श्रीभगवानुवाच-
विश्वास-प्रस्तुतिः
अपरं च प्रवक्ष्यामि कामेनाधिष्ठितस्य च
पुरा भागीरथी तीरे द्विजः परमहंसकः॥ १ ॥
मूलम्
अपरं च प्रवक्ष्यामि कामेनाधिष्ठितस्य च
पुरा भागीरथी तीरे द्विजः परमहंसकः॥ १ ॥
विश्वास-प्रस्तुतिः
उपदेष्टा सहस्राणां द्विजानां शान्तिदः परः
एकदण्डधरः साक्षात्कूर्मवद्धरणी स्थितः॥ २ ॥

एकाकिनः सतस्तस्य देवागारे विनिष्कृते
पत्युर्गृहात्परं गेहं गन्तुं सायं समुद्यता॥ ३ ॥

अकस्माद्युवती नारी मिलिता रूपधारिणी
दृष्ट्वा तां भगवान्विप्रो मन्मथस्य भयार्दितः॥ ४ ॥

अगारजठरे कृत्वा स चैनां प्राक्षिपत्क्षपाम्
अर्गलं सा दृढं कृत्वा देवागारे सुशोभने॥ ५ ॥

कदाचिदपि तं द्वारादागन्तुं न ददाति ह
एवम्भूतः समाधिस्थः क्षपां क्षिप्त्वा विलप्य सः॥ ६ ॥

चिन्तयंस्तां वरारोहां द्वारि किं वा कृतं मम
एवं सञ्चिन्त्यतामाह द्वारं देहीह नः प्रिये॥ ७ ॥

पतिश्च वशगः कान्ते दयितस्ते भविष्यति
ततस्तं प्राह सा विप्रं वृद्धं कामप्रलालसम्॥ ८ ॥

अनन्विता गिरःस्तात वक्तुं त्वं नार्हसि प्रभो
अथासौ भगवान्प्राह प्रचुरं चास्ति मे वसु॥ ९ ॥

तव दास्यामि कल्याणि प्रस्फोटय कपाटिकाम्
विप्रमाह पुनः सा च त्वं वै मे धर्मतः पिता॥ १० ॥

मा गच्छ पुत्रिकां मां च परयोषां च धार्मिक
मनसा स समालोच्य सुषिरेण पथा गृहान्॥ ११ ॥

बाहुनोद्धाट्यते नैव गन्तुं चैव समुद्यतः
गच्छतश्चार्द्धमरर उत्तमाङ्गं सुसङ्कटे॥ १२ ॥

प्रविष्टं न पुनश्चैति पञ्चत्वमगमत्तदा
उषःकाले समायाता रक्षिणो ये च किङ्कराः॥ १३ ॥

अद्भुतं तं शवं दृष्ट्वा तामुचुस्ते च विस्मिताः
कथं च निधनं त्वस्य सम्भूतं ब्रूहि सुन्दरि॥ १४ ॥

कथयित्वा तु तद्वृत्तमभीष्टं देशमागता
एवं कामस्य महिमा दुर्निवारो जनेषु च॥ १५ ॥

सर्वेषामपि जन्तूनां सुरासुरनृणां भवेत्
दृष्ट्वाऽमोघां वरारोहां सर्वलोकपितामहः॥ १६ ॥

च्युतबीजोभवत्तत्र लौहित्यसम्भवस्मृतः
पुनाति सकलान्लोकान्सर्वतीर्थमयो हि सः॥ १७ ॥

यमाश्रित्य नरो याति ब्रह्मलोकमनामयम्
द्विज उवाच-
कथं च ब्रह्मणो मोहो ह्यमोघा का वराङ्गना॥ १८ ॥

उद्भवं तीर्थराजस्य श्रोतुमिच्छामि तत्त्वतः
श्रीभगवानुवाच-
मुनिर्देवैः समाराध्यः पद्मयोनिसमप्रभः॥ १९ ॥

शन्तनुश्चेति विख्यातः पत्नी तस्य पतिव्रता
अमोघेति समाख्याता रूपयौवनशालिनी॥ २० ॥

अस्याश्च पतिमन्वेष्टुं यातो ब्रह्मा च तद्गृहम्
तस्मिन्काले मुनिश्रेष्ठः पुष्पाद्यर्थं वनं गतः॥ २१ ॥

सा तं दृष्ट्वा सुरश्रेष्ठमर्घ्यपाद्यादिकं ददौ
दूरेभिवादनं कृत्वा सा गृहं प्रविवेश ह॥ २२ ॥

तां च दृष्ट्वा नवद्याङ्गीं धाता कामवशं गतः
स्रष्टात्मानं समाधायाचिन्तयत्तां पुरोगताम्॥ २३ ॥

बीजं पपात खट्वायां ब्रह्मणः परमात्मनः
ततो ब्रह्मा गतस्त्रस्तस्त्वरया परिपीडितः॥ २४ ॥

अथायातो मुनिर्गेहं शुक्रं पीठे ददर्श ह
तमपृच्छद्वरारोहां कश्चाप्यत्रागतः पुमान्॥ २५ ॥

तमुवाच ततोऽमोघा ब्रह्मा ह्यत्रागतः पते
त्वामेवान्वेषितुं नाथ मया दत्तोत्र पीठकः॥ २६ ॥

शुक्रस्य कारणं चात्र तपसा ज्ञातुमर्हसि
ततो ध्यानात्परिज्ञातं तेनैव च द्विजन्मना॥ २७ ॥

ब्रह्मरेतः परं साध्वी पालयस्व ममाज्ञया
उत्पद्यते सुतस्ते तु सर्वलोकैकपावनः॥ २८ ॥

आवयोः सर्वकल्याणं फलिष्यति मनोगतम्
ततः पतिव्रता तस्य आज्ञामागृह्य सम्भवात्॥ २९ ॥

पपौ रेतो महाभागा ब्रह्मणः परमात्मनः
आवर्त इव सञ्जज्ञे रौद्रगर्भ इति स्फुरन्॥ ३० ॥

प्रसोढुं नैव शक्ता सा शन्तनुं चाब्रवीत्ततः
गर्भं धारयितुं नाथ न शक्नोम्यधुना प्रभो॥ ३१ ॥

किं करिष्यामि धर्मज्ञ प्राणो मे सञ्चलत्यपि
आज्ञापय महाभाग गर्भं त्यक्ष्यामि यत्र च॥ ३२ ॥

पत्युराज्ञां समादाय मुक्तो गर्भो युगन्धरे
पयस्तेजोमयं शुद्धं सर्वधर्मप्रतिष्ठितम्॥ ३३ ॥

तन्मध्ये पुरुषः शुद्धः किरीटी नीलवाससा
रत्नदाम्ना च विद्धाङ्गो दुःप्रेक्ष्यो ज्योतिषां गणः॥ ३४ ॥

ततो देवगणाः स्वर्गात्पुष्पवर्षमवाकिरन्
प्रसूतः सर्वतीर्थेषु तीर्थराज इति स्मृतः॥ ३५ ॥

ततो राम इति ख्यातः प्रजातोहं भृगोः कुले
क्षत्रियान्पितृहन्तॄंस्तु ससैन्यबलवाहनान्॥ ३६ ॥

हत्वा युद्धगतान्भीतान्पङ्कैः सर्वैर्युतो ह्यहम्
ब्रह्महत्यासमं घोरं मद्गेहे समुपस्थितम्॥ ३७ ॥

पङ्कयुक्तं कुठारं मे क्षालितं नैव शुद्ध्यति
ततः खे चाभवद्वाणी राम मद्वचनं कुरु॥ ३८ ॥

यत्र तीर्थे कुठारं ते निर्मलं च भवेदिह
तत्र ते सर्वपापानां जातानां च क्षयो भवेत्॥ ३९ ॥

जनानां तत्र सर्वेषां हितार्थं तिष्ठ मानद
चपलं गच्छ तीर्थानि सर्वाणि सुमहान्ति च॥ ४० ॥

तेषां मध्ये महातीर्थे पर्शुः शुद्धो भवेद्यदि
तं च जानीहि तीर्थेषु मुक्तिदं परिकीर्तितम्॥ ४१ ॥

तच्छ्रुत्वा जामदग्न्यस्तु तीर्थानि प्रययौ तदा
गङ्गां सरस्वतीं शुभ्रां कावेरीं सरयूं तथा॥ ४२ ॥

गोदावरीं च यमुनां कद्रूं च वसुदां तथा
अन्यां च पुण्यदां रम्यां गौरीं पूर्वां स्थितां शुभाम्॥ ४३ ॥

गच्छतस्तस्य धीरस्य सदागतिसमस्य च
क्षालितः सर्वतीर्थेषु न पुनर्निर्मलोऽभवत्॥ ४४ ॥

ततो गिरिगुहां दुर्गां महारण्यं च पर्वतम्
गिरिकूटं च दुर्लभ्यं ययौ तीर्थमसौ हरिः॥ ४५ ॥

न च निर्मलतामेति कुठारस्तस्य तेन च
विषादमगमत्तत्र रामः परपुरञ्जयः॥ ४६ ॥
मूलम्
न च निर्मलतामेति कुठारस्तस्य तेन च
विषादमगमत्तत्र रामः परपुरञ्जयः॥ ४६ ॥
विश्वास-प्रस्तुतिः
हाहेति विविधं कृत्वा चोपविश्य धरातले
प्रचिन्तामगमद्वीरस्तमुवाच पुनस्तथा॥ ४७ ॥

पूर्वस्यां दिशि देवेश तीर्थं चास्ति गुहोदरे
तच्छ्रुत्वा नरशार्दूलो गत्वा कुण्डं ददर्श सः॥ ४८ ॥

प्रदक्षिणं जलावर्तं शुभ्रं पापहरं शुभम्
तज्जलस्पर्शमात्रेण कुठारः शुद्धतां गतः॥ ४९ ॥

ततो रामोभिषेकं तु कृतवान्प्रमुदान्वितः
शुद्धात्मनस्त्वपापस्य बुद्धिर्जाता प्रपाविनी५० 1.55.50
स रामः सुचिरं स्थित्वा तीर्थराजं प्रसाद्य तम्
ततस्ततोऽचलात्प्राप्य पुरं वेगसमन्वितः॥ ५१ ॥

ख्यातं कृत्वा ततश्चोर्व्यां गतोसौ लवणार्णवम्
अयं तीर्थवरः साक्षात्पितामहकृतो भुवि॥ ५२ ॥

सुखदः सर्वतः शुद्धो मुक्तिमार्गप्रदः किल
एवं कामप्रभावं च विद्धि दुर्वारदुःसहम्॥ ५३ ॥

कामाज्जातं वृषं पापं पुण्यं पुण्यप्रयोगतः
स जातश्चैव लौहित्यो विरञ्चेश्चैव चौरसः॥ ५४ ॥

शन्तनो क्षेत्र सञ्जातस्त्वमोघागर्भसम्भवः
विरिञ्चिना जितः कामः शान्तनोरप्यमत्सरात्॥ ५५ ॥

तस्याः पतिव्रतात्वाच्च तीर्थात्तीर्थवरो हि सः
एवं यस्तु पठेन्नित्यं पुण्याख्यानमिदं शिवम्॥ ५६ ॥

शृणुयाद्वा मुदा पृथ्व्यां मुक्तिमार्गं स गच्छति॥ ५७ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे पञ्चाख्याने लौहित्योत्पत्तिर्नाम पञ्चपञ्चाशत्तमोऽध्यायः५५