०५१

नरोत्तम उवाच-

विश्वास-प्रस्तुतिः

त्रिदशानां च देवानामन्येषां जगदीश्वरः
प्रभुः कर्ता च हर्त्ता च गोप्ता भर्त्ता पिता प्रसूः॥ १ ॥

मूलम्

अस्माकं वाक्श्रमो विष्णोः कथनेनैव युज्यते
किन्तु कौतूहलं मेऽस्ति पिपासा वा क्षुधापि वा॥ २ ॥

कृतं पृच्छति येनैव वक्तव्यं तत्प्रियेण हि
अतीतं चैव जानाति कथं नाथ पतिव्रता॥ ३ ॥

किं वा तस्यां प्रभावं च वक्तुमर्हस्यशेषतः
भगवानुवाच-
कथितं मे पुरा वत्स पुनः कौतूहलं द्विज॥ ४ ॥

कथयिष्यामि तत्सर्वं यत्ते मनसि वर्तते
पतिव्रता पतिप्राणा सदा पत्युर्हिते रता॥ ५ ॥

देवानामपि साऽऽराध्या मुनीनां ब्रह्मवादिनां
धवस्यैकस्य या नारी लोके पूज्यतमा स्मृता॥ ६ ॥

तस्या सम्मानने गुर्वी निभृता न भविष्यति
मध्यदेशे पुरा तात नगरी चातिशोभना॥ ७ ॥

मूलम्

तस्या सम्मानने गुर्वी निभृता न भविष्यति
मध्यदेशे पुरा तात नगरी चातिशोभना॥ ७ ॥

विश्वास-प्रस्तुतिः

तस्यां च ब्रह्मजातीया सेव्या नाम्नी पतिव्रता
तस्या धवोऽभवत्कुष्ठी पूर्वकर्मविरोधतः॥ ८ ॥

गलद्व्रणास्य पत्युश्च नित्यं चर्यापरायणा
यद्यन्मनोरथं तस्य शक्त्या सा कुरुते भृशम्॥ ९ ॥

अर्चयेद्देववन्नित्यं स्नेहं कुर्यादमत्सरा
कदाचित्पथि गच्छन्तीं वेश्यां परमसुन्दरीम्॥ १० ॥

दृष्ट्वाऽतीवाभवन्मोहान्मन्मथाविष्टचेतनः
निश्श्वस्य सुतरां दीर्घं ततस्तु विमनाऽभवत्॥ ११ ॥

श्रुत्वा गृहाद्विनिःसृत्य साध्वी पप्रच्छ तं पतिं
उन्मनास्त्वं कथं नाथ निःश्वासस्ते कथं विभो॥ १२ ॥

ब्रूहि मे यच्च कर्तव्यमकर्तव्यं च यत्प्रियम्
दयितं ते करिष्यामि त्वमेको मे गुरुः प्रियः॥ १३ ॥

अभीष्टं वद मे नाथ यथाशक्ति करोम्यहम्
इत्युक्ते तामुवाचेदं वृथा किं भाषसे प्रिये॥ १४ ॥

न शक्ता त्वं न चैवाहं मोघं वक्तुं न युज्यते
प्रष्टुं नाधिकरोषीति यथा दीर्घतरोः फलम्॥ १५ ॥

भूमौ स्थित्वा तु खर्वात्मा समुद्धर्तुं प्रवाञ्छति
तथा मे रमणी लोभान्मोहाद्यदभिवाञ्छितम्॥ १६ ॥

दम्पत्योरपि दुःसाध्यमपयानं वदाम्यहम्
पतिव्रतोवाच-
ज्ञात्वा तु त्वन्मनोवृत्तं शक्ताहं कार्यसाधने॥ १७ ॥

आदेशं कुरु मे नाथ कर्तव्यं येन केनचित्
यदि ते दुर्लभं कार्यं कर्तुं शक्नोमि यत्नतः॥ १८ ॥

तदा मे त्वतिकल्याणं फलिष्यति परे त्विह
इत्युक्ते परमः प्रीतः स्थितो वचनमब्रवीत्॥ १९ ॥

पापाभ्यासाच्च पाप्मानं पृच्छतीति विनिश्चयः
पथ्यस्मिन्सम्प्रगच्छन्तीं वेश्यां परमसुन्दरीम्॥ २० ॥

सर्वतश्चानवद्याङ्गीं दृष्ट्वा मे दह्यते मनः
यदि तां त्वत्प्रसादाच्च प्राप्नोमि नवयौवनां॥ २१ ॥

तदा मे सफलं जन्म कुरु साध्वि हितं मम
यदि मां कुष्ठिनं दीनं पूतिगन्धं नवव्रणम्॥ २२ ॥

न गच्छति वरारोहा तदा मे निधनं हितम्
श्रुत्वा तेनेरितं वाक्यं साध्वी वचनमब्रवीत्॥ २३ ॥

यथाशक्ति करिष्यामि स्थिरी भव प्रभोऽधुना
मनसाथ समालोच्य क्षपान्ते ह्युषसि द्रुतम्॥ २४ ॥

गोमयं सह शोधन्या गृहीत्वा सा ययौ मुदा
सम्प्राप्य गणिकागेहं शोधयित्वा च चत्वरम्॥ २५ ॥

प्रतोलीं वीथिकां चैव गोमयं प्रददौ मुदा
सा तूर्णमागता गेहे जनस्यालोकने भयात्॥ २६ ॥

एवं क्रमेण सा साध्वी चरति स्म दिनत्रयम्
अथ सा वारमुख्या च चेटिकाश्चेटकानपि॥ २७ ॥

अपृच्छत्कस्य कर्माणि शोभनानि च चत्वरे
मया नोक्तेप्युषः काले कस्य मत्प्रियकारणात्॥ २८ ॥

रुच्यकर्मणि दीप्यन्ते रथ्या चत्त्वर वीथिकाः
परस्परेण सञ्चिन्त्य वारमुख्यां च तेऽब्रुवन्॥ २९ ॥

अस्माभिर्न कृतं भद्रे कर्म चैतत्प्रमार्जनम्
अथ सा विस्मयं गत्वा सञ्चिन्त्य रजनीक्षये॥ ३० ॥

तया च दृश्यते सा च तथैव पुनरागता
दृष्ट्वा तां महतीं साध्वीं ब्राह्मणीं च पतिव्रताम्॥ ३१ ॥

दधार चरणे तस्या हा क्षमस्वेति भाषिणी
आयुर्देहं च सम्पत्तिर्यशोर्थः कीर्तिरेव च ॥ ३२ ॥

एतासां मे विनाशाय स्फुरसीव पतिव्रते
यद्यत्प्रार्थयसे साध्वि नित्यं दास्यामि तद्दृढम्॥ ३३ ॥

सुवर्णं मणिरत्नं वा चेलं वा यन्मनोरथं
तामुवाच ततः साध्वी न मे चार्थे प्रयोजनम्॥ ३४ ॥

अस्ति कार्यं च ते किञ्चिद्वदामि कुरुषे यदि
तदा मे हृदि सन्तोषः कृतं सर्वं त्वयाऽधुना॥ ३५ ॥

गणिकोवाच-
सत्यं सत्यं करिष्यामि द्रुतं वद पतिव्रते
कुरु मे रक्षणं मातर्द्रुतं कृत्यं च मे वद॥ ३६ ॥

त्रपया निकृतं वाच्यं तस्यामुक्तं वरं प्रियम्
क्षणं विमृश्य सा वेश्या कृत्वा क्षान्तिमुवाच च॥ ३७ ॥

कुष्ठिनः पूतिगन्धस्य सम्पर्के दुःखिता भृशम्
दिनैकं च करिष्यामि यद्यागच्छति मद्गृहम्॥ ३८ ॥

आगमिष्यामि ते गेहमद्य रात्रौ च सुन्दरि
भुक्तभोग्यं पतिं हृष्टं पुनर्नेष्यामि मद्गृहम्॥ ३९ ॥

गच्छ शीघ्रं महाभागे स्वगृहं च पतिव्रते
पतिस्ते चार्द्धरात्रे स आगच्छतु च मद्गृहम्॥ ४० ॥

बहवो मे प्रियास्सन्ति राजानस्तत्समाश्च ये
एकैको मद्गृहे नित्यं तिष्ठतीह निरन्तरम्॥ ४१ ॥

अद्याहं मे गृहं शून्यं करिष्यामि च त्वद्भयात्
स चागच्छतु ते भर्त्ता स चास्मान्प्राप्य गच्छतु॥ ४२ ॥

एतच्छ्रुत्वा तु सा साध्वी गतासौ स्वगृहे तथा
पत्यौ निवेदयामास कृत्यं ते फलितं प्रभो॥ ४३ ॥

अद्य रात्रौ च तद्गेहं गन्तुं ख्यातिं करोति सा
प्रभूताः पतयस्तस्यास्तव कालो न विद्यते॥ ४४ ॥

विप्र उवाच-
कथं यास्यामि तद्गेहं मया गन्तुं न शक्यते
एतज्ज्ञात्वा कुतः क्षान्तिः कृतं कार्यं कथं भवेत्॥ ४५ ॥

स्वपृष्ठस्थमहं कृत्वा नेष्यामि तद्गृहं प्रति
सिद्धे ह्यर्थे नयिष्यामि पुनस्ते नैव वर्त्मना॥ ४६ ॥

द्विज उवाच-
कल्याणि त्वत्कृतेनैव सर्वं मे कृत्यमेष्यति
इदानीं यत्कृतं कर्म स्त्रीजनैरपि दुःसहम्॥ ४७ ॥

तस्मिंश्च नगरे रम्ये नित्यं च धनिनो गृहे
पौरेश्च प्रचुरं वित्तं हृतं राज्ञा श्रुतं तदा॥ ४८ ॥

श्रुत्वा सर्वान्निशाचारानाहूय नृपती रुषा
जीवितुं यदि वो वाञ्छा चोरं मामद्य दास्यथ॥ ४९ ॥

गृहीत्वा तु नृपस्याज्ञां यत्तैर्जिघृक्षयाकुलैः
चारैश्चोरो गृहीतस्तैर्बलाच्चैव नृपाज्ञया५० 1.51.50
नगरोपान्तदेशे च वृक्षमूले घने वने
समाधिस्थोमहातेजामाण्डव्योमुनिपुङ्गवः॥ ५१ ॥

व्यातिष्ठद्वह्निसङ्काशो योगिनां प्रवरो मुनिः
अन्तर्नाडीगतो वायुः किञ्चिन्न प्रतिभाति च॥ ५२ ॥

तं ब्रह्मतुल्यं तिष्ठन्तं दृष्ट्वा दुष्टा महामुनिम्
चोरोयमद्भुताकारो धूर्तस्तिष्ठति कानने॥ ५३ ॥

एवमुक्त्वा तु तं पापा बबन्धुर्मुनिसत्तमम्
नोक्ताश्च नेक्षितास्तेन पुरुषा अतिदारुणाः॥ ५४ ॥

ततो राजा उवाचेदं सम्प्राप्तस्तस्करो मया
उपान्ते च पथिद्वारे कुरुध्वं घोरदण्डनम्॥ ५५ ॥

माण्डव्यश्च मुनिस्तत्र पथिशूले च कीलितः
पायुदेशे च तैर्दत्तं शूलं यावच्च मस्तकम्॥ ५६ ॥

व्यथां स च न जानाति शूले विद्धतनुर्यमात्
अन्यैरपि कृतो दण्डः कृतस्तैस्तु मनोहितः॥ ५७ ॥

एतस्मिन्नन्तरे रात्रावन्धकारे घनोन्नते
स्वपतिं पृष्ठतः कृत्वा प्रययौ सा पतिव्रता॥ ५८ ॥

माण्डव्यस्य तनौ सङ्गात्कुष्ठिनो गन्ध आगतः
भग्नः समाधिस्तस्यैवं कुष्ठिसंसर्गतो ध्रुवम्॥ ५९ ॥

माण्डव्य उवाच-
एवं येनाधुना कृच्छ्रं कारितं गात्रवेदनम्
स एव भस्मतां यातु प्रोदिते च विरोचने॥ ६० ॥

माण्डव्येनैवमुक्तस्स पपात धरणीतले
ततः पतिव्रता चाह ब्रध्नो नोदयतु ध्रुवं॥ ६१ ॥

दिनत्रयं गृहं नीत्वा शापाद्वेश्मगता ततः
शयनीये स्थितं रम्ये धृत्वाऽतिष्ठत्पतिव्रता॥ ६२ ॥

शप्त्वा तं च मुनिश्रेष्ठो गतो देशमभीष्टकम्
सूरो नोदयते लोके यावच्चैव दिनत्रयम्॥ ६३ ॥

निखिलं व्यथितं दृष्ट्वा त्रैलोक्यं सचराचरम्
शतक्रतुं पुरस्कृत्य गता देवाः पितामहम्॥ ६४ ॥

वृत्तं न्यवेदयन्सर्वं पद्मयोनौ दिवौकसः
कारणं च न जानीमस्त्वं तु योग्यं विधेहि नः॥ ६५ ॥

ब्रह्मोवाच-
पतिव्रताया यद्वृत्तं माण्डव्यस्य मुनेश्च यत्
यथा नोदयते ब्रध्नो धाता देवेष्ववेदयत्॥ ६६ ॥

ततो देवा विमानैश्च पुरस्कृत्य प्रजापतिम्
गतास्तदन्तिकं विप्र तूर्णं सर्वे च भूतलम्॥ ६७ ॥

तेषां श्रिया विमानानां मुनीनां किरणैस्तथा
शतसूर्यमिवाभाति नान्यत्र च गृहोदरे॥ ६८ ॥

हा हतास्मि कथं सूरो मद्गृहे समुपस्थितः
अदृश्यन्त तया देवा विमानैर्हंससन्निभैः॥ ६९ ॥

एतस्मिन्नन्तरे ब्रह्मा तामुवाच पतिव्रताम्
अखिलानां च देवानां द्विजानां च गवां तथा॥ ७० ॥

यथैव निधनं तेषां कथं ते परिरोचते
मातः क्रोधं त्यजस्वाद्य सूर्यस्योदयनं प्रति॥ ७१ ॥

मूलम्

यथैव निधनं तेषां कथं ते परिरोचते
मातः क्रोधं त्यजस्वाद्य सूर्यस्योदयनं प्रति॥ ७१ ॥

विश्वास-प्रस्तुतिः

पतिव्रतोवाच-
सर्वलोकानतिक्रम्य पतिरेको गुरुर्मम
अस्य मृत्युर्मुनेश्शापादुदिते च विरोचने॥ ७२ ॥

तेनैव कारणेनैष मया शप्तो दिवाकरः
न कोपान्न च मोहाच्च लोभात्कामान्न मत्सरात्॥ ७३ ॥

एकस्य निधनेनैव त्रैलोक्यस्य हितं भवेत्
ततस्ते चाधिकं पुण्यं मातरेवं भविष्यति॥ ७४ ॥

सा चोवाच विधिं तत्र देवानामग्रतः सती
पतिं त्यक्त्वा च मे सत्यं शिवं मे नानुरोचते॥ ७५ ॥

उदिते च खगे सौम्ये पत्यौ ते भस्मतां गते
स्वस्थेभूते च त्रैलोक्ये करिष्यामि हितं तव॥ ७६ ॥

भस्मनः पुरुषो भाव्यः कामदेवसमप्रभः
गुणैः सर्वैर्युतो भर्ता रतिवत्त्वं च सर्वदा॥ ७७ ॥

यथापूज्यो हरिर्दैवैर्यथा लक्ष्मीश्च पूजिता
तथैव दम्पती स्वर्गे तस्मान्मद्वचनं कुरु॥ ७८ ॥

पत्युर्मे निधने ब्रह्मन्विधवा लोकनिन्दिता
कांस्तु लोकान्गमिष्यामि भग्ना चारामलीमसा॥ ७९ ॥

अतस्ते नास्ति दोषो वै न मृतस्ते धवोऽधुना
अस्माकं वचनेनैव कुष्ठी मन्मथतां व्रजेत्॥ ८० ॥

वदत्येवंविधौ सा च विमृश्य क्षणमेव च
बाढमुक्तवती सा च ततस्सूर्योदयोऽभवत्॥ ८१ ॥

अभवद्भस्मरूपोऽसौ मुनिशापप्रपीडितः
भस्मनो मध्यतो जातो द्विजो मन्मथपीडितः॥ ८२ ॥

दृष्ट्वा विस्मयपमापन्नाः सर्वे ते पुरवासिनः
मुदिता देवसङ्घाश्च जनः स्वस्थतरोऽभवत्॥ ८३ ॥

विमानेनार्कवर्णेन स्वर्लोकादागतेन च
पतिना सह सा साध्वी सुरैः सार्द्धं गता दिवम्॥ ८४ ॥

एवं पतिव्रता यस्माच्छुभा चैव तु मत्समा
तेन वृत्तं च जानाति भूतं भव्यं प्रवर्तनम्॥ ८५ ॥

य इदं श्रावयेल्लोके पुण्याख्यानमनुत्तमम्
तस्य पापं क्षयं याति जन्मजन्मकृतं च यत्॥ ८६ ॥

अक्षयं लभते स्वर्गं विबुधैः सम्प्रयुज्यते
ब्राह्मणो लभते वेदं जन्मजन्मसु बाडव॥ ८७ ॥

सकृच्छृणोति यः पूतो दुष्कृतौघाद्विमुच्यते
सुरालयमवाप्नोति स्वर्गाद्भ्रष्टो धनी भवेत्८८