०५३

द्विज उवाच-

विश्वास-प्रस्तुतिः

तुलाधारस्य चरितं प्रभावमतुलं प्रभो
वक्तुमर्हस्यशेषेण यदि मय्यस्त्यनुग्रहः॥ १ ॥

मूलम्

श्रीभगवानुवाच -
सत्यभावादलोभाच्च दद्याद्यो वै त्वमत्सरात्
नित्यं यज्ञशतं तस्य सुनिष्पन्नं सुदक्षिणम्॥ २ ॥

सत्येनोदयते सूरो वाति वातस्तथैव च
न लङ्घयेत्समुद्रस्तु वेलां कूर्मो धरां तथा॥ ३ ॥

सत्येन लोकास्तिष्ठन्ति सर्वे च वसुधाधराः
सत्याद्भ्रष्टोथ यः सत्वोप्यधोवासी भवेद्ध्रुवम्॥ ४ ॥

सत्यवाचिरतोथस्तु सत्यकार्यरतः सदा
सशरीरेण स्वर्लोकमागत्याच्युततां व्रजेत्॥ ५ ॥

सत्येन मुनयः सर्वे मां च गत्वा स्थिरं गताः
सत्याद्युधिष्ठिरो राजा सशरीरो दिवं गतः॥ ६ ॥

सर्वशत्रुगणं जित्वा लोको धर्मेण पालितः
अकरोच्च मखं शुद्धं राजसूयं सुदुर्लभम्॥ ७ ॥

चतुरशीतिसहस्राणि ब्राह्मणानां च नित्यशः
भोजयेद्रुक्मपात्रेषु राजोपकरणेषु च॥ ८ ॥

मूलम्

चतुरशीतिसहस्राणि ब्राह्मणानां च नित्यशः
भोजयेद्रुक्मपात्रेषु राजोपकरणेषु च॥ ८ ॥

विश्वास-प्रस्तुतिः

भोजयित्वोपकरणांस्तेभ्यो दत्वा विसर्जयेत्
यदभीष्टं द्विजातीनामतोन्यद्दापयेद्धनम्॥ ९ ॥

अदरिद्रं ततो ज्ञात्वा द्विजव्यूहं परित्यजेत्
तथैव स्नातकानां तु सहस्राणि तु षोडश
नित्यं सम्भोजयेद्राजा सत्येनैव विमत्सरः॥ १० ॥

अतिष्ठन्त गृहे पूर्वं चिरं तस्य जिगीषया
जितं तेन जगत्सर्वं प्राणानुग्रहकारणात्॥ ११ ॥

सत्येन चासुरो राजा बलिरिन्द्रो भविष्यति
पातालस्थस्य तस्यैव भूयस्तिष्ठामि वेश्मनि॥ १२ ॥

निरन्तरं च तिष्ठामि स्वान्ते पुण्यैककर्मणः
यद्वा पुरा मया बद्धो दैत्ययोनेर्विमोक्षणात्॥ १३ ॥

तलं चैवामरत्वं हि शक्रत्वं प्रददाम्यहम्
हरिश्चन्द्रो नृपस्सत्यात्सवाहनपरिच्छदः॥ १४ ॥

स्वशरीरेण शुद्धेन सत्यलोके प्रतिष्ठितः
राजानो बहवश्चान्ये ये च सिद्धा महर्षयः॥ १५ ॥

ज्ञानिनो यतयश्चैव सर्वे सत्येऽच्युताऽभवन्
तस्मात्सत्यरतो लोके संसारोद्धरणक्षमः॥ १६ ॥

तुलाधारो महात्मा वै सत्यवाक्ये प्रतिष्ठितः
लोके तत्सदृशो नास्ति सत्यवाक्यस्य कारणात्॥ १७ ॥

अश्वमेधसहस्रेण सत्यं तु तुलया धृतम्
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते॥ १८ ॥

सर्वं सत्याद्भवेत्साध्यं सत्यो हि दुरतिक्रमः
सत्यवाक्येन सा धेनुर्बहुला स्वर्गगामिनी॥ १९ ॥

सर्वं राष्ट्रं समाधाय पुनरावृत्तिदुर्लभा
तथायं सर्वदा साक्षी मृषा नास्ति कदाचन॥ २० ॥

बह्वर्घमल्पमर्घं च क्रयविक्रयणे सुधीः
सत्यवाक्यं प्रशस्तं च विशेषात्साक्षिणो भवेत्॥ २१ ॥

साक्षिणः सत्यमुक्त्वा च अक्षयं स्वर्गमाययुः
वावदूकः सभां प्राप्य सत्यं वदति वाक्पतिः॥ २२ ॥

स याति ब्रह्मणो गेहं यज्ञैरन्यैश्च दुर्लभम्
सभायां यो वदेत्सत्यमश्वमेधफलं लभेत्॥ २३ ॥

लोभाद्द्वेषान्मृषोक्त्वा च रौरवं नरकं व्रजेत्
सर्वसाक्षी तुलाधारो जनानां शूर एव च॥ २४ ॥

विशेषाल्लोभसन्त्यागान्नाके निर्जरतां व्रजेत्
कश्चिच्छूद्रो महाभागो न लोभे वर्तते क्वचित्॥ २५ ॥

वृत्तिश्शाकेन दुःखेन तथा शिलोञ्छतो भृशम्
जर्जरं वस्त्रयुग्मं च करौ पात्रे च सर्वदा॥ २६ ॥

सदापि लाभविरहो न परस्वं गृहीतवान्
तस्य जिज्ञासयैवाहं गृहीत्वा वस्त्रयुग्मकम्॥ २७ ॥

अवकोटे नदीतीरे स्थितस्संस्थाप्य सादरम्
स दृष्ट्वा वस्त्रयुग्मं तन्न लोभे कुरते मनः॥ २८ ॥

इतरस्य परिज्ञाय तत्क्षान्त्या स्वगृहं ययौ
ततो विचिन्तयित्वा तु हृदा स्वल्पमिति द्विज॥ २९ ॥

उदुम्बरं हेमगर्भं मया तत्रैव पातितम्
किङ्करे च नदीतीरे विकोणे जनवर्जिते॥ ३० ॥

तस्य यातस्य देशे तु दृष्टं तेन तदद्भुतम्
अलं विधानमेतत्तु कृत्रिमं चोपलक्ष्यते॥ ३१ ॥

ग्रहणे वाधुना चास्य अलोभं नष्टमेव मे
अस्यैव रक्षणे कष्टमहङ्कारपदं त्विदम्॥ ३२ ॥

यतो लोभस्ततो लाभो लाभाल्लोभः प्रवर्तते
लोभग्रस्तस्य पुंसश्च शाश्वतो निरयो भवेत्॥ ३३ ॥

यदि नो विगुणं वित्तं यदा वेश्मनि तिष्ठति
तदा मे दारपुत्राणामुन्मादो ह्युपपद्यते॥ ३४ ॥

उन्मादात्कामसञ्जात विकारान्मतिविभ्रमः
भ्रमान्मोहोप्यहङ्कारः क्रोधलोभावतः परं॥ ३५ ॥

एषां प्रचुरभावाच्च तपः क्षयं गमिष्यति
क्षीणे तपसि वर्तन्ते पङ्काश्चित्तप्रमोहकाः॥ ३६ ॥

तैश्च शृङ्खलयोगैश्च बद्धो नैवोद्धृतिं व्रजेत्
एतद्विमृश्य शूद्रोऽसौ परित्यज्य गृहं गतः॥ ३७ ॥

स्वस्था देवा मुदा तत्र साधुसाध्विति चाब्रुवन्
निर्ग्रन्थिरूपमादाय तस्यान्तिक गृहं तथा॥ ३८ ॥

गत्वाहं दैवसंवादमवदं भूतवर्तनम्
ततोभ्यासप्रसङ्गाच्च जनानां च परिप्लवात्॥ ३९ ॥

तस्य योषा तदागत्य पप्रच्छ दैवकारणम्
ततोहमवदं तस्य यद्वा चेतोगतं द्रुतम्॥ ४० ॥

निभृतोथ निनादस्य कारणं कथितं मया
हृद्गतं पतिना तेद्य विधिना दत्तमज्ञवत्॥ ४१ ॥

परित्यक्तं महाभागे पुनर्नास्तीह ते वसु
यावज्जीवति दौर्विध्यं तस्य भोक्ता न संशयः॥ ४२ ॥

गच्छ मातर्गृहं शून्यमलब्धं तत्प्रपृच्छतम्
श्रुत्वा तद्वै शिवं सा च वचनं पत्युरन्तिके॥ ४३ ॥

गत्वा प्रोवाच दुर्वृत्तं तच्छ्रुत्वा विस्मयं गतः
स विचिन्त्य तया सार्धमागतोसौ ममान्तिकम्॥ ४४ ॥

निभृतं मामुवाचेदं क्षपणत्वं च कीर्तय
क्षपणक उवाच-
चाक्षुषं चिरसंशुद्धं हेलया तृणवत्कथम्॥ ४५ ॥

त्वया त्यक्तं यतस्तात नास्ति भाग्यमकण्टकम्
ऐश्वर्यमतुलं शौर्यं शीर्यते भावुकं पुनः॥ ४६ ॥

स्वबन्धूनां महद्दुःखमाजन्ममरणान्तिकम्
द्रक्ष्यसे चात्मना नित्यं मृतानां या गतिर्ध्रुवम्॥ ४७ ॥

तस्मात्तद्गृह्यतां तूर्णं भुङ्क्ष्व भोग्यमकण्टकम्
ऐश्वर्यमतुलं शौर्यं लोकानां विस्मयं वरम्॥ ४८ ॥

शूद्र उवाच-
न मे वित्ते स्पृहा चास्ति धनं संसार वागुरा
तद्विधौ पतितो मर्त्यो न पुनर्मोक्षकं व्रजेत्॥ ४९ ॥

शृणु वित्तस्य यद्दोषमिहलोके परत्र च
भयं चोराच्च ज्ञातिभ्यो राजभ्यस्तत्करादपि५० 1.53.50
सर्वे जिघांसवो मर्त्याः पशुमत्स्यविविष्किराः
तथा धनवतां नित्यं कथमर्थास्सुखावहाः॥ ५१ ॥

प्राणस्यान्तकरो ह्यर्थस्साधको दुरितस्य च
कालादीनां प्रियं गेहं निदानं दुर्गतेः परम्॥ ५२ ॥

यस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः
कुलं शीलं च पाण्डित्यं रूपं भोग्यं यशः सुखम्॥ ५३ ॥

धनेन तु विहीनस्य पुत्रदारोज्झितस्य च
कथं मित्रं कथं धर्मं दीनानां जन्मनः कथं॥ ५४ ॥

सत्वादिक्रतुकार्यं च पुष्करिण्युपकारकं
दानं नाकस्य सोपानं निःस्वस्य च न सिद्ध्यति॥ ५५ ॥

व्रतकार्यस्य रक्षा च धर्मादिश्रवणं भृशम्
पितृयज्ञादितीर्थं च निर्वित्तस्य न सिद्ध्यति॥ ५६ ॥

तथा रोगप्रतीकारः पथ्यमौषधसञ्चयं
रक्षणं विग्रहश्चैव शत्रूणां विजयो ध्रुवम्॥ ५७ ॥

स्त्रीणां च जन्मना वार्ता वसुयोगेन लभ्यते
भूतभव्यप्रवृत्तानां सुकृतं दुष्कृतं च यत्॥ ५८ ॥

तस्माद्बहुधनं यस्य तस्य भोग्यं यदृच्छया
स्वर्गं वितरणादेव लप्स्यसे ह्यचिरादितः॥ ५९ ॥

अकामाच्च व्रतं सर्वमक्रोधात्तीर्थसेवनम्
दया जप्यसमा शुद्धं सन्तोषो धनमेव च॥ ६० ॥

अहिंसा परमा सिद्धिः शिलोञ्छवृत्तिरुत्तमा
शाकाहारः सुधातुल्य उपवासः परन्तप॥ ६१ ॥

सन्तोषो मे महाभोग्यं महादानं वराटकम्
मातृवत्परदाराश्च परद्रव्याणि लोष्ठवत्॥ ६२ ॥

परदारा भुजङ्गाभाः सर्वयज्ञ इदं मम
तस्मादेनं न गृह्णामि सत्यं सत्यं गुणाकर॥ ६३ ॥

प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरं
इत्युक्ते तु नरश्रेष्ठ पुष्पवर्षं पपात ह॥ ६४ ॥

मूर्ध्रिदेशे तनौ तस्य सर्वदेवेरितं द्विज
देवदुन्दुभयो नेदुर्नृत्यन्त्यप्सरसां गणाः॥ ६५ ॥

जगुर्गन्धर्वपतयो विमानं चापतद्दिवः
ऊचुर्देवगणास्तत्र विमानमिदमारुह॥ ६६ ॥

मूलम्

जगुर्गन्धर्वपतयो विमानं चापतद्दिवः
ऊचुर्देवगणास्तत्र विमानमिदमारुह॥ ६६ ॥

विश्वास-प्रस्तुतिः

सत्यलोकं समासाद्य भुङ्क्ष्व भोग्यं महेन्द्रवत्
सङ्ख्या तेनापि वर्तेत भोग्यकालस्य धार्मिक॥ ६७ ॥

इत्युक्तेषु च देवेषु शूद्रो वचनमब्रवीत्
कथं निर्ग्रन्थकस्यास्य ज्ञानं चेष्टास्य भाषणम्॥ ६८ ॥

किं वा हरिहरौ ब्रह्मा किं वा शक्रो बृहस्पतिः
किं वा मच्छलनादेव साक्षाद्धर्म इहागतः॥ ६९ ॥

इत्युक्ते क्षपणश्चासौ स्मितो वचनमब्रवीत्
विज्ञातुं चैव वो धर्ममहं विष्णुरिहागतः॥ ७० ॥

विमानेन दिवं गच्छ सकुटुम्बो महामुने
मत्प्रसादाच्च युष्माकं सदैव नवयौवनम्॥ ७१ ॥

भविष्यति महाप्राज्ञ भाग्यानन्त्यं प्रलप्स्यथ
दिव्याभरणसंयुक्ता दिव्यवस्त्रोपशोभिताः॥ ७२ ॥

गतास्ते सहसा नाकं सर्वैर्बन्धुजनैर्वृताः
एवं द्विजवरश्रेष्ठ लोभत्यागाद्ययुर्दिवम्॥ ७३ ॥

तुलाधारस्तथाधीमान्सत्यधर्म प्रतिष्ठितः
ये न जानाति तद्वृत्तं देशान्तरसमुद्भवम्॥ ७४ ॥

तुलाधारसमो नास्ति सुरलोके प्रतिष्ठितः
तस्मात्त्वमपि भूदेव समं गत्वा दिवं व्रज॥ ७५ ॥

य इदं शृणुयान्मर्त्यः सर्वधर्मप्रतिष्ठितः
जन्मजन्मार्जितं पापं तत्क्षणात्तस्य नश्यति॥ ७६ ॥

सकृत्पठनमात्रेण सर्वयज्ञफलं लभेत्
लोकानां पुरतो विप्र देवानामर्च्यतां व्रजेत्॥ ७७ ॥

इति श्रीपाद्मपुराणे प्रथमे सृष्टिखण्डे शूद्रस्यालोभाख्यानं नाम त्रिपञ्चाशत्तमो-ऽध्यायः५३