६ ॥
असम्मानं महद्दुःखमुभयोर्नाधिगच्छति
इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे खातादिकीर्तनन्नाम सप्तपञ्चाशत्तमोऽध्यायः ५७