०५४

श्रीभगवानुवाच

विश्वास-प्रस्तुतिः

अद्रोहकस्य चाख्यातो महिमा लोकदुःसहः
एकतल्पगतां वामां क्षान्त्वा सर्वजितोऽभवत्॥ १ ॥

मूलम्

ज्ञानिनामपिदुःसाध्यं मुनीनां ब्रह्मचारिणां
सुरासुरमनुष्याणां विषमं तत्समं गतः॥ २ ॥

स्वभावाद्विषमं कामं जेतुं कः पुरुषः क्षमः
अद्रोहकमृते विप्र स एव भवजित्पुमान्॥ ३ ॥

अहल्याहरणादेव सुरेशस्य भगाङ्कता
पुनर्देव्याः प्रसादाच्च सहस्राक्षेति विश्रुतः॥ ४ ॥

विदितं सर्वलोके च त्रैलोक्ये सचराचरे
द्विज उवाच-
कथं च देवदेवस्य अहल्याहरणं प्रभो॥ ५ ॥

मूलम्

विदितं सर्वलोके च त्रैलोक्ये सचराचरे
द्विज उवाच-
कथं च देवदेवस्य अहल्याहरणं प्रभो॥ ५ ॥

विश्वास-प्रस्तुतिः

भगाङ्कत्वं च सम्प्राप सहस्राक्षः सुराधिपः
न गां कोपि भगाङ्कत्वं सम्प्राप्तस्सुरराट्कथम्॥ ६ ॥

दुःश्रुतं सुरवैकल्यं श्रोतुमिच्छामि तत्वतः
श्रीभगवानुवाच-
पुरा स्वान्तोद्भवां कन्यां लोकेशश्च महामनाः॥ ७ ॥

गौतमाय ददौ धाता लोकपालाग्रतो मुदा
ततस्तु लोकपालानां मन्मथाविष्टचेतसाम्॥ ८ ॥

शचीपतेस्तु सम्मोहो हृदि शल्य इव स्थितः
लोकपालानतिक्रम्य सुवेषा वरवर्णिनी॥ ९ ॥

मूलम्

शचीपतेस्तु सम्मोहो हृदि शल्य इव स्थितः
लोकपालानतिक्रम्य सुवेषा वरवर्णिनी॥ ९ ॥

विश्वास-प्रस्तुतिः

द्विजाय रत्नभूतैषा दत्ता किंवा करोम्यहम्
इति सञ्चिन्त्य तस्यास्तु वर्तमाने च यौवने॥ १० ॥

पुनश्च मायया दृष्टं रूपं तस्यास्सुशोभनम्
पुनश्चिन्तयमानोऽसौ गौतमाध्यासनं गतः॥ ११ ॥

पश्चात्तु तस्य गमनाद्यद्वृत्तं तच्छृणुष्व मे
एकदा गौतमः स्नातुं गतोऽसौ पुष्करं प्रति॥ १२ ॥

साध्वी च गृहशौचे च गृहवस्तुनि तत्परा
प्रवृत्ता देववास्तूनां बलिकर्तुं च तत्परा॥ १३ ॥

इन्धनं वह्निकार्यं च नित्यकर्मानुसञ्चयम्
एतस्मिन्नन्तरे शक्रो मुनेस्तस्य महात्मनः॥ १४ ॥

रूपमास्थाय गात्रेण प्रविवेशोटजं मुदा
पतिव्रता पतिं दृष्ट्वा श्रद्धया परया सती॥ १५ ॥

देवस्थाने च वस्तूनां सञ्चयं कर्तुमुद्यता
ततस्तामब्रवीदार्तो मुनिवेषधरो हरिः॥ १६ ॥

प्रद्युम्नवशगो वामे देहि मे चुम्बनादिकम्
एतस्मिन्नन्तरे सा च त्रपायुक्ताऽब्रवीद्वचः॥ १७ ॥

देवकार्यादिकं त्यक्त्वा वक्तुं नार्हसि मे प्रभो
सर्वं जानासि धर्मज्ञ पुण्यानां निश्चयं मुने॥ १८ ॥

अयमर्थो हि वेलायामधुनैव न युज्यते
ततस्तां चारुसर्वाङ्गीं दृष्ट्वा मन्मथपीडितः॥ १९ ॥

अलं प्रियेन वक्तव्यं हृच्छयो मे प्रजायते
कर्तव्यं चाप्यकर्तव्यं पत्युर्वचनसम्मतम्॥ २० ॥

करोति सततं या च सा च नारी पतिव्रता
लङ्घयेद्या च तस्याज्ञां सुरते च विशेषतः॥ २१ ॥

पुण्यं तस्या भवेन्नष्टं दुर्गतिं चाधिगच्छति
साब्रवीद्देववस्तूनि सन्ति देवार्थतो मुने॥ २२ ॥

नित्यकर्माणि चान्यानि किं वा तेषु विपर्ययः
स चोवाच सतीं तत्र देह्यालिगादिकं मम॥ २३ ॥

मनसा भयमुत्सृज्य मया दत्तानि तानि च
इत्युक्त्वा तां परिष्वज्य कृतस्तेन मनोरथः॥ २४ ॥

एतस्मिन्नन्तरे विप्र मुनेर्हृद्या सकल्मषम्
ततो ध्यानं समारभ्याजानाद्वृत्तं शचीपतेः॥ २५ ॥

तूर्णमेव द्वारदेशे गत्वा च समुपस्थितः
शक्रो मुनिं तु संलक्ष्य चौतुदेहं विवेश ह॥ २६ ॥

गच्छतः पृषदंशस्य पद्धतौ प्रचचाल ह
मुनिस्तत्रावदत्तं वै कस्त्वं मार्जाररूपधृत्॥ २७ ॥

भयात्तस्य मुनेरग्रे शक्रः प्राञ्जलिराश्रितः
मघवन्तं पुरो दृष्ट्वा चुकोप मुनिपुङ्गवः॥ २८ ॥

यत्त्वया चेदृशं कर्म भगार्थं छलसाहसम्
कृतं तस्मात्तवाङ्गेषु सहस्रभगमुत्तमम्॥ २९ ॥

भवत्विह तु पापिष्ठ लिङ्गं ते निपतिष्यति
गच्छ मे पुरतो मूढ सुरस्थानं दिवौकसः॥ ३० ॥

पश्यन्ति मुनिशार्दूला नराः सिद्धास्सहोरगाः
एवमुक्त्वा मुनिश्रेष्ठो रुदन्तीं तां पतिव्रताम्॥ ३१ ॥

पप्रच्छ किमिदानीं ते कर्म दारुणमागतम्
इत्युक्ता वेपमाना सा भीता पतिमुवाच ह॥ ३२ ॥

अज्ञानाद्यत्कृतं कर्म क्षन्तुमर्हसि वै प्रभो
मुनिरुवाच-
परेणाभिगतासि त्वममेध्या पापचारिणी॥ ३३ ॥

अस्थिचर्मसमाविष्टा निर्मांसा नखवर्जिता
चिरं स्थास्यसि चैकापि त्वां पश्यन्तु जनाः स्त्रियः॥ ३४ ॥

दुःखिता तमुवाचेदं शापस्यान्तो विधीयताम्
इत्युक्ते करुणाविष्टो मन्युनापि परिप्लुतः॥ ३५ ॥

जगाद गौतमो वाक्यं रामो दाशरथिर्यदा
वनमभ्यागतो विष्णुः सीतालक्ष्मणसंयुतः॥ ३६ ॥

दृष्ट्वा त्वां दुःखितां शुष्कां निर्देहां पथिसंस्थितां
गदिष्यति च वै रामो वसिष्ठस्याग्रतो हसन्॥ ३७ ॥

किमियं शुष्करूपा च प्रतिमास्थिमयी शवा
न दृष्टं मे पुरा ब्रह्मन्रूपं लोकविपर्ययम्॥ ३८ ॥

ततो रामं महाभागं विष्णुं मानुषविग्रहम्
यद्वृत्तमासीत्पूर्वं तद्वसिष्ठः कथयिष्यति॥ ३९ ॥

वसिष्ठवचनं श्रुत्वा रामो वक्ष्यति धर्मवित्
अस्या दोषो न चैवास्ति दोषोयं पाकशासने॥ ४० ॥

एवमुक्ते तु रामेण त्यक्त्वा रूपं जुगुप्सितं
दिव्यं रूपं समास्थाय मद्गृहं चागमिष्यसि॥ ४१ ॥

शप्त्वा तु गौतमस्तां हि तपस्तप्तुं गतो वनम्
ततोत्यन्तं शुष्करूपा तथैव पथि संस्थिता॥ ४२ ॥

रामस्य वचनादेव गौतमं पुनरागता
गौतमोपि तया सार्द्धमद्यैवं दिवि तिष्ठति॥ ४३ ॥

इन्द्रोपि त्रपयायुक्तः स्थितश्चान्तर्जले चिरम्
स्थित्वा चान्तर्जले देवीमस्तौदिन्द्राक्षिसञ्ज्ञिताम्॥ ४४ ॥

सुप्रसन्ना ततो देवी स्तोत्रेण परितोषिता
गत्वोवाच ततः सा च वरोस्मत्तो विगृह्यताम्॥ ४५ ॥

ततो देवीमुवाचेदं शक्रः परपुरञ्जयः
त्वत्प्रसादाच्च मे देवि वैरूप्यं मुनिशापजम्॥ ४६ ॥

सन्त्यज्य देवराज्यं च लब्ध्वाहं तु पुरा यथा
तमुवाच ततो देवी पापं तं मुनिशापजम्॥ ४ ॥

किन्तु बुद्धिं सृजाम्यद्य येन लोकैर्न लक्ष्यते॥ ४८ ॥

योनिमध्यगतं दृष्टि सहस्रं ते भविष्यति
सहस्राक्ष इति ख्यातस्सुरराज्यं करिष्यसि॥ ४९ ॥

मेषाण्डं तव शिश्नं च भविष्यति च मद्वरात्
इत्युक्त्वा सा जगन्माता तत्रैवान्तरधीयत५० 1.54.50
शक्रो देववरैः पूज्यो ह्यद्यापि दिवि वर्तते
इन्द्रस्यैतादृशी कामादवस्था द्विजसत्तम॥ ५१ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे अहल्याहरणन्नाम चतुष्पञ्चाशत्तमोऽध्यायः५४