०५६

श्रीभगवानुवाच-

विश्वास-प्रस्तुतिः

पुरा शर्वः स्त्रियो दृष्ट्वा युवती रूपशालिनीः
गन्धर्वकिन्नराणां च मनुष्याणां च सर्वतः॥ १ ॥

मूलम्

मन्त्रेण ताः समाकृष्य त्वतिदूरे विहायसि
तपोव्याजपरो देवस्तासु सङ्गतमानसः॥ २ ॥

मूलम्

मन्त्रेण ताः समाकृष्य त्वतिदूरे विहायसि
तपोव्याजपरो देवस्तासु सङ्गतमानसः॥ २ ॥

विश्वास-प्रस्तुतिः

अतिरम्यां कुटीं कृत्वा ताभिः सह महेश्वरः
क्रीडां चकार सहसा मनोभव पराभवः॥ ३ ॥

एतस्मिन्नन्तरे गौर्याश्चित्तमुद्भ्रान्ततां गतम्
अपश्यद्ध्यानयोगेन क्रीडन्तं जगदीश्वरम्॥ ४ ॥

स्त्रीभिरन्तर्गतं ज्ञात्वा रोषस्य वशगाभवत्
ततः क्षेमङ्करी रूपा भूत्वा च प्रविवेश सा॥ ५ ॥

व्योमैकान्तेतिदूरे च कामदेव समप्रभम्
वामातिमध्यगं शुभ्रं पुरुषं पुरुषोत्तमम्॥ ६ ॥

स्त्रीभिः सह समालिग्य प्रक्रीडन्तं मुहुर्मुहुः
चुम्बन्तं निर्भरं देवं हरं रागप्रपीडितम्॥ ७ ॥

वृत्तं क्षेमङ्करी दृष्ट्वा निपपाताग्रतस्तदा
तासां केशेषु चाकृष्य चकार चरणाहतिम्॥ ८ ॥

त्रपया पीडितश्शर्वः पराङ्मुखमवस्थितः
केशेष्वाकृष्य रोषात्ताः पातयामास भूतले॥ ९ ॥

स्त्रियः सर्वाधरां प्राप्य सहसा विकृताननाः
उमाशापप्रदग्धाङ्गा म्लेच्छानां वशमागताः॥ १० ॥

ताश्चाण्डालस्त्रियः ख्याता अधवा धवसंयुताः
अद्याप्युमाकृतं शापं सर्वास्ताश्च समश्नुयुः॥ ११ ॥

अथोमा शतधा रूपं कृत्वेशं सङ्गता तदा
एवं प्रभावं जानीहि कामस्य सततं द्विज॥ १२ ॥

ततश्चिरात्तया सार्द्धं गतः कैलासमन्दिरं
अतः क्षेमङ्करीं दृष्ट्वा येभिनन्दन्ति मानवाः॥ १३ ॥

तेषां वित्तर्द्धि विभवा भवन्तीह परत्र च
कुङ्कुमारक्तसर्वाङ्गि कुन्देन्दुधवलानने॥ १४ ॥

सर्वमङ्गलदे देवि क्षेमङ्करि नमोस्तु ते
योगिनीसाम्यं तेनैव सम्मुखा विमुखापि वा॥ १५ ॥

दृष्ट्वा तां नाभिवन्देद्यस्तस्य युद्धे पराजयः
राजगृहेषु विद्यायां नमस्काराज्जयो भवेत्॥ १६ ॥

एवं कामस्य माहात्म्यं भवो मोहवशं गतः
अयं देवासुराणां च क्षमया प्रभुतां गतः॥ १७ ॥

अस्यैव सदृशो लोके न भूतो न भविष्यति
रामामङ्कस्थितां रम्यां क्षमातल्पगतेन च॥ १८ ॥

त्यक्त्वैव साधिता लोकास्सुरासुरसुदुर्लभाः
एवं वैष्णवमुख्यश्च सुरासुरगणार्चितः॥ १९ ॥

यो नो ददाति भुक्त्यग्र्यं शेषं च स्वयमश्नुते
एवमभ्यासधैर्येण दीर्घकाले सुखङ्गते॥ २० ॥

प्राक्सङ्गमात्स्वभार्यां च दृष्ट्वा मां प्रददौ मुदा
द्वादशाब्दं प्रसङ्कल्प्य प्राग्भोगो मयि वेशितः॥ २१ ॥

तेन तस्य गृहे नित्यं तिष्ठामि गृहरक्षणात्
तथा धात्रीफलस्यापि सदा स्वर समीहते॥ २२ ॥

तस्मादुक्तो मयान्येषां वैष्णवानां च वैष्णवः
पुरा ये विप्र मे भक्तास्सुरा मत्पथगामिनः॥ २३ ॥

तैरेव न कृतं यच्च तदनेन कृतं परम्
तस्माद्वैष्णवसर्वस्वं नाम रम्यं मया कृतम्॥ २४ ॥

अस्य वेश्मनि तिष्ठामि मुहूर्तं न चलाम्यहम्
अतो ये चैवमद्भक्तास्तेष्वहं सुलभो द्विज॥ २५ ॥

अस्माकं पदवीं तेभ्यो ह्यद्य दद्मि स्वकारणम्
आवयोर्विप्रसौजन्यं स्वप्नभोज्यादिकं समम्॥ २६ ॥

सायुज्यं च सखित्वं च पश्य भूदेवनान्तरम्
ततो मूकादयः सर्वे स्वागता हरिमीश्वरम्॥ २७ ॥

गन्तुकामा दिवं पुण्यास्सदाराः सपरिच्छदाः
ये च तेषां गृहाभ्याशेप्यात्मनो गृहगोधिकाः॥ २८ ॥

नाना कीटादयो ये च तेषामनुययुः सुराः
व्यास उवाच-
एतस्मिन्नन्तरे देवाः सिद्धाश्च परमर्षयः॥ २९ ॥

प्रचक्रुः पुष्पवर्षाणि साधुसाध्वित्यनादयन्
देवदुन्दुभयो नेदुर्विमानेषु वनेषु च॥ ३० ॥

समारुह्य रथं स्वं स्वं हरिवीथीपुरं ययुः
तदद्भुतं समालोक्य विप्रोऽवोचज्जनार्दनम्॥ ३१ ॥

उपदेशं च देवेश ब्रूहि मे मधुसूदन
श्रीभगवानुवाच-
गच्छ स्वपितरौ तात शोकविक्लवमानसौ॥ ३२ ॥

मूलम्

उपदेशं च देवेश ब्रूहि मे मधुसूदन
श्रीभगवानुवाच-
गच्छ स्वपितरौ तात शोकविक्लवमानसौ॥ ३२ ॥

विश्वास-प्रस्तुतिः

समाराध्य प्रयत्नेन मद्गृहं प्राप्स्यसेऽचिरात्
पितृमातृसमा देवा न तिष्ठन्ति सुरालये॥ ३३ ॥

याभ्यां सुगर्हितं देहं शिशुत्वे पालितं सदा
अज्ञानदोषसहितं प्रपुष्टं चापि वर्धितम्॥ ३४ ॥

याभ्यां तयोस्समं नास्ति त्रैलोक्ये सचराचरे
ततो देवगणास्सर्वे पञ्चभिस्तैर्मुदान्विताः॥ ३५ ॥

माधवं संस्तुवन्तश्च गतास्ते हरिमन्दिरम्
खचितां च पुरीं रम्यां विश्वकर्मविनिर्मिताम्॥ ३६ ॥

रत्नाढ्यामिष्टसम्पूर्णां कल्पवृक्षादिभिर्युताम्
शातकुम्भमयैर्गेहैस्सर्वरत्नैस्सकर्बुराम्॥ ३७ ॥

वज्रवैडूर्यसोपानां स्वर्णदीतोयसंयुताम्
गीतवाद्यादिसम्पूर्णां सर्वदुर्गसमाकुलाम्॥ ३८ ॥

कोकिलालापबहुलां सिद्धगन्धर्वसेविताम्
रूपाढ्यैः सुजनैः पूर्णां प्रयान्तीमिव खे पुरीम्॥ ३९ ॥

ततः स्थित्वाऽच्युताः सर्वे सर्वलोकोर्ध्वतो भृशम्
द्विजोपि पितरौ गत्वा समाराध्य प्रयत्नतः॥ ४० ॥

अचिरेणैव कालेन सकुटुम्बो हरिं ययौ
पञ्चाख्यानमिदं पुण्यं मया ते समुदाहृतम्॥ ४१ ॥

यः पठेच्छृणुयाद्वापि तस्य नास्तीह दुर्गतिः
ब्रह्महत्यादिभिः पापैर्न लिप्येत कदाचन॥ ४२ ॥

गवां कोटिप्रदानेन यत्फलं लभते नरः
तत्फलं समवाप्नोति पञ्चाख्यानावगाहनात्॥ ४३ ॥

स्नानेन पुष्करे नित्यं भागीरथ्यां च सर्वदा
यत्फलं तदवाप्नोति सकृच्छ्रवणगोचरात्॥ ४४ ॥

दुःस्वप्नं नाशयेत्क्षिप्रं तथारोग्यं प्रयच्छति
लक्ष्म्यारोग्यकरं चैव तस्माच्छ्रोतव्यमेव हि॥ ४५ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे पञ्चाख्यानन्नाम षट्पञ्चाशत्तमोऽध्यायः५६