०४८

ब्रह्मोवाच-

विश्वास-प्रस्तुतिः

अतः परं तु विप्रर्षे चाण्डालपतितो द्विजः
प्रलप्य च बहून्शोकान्जगाम कश्यपं मुनिम्॥ १ ॥

मूलम्

अतः परं तु विप्रर्षे चाण्डालपतितो द्विजः
प्रलप्य च बहून्शोकान्जगाम कश्यपं मुनिम्॥ १ ॥

विश्वास-प्रस्तुतिः

गत्वोवाच मुनिश्रेष्ठ वदास्माकं हितं वचः
यथा पापाद्विमुच्येहं मुनिश्रेष्ठ तथा कुरु॥ २ ॥

मूलम्

गत्वोवाच मुनिश्रेष्ठ वदास्माकं हितं वचः
यथा पापाद्विमुच्येहं मुनिश्रेष्ठ तथा कुरु॥ २ ॥

विश्वास-प्रस्तुतिः

तमुवाच महातेजा ईषद्धास्यः समन्ततः
कश्यप उवाच-
सन्दर्शनाच्च म्लेच्छानामुपशान्तोसि वै स्वयम्॥ ३ ॥

मूलम्

तमुवाच महातेजा ईषद्धास्यः समन्ततः
कश्यप उवाच-
सन्दर्शनाच्च म्लेच्छानामुपशान्तोसि वै स्वयम्॥ ३ ॥

विश्वास-प्रस्तुतिः

गायत्र्याश्च जपैर्होमैर्व्रतैश्चान्द्रायणदिभिः
स्मर नित्यं हरेः पादमुपोष्य हरिवासरम्॥ ४ ॥

मूलम्

गायत्र्याश्च जपैर्होमैर्व्रतैश्चान्द्रायणदिभिः
स्मर नित्यं हरेः पादमुपोष्य हरिवासरम्॥ ४ ॥

विश्वास-प्रस्तुतिः

अहर्निशं हरेर्ध्यानं प्रणामं कुरु तं प्रभुम्
तीर्थस्नानेन मन्त्रेण पङ्कस्यान्तं गमिष्यसि॥ ५ ॥

मूलम्

अहर्निशं हरेर्ध्यानं प्रणामं कुरु तं प्रभुम्
तीर्थस्नानेन मन्त्रेण पङ्कस्यान्तं गमिष्यसि॥ ५ ॥

विश्वास-प्रस्तुतिः

ततः पापक्षयादेव ब्राह्मणत्वं च लप्स्यसे
व्रतैर्वृषाधिकैर्मोक्षं नाशयन्कल्मषं द्विज॥ ६ ॥

मूलम्

ततः पापक्षयादेव ब्राह्मणत्वं च लप्स्यसे
व्रतैर्वृषाधिकैर्मोक्षं नाशयन्कल्मषं द्विज॥ ६ ॥

विश्वास-प्रस्तुतिः

मुनेस्तस्य वचः श्रुत्वा कृतकृत्योऽभवत्तदा
पुण्यं स विविधं कृत्वापुनर्ब्रह्मत्वमाप्तवान्॥ ७ ॥

मूलम्

मुनेस्तस्य वचः श्रुत्वा कृतकृत्योऽभवत्तदा
पुण्यं स विविधं कृत्वापुनर्ब्रह्मत्वमाप्तवान्॥ ७ ॥

विश्वास-प्रस्तुतिः

ततस्तप्त्वा तपस्तीव्रंस्वर्लोकं चिरमभ्यगात्
सद्वृत्तस्याखिलं पापं क्षयं याति दिने दिने॥ ८ ॥

मूलम्

ततस्तप्त्वा तपस्तीव्रंस्वर्लोकं चिरमभ्यगात्
सद्वृत्तस्याखिलं पापं क्षयं याति दिने दिने॥ ८ ॥

विश्वास-प्रस्तुतिः

असद्वृत्तस्य पुण्यं हि क्षयं यात्यञ्जनोपमम्
अनाचाराद्धतो विप्र आचारात्सुरतां व्रजेत्॥ ९ ॥

मूलम्

असद्वृत्तस्य पुण्यं हि क्षयं यात्यञ्जनोपमम्
अनाचाराद्धतो विप्र आचारात्सुरतां व्रजेत्॥ ९ ॥

विश्वास-प्रस्तुतिः

ततः कण्ठगतैः प्राणैराचारं कुरुते द्विजः
कर्मणा मनसाङ्गेन सदाचारं सदा कुरु॥ १० ॥

मूलम्

ततः कण्ठगतैः प्राणैराचारं कुरुते द्विजः
कर्मणा मनसाङ्गेन सदाचारं सदा कुरु॥ १० ॥

विश्वास-प्रस्तुतिः

कश्यपस्योपदेशेन स विनीतोऽभवद्द्विजः
आचारं तु पुनः कृत्वा तपस्तप्तत्वा दिवं गतः॥ ११ ॥

मूलम्

कश्यपस्योपदेशेन स विनीतोऽभवद्द्विजः
आचारं तु पुनः कृत्वा तपस्तप्तत्वा दिवं गतः॥ ११ ॥

विश्वास-प्रस्तुतिः

अनाचारी हतो विप्रः स्वर्गलोकेषु गर्हितः
आचारं तु पुनः कृत्वा सुरलोके महीयते॥ १२ ॥

मूलम्

अनाचारी हतो विप्रः स्वर्गलोकेषु गर्हितः
आचारं तु पुनः कृत्वा सुरलोके महीयते॥ १२ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
प्राप्नुवन्ति गतिं लोकाः पूजयित्वा द्विजोत्तमान्
द्विजानां पीडनं कृत्वा गतिं गच्छति कां प्रभो॥ १३ ॥

मूलम्

नारद उवाच-
प्राप्नुवन्ति गतिं लोकाः पूजयित्वा द्विजोत्तमान्
द्विजानां पीडनं कृत्वा गतिं गच्छति कां प्रभो॥ १३ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच-
क्षुधा सन्तप्तदेहानां ब्राह्मणानां महात्मनाम्
नार्चयेच्छक्तितो भक्त्या स याति नरकं नरः॥ १४ ॥

मूलम्

ब्रह्मोवाच-
क्षुधा सन्तप्तदेहानां ब्राह्मणानां महात्मनाम्
नार्चयेच्छक्तितो भक्त्या स याति नरकं नरः॥ १४ ॥

विश्वास-प्रस्तुतिः

परुषेण क्रोशयित्वा क्रोधाद्यस्तु विसर्जयेत्
स याति नरकं घोरं महारौरवकृच्छ्रकम्॥ १५ ॥

मूलम्

परुषेण क्रोशयित्वा क्रोधाद्यस्तु विसर्जयेत्
स याति नरकं घोरं महारौरवकृच्छ्रकम्॥ १५ ॥

विश्वास-प्रस्तुतिः

सन्निवृत्तस्ततः कीटाद्यन्त्यजातिषु जायते
ततो रोगी दरिद्रस्तु क्षुधया परिपीडितः॥ १६ ॥

मूलम्

सन्निवृत्तस्ततः कीटाद्यन्त्यजातिषु जायते
ततो रोगी दरिद्रस्तु क्षुधया परिपीडितः॥ १६ ॥

विश्वास-प्रस्तुतिः

नावमन्येत्ततो विप्रं क्षुधया गृहमागतम्
न ददामीति यो ब्रूयाद्देवाग्निब्राह्मणेषु सः॥ १७ ॥

मूलम्

नावमन्येत्ततो विप्रं क्षुधया गृहमागतम्
न ददामीति यो ब्रूयाद्देवाग्निब्राह्मणेषु सः॥ १७ ॥

विश्वास-प्रस्तुतिः

तिर्यग्योनिशतं गत्वा चाण्डाल्यमुपगच्छति
पादमुद्यम्य यो विप्रं हन्ति गां पितरौ गुरुम्॥ १८ ॥

मूलम्

तिर्यग्योनिशतं गत्वा चाण्डाल्यमुपगच्छति
पादमुद्यम्य यो विप्रं हन्ति गां पितरौ गुरुम्॥ १८ ॥

विश्वास-प्रस्तुतिः

रौरवे नियतो वासस्तस्य नास्तीह निष्कृतिः
यदि पुण्याद्भवेज्जन्म स एव पङ्गुतां व्रजेत्॥ १९ ॥

मूलम्

रौरवे नियतो वासस्तस्य नास्तीह निष्कृतिः
यदि पुण्याद्भवेज्जन्म स एव पङ्गुतां व्रजेत्॥ १९ ॥

विश्वास-प्रस्तुतिः

अतिदीनो विषादी च दुःखशोकाभिपीडितः
एवं जन्मत्रयं प्राप्य भवेत्तस्य च निष्कृतिः॥ २० ॥

मूलम्

अतिदीनो विषादी च दुःखशोकाभिपीडितः
एवं जन्मत्रयं प्राप्य भवेत्तस्य च निष्कृतिः॥ २० ॥

विश्वास-प्रस्तुतिः

मुष्टिचपेटकीलैश्च हन्याद्विप्रं तु यः पुमान्
तापने रौरवे घोरे कल्पान्तं सोपि तिष्ठति॥ २१ ॥

मूलम्

मुष्टिचपेटकीलैश्च हन्याद्विप्रं तु यः पुमान्
तापने रौरवे घोरे कल्पान्तं सोपि तिष्ठति॥ २१ ॥

विश्वास-प्रस्तुतिः

अथ जन्म समासाद्य कुक्कुरः क्रूरचण्डकः
अन्त्यजातिषु जातोपि दरिद्रः कुक्षिशूलवान्॥ २२ ॥

मूलम्

अथ जन्म समासाद्य कुक्कुरः क्रूरचण्डकः
अन्त्यजातिषु जातोपि दरिद्रः कुक्षिशूलवान्॥ २२ ॥

विश्वास-प्रस्तुतिः

पादमुद्यच्छते वा यस्तस्य पादे शिलीपदः
खञ्जो वा मन्दजङ्घो वा खण्डपादो भवेन्नरः॥ २३ ॥

मूलम्

पादमुद्यच्छते वा यस्तस्य पादे शिलीपदः
खञ्जो वा मन्दजङ्घो वा खण्डपादो भवेन्नरः॥ २३ ॥

विश्वास-प्रस्तुतिः

पक्षवातेन चाङ्गानि प्रकम्पन्ते सदैव हि
मातरं पितरं विप्रं स्नातकं च तपस्विनम्॥ २४ ॥

मूलम्

पक्षवातेन चाङ्गानि प्रकम्पन्ते सदैव हि
मातरं पितरं विप्रं स्नातकं च तपस्विनम्॥ २४ ॥

विश्वास-प्रस्तुतिः

हत्वा गुरुगणं क्रोधात्कुम्भीपाके चिरं भवेत्
उषित्वा चैव जायेत कीटजातिषु तत्परम्॥ २५ ॥

मूलम्

हत्वा गुरुगणं क्रोधात्कुम्भीपाके चिरं भवेत्
उषित्वा चैव जायेत कीटजातिषु तत्परम्॥ २५ ॥

विश्वास-प्रस्तुतिः

विरुद्धं परुषं वाक्यं यो वदेद्धि द्विजातिषु
अष्टौ कुष्ठाः प्रजायन्ते तस्य देहे दृढं सुत॥ २६ ॥

मूलम्

विरुद्धं परुषं वाक्यं यो वदेद्धि द्विजातिषु
अष्टौ कुष्ठाः प्रजायन्ते तस्य देहे दृढं सुत॥ २६ ॥

विश्वास-प्रस्तुतिः

विचर्चिकाथ दद्रूश्च मण्डलः शुक्ति सिध्मकौ
कालकुष्ठस्तथा शुक्लस्तरुणश्चातिदारुणः॥ २७ ॥

मूलम्

विचर्चिकाथ दद्रूश्च मण्डलः शुक्ति सिध्मकौ
कालकुष्ठस्तथा शुक्लस्तरुणश्चातिदारुणः॥ २७ ॥

विश्वास-प्रस्तुतिः

ततो भिषक्प्रयोगे च पापात्पुण्यं पलायते
अपुण्याज्जलरेखेव तेनैव निधनं व्रजेत्॥ २८ ॥

मूलम्

ततो भिषक्प्रयोगे च पापात्पुण्यं पलायते
अपुण्याज्जलरेखेव तेनैव निधनं व्रजेत्॥ २८ ॥

विश्वास-प्रस्तुतिः

एषां मध्ये महाकुष्ठास्त्रय एव प्रकीर्तिताः
कालकुष्ठस्तथा शुक्लस्तरुणश्चातिदारुणः॥ २९ ॥

मूलम्

एषां मध्ये महाकुष्ठास्त्रय एव प्रकीर्तिताः
कालकुष्ठस्तथा शुक्लस्तरुणश्चातिदारुणः॥ २९ ॥

विश्वास-प्रस्तुतिः

महापातकभावानां ज्ञानात्संसर्गतोपि वा
अतिपातकिनामेव त्रयो देहे भवन्ति वै॥ ३० ॥

मूलम्

महापातकभावानां ज्ञानात्संसर्गतोपि वा
अतिपातकिनामेव त्रयो देहे भवन्ति वै॥ ३० ॥

विश्वास-प्रस्तुतिः

संसर्गात्सहसम्बन्धाद्रोगः सञ्चरते नृणाम्
दूरात्परित्यजेद्धीरः स्पृष्ट्वा स्नानं समाचरेत्॥ ३१ ॥

मूलम्

संसर्गात्सहसम्बन्धाद्रोगः सञ्चरते नृणाम्
दूरात्परित्यजेद्धीरः स्पृष्ट्वा स्नानं समाचरेत्॥ ३१ ॥

विश्वास-प्रस्तुतिः

पतितं कुष्ठसंयुक्तं चाण्डालं च गवाशिनम्
श्वानं रजस्वलां भिल्लं स्पृष्ट्वा स्नानं समाचरेत्॥ ३२ ॥

मूलम्

पतितं कुष्ठसंयुक्तं चाण्डालं च गवाशिनम्
श्वानं रजस्वलां भिल्लं स्पृष्ट्वा स्नानं समाचरेत्॥ ३२ ॥

विश्वास-प्रस्तुतिः

दुरितस्यानुरूपेण देहे कुष्ठा व्यवस्थिताः
इहलोके परत्रैवाप्यत्र नास्ति तु संशयः॥ ३३ ॥

मूलम्

दुरितस्यानुरूपेण देहे कुष्ठा व्यवस्थिताः
इहलोके परत्रैवाप्यत्र नास्ति तु संशयः॥ ३३ ॥

विश्वास-प्रस्तुतिः

न्यायेनोपार्जितां वृत्तिं ब्रह्मस्वं हरते तु यः
अक्षयं नरकं प्राप्य पुनर्जन्म न विद्यते॥ ३४ ॥

मूलम्

न्यायेनोपार्जितां वृत्तिं ब्रह्मस्वं हरते तु यः
अक्षयं नरकं प्राप्य पुनर्जन्म न विद्यते॥ ३४ ॥

विश्वास-प्रस्तुतिः

पिशुनो यस्तु विप्राणां रन्ध्रान्वेषणतत्परः
तं दृष्ट्वाप्यथवा स्पृष्ट्वा सचेलो जलमाविशेत्॥ ३५ ॥

मूलम्

पिशुनो यस्तु विप्राणां रन्ध्रान्वेषणतत्परः
तं दृष्ट्वाप्यथवा स्पृष्ट्वा सचेलो जलमाविशेत्॥ ३५ ॥

विश्वास-प्रस्तुतिः

ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमं कुलम्
विक्रमेण तु भुञ्जानो दशपूर्वान्दशापरान्॥ ३६ ॥

मूलम्

ब्रह्मस्वं प्रणयाद्भुक्तं दहत्यासप्तमं कुलम्
विक्रमेण तु भुञ्जानो दशपूर्वान्दशापरान्॥ ३६ ॥

विश्वास-प्रस्तुतिः

न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते
विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम्॥ ३७ ॥

मूलम्

न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते
विषमेकाकिनं हन्ति ब्रह्मस्वं पुत्रपौत्रकम्॥ ३७ ॥

विश्वास-प्रस्तुतिः

मोहाच्च मातरं गत्वा ब्राह्मणीं च गुरोस्त्रियम्
पतित्वा रौरवे घोरे पुनरुत्पत्तिदुर्लभः॥ ३८ ॥

मूलम्

मोहाच्च मातरं गत्वा ब्राह्मणीं च गुरोस्त्रियम्
पतित्वा रौरवे घोरे पुनरुत्पत्तिदुर्लभः॥ ३८ ॥

विश्वास-प्रस्तुतिः

पतन्ति पितरस्तस्य कुम्भीपाकेथ तापने
अवीचिकालसूत्रे च महारौरवरौरवे॥ ३९ ॥

मूलम्

पतन्ति पितरस्तस्य कुम्भीपाकेथ तापने
अवीचिकालसूत्रे च महारौरवरौरवे॥ ३९ ॥

विश्वास-प्रस्तुतिः

कदाचिदपि वा तेषां निष्कृतिं नानुमेनिरे
प्राणं हत्वा द्विजातीनां स्वयं यात्यपुनर्भवम्॥ ४० ॥

मूलम्

कदाचिदपि वा तेषां निष्कृतिं नानुमेनिरे
प्राणं हत्वा द्विजातीनां स्वयं यात्यपुनर्भवम्॥ ४० ॥

विश्वास-प्रस्तुतिः

पतन्ति पुरुषास्तस्य रौरवे च सहस्रशः
नारद उवाच-
सर्वेषामेव विप्राणां वधे च पातकं समम्॥ ४१ ॥

मूलम्

पतन्ति पुरुषास्तस्य रौरवे च सहस्रशः
नारद उवाच-
सर्वेषामेव विप्राणां वधे च पातकं समम्॥ ४१ ॥

विश्वास-प्रस्तुतिः

विषमं वा कुतस्तिष्ठेत्तत्त्वतो वक्तुमर्हसि
ब्रह्मोवाच-
हत्वा विप्रं ध्रुवं पुत्र पातकं यदुदाहृतम्॥ ४२ ॥

मूलम्

विषमं वा कुतस्तिष्ठेत्तत्त्वतो वक्तुमर्हसि
ब्रह्मोवाच-
हत्वा विप्रं ध्रुवं पुत्र पातकं यदुदाहृतम्॥ ४२ ॥

विश्वास-प्रस्तुतिः

लभते ब्रह्महा घोरं वक्तव्यं चापरं शृणु
लक्षकोटिसहस्राणां ब्राह्मणानां वधं भजेत्॥ ४३ ॥

मूलम्

लभते ब्रह्महा घोरं वक्तव्यं चापरं शृणु
लक्षकोटिसहस्राणां ब्राह्मणानां वधं भजेत्॥ ४३ ॥

विश्वास-प्रस्तुतिः

वेदशास्त्रयुतं हत्वा श्रोत्रियं विजितेन्द्रियम्
विप्रं च वैष्णवं हत्वा तस्माद्दशगुणोत्तरम्॥ ४४ ॥

मूलम्

वेदशास्त्रयुतं हत्वा श्रोत्रियं विजितेन्द्रियम्
विप्रं च वैष्णवं हत्वा तस्माद्दशगुणोत्तरम्॥ ४४ ॥

विश्वास-प्रस्तुतिः

स्ववंशान्पातयित्वा तु पुनर्जन्म न विन्दते
त्रिवेदं स्नातकं हत्वा वधस्यान्तं न विन्दते॥ ४५ ॥

मूलम्

स्ववंशान्पातयित्वा तु पुनर्जन्म न विन्दते
त्रिवेदं स्नातकं हत्वा वधस्यान्तं न विन्दते॥ ४५ ॥

विश्वास-प्रस्तुतिः

श्रोत्रियं च सदाचारं तीर्थमन्त्रप्रपूतकम्
ईदृशं ब्राह्मणं हन्तुः पापस्यान्तो न विद्यते॥ ४६ ॥

मूलम्

श्रोत्रियं च सदाचारं तीर्थमन्त्रप्रपूतकम्
ईदृशं ब्राह्मणं हन्तुः पापस्यान्तो न विद्यते॥ ४६ ॥

विश्वास-प्रस्तुतिः

अपकारं समुद्दिश्य द्विजः प्राणान्परित्यजेत्
दृश्यते येन चान्येन ब्रह्महा स भवेन्नरः॥ ४७ ॥

मूलम्

अपकारं समुद्दिश्य द्विजः प्राणान्परित्यजेत्
दृश्यते येन चान्येन ब्रह्महा स भवेन्नरः॥ ४७ ॥

विश्वास-प्रस्तुतिः

वचोभिः परुषैर्वृत्तैः पीडितस्ताडितो द्विजः
यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातिनम्॥ ४८ ॥

मूलम्

वचोभिः परुषैर्वृत्तैः पीडितस्ताडितो द्विजः
यमुद्दिश्य त्यजेत्प्राणांस्तमाहुर्ब्रह्मघातिनम्॥ ४८ ॥

विश्वास-प्रस्तुतिः

ऋषयो मुनयो देवाः सर्वे ब्रह्मविदस्तथा
देशानां पार्थिवानां च स च वध्यो भवेदिह॥ ४९ ॥

मूलम्

ऋषयो मुनयो देवाः सर्वे ब्रह्मविदस्तथा
देशानां पार्थिवानां च स च वध्यो भवेदिह॥ ४९ ॥

विश्वास-प्रस्तुतिः

अतो ब्रह्मवधं प्राप्य पितृभिः सह पच्यते
प्रायोपवेशकं विप्रं बुधः सम्मानयेद्ध्रुवम्५० 1.48.50
दोषैश्चापि विनिर्मुक्तमुद्दिश्य प्राणमुत्सृजेत्
स प्रलिप्तो वधैर्घोरैर्न तु यं परिकीर्तयेत्॥ ५१ ॥

आत्मघातं द्रुमारोहं कोटरै रूपजीविनं
यः कुर्यादात्मनोघातं स्ववंशे ब्रह्महा भवेत्॥ ५२ ॥

मूलम्

आत्मघातं द्रुमारोहं कोटरै रूपजीविनं
यः कुर्यादात्मनोघातं स्ववंशे ब्रह्महा भवेत्॥ ५२ ॥

विश्वास-प्रस्तुतिः

भ्रूणं च घातयेद्यस्तु शिशुं वा आतुरं गुरुम्
ब्रह्महा स्वयमेव स्यान्न तु यं परिकीर्तयेत्॥ ५३ ॥

मूलम्

भ्रूणं च घातयेद्यस्तु शिशुं वा आतुरं गुरुम्
ब्रह्महा स्वयमेव स्यान्न तु यं परिकीर्तयेत्॥ ५३ ॥

विश्वास-प्रस्तुतिः

मारयेच्च सगोत्रं वा ब्राह्मणं ब्राह्मणाधमः
तस्यैव तद्भवेत्पापं न तु यं परिकीर्त्तयेत्॥ ५४ ॥

मूलम्

मारयेच्च सगोत्रं वा ब्राह्मणं ब्राह्मणाधमः
तस्यैव तद्भवेत्पापं न तु यं परिकीर्त्तयेत्॥ ५४ ॥

विश्वास-प्रस्तुतिः

पीडयित्वा द्विजं शूद्रः स्वकार्यं चापि साधयेत्
तत्रापापे च शूद्रस्य पातकं नान्यथा भवेत्॥ ५५ ॥

मूलम्

पीडयित्वा द्विजं शूद्रः स्वकार्यं चापि साधयेत्
तत्रापापे च शूद्रस्य पातकं नान्यथा भवेत्॥ ५५ ॥

विश्वास-प्रस्तुतिः

तात्कालिक वधं हत्वा हन्तारमाततायिनं
न च हन्ता च तत्पापैर्लिप्यते द्विजसत्तम॥ ५६ ॥

मूलम्

तात्कालिक वधं हत्वा हन्तारमाततायिनं
न च हन्ता च तत्पापैर्लिप्यते द्विजसत्तम॥ ५६ ॥

विश्वास-प्रस्तुतिः

आततायिनमायान्तमपि वेदान्तगं रणे
जिघांसन्तं जिघांसेच्च न तेन ब्रह्महा भवेत्॥ ५७ ॥

मूलम्

आततायिनमायान्तमपि वेदान्तगं रणे
जिघांसन्तं जिघांसेच्च न तेन ब्रह्महा भवेत्॥ ५७ ॥

विश्वास-प्रस्तुतिः

अग्निदो गरदश्चैव धनहारी च सुप्तघः
क्षेत्रदारापहारी च षडेते ह्याततायिनः॥ ५८ ॥

मूलम्

अग्निदो गरदश्चैव धनहारी च सुप्तघः
क्षेत्रदारापहारी च षडेते ह्याततायिनः॥ ५८ ॥

विश्वास-प्रस्तुतिः

खलो राजवधोद्योगी पितॄणां च वधे रतः
अनुयायी नृपो राज्ञश्चत्वारश्चाततायिनः॥ ५९ ॥

मूलम्

खलो राजवधोद्योगी पितॄणां च वधे रतः
अनुयायी नृपो राज्ञश्चत्वारश्चाततायिनः॥ ५९ ॥

विश्वास-प्रस्तुतिः

तत्क्षणान्न मृतं विप्रं पुनर्हन्तुं न युज्यते
पुर्नहत्वा वधं घोरं ज्ञानात्प्राप्नोति निश्चितं॥ ६० ॥

मूलम्

तत्क्षणान्न मृतं विप्रं पुनर्हन्तुं न युज्यते
पुर्नहत्वा वधं घोरं ज्ञानात्प्राप्नोति निश्चितं॥ ६० ॥

विश्वास-प्रस्तुतिः

लोके विप्रसमो नास्ति पूजनीयो जगद्गुरुः
हत्वा तं यद्भवेत्पापं तत्परं च न विद्यते॥ ६१ ॥

मूलम्

लोके विप्रसमो नास्ति पूजनीयो जगद्गुरुः
हत्वा तं यद्भवेत्पापं तत्परं च न विद्यते॥ ६१ ॥

विश्वास-प्रस्तुतिः

देववत्पूजनीयोसौ देवासुरगणैर्नरैः
ब्राह्मणस्य समो नास्ति त्रिषु लोकेषु निश्चितं॥ ६२ ॥

मूलम्

देववत्पूजनीयोसौ देवासुरगणैर्नरैः
ब्राह्मणस्य समो नास्ति त्रिषु लोकेषु निश्चितं॥ ६२ ॥

विश्वास-प्रस्तुतिः

नारद उवाच-
कां वृत्तिं समुपाश्रित्य जीवितव्यं द्विजेन हि
अपानेन सुरश्रेष्ठ तत्वतो वक्तुमर्हसि॥ ६३ ॥

मूलम्

नारद उवाच-
कां वृत्तिं समुपाश्रित्य जीवितव्यं द्विजेन हि
अपानेन सुरश्रेष्ठ तत्वतो वक्तुमर्हसि॥ ६३ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच-
अयाचिता च या भिक्षा प्रशस्ता सा प्रकीर्तिता
उञ्छवृत्तिस्ततो भद्रा सुभद्रा सर्ववृत्तिषु॥ ६४ ॥

मूलम्

ब्रह्मोवाच-
अयाचिता च या भिक्षा प्रशस्ता सा प्रकीर्तिता
उञ्छवृत्तिस्ततो भद्रा सुभद्रा सर्ववृत्तिषु॥ ६४ ॥

विश्वास-प्रस्तुतिः

यामाश्रित्य मुनिश्रेष्ठा गच्छन्ति ब्रह्मणः पदम्
दक्षिणा यज्ञशेषाणां ग्राह्या यज्ञगतेन हि॥ ६५ ॥

मूलम्

यामाश्रित्य मुनिश्रेष्ठा गच्छन्ति ब्रह्मणः पदम्
दक्षिणा यज्ञशेषाणां ग्राह्या यज्ञगतेन हि॥ ६५ ॥

विश्वास-प्रस्तुतिः

पाठनं याजनं कृत्वा ग्रहीतव्यं धनं द्विजैः
पाठयित्वा पठित्वा च कृत्वा स्वस्त्ययनं शुभं॥ ६६ ॥

मूलम्

पाठनं याजनं कृत्वा ग्रहीतव्यं धनं द्विजैः
पाठयित्वा पठित्वा च कृत्वा स्वस्त्ययनं शुभं॥ ६६ ॥

विश्वास-प्रस्तुतिः

ब्राह्मणानामिदं जीव्यं शिष्टा वृत्तिः प्रतिग्रहः
शास्त्रोपजीविनो धन्या धन्या वृक्षोपजीविनः॥ ६७ ॥

मूलम्

ब्राह्मणानामिदं जीव्यं शिष्टा वृत्तिः प्रतिग्रहः
शास्त्रोपजीविनो धन्या धन्या वृक्षोपजीविनः॥ ६७ ॥

विश्वास-प्रस्तुतिः

धन्या वृक्षलताजीव्या वाटीसस्योपजीविनः
अन्न जन्तु वधे पापं तस्य दोषोपशान्तये॥ ६८ ॥

मूलम्

धन्या वृक्षलताजीव्या वाटीसस्योपजीविनः
अन्न जन्तु वधे पापं तस्य दोषोपशान्तये॥ ६८ ॥

विश्वास-प्रस्तुतिः

नवधान्यानि शस्तानि विप्रेभ्यः सम्प्रदापयेत्
न चेत्प्राणिवधे ह्यत्र क्षीयन्ते चायुषो ध्रुवं॥ ६९ ॥

मूलम्

नवधान्यानि शस्तानि विप्रेभ्यः सम्प्रदापयेत्
न चेत्प्राणिवधे ह्यत्र क्षीयन्ते चायुषो ध्रुवं॥ ६९ ॥

विश्वास-प्रस्तुतिः

तस्माद्दद्यात्सुबहूनि पितृदेवद्विजातिषु
अभावात्क्षत्त्रियावृत्तिर्ब्राह्मणैरूपजीव्यते॥ ७० ॥

मूलम्

तस्माद्दद्यात्सुबहूनि पितृदेवद्विजातिषु
अभावात्क्षत्त्रियावृत्तिर्ब्राह्मणैरूपजीव्यते॥ ७० ॥

विश्वास-प्रस्तुतिः

न्याययुद्धेषु योद्धव्यं चरेद्वीरव्रतं शुभम्
स तया च द्विजो वृत्या यद्धनं लभते नृपात्॥ ७१ ॥

मूलम्

न्याययुद्धेषु योद्धव्यं चरेद्वीरव्रतं शुभम्
स तया च द्विजो वृत्या यद्धनं लभते नृपात्॥ ७१ ॥

विश्वास-प्रस्तुतिः

पितृयज्ञादिदानेषु मेध्यं तद्धनमुच्यते
समभ्यसेद्धनुर्विद्यां वेदयुक्तां सदानघः॥ ७२ ॥

मूलम्

पितृयज्ञादिदानेषु मेध्यं तद्धनमुच्यते
समभ्यसेद्धनुर्विद्यां वेदयुक्तां सदानघः॥ ७२ ॥

विश्वास-प्रस्तुतिः

शक्तिकुन्तगदाखड्ग परिघाणां समन्ततः
अश्वारोहं गजारोहमैन्द्रजालममानकं॥ ७३ ॥

मूलम्

शक्तिकुन्तगदाखड्ग परिघाणां समन्ततः
अश्वारोहं गजारोहमैन्द्रजालममानकं॥ ७३ ॥

विश्वास-प्रस्तुतिः

रथभूमिगतं युद्धं युक्तं सर्वत्र कारयेत्
द्विज देव ध्रुवाणां च स्त्रीणां वृत्तं तपस्विनाम्॥ ७४ ॥

मूलम्

रथभूमिगतं युद्धं युक्तं सर्वत्र कारयेत्
द्विज देव ध्रुवाणां च स्त्रीणां वृत्तं तपस्विनाम्॥ ७४ ॥

विश्वास-प्रस्तुतिः

साधु साध्वी गुरूणां च नृपाणां रक्षणाद्ध्रुवम्
यत्पुण्यं लभ्यते शूरैः कथं तद्ब्रह्मवादिभिः॥ ७५ ॥

मूलम्

साधु साध्वी गुरूणां च नृपाणां रक्षणाद्ध्रुवम्
यत्पुण्यं लभ्यते शूरैः कथं तद्ब्रह्मवादिभिः॥ ७५ ॥

विश्वास-प्रस्तुतिः

सर्वपापक्षयं कृत्वा सोक्षयं स्वर्गमश्नुते
सम्मुखे न्याययुद्धे च पतन्ति ब्राह्मणा रणे॥ ७६ ॥

मूलम्

सर्वपापक्षयं कृत्वा सोक्षयं स्वर्गमश्नुते
सम्मुखे न्याययुद्धे च पतन्ति ब्राह्मणा रणे॥ ७६ ॥

विश्वास-प्रस्तुतिः

ते व्रजन्ति परं स्थानं न गम्यं ब्रह्मवादिनां
धर्मयुद्धस्य यद्वृत्तं शृणु पुण्यं यथार्थतः॥ ७७ ॥

मूलम्

ते व्रजन्ति परं स्थानं न गम्यं ब्रह्मवादिनां
धर्मयुद्धस्य यद्वृत्तं शृणु पुण्यं यथार्थतः॥ ७७ ॥

विश्वास-प्रस्तुतिः

सम्मुखेन प्रयुध्यन्ते न च गच्छन्ति कातरं
न भग्नं पृष्ठतो घ्नन्ति निःशस्त्रं प्रपलायितम्॥ ७८ ॥

मूलम्

सम्मुखेन प्रयुध्यन्ते न च गच्छन्ति कातरं
न भग्नं पृष्ठतो घ्नन्ति निःशस्त्रं प्रपलायितम्॥ ७८ ॥

विश्वास-प्रस्तुतिः

अयुध्यमानं भीरुं च पतितं गतकल्मषं
असच्छूद्रं स्तुतिप्रीतमाहवे शरणागतम्॥ ७९ ॥

मूलम्

अयुध्यमानं भीरुं च पतितं गतकल्मषं
असच्छूद्रं स्तुतिप्रीतमाहवे शरणागतम्॥ ७९ ॥

विश्वास-प्रस्तुतिः

हत्वा च नरकं यान्ति दुर्वृत्ता जयकाङ्क्षिणः
एषा च क्षत्त्रिया वृत्तिः सदाचारैस्तु गीयते॥ ८० ॥

मूलम्

हत्वा च नरकं यान्ति दुर्वृत्ता जयकाङ्क्षिणः
एषा च क्षत्त्रिया वृत्तिः सदाचारैस्तु गीयते॥ ८० ॥

विश्वास-प्रस्तुतिः

यामाश्रित्य दिवं यान्ति सर्वक्षत्रियकुञ्जराः
धर्मयुद्धे शुभो मृत्युः सम्मुखे क्षत्त्रियस्य च॥ ८१ ॥

मूलम्

यामाश्रित्य दिवं यान्ति सर्वक्षत्रियकुञ्जराः
धर्मयुद्धे शुभो मृत्युः सम्मुखे क्षत्त्रियस्य च॥ ८१ ॥

विश्वास-प्रस्तुतिः

अत्र पूतो भवेत्सोपि सर्वपापैः प्रमुच्यते
स तिष्ठेत्स्वर्गलोके च प्रासादे रत्नभूषिते॥ ८२ ॥

मूलम्

अत्र पूतो भवेत्सोपि सर्वपापैः प्रमुच्यते
स तिष्ठेत्स्वर्गलोके च प्रासादे रत्नभूषिते॥ ८२ ॥

विश्वास-प्रस्तुतिः

जाम्बूनदमयस्तम्भे रत्नभूषितभूतले
इष्टद्रव्यैः सुसम्पूर्णे दिव्यवस्त्रोपशोभिते॥ ८३ ॥

मूलम्

जाम्बूनदमयस्तम्भे रत्नभूषितभूतले
इष्टद्रव्यैः सुसम्पूर्णे दिव्यवस्त्रोपशोभिते॥ ८३ ॥

विश्वास-प्रस्तुतिः

पुरतः कल्पवृक्षाश्च तिष्ठन्ति सर्वदायिनः
वापीकूपतटाकाद्यैरुद्यानैरुपशोभिते॥ ८४ ॥

मूलम्

पुरतः कल्पवृक्षाश्च तिष्ठन्ति सर्वदायिनः
वापीकूपतटाकाद्यैरुद्यानैरुपशोभिते॥ ८४ ॥

विश्वास-प्रस्तुतिः

यौवनाढ्याश्च सेवन्ते तं देवपुरकन्यकाः
तस्याग्रतो मुदा नित्यं नृत्यन्त्यप्सरसां गणाः॥ ८५ ॥

मूलम्

यौवनाढ्याश्च सेवन्ते तं देवपुरकन्यकाः
तस्याग्रतो मुदा नित्यं नृत्यन्त्यप्सरसां गणाः॥ ८५ ॥

विश्वास-प्रस्तुतिः

गीतं गायन्ति गन्धर्वा देवाश्च स्तुतिपाठकाः
एवं क्रमेण कल्पान्ते सार्वभौमो भवेन्नृपः॥ ८६ ॥

मूलम्

गीतं गायन्ति गन्धर्वा देवाश्च स्तुतिपाठकाः
एवं क्रमेण कल्पान्ते सार्वभौमो भवेन्नृपः॥ ८६ ॥

विश्वास-प्रस्तुतिः

सर्वभोगैककर्ता च नीरुङ्मन्मथविग्रहः
तस्य पत्न्यः प्ररूपाढ्याः सदैव यौवनान्विताः॥ ८७ ॥

मूलम्

सर्वभोगैककर्ता च नीरुङ्मन्मथविग्रहः
तस्य पत्न्यः प्ररूपाढ्याः सदैव यौवनान्विताः॥ ८७ ॥

विश्वास-प्रस्तुतिः

धर्मशीलाः सुताः शुभ्राः समृद्धाः पितृसम्मताः
एवं क्रमेण भुञ्जन्ति सप्तजन्मसु क्षत्रियाः॥ ८८ ॥

मूलम्

धर्मशीलाः सुताः शुभ्राः समृद्धाः पितृसम्मताः
एवं क्रमेण भुञ्जन्ति सप्तजन्मसु क्षत्रियाः॥ ८८ ॥

विश्वास-प्रस्तुतिः

अन्यायेन तु योद्धारस्तिष्ठन्ति नरके चिरम्
एवं च क्षत्रिया वृत्तिर्ब्राह्मणैरुपजीव्यते॥ ८९ ॥

मूलम्

अन्यायेन तु योद्धारस्तिष्ठन्ति नरके चिरम्
एवं च क्षत्रिया वृत्तिर्ब्राह्मणैरुपजीव्यते॥ ८९ ॥

विश्वास-प्रस्तुतिः

वैश्यैः शूद्रैस्तथान्यैश्च अन्त्यजैर्म्लेच्छजातिभिः
ये च योधाः प्रयुध्यन्ते न्याययुद्धेन सर्वदा॥ ९० ॥

मूलम्

वैश्यैः शूद्रैस्तथान्यैश्च अन्त्यजैर्म्लेच्छजातिभिः
ये च योधाः प्रयुध्यन्ते न्याययुद्धेन सर्वदा॥ ९० ॥

विश्वास-प्रस्तुतिः

तेपि यान्ति परं स्थानं सर्वे वर्णा द्विजातयः
न शूरो यो द्विजो भीरुरस्त्रशस्त्रविवर्जितः॥ ९१ ॥

मूलम्

तेपि यान्ति परं स्थानं सर्वे वर्णा द्विजातयः
न शूरो यो द्विजो भीरुरस्त्रशस्त्रविवर्जितः॥ ९१ ॥

विश्वास-प्रस्तुतिः

विपत्तौ वैश्यवृतिं च कारयेद्द्विजसत्तमः
वैश्यवृत्तिं वणिग्भावं कृषिं चैव तथापरैः॥ ९२ ॥

मूलम्

विपत्तौ वैश्यवृतिं च कारयेद्द्विजसत्तमः
वैश्यवृत्तिं वणिग्भावं कृषिं चैव तथापरैः॥ ९२ ॥

विश्वास-प्रस्तुतिः

कारयेत्कृषिवाणिज्यं विप्रकर्म न च त्यजेत्
वणिग्भावान्मृषात्युक्तौ दुर्गतिं प्राप्नुयाद्द्विजः
आर्द्रद्रव्यं परित्यज्य ब्राह्मणो लभते शिवम्
समुत्पाद्य ततो वृत्तिं दद्याद्विप्राय सर्वशः॥ ९४ ॥

पितृयज्ञे तथा चाग्नौ जुहुयाद्विधिवद्द्विजः
तुलेऽसत्यं न कर्त्तव्यं तुलाधर्मप्रतिष्ठिता॥ ९५ ॥

मूलम्

पितृयज्ञे तथा चाग्नौ जुहुयाद्विधिवद्द्विजः
तुलेऽसत्यं न कर्त्तव्यं तुलाधर्मप्रतिष्ठिता॥ ९५ ॥

विश्वास-प्रस्तुतिः

छलभावं तुले कृत्वा नरकं प्रतिपद्यते
अतुलं चापि यद्द्रव्यं तत्र मिथ्या परित्यजेत्॥ ९६ ॥

मूलम्

छलभावं तुले कृत्वा नरकं प्रतिपद्यते
अतुलं चापि यद्द्रव्यं तत्र मिथ्या परित्यजेत्॥ ९६ ॥

विश्वास-प्रस्तुतिः

एवं मिथ्या न कर्त्तव्या मृषा पापप्रसूतिका
नास्ति सत्यात्परोधर्मो नानृतात्पातकं परम्॥ ९७ ॥

मूलम्

एवं मिथ्या न कर्त्तव्या मृषा पापप्रसूतिका
नास्ति सत्यात्परोधर्मो नानृतात्पातकं परम्॥ ९७ ॥

विश्वास-प्रस्तुतिः

अतः सर्वेषु कार्येषु सत्यमेव विशिष्यते
अश्वमेधसहस्रं तु सत्यं च तुलया धृतम्॥ ९८ ॥

मूलम्

अतः सर्वेषु कार्येषु सत्यमेव विशिष्यते
अश्वमेधसहस्रं तु सत्यं च तुलया धृतम्॥ ९८ ॥

विश्वास-प्रस्तुतिः

अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते
यो वदेत्सर्वकार्येषु सत्यं मिथ्या परित्यजेत्॥ ९९ ॥

मूलम्

अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते
यो वदेत्सर्वकार्येषु सत्यं मिथ्या परित्यजेत्॥ ९९ ॥

स निस्तरति दुर्गाणि स्वर्गमक्षयमश्नुते
वाणिज्यं कारयेद्विप्रो मिथ्याऽवश्यं परित्यजेत्१०० 1.48.100
वृद्धिं च निक्षिपेत्तीर्थे स्वयं शेषं तु भोजयेत्
देहक्लेशात्तत्सहस्रगुणं भवति सर्वदा१०१
अर्थार्जनविधौ मर्त्या विशन्ति विषमे जले
कान्तारमटवीं चैव श्वापदैः सेवितां तथा१०२
गिरिं गिरिगुहां दुर्गां म्लेच्छानां शस्त्रपातिनाम्
गृहं प्रतिभयं स्थानं धनलोभात्समन्ततः१०३
सुतदारान्परित्यज्य दूरं गच्छन्ति लोभिनः
स्कन्धे भारं वहन्त्यन्ये तर्यां चक्रे निपातनैः१०४
क्षेपणीभिर्महादुःखैस्सदा प्राणव्ययेन च
अर्थस्य सञ्चयः पुत्र प्राणात्प्रियतरो महान्१०५
एभिर्न्यायार्जितं वित्तं वणिग्भावेन यत्नतः
पितृदेवद्विजातिभ्यो दत्तं चाक्षयमश्नुते१०६
एतौ दोषौ महान्तौ च वाणिज्ये लाभकर्मणि
लोभानामपरित्यागो मृषा ग्राह्यश्च विक्रयः१०७
एतौ दोषो परित्यज्य कुर्यादर्थार्जनं बुधः
अक्षयं लभते दानाद्वणिग्दोषैर्न लिप्यते१०८
पुण्यकर्मरतो विप्रः कृषिं हि परिकारयेत्
वाहयेद्दिवसस्यार्धं बलीवर्दचतुष्टयम्१०९
अभावात्त्रितयं चैव अविश्रामं न कारयेत्
चारयेच्च तृणेऽच्छिन्नै चोरव्याघ्रविवर्जिते११०
दद्याद्घासं यथेष्टं च नित्यमातर्पयेत्स्वयम्
गोष्ठं च कारयेत्तस्य किञ्चिद्विघ्नविवर्जितम्१११
सदा गोमयमूत्राभ्यां विघसैश्च विवर्जितम्
न मलं निक्षिपेद्गोष्ठे सर्वदेवनिकेतने११२
आत्मनः शयनीयस्य सदृशं कारयेद्बुधः
समं निर्वापयेद्यत्नाच्छीतवातरजस्तथा११३
प्राणस्य सदृशं पश्येद्गां च सामान्यविग्रहम्
अस्य देहे सुखन्दुःखं तथा तस्यैव कल्पते११४
अनेन विधिना यस्तु कृषिकर्माणि कारयेत्
स च गोवाहनैर्दोषैर्न लिप्येत धनी भवेत्११५
दुर्बलं पीडयेद्यस्तु तथैव गदसंयुतम्
अतिबालातिवृद्धं च स गोहत्यां समालभेत्११६
विषमं वाहयेद्यस्तु दुर्बलं सबलं तथा
स गोहत्यासमं पापं प्राप्नोतीह न संशयः११७
यो वाहयेद्विना सस्यं खादन्तं गां निवारयेत्
मोहात्तृणं जलं वापि स गोहत्यासमं लभेत्११८
सङ्क्रान्त्यां पौर्णमास्यां चामावास्यायां तथैव च
हलस्य वाहनात्पापं गवामयुतहत्यया११९
अमूषु पूजयेद्यस्तु सितैश्चित्रादिभिर्नरः
कज्जलैः कुसुमैस्तैलैः सोक्षयं स्वर्गमश्नुते१२०
घासमुष्टिं परगवे यो ददाति सदाह्निकम्
सर्वपापक्षयस्यस्य स्वर्गं चाक्षयमश्नुते१२१
यथा विप्रस्तथा गौश्च द्वयोः पूजाफलं समम्
विचारे ब्राह्मणो मुख्यो नृणां गावः पशौ तथा१२२
नारद उवाच-
विप्रो ब्रह्ममुखे जातः कथितो मे त्वयानघ
कथं गोभिः समो नाथ विस्मयो मे विधे ध्रुवम्१२३
ब्रह्मोवाच-
शृणु चात्र यथातथ्यं ब्राह्मणानां गवां यथा
एकपिण्डक्रियैक्यं तु पुरुषैर्निर्मितं पुरा१२४
पुरा ब्रह्ममुखोद्भूतं कूटं तेजोमयं महत्
चतुर्भागप्रजातं तद्वेदोग्निर्गौर्द्विजस्तथा१२५
प्राक्तेजः सम्भवो वेदो वह्निरेव तथैव च
परतो गौस्तथा विप्रो जातश्चैव पृथक्पृथक्१२६
तत्र सृष्टा मया चादौ वेदाश्चत्वार एकशः
स्थित्यर्थं सर्वलोकानां भुवनानां समन्ततः१२७
अग्निर्हव्यानि भुञ्जीत देवहेतोस्तथा द्विजः
आज्यं गोप्रभवं विद्धि तस्मादेते प्रसूतकाः१२८
न सन्ति यदि लोकेषु चत्वारोमी महत्तराः
तदाखिलं च भुवनं नष्टं स्थावरजङ्गमम्१२९
एभिर्धृताः सदा लोकाः प्रतिष्ठन्ति स्वभावतः
स्वभावो ब्रह्मरूपोसावेते ब्रह्ममयाः स्मृताः१३०
तस्माद्गौः पूजनीयोसौ विप्र देवासुरैरपि
उदारः सर्वकार्येषु जातस्तथ्यो गुणाकरः१३१
सर्वदेवमयः साक्षात्सर्वसत्वानुकम्पकः
अस्य कार्यं मया सृष्टं पुरैव पोषणं प्रति१३२
अतएव मया दत्तं वरं चातिसुशोभनम्
एकजन्मनि ते मोक्षस्तवास्त्विति विनिश्चितम्१३३
अत्रैव ये मृता गावस्त्वागच्छन्ति ममालयम्
पापस्य कणमात्रं तु तेषां देहेन तिष्ठति१३४
देवी गौर्धेनुका देवाश्चादिदेवी त्रिशक्तिका
प्रसादाद्यस्य यज्ञानां प्रभवो हि विनिश्चितः१३५
गवां सर्वपवित्राणि पुनन्ति सकलं जगत्
मूत्रं गोर्गोमयं क्षीरं दधिसर्पिस्तथैव च१३६
अमीषां भक्षणे पापं न तिष्ठति कलेवरे
तस्माद्घृतं दधि क्षीरं नित्यं खादन्ति धार्मिकाः१३७
विशिष्टं सर्वद्रव्येषु गव्यमिष्टं परं शुभम्
यस्यास्ये भोजनं नास्ति तस्य मूर्तिस्तु पूतिका१३८
अन्नाद्यं पञ्चरात्रेण सप्तरात्रेण वै पयः
दधि विंशतिरात्रेण घृतं स्यान्मासमेककम्१३९
अगव्यैर्यस्तु भुङ्क्ते वै मासमेकं निरन्तरम्
भोजने तस्य मर्त्यस्य प्रेताः खादन्ति चैव हि१४०
परमान्नं परं शुद्धं स्विन्नं चातपतण्डुलैः
भुक्त्वा तु यत्कृतं पुण्यं कोटिकोटिगुणं भवेत्१४१
अन्यच्चापि च यद्द्रव्यं हविष्यं शास्त्रनिर्मितम्
तद्भुक्तवा यत्कृतं कर्म सर्वं लक्षगुणं भवेत्१४२
निरामिषं च यत्किञ्चित्तस्माद्यद्यत्फलं लभेत्
तस्माद्गौः सर्वकार्येषु शस्त एको युगेयुगे१४३
सर्वदा सर्वकामेषु धर्मकामार्थमोक्षदः
नारद उवाच-
केषु किं वा प्रयोगेण परं पुण्यं प्रकीर्तितं१४४
वद तत्सर्वलोकेश यथा जानामि तत्वतः
ब्रह्मोवाच
सकृत्प्रदक्षिणं कृत्वा गोधनं चाभिवन्दयेत्१४५
सर्वपापैर्विनिर्मुक्तः स्वर्गं चाक्षयमश्नुते
सुराचार्यो यथा वन्द्यः पूज्योसौ माधवो यथा१४६
सप्तप्रदक्षिणं कृत्वा चैश्वर्यात्पाकशासनः
कल्य उत्थाय गोमध्ये पात्रं गृह्य सहोदकम्१४७
निषिञ्चेद्यो गवां शृङ्गं मस्तकेनैव तज्जलम्
प्रतीच्छेत निराहारस्तस्य पुण्यं निबोधत१४८
श्रूयन्ते यानि तीर्थानि त्रिषु लोकेषु नारद
सिद्धचारणयुक्तानि सेवितानि महर्षिभिः१४९
अभिषेकस्समस्तेषां गवां शृङ्गोदकस्य च
प्रातरुत्थाय यो मर्त्यः स्पृशेद्गां च घृतं मधु१५० 1.48.150
सर्षपांश्च प्रियङ्गूंश्च कल्मषात्प्रतिमुच्यते
घृतक्षीरप्रदा गावो घृतयोन्यो घृतोद्भवाः१५१
घृतनद्यो घृतावर्तास्ता मे सन्तु सदा गृहे
घृतं मे सर्वगात्रेषु घृतं मे मनसि स्थितम्१५२
गावो ममाग्रतो नित्यं गावः पृष्ठत एव च
गावश्च सर्वगात्रेषु गवाम्मध्ये वसाम्यहम्१५३
इत्याचम्य जपेन्मन्त्रं सायम्प्रातरिदं शुचिः
सर्वपापक्षयस्तस्य स्वर्लोके पूजितो भवेत्१५४
यथा गौश्च तथा विप्रो यथाविप्रस्तथा हरिः
हरिर्यथा तथा गङ्गा एतेन ह्यवृषाः स्मृताः१५५
गावो बन्धुर्मनुष्याणां मनुष्या बान्धवा गवाम्
गौश्च यस्मिन्गृहे नास्ति तद्बन्धुरहितं गृहम्१५६
गोमुखे चाश्रिता वेदाः सषडङ्गपदक्रमाः
शृङ्गयोश्च स्थितौ नित्यं सहैव हरिकेशवौ१५७
उदरेऽवस्थितः स्कन्दः शीर्षे ब्रह्मा स्थितः सदा
वृषद्ध्वजो ललाटे च शृङ्गाग्र इन्द्र एव च१५८
कर्णयोरश्विनौ देवौ चक्षुषोश्शशिभास्करौ
दन्तेषु गरुडो देवो जिह्वायां च सरस्वती१५९
अपाने सर्वतीर्थानि प्रस्रावे चैव जाह्नवी
ऋषयो रोमकूपेषु मुखतः पृष्ठतो यमः१६०
धनदो वरुणश्चैव दक्षिणं पार्श्वमाश्रितौ
वामपार्श्वे स्थिता यक्षास्तेजस्वन्तो महाबलाः१६१
मुखमध्ये च गन्धर्वा नासाग्रे पन्नगास्तथा
खुराणां पश्चिमे पार्श्वेऽप्सरसश्च समाश्रिताः१६२
गोमये वसते लक्ष्मीर्गोमूत्रे सर्वमङ्गला
पादाग्रे खेचरा वेद्या हम्भाशब्दे प्रजापतिः१६३
चत्वारः सागराः पूर्णा धेनूनां च स्तनेषु वै
गां च स्पृशति यो नित्यं स्नातो भवति नित्यशः१६४
अतो मर्त्यः प्रपुष्टैस्तु सर्वपापैः प्रमुच्यते
गवां रजः खुरोद्धूतं शिरसा यस्तु धारयेत्१६५
स च तीर्थजले स्नातः सर्वपापैः प्रमुच्यते
नारद उवाच-
गवां च दशवर्णानां कस्य दाने च किम्फलम्१६६
ब्रूहि तत्त्वं गुरुश्रेष्ठ परमेष्ठिन्प्रियं यदि
ब्रह्मोवाच-
श्वेतां गां ब्राह्मणे दत्वा मानवश्चेश्वरो भवेत्१६७
प्रासादे वसते नित्यं भोगी च सुखमेधते
धूम्रा तु स्वर्गकान्तार संसारे पापमोक्षिणी१६८
अक्षयं कपिलादानं कृष्णां दत्वा न सीदति
पाण्डुरा दुर्लभा लोके गौरी च कुलनन्दिनी१६९
रक्ताक्षी रूपकामस्य धनकामस्य नीलिका
एकां च कपिलां दत्वा सर्वपापैः प्रमुच्यते१७०
यत्तु बाल्यकृतं पापं यौवने वार्धके कृतम्
वाचाकृतं कर्मकृतं मनसा यत्प्रचिन्तितं१७१
अगम्यागमनं चैव मित्रद्रोहे च पातकम्
मानकूटं तुलाकूटं कन्यानृतं गवानृतम्१७२
सर्वं च नाशयेत्क्षिप्रं कपिलां यः प्रयच्छति
दशयोजनविस्तीर्णा महापारा महानदी१७३
नारा च जलकान्तारे प्रसृते चोदकार्णवे
यावद्वत्सस्य द्वौ पादौ मुखं यावन्न जायते१७४
तावद्गौः पृथिवी ज्ञेया यावद्गर्भं न मुञ्चति
सुवर्णशृङ्गीं वस्त्राढ्यां सर्वालङ्कारभूषिताम्१७५
ताम्रपृष्ठीं रौप्यखुरां तथा कांस्योपदोहनाम्
शोभितां गन्धपुष्पैश्च सर्वालङ्कारभूषितां१७६
ईदृशीं कपिलां दद्याद्द्विजातौ वेदपारगे
सर्वपापक्षयस्तस्य विष्णुलोकेऽच्युतो भवेत्१७७
तस्यां तु दुह्यमानायां भूमौ पतन्ति बिन्दवः
आरामादि विजायन्ते बहुपुष्पफलोत्तमाः१७८
यत्र कामफला वृक्षा नद्यः पायसकर्दमाः
प्रासादाश्चापि सौवर्णास्तत्र गच्छन्ति गोप्रदाः१७९
दशधेनूश्च यो दद्यादेकं चैव धुरन्धरं
समानं तु फलं प्रोक्तं ब्रह्मणा समुदाहृतम्१८०
एकं च दशभिर्दद्यात्सहस्राणां शतं फलम्
तस्यानुसारतो वेद्यं फलं नारद यत्नतः१८१
पितॄनुद्दिश्य यः पुत्रो वृषं च मोक्षयेद्भुवि
पितरो विष्णुलोकेषु महीयन्ते यथेप्सितम्१८२
चतस्रो वत्सतर्यश्च एकस्यैव वृषस्य च
मोक्ष्यन्ते सर्वतः पुत्र विधिरेष सनातनः१८३
यावन्ति चैव रोमाणि तस्य तासां च सर्वशः
तावद्वर्षसहस्राणि स्वर्गं भुजन्ति मानवाः१८४
लाङ्गूलेन वृषो यच्च जलं चोत्क्षिपति ध्रुवं
तत्तोयं तु सहस्राब्दं पितॄणाममृतं भवेत्१८५
खुरेण कर्षयेद्भूमिं ततो लोष्ठं च कर्दमः
पितृभ्यश्च स्वधा तत्र लक्षकोटिगुणं भवेत्१८६
विद्यमाने च जनके यदि माता विनश्यति
चन्दनेनाङ्किता धेनुस्तस्याः स्वर्गाय दीयते१८७
दाता चैव पितॄणां च ऋणं चैव प्रमुञ्चति
अक्षयं लभते स्वर्गं पूजितो मघवा यथा१८८
सर्वलक्षणसंयुक्ता तरुणा गौः पयस्विनी
समाप्रसूतिका भद्रा सा च गौः पृथिवी स्मृता१८९
तस्य दानेन मन्त्रस्य पृथ्वीदानसमं फलं
शतक्रतुसमो मर्त्यः कुलमुद्धरते शतं१९०
गवां च हरणं कृत्वा मृते गोरथवत्सके
क्रिमिपूर्णे स कूपे च तिष्ठेदाभूतसम्प्लवं१९१
गवां चैव वधं कृत्वा पितृभिः सह पच्यते
रौरवे नरके घोरे तावत्कालं प्रतिक्रिया१९२
गोप्रचारप्रभग्नश्च षण्डवाहनबन्धनः
अक्षयं नरकं प्रायान्पुनर्जन्मनि जन्मनि१९३
सकृच्च श्रावयेद्यस्तु कथां पुण्यतमामिमां
सर्वपापक्षयस्तस्य देवैश्च सह मोदते१९४
य इदं शृणुयाद्वापि परं पुण्यतमं महत्
सप्तजन्मकृतात्पापान्मुच्यते तत्क्षणेन हि१९५