नारद उवाच-
विश्वास-प्रस्तुतिः
केनाचारेण विप्रस्य ब्रह्मतेजो विवर्धते
केनाचारेण तस्यैव ब्राह्मं तेजो विनश्यति ॥ १ ॥
मूलम्
केनाचारेण विप्रस्य ब्रह्मतेजो विवर्धते
केनाचारेण तस्यैव ब्राह्मं तेजो विनश्यति ॥ १ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच-
शयनीयात्समुत्थाय रात्र्यंशे द्विजसत्तमः
देवांश्चैव स्मरेन्नित्यं तथा पुण्यवतो ध्रुवम् ॥ २ ॥
मूलम्
ब्रह्मोवाच-
शयनीयात्समुत्थाय रात्र्यंशे द्विजसत्तमः
देवांश्चैव स्मरेन्नित्यं तथा पुण्यवतो ध्रुवम् ॥ २ ॥
विश्वास-प्रस्तुतिः
गोविन्दं माधवं कृष्णं हरिं दामोदरं तथा
नारायणं जगन्नाथं वासुदेवमजं विभुम् ॥ ३ ॥
मूलम्
गोविन्दं माधवं कृष्णं हरिं दामोदरं तथा
नारायणं जगन्नाथं वासुदेवमजं विभुम् ॥ ३ ॥
विश्वास-प्रस्तुतिः
सरस्वतीं महालक्ष्मीं सावित्रीं वेदमातरम्
ब्रह्माणं भास्करं चन्द्रं दिक्पालांश्च ग्रहांस्तथा ॥ ४ ॥
मूलम्
सरस्वतीं महालक्ष्मीं सावित्रीं वेदमातरम्
ब्रह्माणं भास्करं चन्द्रं दिक्पालांश्च ग्रहांस्तथा ॥ ४ ॥
विश्वास-प्रस्तुतिः
शङ्करं च शिवं शम्भुमीश्वरं च महेश्वरम्
गणेशं च तथा स्कन्दं गौरीं भागीरथीं शिवाम् ॥ ५ ॥
मूलम्
शङ्करं च शिवं शम्भुमीश्वरं च महेश्वरम्
गणेशं च तथा स्कन्दं गौरीं भागीरथीं शिवाम् ॥ ५ ॥
विश्वास-प्रस्तुतिः
पुण्यश्लोको नलो राजा पुण्यश्लोको जनार्दनः
पुण्यश्लोका च वैदेही पुण्यश्लोको युधिष्ठिरः ॥ ६ ॥
मूलम्
पुण्यश्लोको नलो राजा पुण्यश्लोको जनार्दनः
पुण्यश्लोका च वैदेही पुण्यश्लोको युधिष्ठिरः ॥ ६ ॥
विश्वास-प्रस्तुतिः
अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः
कृपः परशुरामश्च सप्तैते चीरजीविनः ॥ ७ ॥
मूलम्
अश्वत्थामा बलिर्व्यासो हनूमांश्च विभीषणः
कृपः परशुरामश्च सप्तैते चीरजीविनः ॥ ७ ॥
विश्वास-प्रस्तुतिः
एतान्यस्तु स्मरेन्नित्यं प्रातरुत्थाय मानवः
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥ ८ ॥
मूलम्
एतान्यस्तु स्मरेन्नित्यं प्रातरुत्थाय मानवः
ब्रह्महत्यादिभिः पापैर्मुच्यते नात्र संशयः ॥ ८ ॥
विश्वास-प्रस्तुतिः
सकृदुच्चरिते तात सर्वयज्ञफलं लभेत्
गवां शतसहस्राणां दानस्य फलमश्नुते ॥ ९ ॥
मूलम्
सकृदुच्चरिते तात सर्वयज्ञफलं लभेत्
गवां शतसहस्राणां दानस्य फलमश्नुते ॥ ९ ॥
विश्वास-प्रस्तुतिः
ततश्चापि शुचौ देशे मलमूत्रं परित्यजेत्
दक्षिणाभिमुखो रात्रौ दिवा कुर्यादुदङ्मुखः ॥ १० ॥
मूलम्
ततश्चापि शुचौ देशे मलमूत्रं परित्यजेत्
दक्षिणाभिमुखो रात्रौ दिवा कुर्यादुदङ्मुखः ॥ १० ॥
विश्वास-प्रस्तुतिः
परतो दन्तकाष्ठं च तृणैरुदुम्बरादिभिः
अतः परं च सन्ध्यायां संयतश्च द्विजो भवेत् ॥ ११ ॥
मूलम्
परतो दन्तकाष्ठं च तृणैरुदुम्बरादिभिः
अतः परं च सन्ध्यायां संयतश्च द्विजो भवेत् ॥ ११ ॥
विश्वास-प्रस्तुतिः
पूर्वाह्णे रक्तवर्णां तु मध्याह्ने शुक्लवर्णिकाम्
सायं सरस्वतीं कृष्णां द्विजो ध्यायेद्यथाविधि ॥ १२ ॥
मूलम्
पूर्वाह्णे रक्तवर्णां तु मध्याह्ने शुक्लवर्णिकाम्
सायं सरस्वतीं कृष्णां द्विजो ध्यायेद्यथाविधि ॥ १२ ॥
विश्वास-प्रस्तुतिः
ततः समाचरेत्स्नानं यथाज्ञानेन यत्नतः
अङ्गं प्रक्षालयित्वा तु मृद्भिः संलेपयेत्ततः॥ १३ ॥
मूलम्
ततः समाचरेत्स्नानं यथाज्ञानेन यत्नतः
अङ्गं प्रक्षालयित्वा तु मृद्भिः संलेपयेत्ततः॥ १३ ॥
विश्वास-प्रस्तुतिः
शिरोदेशे ललाटे च नासिकायां हृदि भ्रुवोः
बाह्वोः पार्श्वे तथा नाभौ जान्वोरङ्घ्रिद्वये तथा ॥ १४ ॥
मूलम्
शिरोदेशे ललाटे च नासिकायां हृदि भ्रुवोः
बाह्वोः पार्श्वे तथा नाभौ जान्वोरङ्घ्रिद्वये तथा ॥ १४ ॥
विश्वास-प्रस्तुतिः
एका लिङ्गे गुदे तिस्रस्तथा वामकरे दश
उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ॥ १५ ॥
मूलम्
एका लिङ्गे गुदे तिस्रस्तथा वामकरे दश
उभयोः सप्त दातव्या मृदः शुद्धिमभीप्सता ॥ १५ ॥
विश्वास-प्रस्तुतिः
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे
मृत्तिके हर मे पापं यन्मया पूर्वसञ्चितम् ॥ १६ ॥
मूलम्
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे
मृत्तिके हर मे पापं यन्मया पूर्वसञ्चितम् ॥ १६ ॥
विश्वास-प्रस्तुतिः
अनेनैव तु मन्त्रेण मृत्तिकां यस्तनौ क्षिपेत्
सर्वपापक्षयस्तस्य शुचिर्भवति मानवः ॥ १७ ॥
मूलम्
अनेनैव तु मन्त्रेण मृत्तिकां यस्तनौ क्षिपेत्
सर्वपापक्षयस्तस्य शुचिर्भवति मानवः ॥ १७ ॥
विश्वास-प्रस्तुतिः
ततस्तु वेदपूर्वेण स्नानं कुर्याद्विचक्षणः
नदे नद्यां तथा कूपे पुष्करिण्यां तटाकके ॥ १८ ॥
मूलम्
ततस्तु वेदपूर्वेण स्नानं कुर्याद्विचक्षणः
नदे नद्यां तथा कूपे पुष्करिण्यां तटाकके ॥ १८ ॥
विश्वास-प्रस्तुतिः
जलराशौ च वप्रे च घटस्नानं तथोत्तरम्
कारयेद्विधिवन्मर्त्यः सर्वपापक्षयाय च ॥ १९ ॥
मूलम्
जलराशौ च वप्रे च घटस्नानं तथोत्तरम्
कारयेद्विधिवन्मर्त्यः सर्वपापक्षयाय च ॥ १९ ॥
विश्वास-प्रस्तुतिः
प्रातःस्नानं महापुण्यं सर्वपापप्रणाशनम्
यः कुर्यात्सततं विप्रो विष्णुलोके महीयते ॥ २० ॥
मूलम्
प्रातःस्नानं महापुण्यं सर्वपापप्रणाशनम्
यः कुर्यात्सततं विप्रो विष्णुलोके महीयते ॥ २० ॥
विश्वास-प्रस्तुतिः
प्रातः सन्ध्यासमीपे च यावद्दण्डचतुष्टयम्
तावत्पानीयममृतं पितॄणामुपतिष्ठते ॥ २१ ॥
मूलम्
प्रातः सन्ध्यासमीपे च यावद्दण्डचतुष्टयम्
तावत्पानीयममृतं पितॄणामुपतिष्ठते ॥ २१ ॥
विश्वास-प्रस्तुतिः
परतो घटिकायुग्मं यावद्यामैकमाह्निकम्
मधुतुल्यं जलं तस्मिन्पितॄणां प्रीतिवर्धनम् ॥ २२ ॥
मूलम्
परतो घटिकायुग्मं यावद्यामैकमाह्निकम्
मधुतुल्यं जलं तस्मिन्पितॄणां प्रीतिवर्धनम् ॥ २२ ॥
विश्वास-प्रस्तुतिः
ततस्तु सार्द्धयामैकं जलं क्षीरमयं स्मृतम्
क्षीरमिश्रं जलं तावद्यावद्दण्डचतुष्टयम् ॥ २३ ॥
मूलम्
ततस्तु सार्द्धयामैकं जलं क्षीरमयं स्मृतम्
क्षीरमिश्रं जलं तावद्यावद्दण्डचतुष्टयम् ॥ २३ ॥
विश्वास-प्रस्तुतिः
अतः परं च पानीयं यावद्धि प्रहरत्रयम्
तत्परं लोहितं प्रोक्तं यावदस्तङ्गतो रविः ॥ २४ ॥
मूलम्
अतः परं च पानीयं यावद्धि प्रहरत्रयम्
तत्परं लोहितं प्रोक्तं यावदस्तङ्गतो रविः ॥ २४ ॥
विश्वास-प्रस्तुतिः
चतुर्थप्रहरे स्नाने रात्रौ वा तर्पयेत्पितॄन्
तत्तोयं रक्षसामेव ग्रहणेन विना स्मृतम् ॥ २५ ॥
मूलम्
चतुर्थप्रहरे स्नाने रात्रौ वा तर्पयेत्पितॄन्
तत्तोयं रक्षसामेव ग्रहणेन विना स्मृतम् ॥ २५ ॥
विश्वास-प्रस्तुतिः
पानीयं सर्वसिर्द्ध्य्थं पुरैव निर्मितं मया
रक्षार्थं तस्य तोयस्य यक्षाश्चैव धुरन्धराः ॥ २६ ॥
मूलम्
पानीयं सर्वसिर्द्ध्य्थं पुरैव निर्मितं मया
रक्षार्थं तस्य तोयस्य यक्षाश्चैव धुरन्धराः ॥ २६ ॥
विश्वास-प्रस्तुतिः
न प्राप्नुवन्ति पितरो ये च लोकान्तरं गताः
दुष्प्राप्यं सलिलं तेषामृते स्वान्मर्त्यवासिनः ॥ २७ ॥
मूलम्
न प्राप्नुवन्ति पितरो ये च लोकान्तरं गताः
दुष्प्राप्यं सलिलं तेषामृते स्वान्मर्त्यवासिनः ॥ २७ ॥
विश्वास-प्रस्तुतिः
तस्माच्छिष्यैश्च पुत्रैश्च पौत्रदौहित्रकादिभिः
बन्धुवर्गैस्तथा चान्यैस्तर्पणीयं पितृव्रतैः ॥ २८ ॥
मूलम्
तस्माच्छिष्यैश्च पुत्रैश्च पौत्रदौहित्रकादिभिः
बन्धुवर्गैस्तथा चान्यैस्तर्पणीयं पितृव्रतैः ॥ २८ ॥
विश्वास-प्रस्तुतिः
नारद उवाच-
जलस्य दैवतं ब्रूहि तर्पणस्य विधिं मयि
यथा जानामि देवेश तत्वतो वक्तुमर्हसि ॥ २९ ॥
मूलम्
नारद उवाच-
जलस्य दैवतं ब्रूहि तर्पणस्य विधिं मयि
यथा जानामि देवेश तत्वतो वक्तुमर्हसि ॥ २९ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच-
जलस्य देवता विष्णुःस र्वलोकेषु गीयते
जलपूतो भवेद्यस्तु विष्णुस्तच्छङ्करो भवेत् ॥ ३० ॥
मूलम्
ब्रह्मोवाच-
जलस्य देवता विष्णुःस र्वलोकेषु गीयते
जलपूतो भवेद्यस्तु विष्णुस्तच्छङ्करो भवेत् ॥ ३० ॥
विश्वास-प्रस्तुतिः
जलं गण्डूषमात्रं तु पीत्वा पूतो भवेन्नरः
विशेषात्कुशसंसर्गात्पीयूषादधिकं जलम् ॥ ३१ ॥
मूलम्
जलं गण्डूषमात्रं तु पीत्वा पूतो भवेन्नरः
विशेषात्कुशसंसर्गात्पीयूषादधिकं जलम् ॥ ३१ ॥
विश्वास-प्रस्तुतिः
सर्वदेवालयो दर्भो मयायं निर्मितः पुरा
कुशमूले भवेद्ब्रह्मा कुशमध्ये तु केशवः ॥ ३२ ॥
मूलम्
सर्वदेवालयो दर्भो मयायं निर्मितः पुरा
कुशमूले भवेद्ब्रह्मा कुशमध्ये तु केशवः ॥ ३२ ॥
विश्वास-प्रस्तुतिः
कुशाग्रे शङ्करं विद्धि कुश एते प्रतिष्ठिताः
कुशहस्तः सदा मेध्यः स्तोत्रं मन्त्रं पठेद्यदि ॥ ३३ ॥
मूलम्
कुशाग्रे शङ्करं विद्धि कुश एते प्रतिष्ठिताः
कुशहस्तः सदा मेध्यः स्तोत्रं मन्त्रं पठेद्यदि ॥ ३३ ॥
विश्वास-प्रस्तुतिः
सर्वं शतगुणं प्रोक्तं तीर्थे साहस्रमुच्यते
कुशाः काशास्तथा दूर्वा यवपत्राणि व्रीहयः ॥ ३४ ॥
मूलम्
सर्वं शतगुणं प्रोक्तं तीर्थे साहस्रमुच्यते
कुशाः काशास्तथा दूर्वा यवपत्राणि व्रीहयः ॥ ३४ ॥
विश्वास-प्रस्तुतिः
बल्वजाः पुण्डरीकाश्च कुशास्सप्त प्रकीर्तिताः
आनुपूर्व्येण मेध्याः स्युः कुशा लोके प्रतिष्ठिताः ॥ ३५ ॥
मूलम्
बल्वजाः पुण्डरीकाश्च कुशास्सप्त प्रकीर्तिताः
आनुपूर्व्येण मेध्याः स्युः कुशा लोके प्रतिष्ठिताः ॥ ३५ ॥
विश्वास-प्रस्तुतिः
विना मन्त्रेण यत्स्नानं सर्वं तन्निष्फलं भवेत्
अमृतात्स्वादुतामेति संस्पर्शाच्च तिलस्य च ॥ ३६ ॥
मूलम्
विना मन्त्रेण यत्स्नानं सर्वं तन्निष्फलं भवेत्
अमृतात्स्वादुतामेति संस्पर्शाच्च तिलस्य च ॥ ३६ ॥
विश्वास-प्रस्तुतिः
तस्माच्च तर्पयेन्नित्यं पितॄंस्तिलजलैर्बुधः
दशभिश्च तिलैस्तावत्पितॄणां प्रीतिरुत्तमा ॥ ३७ ॥
मूलम्
तस्माच्च तर्पयेन्नित्यं पितॄंस्तिलजलैर्बुधः
दशभिश्च तिलैस्तावत्पितॄणां प्रीतिरुत्तमा ॥ ३७ ॥
विश्वास-प्रस्तुतिः
अग्निस्तम्भभयाद्देवा न चेच्छन्त्यतिविस्तरम्
स्नात्वा यस्तर्पयेन्नित्यं तिलमिश्रोदकैः पितॄन् ॥ ३८ ॥
मूलम्
अग्निस्तम्भभयाद्देवा न चेच्छन्त्यतिविस्तरम्
स्नात्वा यस्तर्पयेन्नित्यं तिलमिश्रोदकैः पितॄन् ॥ ३८ ॥
विश्वास-प्रस्तुतिः
नीलपण्डविमोक्षेण त्वमावास्या तिलोदकैः
वर्षासु दीपदानेन पितॄणामनृणो भवेत् ॥ ३९ ॥
मूलम्
नीलपण्डविमोक्षेण त्वमावास्या तिलोदकैः
वर्षासु दीपदानेन पितॄणामनृणो भवेत् ॥ ३९ ॥
विश्वास-प्रस्तुतिः
वत्सरैकममायां तु तर्पयेद्यस्तिलैः पितृन्
विनायकत्वमाप्नोति सर्वदेवैः प्रपूज्यते ॥ ४० ॥
मूलम्
वत्सरैकममायां तु तर्पयेद्यस्तिलैः पितृन्
विनायकत्वमाप्नोति सर्वदेवैः प्रपूज्यते ॥ ४० ॥
विश्वास-प्रस्तुतिः
युगाद्यासु च सर्वासु यस्तिलैस्तर्पयेत्पितॄन्
उक्तं यद्वाप्यमायां तु तस्माच्छतगुणाधिकम् ॥ ४१ ॥
मूलम्
युगाद्यासु च सर्वासु यस्तिलैस्तर्पयेत्पितॄन्
उक्तं यद्वाप्यमायां तु तस्माच्छतगुणाधिकम् ॥ ४१ ॥
विश्वास-प्रस्तुतिः
अयने विषुवे चैव राकामायां तथैव च
तर्पयित्वा पितृव्यूहं स्वर्गलोके महीयते ॥ ४२ ॥
मूलम्
अयने विषुवे चैव राकामायां तथैव च
तर्पयित्वा पितृव्यूहं स्वर्गलोके महीयते ॥ ४२ ॥
विश्वास-प्रस्तुतिः
तथा मन्वन्तराख्यायामन्यस्यां पुण्यसंस्थितौ
ग्रहणे चन्द्रसूर्यस्य पुण्यतीर्थे गयादिषु ॥ ४३ ॥
मूलम्
तथा मन्वन्तराख्यायामन्यस्यां पुण्यसंस्थितौ
ग्रहणे चन्द्रसूर्यस्य पुण्यतीर्थे गयादिषु ॥ ४३ ॥
विश्वास-प्रस्तुतिः
तर्पयित्वा पितॄन्याति माधवस्य निकेतनम्
तस्मात्पुण्याहकं प्राप्य तर्पयेत्पितृसञ्चयम् ॥ ४४ ॥
मूलम्
तर्पयित्वा पितॄन्याति माधवस्य निकेतनम्
तस्मात्पुण्याहकं प्राप्य तर्पयेत्पितृसञ्चयम् ॥ ४४ ॥
विश्वास-प्रस्तुतिः
तर्पणं देवतानां च पूर्वं कृत्वा समाहितः
अधिकारी भवेत्पश्चात्पितॄणां तर्पणे बुधः ॥ ४५ ॥
मूलम्
तर्पणं देवतानां च पूर्वं कृत्वा समाहितः
अधिकारी भवेत्पश्चात्पितॄणां तर्पणे बुधः ॥ ४५ ॥
विश्वास-प्रस्तुतिः
श्राद्धे भोजनकाले च पाणिनैकेन दापयेत्
उभाभ्यां तर्पणे दद्याद्विधिरेष सनातनः ॥ ४६ ॥
मूलम्
श्राद्धे भोजनकाले च पाणिनैकेन दापयेत्
उभाभ्यां तर्पणे दद्याद्विधिरेष सनातनः ॥ ४६ ॥
विश्वास-प्रस्तुतिः
दक्षिणाभिमुखो भूत्वा शुचिस्तु तर्पयेत्पितॄन्
तृप्यतामिति वाक्येन नामगोत्रेण वै पुनः ॥ ४७ ॥
मूलम्
दक्षिणाभिमुखो भूत्वा शुचिस्तु तर्पयेत्पितॄन्
तृप्यतामिति वाक्येन नामगोत्रेण वै पुनः ॥ ४७ ॥
विश्वास-प्रस्तुतिः
अकृष्णैर्यत्तिलैर्मोहात्तर्पयेत्पितृसञ्चयम्
भूम्यां ददाति यदपो दाता चैव जले स्थितः ॥ ४८ ॥
मूलम्
अकृष्णैर्यत्तिलैर्मोहात्तर्पयेत्पितृसञ्चयम्
भूम्यां ददाति यदपो दाता चैव जले स्थितः ॥ ४८ ॥
विश्वास-प्रस्तुतिः
वृथा तद्दीयते दानं नोपतिष्ठति कस्यचित्
स्थले स्थित्वा जले यस्तु प्रयच्छेदुदकं नरः ॥ ४९ ॥
मूलम्
वृथा तद्दीयते दानं नोपतिष्ठति कस्यचित्
स्थले स्थित्वा जले यस्तु प्रयच्छेदुदकं नरः ॥ ४९ ॥
विश्वास-प्रस्तुतिः
नोपतिष्ठेत्पितॄणां तु सलिलं तन्निरर्थकम्
आर्द्रवासा जले यस्तु कुर्यादुदकतर्पणम् ५० 1.49.50
पितरस्तस्य तृप्यन्ति सहदेवैस्सदानघ
रजकैः क्षालितं वस्त्रमशुद्धं कवयो विदुः ॥ ५१ ॥
मूलम्
नोपतिष्ठेत्पितॄणां तु सलिलं तन्निरर्थकम्
आर्द्रवासा जले यस्तु कुर्यादुदकतर्पणम् ५० 1.49.50
पितरस्तस्य तृप्यन्ति सहदेवैस्सदानघ
रजकैः क्षालितं वस्त्रमशुद्धं कवयो विदुः ॥ ५१ ॥
विश्वास-प्रस्तुतिः
हस्तप्रक्षालने चैव पुनर्वस्त्रं तु शुध्यति
शुष्कवासाः शुचौ देशे स्थाने यत्तर्पयेत्पितॄन् ॥ ५२ ॥
मूलम्
हस्तप्रक्षालने चैव पुनर्वस्त्रं तु शुध्यति
शुष्कवासाः शुचौ देशे स्थाने यत्तर्पयेत्पितॄन् ॥ ५२ ॥
विश्वास-प्रस्तुतिः
ततो दशगुणेनैव तुष्यन्ति पितरो ध्रुवम्
स्नानं सन्ध्यां च पाषाणे खड्गे वा ताम्रभाजने ॥ ५३ ॥
मूलम्
ततो दशगुणेनैव तुष्यन्ति पितरो ध्रुवम्
स्नानं सन्ध्यां च पाषाणे खड्गे वा ताम्रभाजने ॥ ५३ ॥
विश्वास-प्रस्तुतिः
तर्पणं कुरुते यस्तु प्रत्येकं च शताधिकम्
रौप्याङ्गुलीयं तर्जन्यां धृत्वा यत्तर्पयेत्पितॄन् ॥ ५४ ॥
मूलम्
तर्पणं कुरुते यस्तु प्रत्येकं च शताधिकम्
रौप्याङ्गुलीयं तर्जन्यां धृत्वा यत्तर्पयेत्पितॄन् ॥ ५४ ॥
विश्वास-प्रस्तुतिः
सर्वं च शतसाहस्रगुणं भवति नान्यथा
तथैवानामिकायां तु धृत्वा स्वर्णाङ्गुलीं बुधः ॥ ५५ ॥
मूलम्
सर्वं च शतसाहस्रगुणं भवति नान्यथा
तथैवानामिकायां तु धृत्वा स्वर्णाङ्गुलीं बुधः ॥ ५५ ॥
विश्वास-प्रस्तुतिः
तर्पयेत्पितृसन्दोहं लक्षकोटिगुणं भवेत्
अङ्गुष्ठदेशिनी मध्ये सव्यहस्तस्य खड्गकम् ॥ ५६ ॥
मूलम्
तर्पयेत्पितृसन्दोहं लक्षकोटिगुणं भवेत्
अङ्गुष्ठदेशिनी मध्ये सव्यहस्तस्य खड्गकम् ॥ ५६ ॥
विश्वास-प्रस्तुतिः
धृत्वानामिकया रत्नमञ्जलेरक्षयम्फलं
स्नानार्थमभिगच्छन्तं देवाः पितृगणैः सह ॥ ५७ ॥
मूलम्
धृत्वानामिकया रत्नमञ्जलेरक्षयम्फलं
स्नानार्थमभिगच्छन्तं देवाः पितृगणैः सह ॥ ५७ ॥
विश्वास-प्रस्तुतिः
वायुभूतानुगच्छन्ति तृषार्ताः सलिलार्थिनः
निराशास्ते निवर्तन्ते वस्त्रनिष्पीडनेन च ॥ ५८ ॥
मूलम्
वायुभूतानुगच्छन्ति तृषार्ताः सलिलार्थिनः
निराशास्ते निवर्तन्ते वस्त्रनिष्पीडनेन च ॥ ५८ ॥
विश्वास-प्रस्तुतिः
तस्मान्न पीडयेद्वस्त्रमकृत्वा पितृतर्पणम्
तिस्रःकोट्योऽर्धकोटी च यानि लोमानि मानुषे ॥ ५९ ॥
मूलम्
तस्मान्न पीडयेद्वस्त्रमकृत्वा पितृतर्पणम्
तिस्रःकोट्योऽर्धकोटी च यानि लोमानि मानुषे ॥ ५९ ॥
विश्वास-प्रस्तुतिः
स्रवन्ति सर्वतीर्थानि तस्मान्न परिपीडयेत्
देवाः पिबन्ति शिरसि श्मश्रुतः पितरस्तथा ॥ ६० ॥
मूलम्
स्रवन्ति सर्वतीर्थानि तस्मान्न परिपीडयेत्
देवाः पिबन्ति शिरसि श्मश्रुतः पितरस्तथा ॥ ६० ॥
विश्वास-प्रस्तुतिः
चक्षुषोरपि गन्धर्वा अधस्तात्सर्वजन्तवः
देवाः पितृगणाः सर्वे गन्धर्वा जन्तवस्तथा ॥ ६१ ॥
मूलम्
चक्षुषोरपि गन्धर्वा अधस्तात्सर्वजन्तवः
देवाः पितृगणाः सर्वे गन्धर्वा जन्तवस्तथा ॥ ६१ ॥
विश्वास-प्रस्तुतिः
स्नानमात्रेण तुष्यन्ति स्नानात्पापं न विद्यते
नित्यस्नानं च यः कुर्यात्स नरः पुरुषोत्तमः ॥ ६२ ॥
मूलम्
स्नानमात्रेण तुष्यन्ति स्नानात्पापं न विद्यते
नित्यस्नानं च यः कुर्यात्स नरः पुरुषोत्तमः ॥ ६२ ॥
विश्वास-प्रस्तुतिः
सर्वपापैर्विनिर्मुक्तो नाकलोकेमहीयते
स्नानं तर्पणपर्यन्तं देवा महर्षयो विदुः ॥ ६३ ॥
मूलम्
सर्वपापैर्विनिर्मुक्तो नाकलोकेमहीयते
स्नानं तर्पणपर्यन्तं देवा महर्षयो विदुः ॥ ६३ ॥
विश्वास-प्रस्तुतिः
अतः परं च देवानां पूजनं कारयेद्बुधः
गणेशं पूजयेद्यस्तु विघ्नस्तस्य न जायते ॥ ६४ ॥
मूलम्
अतः परं च देवानां पूजनं कारयेद्बुधः
गणेशं पूजयेद्यस्तु विघ्नस्तस्य न जायते ॥ ६४ ॥
विश्वास-प्रस्तुतिः
आरोग्यार्थं च सूर्यं च धर्ममोक्षाय माधवम्
शिवं च कृत्यकामार्थं सर्वकामाय चण्डिकाम् ॥ ६५ ॥
मूलम्
आरोग्यार्थं च सूर्यं च धर्ममोक्षाय माधवम्
शिवं च कृत्यकामार्थं सर्वकामाय चण्डिकाम् ॥ ६५ ॥
विश्वास-प्रस्तुतिः
देवांस्तु पूजयित्वा तु वैश्वदेवबलिं चरेत्
वह्निकार्यं ततः कृत्वा यज्ञं ब्राह्मणतर्पणम् ॥ ६६ ॥
मूलम्
देवांस्तु पूजयित्वा तु वैश्वदेवबलिं चरेत्
वह्निकार्यं ततः कृत्वा यज्ञं ब्राह्मणतर्पणम् ॥ ६६ ॥
विश्वास-प्रस्तुतिः
देवानां सर्वसत्वानां पुनस्त्रिविष्टपं व्रजेत्
गतागतं स्थिरं कृत्वा कामान्मोक्षं सुखं दिवम् ॥ ६७ ॥
मूलम्
देवानां सर्वसत्वानां पुनस्त्रिविष्टपं व्रजेत्
गतागतं स्थिरं कृत्वा कामान्मोक्षं सुखं दिवम् ॥ ६७ ॥
विश्वास-प्रस्तुतिः
तस्मात्सर्वप्रयत्नेन नित्यं कर्माणि कारयेत्
नारद उवाच-
किमर्थं च जलं तात देवाः पितृगणैः सह ॥ ६८ ॥
मूलम्
तस्मात्सर्वप्रयत्नेन नित्यं कर्माणि कारयेत्
नारद उवाच-
किमर्थं च जलं तात देवाः पितृगणैः सह ॥ ६८ ॥
विश्वास-प्रस्तुतिः
न प्राप्नुवन्ति सर्वज्ञ लभन्ते मानवा यथा
ब्रह्मोवाच
पुरा सृष्टं मया तोयं सर्वदेवमयामृतम् ॥ ६९ ॥
मूलम्
न प्राप्नुवन्ति सर्वज्ञ लभन्ते मानवा यथा
ब्रह्मोवाच
पुरा सृष्टं मया तोयं सर्वदेवमयामृतम् ॥ ६९ ॥
विश्वास-प्रस्तुतिः
तस्यैव रक्षणार्थं च रक्षा यक्षा धनुर्धराः
घ्नन्ति ते पितरं देवमस्मद्वाक्यान्न मानुषम् ॥ ७० ॥
मूलम्
तस्यैव रक्षणार्थं च रक्षा यक्षा धनुर्धराः
घ्नन्ति ते पितरं देवमस्मद्वाक्यान्न मानुषम् ॥ ७० ॥
विश्वास-प्रस्तुतिः
पशवः पक्षिणः कीटा मर्त्यलोके व्यवस्थिताः
मर्त्यजाताश्च देवा ये तथैव मानुषा ध्रुवम् ॥ ७१ ॥
मूलम्
पशवः पक्षिणः कीटा मर्त्यलोके व्यवस्थिताः
मर्त्यजाताश्च देवा ये तथैव मानुषा ध्रुवम् ॥ ७१ ॥
विश्वास-प्रस्तुतिः
तर्पयित्वा गुरुं नित्यं सुरलोके प्रतिष्ठिताः
अस्नायी च मलं भुङ्क्ते अजपी पूयशोणितम् ॥ ७२ ॥
मूलम्
तर्पयित्वा गुरुं नित्यं सुरलोके प्रतिष्ठिताः
अस्नायी च मलं भुङ्क्ते अजपी पूयशोणितम् ॥ ७२ ॥
विश्वास-प्रस्तुतिः
अकृत्वा तर्पणं नित्यं पितृहा चोपजायते
ब्रह्महत्यासमं पापं देवानामप्यपूजने ॥ ७३ ॥
मूलम्
अकृत्वा तर्पणं नित्यं पितृहा चोपजायते
ब्रह्महत्यासमं पापं देवानामप्यपूजने ॥ ७३ ॥
विश्वास-प्रस्तुतिः
सन्ध्याकृत्यमकृत्वा च सूर्यं हन्ति च पापकृत्
नारद उवाच-
ब्राह्मणस्य सदाचारक्रमं ब्रूहि च कर्मणाम् ॥ ७४ ॥
मूलम्
सन्ध्याकृत्यमकृत्वा च सूर्यं हन्ति च पापकृत्
नारद उवाच-
ब्राह्मणस्य सदाचारक्रमं ब्रूहि च कर्मणाम् ॥ ७४ ॥
विश्वास-प्रस्तुतिः
इतरेषां च वर्णानां प्रवृत्तमखिलं वद
ब्रह्मोवाच-
आचाराल्लभते चायुराचाराल्लभते सुखम् ॥ ७५ ॥
मूलम्
इतरेषां च वर्णानां प्रवृत्तमखिलं वद
ब्रह्मोवाच-
आचाराल्लभते चायुराचाराल्लभते सुखम् ॥ ७५ ॥
विश्वास-प्रस्तुतिः
आचारात्स्वर्गं मोक्षं च आचारो हन्त्यलक्षणम्
अनाचारो हि पुरुषो लोके भवति निन्दितः ॥ ७६ ॥
मूलम्
आचारात्स्वर्गं मोक्षं च आचारो हन्त्यलक्षणम्
अनाचारो हि पुरुषो लोके भवति निन्दितः ॥ ७६ ॥
विश्वास-प्रस्तुतिः
दुःखभागी च सततं व्याधितोल्पायुरेव च
नरके नियतं वासो ह्यनाचारान्नरस्य च ॥ ७७ ॥
मूलम्
दुःखभागी च सततं व्याधितोल्पायुरेव च
नरके नियतं वासो ह्यनाचारान्नरस्य च ॥ ७७ ॥
विश्वास-प्रस्तुतिः
आचाराच्च परं लोकमाचारं शृणु तत्त्वतः
गोमयेन गृहे नित्यं प्रकुर्यादुपलेपनम् ॥ ७८ ॥
मूलम्
आचाराच्च परं लोकमाचारं शृणु तत्त्वतः
गोमयेन गृहे नित्यं प्रकुर्यादुपलेपनम् ॥ ७८ ॥
विश्वास-प्रस्तुतिः
प्रक्षालयेत्ततः पीठं काष्ठं पात्रं शिलातलम्
भस्मना कांस्यपात्रं तु ताम्रमम्लेनशुद्ध्यति ॥ ७९ ॥
मूलम्
प्रक्षालयेत्ततः पीठं काष्ठं पात्रं शिलातलम्
भस्मना कांस्यपात्रं तु ताम्रमम्लेनशुद्ध्यति ॥ ७९ ॥
विश्वास-प्रस्तुतिः
शिलापात्रं तु तैलेन फालङ्गो वालकेन तु
स्वर्णरौप्यादिपात्रं तु जलमात्रेण शुध्यति ॥ ८० ॥
मूलम्
शिलापात्रं तु तैलेन फालङ्गो वालकेन तु
स्वर्णरौप्यादिपात्रं तु जलमात्रेण शुध्यति ॥ ८० ॥
विश्वास-प्रस्तुतिः
अग्निना लोहपात्रं तु पाकप्रक्षालनेन तु
खननाद्दाहनाच्चैव उपलेपन धावनात् ॥ ८१ ॥
मूलम्
अग्निना लोहपात्रं तु पाकप्रक्षालनेन तु
खननाद्दाहनाच्चैव उपलेपन धावनात् ॥ ८१ ॥
विश्वास-प्रस्तुतिः
पर्जन्यवर्षणाच्चैव भूरमेध्या विशुध्यति
तैजस्सानां मणीनां च सर्वस्याश्ममयस्य च ॥ ८२ ॥
मूलम्
पर्जन्यवर्षणाच्चैव भूरमेध्या विशुध्यति
तैजस्सानां मणीनां च सर्वस्याश्ममयस्य च ॥ ८२ ॥
विश्वास-प्रस्तुतिः
भस्मभिर्मृत्तिकाभिश्च शुद्धिरुक्ता मया पुरा
शय्या भार्या शिशुर्वस्त्रमुपवीतं कमण्डलुः ॥ ८३ ॥
मूलम्
भस्मभिर्मृत्तिकाभिश्च शुद्धिरुक्ता मया पुरा
शय्या भार्या शिशुर्वस्त्रमुपवीतं कमण्डलुः ॥ ८३ ॥
विश्वास-प्रस्तुतिः
आत्मनः कथिताश्शुद्धा न परेषां कदाचन
न भुञ्जीतैकवस्त्रेण न स्नायादेकवाससा ॥ ८४ ॥
मूलम्
आत्मनः कथिताश्शुद्धा न परेषां कदाचन
न भुञ्जीतैकवस्त्रेण न स्नायादेकवाससा ॥ ८४ ॥
विश्वास-प्रस्तुतिः
न धारयेत्परस्यैवं स्नानवस्त्रं कदाचन
संस्कारं केशदन्तानां प्रातरेव समाचरेत् ॥ ८५ ॥
मूलम्
न धारयेत्परस्यैवं स्नानवस्त्रं कदाचन
संस्कारं केशदन्तानां प्रातरेव समाचरेत् ॥ ८५ ॥
विश्वास-प्रस्तुतिः
गुरूणां च नमस्कारं नित्यमेव समाचरेत्
हस्तपादे मुखे चैव पञ्चार्द्रो भोजनं चरेत् ॥ ८६ ॥
मूलम्
गुरूणां च नमस्कारं नित्यमेव समाचरेत्
हस्तपादे मुखे चैव पञ्चार्द्रो भोजनं चरेत् ॥ ८६ ॥
विश्वास-प्रस्तुतिः
पञ्चार्द्रकस्तु भुञ्जानः शतं वर्षाणि जीवति
देवतानां गुरोराज्ञां स्नातकाचार्ययोरपि ॥ ८७ ॥
मूलम्
पञ्चार्द्रकस्तु भुञ्जानः शतं वर्षाणि जीवति
देवतानां गुरोराज्ञां स्नातकाचार्ययोरपि ॥ ८७ ॥
विश्वास-प्रस्तुतिः
नाक्रामेत्कामतश्छायां विप्रस्य दीक्षितस्य च
गोगणं देवतं विप्रं घृतं मधु चतुष्पथम् ॥ ८८ ॥
मूलम्
नाक्रामेत्कामतश्छायां विप्रस्य दीक्षितस्य च
गोगणं देवतं विप्रं घृतं मधु चतुष्पथम् ॥ ८८ ॥
विश्वास-प्रस्तुतिः
प्रदक्षिणं प्रकुर्वीत प्रख्यातांश्च वनस्पतीन्
गोविप्रावग्निविप्रौ च विप्रौ द्वौ दम्पती तथा ॥ ८९ ॥
मूलम्
प्रदक्षिणं प्रकुर्वीत प्रख्यातांश्च वनस्पतीन्
गोविप्रावग्निविप्रौ च विप्रौ द्वौ दम्पती तथा ॥ ८९ ॥
विश्वास-प्रस्तुतिः
तयोर्मध्ये न गच्छेत स्वर्गस्थोपि पतेद्ध्रुवम्
उच्छिष्टो न स्पृशेदग्निं ब्राह्मणं दैवतं गुरुम् ॥ ९० ॥
मूलम्
तयोर्मध्ये न गच्छेत स्वर्गस्थोपि पतेद्ध्रुवम्
उच्छिष्टो न स्पृशेदग्निं ब्राह्मणं दैवतं गुरुम् ॥ ९० ॥
विश्वास-प्रस्तुतिः
स्वशीर्षं पुष्पवृक्षं च यज्ञवृक्षमधार्मिकम्
त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन ॥ ९१ ॥
मूलम्
स्वशीर्षं पुष्पवृक्षं च यज्ञवृक्षमधार्मिकम्
त्रीणि तेजांसि नोच्छिष्ट उदीक्षेत कदाचन ॥ ९१ ॥
विश्वास-प्रस्तुतिः
सूर्याचन्द्रमसावेवं नक्षत्राणि च सर्वशः
नेक्षेद्विप्रं गुरुं देवं राजानं यतिनां वरम् ॥ ९२ ॥
मूलम्
सूर्याचन्द्रमसावेवं नक्षत्राणि च सर्वशः
नेक्षेद्विप्रं गुरुं देवं राजानं यतिनां वरम् ॥ ९२ ॥
विश्वास-प्रस्तुतिः
योगिनं देवकर्माणं धर्माणां कथकं द्विजम्
नदीनां च प्रतीरे च पत्युश्च सरितां तथा ॥ ९३ ॥
मूलम्
योगिनं देवकर्माणं धर्माणां कथकं द्विजम्
नदीनां च प्रतीरे च पत्युश्च सरितां तथा ॥ ९३ ॥
विश्वास-प्रस्तुतिः
यज्ञवृक्षस्य मूले च उद्याने पुष्पवाटके
शरीरस्य मलत्यागं न कुर्याज्जीवने तथा ॥ ९४ ॥
मूलम्
यज्ञवृक्षस्य मूले च उद्याने पुष्पवाटके
शरीरस्य मलत्यागं न कुर्याज्जीवने तथा ॥ ९४ ॥
विश्वास-प्रस्तुतिः
विप्रस्यायतने गोष्ठे रम्ये राजपथेषु च
न क्षौरं कारयेद्धीरः कुजस्याह्नि कदाचन ॥ ९५ ॥
मूलम्
विप्रस्यायतने गोष्ठे रम्ये राजपथेषु च
न क्षौरं कारयेद्धीरः कुजस्याह्नि कदाचन ॥ ९५ ॥
विश्वास-प्रस्तुतिः
मलं न धारयेद्दन्ते नखं न वदने क्षिपेत्
तैलाभ्यङ्गं न कुर्वीत वासरे रविभौमयोः ॥ ९६ ॥
मूलम्
मलं न धारयेद्दन्ते नखं न वदने क्षिपेत्
तैलाभ्यङ्गं न कुर्वीत वासरे रविभौमयोः ॥ ९६ ॥
विश्वास-प्रस्तुतिः
स्वगात्रासनयोर्वाद्यं गुरोरेकासनादनम्
न हरेच्छ्रोत्रियस्वं च देवस्यापि गुरोरपि ॥ ९७ ॥
मूलम्
स्वगात्रासनयोर्वाद्यं गुरोरेकासनादनम्
न हरेच्छ्रोत्रियस्वं च देवस्यापि गुरोरपि ॥ ९७ ॥
विश्वास-प्रस्तुतिः
राज्ञस्तपस्विनां चैव पङ्गोरन्धस्य योषितः
पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च ॥ ९८ ॥
मूलम्
राज्ञस्तपस्विनां चैव पङ्गोरन्धस्य योषितः
पन्था देयो ब्राह्मणाय गोभ्यो राजभ्य एव च ॥ ९८ ॥
विश्वास-प्रस्तुतिः
रोगिणे भारतप्ताय गुर्विण्यै दुर्बलाय च
विवादं न च कुर्वीत नृप विप्र चिकित्सकैः ॥ ९९ ॥
मूलम्
रोगिणे भारतप्ताय गुर्विण्यै दुर्बलाय च
विवादं न च कुर्वीत नृप विप्र चिकित्सकैः ॥ ९९ ॥
ब्राह्मणं गुरुपत्नीं च दूरतः परिवर्जयेत्
पतितं कुष्ठसंयुक्तं चाण्डालं च गवाशिनम् १०० 1.49.100
निर्धूतं ज्ञानहीनं च दूरतः परिवर्जयेत्
स्त्रियं दुष्टां च दुर्वृत्तामपवाद प्रदायिनीम् १०१
कुकर्मकारिणीं दुष्टां सदैव कलहप्रियाम्
प्रमत्तामधिकाङ्गीञ्च निर्लज्जां बाह्यचारिणीम् १०२
व्ययशीलामनाचारां दूरतः परिवर्जयेत्
मलिनां नाभिवन्देत गुरुपत्नीं कदाचन १०३
न स्पृशेत्तां च मेधावी स्पृष्ट्वा स्नानेन शुद्ध्यति
स तया सह केलिं च वर्जयेच्च सदैव हि १०४
शृणुयाच्च वचो नूनं न पश्येच्च गुरोः स्त्रियम्
वधूं पुत्रस्य भ्रातुश्च स्वपुत्रीं युवतीं ध्रुवम् १०५
अन्यां च गुरुपत्नीं च नेक्षेत्स्पर्शं न कारयेत्
ताभिः सह कथालापं तथा भ्रूभङ्गदर्शनम् १०६
कलहं निस्त्रपां वाणीं सदैव परिवर्जयेत्
न दद्याच्च सदा पादं तुषाङ्गारास्थिभस्मसु १०७
कार्पासास्थिषु निर्माल्ये चितिकाष्ठे चितौ गुरौ
शुष्कं मीनं न भक्षेत पूतिगन्धिममेध्यकम् १०८
विघसं चान्यदुच्छिष्टं पाकार्थं च परस्य च
न स्थातव्यं न गन्तव्यं क्षणमप्यसता सह १०९
न तिष्ठेच्च क्षणं धीरो दीपच्छाये कलिद्रुमे
अस्पृश्यैस्सह चालापं पतितैः कुपितैः सह ११०
न कुर्यात्क्षणमात्रं तु कृत्वा गच्छेच्च रौरवम्
कनिष्ठं नाभिवन्देत पितृव्यं मातुलं तथा १११
उत्थाय चासनं दद्यात्कृताञ्जल्यग्रतः स्थितः
तैलाभ्यक्तं तथोच्छिष्टमार्द्रवस्त्रं च रोगिणम् ११२
पारावारगतोद्विग्नं वहन्तं नाभिवादयेत्
यज्ञस्यान्तर्गतं नष्टं क्रीडन्तं स्त्रीजनैः सह ११३
बालक्रीडागतं चापि पुष्पयुक्तं कुशैर्युतम्
शिरः प्रावृत्य कर्णौ वा अप्सु मुक्तशिखोपि वा ११४
अकृत्वा पादयोः पूजां नाचामेद्दक्षिणामुखः
उपवीतविहीनश्च नग्नको मुक्तकच्छकः ११५
एकवस्त्रपिधानश्च आचान्तो नैव शुध्यति
मध्यमाभिर्मुखं पूर्वं तिसृभिः समुपस्पृशेत् ११६
अङ्गुष्ठदेशिनीभ्यां च नासां च तदनन्तरम्
अङ्गुष्ठानामिकाभ्यां च चक्षुषी समुपस्पृशेत् ११७
कनिष्ठाङ्गुष्ठतश्श्रोत्रे नाभिमङ्गुष्ठकेन तु
तलेन हृदयं न्यस्य सर्वाभिर्मस्तकोपरि ११८
बाहूचाग्रेण संस्पृश्य ततः शुद्धो भवेन्नरः
अनेनाचमनं कृत्वा मानवः प्रयतो भवेत् ११९
सर्वपापैर्विनिर्मुक्तः स्वर्गं चाक्षयमश्नुते
प्राणस्त्रिपुटशृङ्ग्या च व्यानोपानश्च मुद्रया १२०
समानस्तु समस्ताभिरुदानस्तर्जनीं विना
नागः कूर्मश्च कृकरो देवदत्तो धनञ्जयः १२१
उपप्रीणन्तु ते प्रीता येभ्यो भूमौ प्रदीयते
शयनं चार्द्रपादेन शुष्कपादेन भोजनम् १२२
नान्धकारे च शयनं भोजनं नैव कारयेत्
पश्चिमे दक्षिणे चैव न कुर्याद्दन्तधावनम् १२३
उत्तरे पश्चिमे चैव न स्वपेद्धि कदाचन
स्वप्नादायुः क्षयं याति ब्रह्महा पुरुषो भवेत् १२४
न कुर्वीत ततः स्वप्नं शस्तं च पूर्वदक्षिणम्
आयुष्यं प्राङ्मुखो भुङ्क्तेऽयशस्यं दक्षिणामुखः १२५
श्रियं प्रत्यङ्मुखो भुङ्क्ते यशो भुङ्क्त उदङ्मुखः
प्राच्यां नरो लभेदायुर्याम्यां प्रेतत्वमश्नुते १२६
वारुणे च भवेद्रोगी आयुर्वित्तं तथोत्तरे
देवानामेकभुक्तं तु द्विभुक्तं स्यान्नरस्य च १२७
त्रिभुक्तं प्रेतदैत्यस्य चतुर्थं कौणपस्य तु
निरामिषं हविर्देवा मत्स्यमांसादि मानुषाः १२८
पूतिपर्युषितं दुष्टमन्ये भुञ्जन्त्यनावृताः
स्वर्गस्थितानामिह जीवलोके चत्वारि तेषां हृदये च सन्ति १२९
दानं प्रशस्तं मधुरा च वाणी देवार्चनं ब्राह्मणतर्पणं च
कार्पण्यवृत्तिस्वजनेषु निन्दा कुचेलता नीचजनेषु भक्तिः १३०
अतीव रोषः कटुका च वाणी नरस्य चिह्नं नरकागतस्य
नवनीतोपमा वाणी करुणा कोमलं मनः १३१
धर्मबीजप्रसूतानामेतत्प्रत्यक्ष लक्षणम्
दयादरिद्रहृदयं वचः क्रकच कर्कशम् १३२
पापबीजप्रसूतानामेतत्प्रत्यक्ष लक्षणम्
श्रावयेच्छृणुयाद्वापि सदाचारादिकं नरः १३३
आचारादेः फलं लब्ध्वा पापात्पूतोऽच्युतो दिवि १३४