०४६

श्री भीष्म उवाच-

विश्वास-प्रस्तुतिः

नरसिंहस्य माहात्म्यं विस्तरेण त्वयेरितं
तथा भवस्य माहात्म्यं भैरवस्याभिधीयताम्॥ १ ॥

मूलम्

नरसिंहस्य माहात्म्यं विस्तरेण त्वयेरितं
तथा भवस्य माहात्म्यं भैरवस्याभिधीयताम्॥ १ ॥

विश्वास-प्रस्तुतिः

पुलस्त्य उवाच
तस्यापि देवदेवस्य शृणु त्वं कर्म चोत्तमं
आसीद्दैत्योन्धको नाम भिन्नाञ्जनचयोपमः॥ २ ॥

मूलम्

पुलस्त्य उवाच
तस्यापि देवदेवस्य शृणु त्वं कर्म चोत्तमं
आसीद्दैत्योन्धको नाम भिन्नाञ्जनचयोपमः॥ २ ॥

विश्वास-प्रस्तुतिः

तपसा महता युक्तो ह्यवध्यस्त्रिदिवौकसाम्
स कदाचिन्महादेवं पार्वत्या सहितं विभुं॥ ३ ॥

मूलम्

तपसा महता युक्तो ह्यवध्यस्त्रिदिवौकसाम्
स कदाचिन्महादेवं पार्वत्या सहितं विभुं॥ ३ ॥

विश्वास-प्रस्तुतिः

क्रीडमानं तदा दृष्ट्वा हर्तुं देवीं प्रचक्रमे
एतां देवीं हराम्यद्य वियोगे मृत्युमेष्यति॥ ४ ॥

मूलम्

क्रीडमानं तदा दृष्ट्वा हर्तुं देवीं प्रचक्रमे
एतां देवीं हराम्यद्य वियोगे मृत्युमेष्यति॥ ४ ॥

विश्वास-प्रस्तुतिः

ततः स्थिरा भवित्री मे भार्यैषा लोकसुन्दरी
बिबौष्ठं चारुवदनं चारुकान्ततरं मुखं॥ ५ ॥

मूलम्

ततः स्थिरा भवित्री मे भार्यैषा लोकसुन्दरी
बिबौष्ठं चारुवदनं चारुकान्ततरं मुखं॥ ५ ॥

विश्वास-प्रस्तुतिः

यद्येषा न भवेद्भार्या जीविते किं प्रयोजनम्
एतां मतिमथास्थाय मन्त्रिभिः सह मन्त्र्य च॥ ६ ॥

मूलम्

यद्येषा न भवेद्भार्या जीविते किं प्रयोजनम्
एतां मतिमथास्थाय मन्त्रिभिः सह मन्त्र्य च॥ ६ ॥

विश्वास-प्रस्तुतिः

चक्रे योगं ससैन्यस्य सेनापतिमभाषत
आनयस्व रथं मह्यं जैत्रं देवनिपातनम्॥ ७ ॥

मूलम्

चक्रे योगं ससैन्यस्य सेनापतिमभाषत
आनयस्व रथं मह्यं जैत्रं देवनिपातनम्॥ ७ ॥

विश्वास-प्रस्तुतिः

जयिष्ये त्रिदशान्सर्वान्विष्णुरुद्रपुरोगमान्
हरिष्ये पर्वतसुतां तया मेऽपहृतं मनः॥ ८ ॥

मूलम्

जयिष्ये त्रिदशान्सर्वान्विष्णुरुद्रपुरोगमान्
हरिष्ये पर्वतसुतां तया मेऽपहृतं मनः॥ ८ ॥

विश्वास-प्रस्तुतिः

मन्त्रिणा तस्य चाख्यातः कनकस्य वधस्सुरैः
परभार्यानुरक्तस्य कृतो देवैः सवासवैः॥ ९ ॥

मूलम्

मन्त्रिणा तस्य चाख्यातः कनकस्य वधस्सुरैः
परभार्यानुरक्तस्य कृतो देवैः सवासवैः॥ ९ ॥

विश्वास-प्रस्तुतिः

ततः कोपपरीतात्मा हन्मि देवान्सशङ्करान्
तं हत्वा दानवं शक्रो भयादन्धासुरस्य च॥ १० ॥

मूलम्

ततः कोपपरीतात्मा हन्मि देवान्सशङ्करान्
तं हत्वा दानवं शक्रो भयादन्धासुरस्य च॥ १० ॥

विश्वास-प्रस्तुतिः

जगाम शरणान्वेषी कैलासं शङ्करालयं
दृष्ट्वा प्रणम्य देवेशं चन्द्रार्द्धकृतशेखरं॥ ११ ॥

मूलम्

जगाम शरणान्वेषी कैलासं शङ्करालयं
दृष्ट्वा प्रणम्य देवेशं चन्द्रार्द्धकृतशेखरं॥ ११ ॥

विश्वास-प्रस्तुतिः

भीतो विज्ञापयामास धृतसाहस्रलोचनः
अभयं देहि मे देव दानवादन्धकादहं॥ १२ ॥

मूलम्

भीतो विज्ञापयामास धृतसाहस्रलोचनः
अभयं देहि मे देव दानवादन्धकादहं॥ १२ ॥

विश्वास-प्रस्तुतिः

बिभेमि तस्य पुत्रोद्य मया युधि निपातितः
तद्यावन्न स जानाति हतं पुत्रं महासुरः॥ १३ ॥

मूलम्

बिभेमि तस्य पुत्रोद्य मया युधि निपातितः
तद्यावन्न स जानाति हतं पुत्रं महासुरः॥ १३ ॥

विश्वास-प्रस्तुतिः

तावत्तत्रस्थ एवाशु हन्यतां मद्भयावहः
स्त्रीलौल्याद्दानवः क्रूरः परभार्यापहारकः॥ १४ ॥

मूलम्

तावत्तत्रस्थ एवाशु हन्यतां मद्भयावहः
स्त्रीलौल्याद्दानवः क्रूरः परभार्यापहारकः॥ १४ ॥

विश्वास-प्रस्तुतिः

सर्वथा घातनीयस्ते भवता सुरसत्तम
शक्रस्यैवं वचः श्रुत्वा शरण्यः शङ्करस्तदा॥ १५ ॥

मूलम्

सर्वथा घातनीयस्ते भवता सुरसत्तम
शक्रस्यैवं वचः श्रुत्वा शरण्यः शङ्करस्तदा॥ १५ ॥

विश्वास-प्रस्तुतिः

ददावभयमेवासौ मा भैरिति शतक्रतोः
दत्ताभयोथ कैलासादाजगाम कुशस्थलीम्॥ १६ ॥

मूलम्

ददावभयमेवासौ मा भैरिति शतक्रतोः
दत्ताभयोथ कैलासादाजगाम कुशस्थलीम्॥ १६ ॥

विश्वास-प्रस्तुतिः

वृतो भूतगणैरीशो वधार्थमन्धकस्य तु
कृत्वा रूपं महाकायं विश्वरूपं सुभैरवं॥ १७ ॥

मूलम्

वृतो भूतगणैरीशो वधार्थमन्धकस्य तु
कृत्वा रूपं महाकायं विश्वरूपं सुभैरवं॥ १७ ॥

विश्वास-प्रस्तुतिः

सर्पैर्ज्वलद्भिर्धावद्भिर्भीमं भीमभुजङ्गवत्
जटासटाभिराकाशं फणिरत्नशिखार्चिषा॥ १८ ॥

मूलम्

सर्पैर्ज्वलद्भिर्धावद्भिर्भीमं भीमभुजङ्गवत्
जटासटाभिराकाशं फणिरत्नशिखार्चिषा॥ १८ ॥

विश्वास-प्रस्तुतिः

दहन्नतीवतेजोभिः कालाग्निरिव सङ्क्षये
मुखैर्दंष्ट्राङ्कुराङ्कैश्च द्वितीयेन्दुकलोज्ज्वलैः॥ १९ ॥

मूलम्

दहन्नतीवतेजोभिः कालाग्निरिव सङ्क्षये
मुखैर्दंष्ट्राङ्कुराङ्कैश्च द्वितीयेन्दुकलोज्ज्वलैः॥ १९ ॥

विश्वास-प्रस्तुतिः

पातालोदररूपाभैर्भैरवारावनादिभिः
भुजैरनेकसाहस्रैर्बहुशस्त्रकृतग्रहः॥ २० ॥

मूलम्

पातालोदररूपाभैर्भैरवारावनादिभिः
भुजैरनेकसाहस्रैर्बहुशस्त्रकृतग्रहः॥ २० ॥

विश्वास-प्रस्तुतिः

बह्वाभरणभूषाढ्यै रणे घोरनिनादिभिः
सिंहचर्मपरीधानं व्याघ्रत्वगुत्तरीयकं॥ २१ ॥

मूलम्

बह्वाभरणभूषाढ्यै रणे घोरनिनादिभिः
सिंहचर्मपरीधानं व्याघ्रत्वगुत्तरीयकं॥ २१ ॥

विश्वास-प्रस्तुतिः

गजाजिनकृताटोपं पतद्भृङ्गरवाकुलं
ईदृग्रूपं विधायेशो दनुदैत्यभयावहं॥ २२ ॥

मूलम्

गजाजिनकृताटोपं पतद्भृङ्गरवाकुलं
ईदृग्रूपं विधायेशो दनुदैत्यभयावहं॥ २२ ॥

विश्वास-प्रस्तुतिः

अवातरन्महीं भीमो दनूनां क्षयकारकः
अन्धासुरोपि दनुजः पुत्रं श्रुत्वा हतं युधि॥ २३ ॥

मूलम्

अवातरन्महीं भीमो दनूनां क्षयकारकः
अन्धासुरोपि दनुजः पुत्रं श्रुत्वा हतं युधि॥ २३ ॥

विश्वास-प्रस्तुतिः

क्रोधेन तमसाविष्टो रणतूर्याण्यचोदयत्
संहत्यावहितः प्राप्तो यत्र ते त्रिदशाः स्थिताः॥ २४ ॥

मूलम्

क्रोधेन तमसाविष्टो रणतूर्याण्यचोदयत्
संहत्यावहितः प्राप्तो यत्र ते त्रिदशाः स्थिताः॥ २४ ॥

विश्वास-प्रस्तुतिः

महत्या सेनया सार्द्धं रथवारणयुक्तया
ते देवा दानवान्वीक्ष्य महाहवकृतादरान्॥ २५ ॥

मूलम्

महत्या सेनया सार्द्धं रथवारणयुक्तया
ते देवा दानवान्वीक्ष्य महाहवकृतादरान्॥ २५ ॥

विश्वास-प्रस्तुतिः

व्यपयाततनुत्राणाः शम्भुं शरणमन्वयुः
मा भैरिति च तान्देवो देवानुक्त्वा त्रिलोचनः॥ २६ ॥

मूलम्

व्यपयाततनुत्राणाः शम्भुं शरणमन्वयुः
मा भैरिति च तान्देवो देवानुक्त्वा त्रिलोचनः॥ २६ ॥

विश्वास-प्रस्तुतिः

गृहीत्वा शूलमातिष्ठद्दंष्ट्रारवधरो रुषा
अन्धकेनाथ रुष्टेन शतकोटिशरैर्गणाः॥ २७ ॥

मूलम्

गृहीत्वा शूलमातिष्ठद्दंष्ट्रारवधरो रुषा
अन्धकेनाथ रुष्टेन शतकोटिशरैर्गणाः॥ २७ ॥

विश्वास-प्रस्तुतिः

निहताश्चापि देवानां बहूनामेकताकृतां
सस्फुलिङ्गार्चिषो वह्नेर्मुञ्चमानः पिनाकधृक्॥ २८ ॥

मूलम्

निहताश्चापि देवानां बहूनामेकताकृतां
सस्फुलिङ्गार्चिषो वह्नेर्मुञ्चमानः पिनाकधृक्॥ २८ ॥

विश्वास-प्रस्तुतिः

शरैः समावृतं चक्रे अन्धकं रथगं ततः
दनुनाथो रथस्थोथ शिथिलः शिथिलायुधः॥ २९ ॥

मूलम्

शरैः समावृतं चक्रे अन्धकं रथगं ततः
दनुनाथो रथस्थोथ शिथिलः शिथिलायुधः॥ २९ ॥

विश्वास-प्रस्तुतिः

निमन्त्र्य दानवान्सर्वान्स योद्धुमुपचक्रमे
बहुधा तद्बलं भग्नं विविधायुधयोधिभिः॥ ३० ॥

मूलम्

निमन्त्र्य दानवान्सर्वान्स योद्धुमुपचक्रमे
बहुधा तद्बलं भग्नं विविधायुधयोधिभिः॥ ३० ॥

विश्वास-प्रस्तुतिः

युधि वीरैर्हतं देवैः स्थाणुना सख्यमाश्रितैः
दानवश्चान्धकः सैन्यं भिन्नं दृष्ट्वा कृतं सुरैः॥ ३१ ॥

मूलम्

युधि वीरैर्हतं देवैः स्थाणुना सख्यमाश्रितैः
दानवश्चान्धकः सैन्यं भिन्नं दृष्ट्वा कृतं सुरैः॥ ३१ ॥

विश्वास-प्रस्तुतिः

आत्मानं च महेशेन निरुद्धं बाणकोटिभिः
विह्वलीभूतदेहोसौ धैर्यमालम्ब्य केवलम्॥ ३२ ॥

मूलम्

आत्मानं च महेशेन निरुद्धं बाणकोटिभिः
विह्वलीभूतदेहोसौ धैर्यमालम्ब्य केवलम्॥ ३२ ॥

विश्वास-प्रस्तुतिः

पिनाकं चैव रुद्रस्य गृह्य रुद्रमताडयत्
पिनाकस्याभिघातेन रुद्रो भूमिमथागमत्॥ ३३ ॥

मूलम्

पिनाकं चैव रुद्रस्य गृह्य रुद्रमताडयत्
पिनाकस्याभिघातेन रुद्रो भूमिमथागमत्॥ ३३ ॥

विश्वास-प्रस्तुतिः

भूमौ निपातिते देवे चलितं भुवनत्रयं
तत्यजुः सागरा वेलां पर्वताः शिखराणि च॥ ३४ ॥

मूलम्

भूमौ निपातिते देवे चलितं भुवनत्रयं
तत्यजुः सागरा वेलां पर्वताः शिखराणि च॥ ३४ ॥

विश्वास-प्रस्तुतिः

नक्षत्राणि वियोगीनि जग्मुर्मुक्तान्यनेकशः
पतिते भुवि देवेशे अन्धको गदया पुनः॥ ३५ ॥

मूलम्

नक्षत्राणि वियोगीनि जग्मुर्मुक्तान्यनेकशः
पतिते भुवि देवेशे अन्धको गदया पुनः॥ ३५ ॥

विश्वास-प्रस्तुतिः

जघान रुषितो नागं हत्वा तं पातयद्भुवि
शिवं त्यक्त्वा नागराजः प्रपलाय्यान्यतो गतः॥ ३६ ॥

मूलम्

जघान रुषितो नागं हत्वा तं पातयद्भुवि
शिवं त्यक्त्वा नागराजः प्रपलाय्यान्यतो गतः॥ ३६ ॥

विश्वास-प्रस्तुतिः

मुहूर्त्ताच्चेतनां लब्ध्वा उत्थितः परमेश्वरः
गृहीत्वा परशुं दिव्यं दानवं नैव पश्यति॥ ३७ ॥

मूलम्

मुहूर्त्ताच्चेतनां लब्ध्वा उत्थितः परमेश्वरः
गृहीत्वा परशुं दिव्यं दानवं नैव पश्यति॥ ३७ ॥

विश्वास-प्रस्तुतिः

कृत्वा तु तामसीं मायां मायाशतविशारदः
तया विमोहिते देवे क्व नु वै दानवो गतः॥ ३८ ॥

मूलम्

कृत्वा तु तामसीं मायां मायाशतविशारदः
तया विमोहिते देवे क्व नु वै दानवो गतः॥ ३८ ॥

विश्वास-प्रस्तुतिः

शम्भोर्भयमथो प्राप्य किं नु पापः करिष्यति
तमसा छादिता यावद्देवा व्याकुलतां गताः॥ ३९ ॥

मूलम्

शम्भोर्भयमथो प्राप्य किं नु पापः करिष्यति
तमसा छादिता यावद्देवा व्याकुलतां गताः॥ ३९ ॥

विश्वास-प्रस्तुतिः

सम्भ्रान्तमानसानीकास्तदोचुः कार्यगौरवात्
एतस्मिन्नन्तरे सूर्यस्तेजोरूपो व्यवस्थितः॥ ४० ॥

मूलम्

सम्भ्रान्तमानसानीकास्तदोचुः कार्यगौरवात्
एतस्मिन्नन्तरे सूर्यस्तेजोरूपो व्यवस्थितः॥ ४० ॥

विश्वास-प्रस्तुतिः

उत्तस्थौ नररूपेण कुर्वन्वितिमिरा दिशः
नष्टे तमसि हृष्टाङ्गे खद्योते प्रकटे स्थिते॥ ४१ ॥

मूलम्

उत्तस्थौ नररूपेण कुर्वन्वितिमिरा दिशः
नष्टे तमसि हृष्टाङ्गे खद्योते प्रकटे स्थिते॥ ४१ ॥

विश्वास-प्रस्तुतिः

देवा मुदमवापुस्ते स्पष्टाननविलोचनाः
उद्दीप्तास्तु सुराः सर्वे गणाः स्कन्दपुरोगमाः॥ ४२ ॥

मूलम्

देवा मुदमवापुस्ते स्पष्टाननविलोचनाः
उद्दीप्तास्तु सुराः सर्वे गणाः स्कन्दपुरोगमाः॥ ४२ ॥

विश्वास-प्रस्तुतिः

स्तुवन्ति विविधैस्तोत्रैः नररूपं दिवाकरम्
अनौपम्यं जगद्व्यापि ब्रह्मविष्णुशिवात्परम्॥ ४३ ॥

मूलम्

स्तुवन्ति विविधैस्तोत्रैः नररूपं दिवाकरम्
अनौपम्यं जगद्व्यापि ब्रह्मविष्णुशिवात्परम्॥ ४३ ॥

विश्वास-प्रस्तुतिः

स्निग्धविद्रुमसच्छायं सिन्दूरारुणसप्रभम्
प्रभासन्तं तदा दृष्ट्वा पञ्चाङ्गालिङ्गितावनिः॥ ४४ ॥

मूलम्

स्निग्धविद्रुमसच्छायं सिन्दूरारुणसप्रभम्
प्रभासन्तं तदा दृष्ट्वा पञ्चाङ्गालिङ्गितावनिः॥ ४४ ॥

विश्वास-प्रस्तुतिः

पुनः प्रणामप्रवणं प्रणिधानपुरःसरम्
आलोक्य स्निग्धया दृष्ट्या देवदेवं त्रिलोचनः॥ ४५ ॥

मूलम्

पुनः प्रणामप्रवणं प्रणिधानपुरःसरम्
आलोक्य स्निग्धया दृष्ट्या देवदेवं त्रिलोचनः॥ ४५ ॥

विश्वास-प्रस्तुतिः

उवाच स्निग्धगम्भीर वाचा देवं शनैर्हरः
पूरयन्निव तेजोभिर्भगवान्भुवनत्रयम्॥ ४६ ॥

मूलम्

उवाच स्निग्धगम्भीर वाचा देवं शनैर्हरः
पूरयन्निव तेजोभिर्भगवान्भुवनत्रयम्॥ ४६ ॥

विश्वास-प्रस्तुतिः

दैत्यमायाभिपन्नानां दर्शनाकुलचेतसाम्
प्राणिनामिदमेवैकमविसंवादि दैवतम्॥ ४७ ॥

मूलम्

दैत्यमायाभिपन्नानां दर्शनाकुलचेतसाम्
प्राणिनामिदमेवैकमविसंवादि दैवतम्॥ ४७ ॥

विश्वास-प्रस्तुतिः

अयमेव च संसारसागरात्सकलादपि
सत्त्वानुत्तारयन्देवः कर्णधाराय ते प्रभुः॥ ४८ ॥

मूलम्

अयमेव च संसारसागरात्सकलादपि
सत्त्वानुत्तारयन्देवः कर्णधाराय ते प्रभुः॥ ४८ ॥

विश्वास-प्रस्तुतिः

यजन्तो जन्तवो भक्त्या यं देवं विविधाः सदा
निःश्रेयसाय कल्पन्ते तं नतो भास्करं विभुम्॥ ४९ ॥

मूलम्

यजन्तो जन्तवो भक्त्या यं देवं विविधाः सदा
निःश्रेयसाय कल्पन्ते तं नतो भास्करं विभुम्॥ ४९ ॥

विश्वास-प्रस्तुतिः

यस्तूदयाद्रिशिखरे मकुटायमानलीलागभस्तिभिरलं कुसुमप्रकाशैः
व्याप्य स्वदीधितिगणैः प्रदिशो दिशश्च देदीप्यते स सविता विभवाय लोके1.46.॥ ५० ॥

मूलम्

यस्तूदयाद्रिशिखरे मकुटायमानलीलागभस्तिभिरलं कुसुमप्रकाशैः
व्याप्य स्वदीधितिगणैः प्रदिशो दिशश्च देदीप्यते स सविता विभवाय लोके1.46.॥ ५० ॥

विश्वास-प्रस्तुतिः

ब्रह्मेन्द्ररुद्रमरुदच्युतवह्निपाथो नाथ प्रयोगनिपुणैश्च ऋषीन्द्रसङ्घैः
श्रेयोर्थिभिः प्रतिदिनं दिवसाङ्गरागैर्दिव्याङ्गरागपरिलिप्त समस्तदैहैः॥ ५१ ॥

मूलम्

ब्रह्मेन्द्ररुद्रमरुदच्युतवह्निपाथो नाथ प्रयोगनिपुणैश्च ऋषीन्द्रसङ्घैः
श्रेयोर्थिभिः प्रतिदिनं दिवसाङ्गरागैर्दिव्याङ्गरागपरिलिप्त समस्तदैहैः॥ ५१ ॥

विश्वास-प्रस्तुतिः

पूज्यं वपुस्तव सदा प्रलये हि वेदैर्गीर्भिर्विचित्रपदमण्डलमण्डिताभिः
ये त्वां स्तुवन्ति परसद्मनि सद्महीना नित्यं प्रसारितकरा भुवि ते भवन्ति॥ ५२ ॥

मूलम्

पूज्यं वपुस्तव सदा प्रलये हि वेदैर्गीर्भिर्विचित्रपदमण्डलमण्डिताभिः
ये त्वां स्तुवन्ति परसद्मनि सद्महीना नित्यं प्रसारितकरा भुवि ते भवन्ति॥ ५२ ॥

विश्वास-प्रस्तुतिः

ये दद्रुकुष्ठपिटिकादिभिरर्दिताङ्गाः शीर्णत्वचः कुनखिनश्च्युतकेशनाशाः
देवेश तेपि तवपादनता भवन्ति सद्यो द्विरष्टशरदाकृतयो मनुष्याः॥ ५३ ॥

मूलम्

ये दद्रुकुष्ठपिटिकादिभिरर्दिताङ्गाः शीर्णत्वचः कुनखिनश्च्युतकेशनाशाः
देवेश तेपि तवपादनता भवन्ति सद्यो द्विरष्टशरदाकृतयो मनुष्याः॥ ५३ ॥

विश्वास-प्रस्तुतिः

सामेति सामगगणा हि मखार्थकं त्वामध्वर्यवस्त्वृगिति बह्वृचमुख्यपूगाः
त्वामेवमार्यमिति कार्यविदोधिगन्तुं नागाश्च वेति पितरोप्यथ सर्वगन्धम्॥ ५४ ॥

मूलम्

सामेति सामगगणा हि मखार्थकं त्वामध्वर्यवस्त्वृगिति बह्वृचमुख्यपूगाः
त्वामेवमार्यमिति कार्यविदोधिगन्तुं नागाश्च वेति पितरोप्यथ सर्वगन्धम्॥ ५४ ॥

विश्वास-प्रस्तुतिः

मायेति चोपनिषदर्कषडेव देवा मर्त्यास्तथा वयमिवेह उपासतेऽमी
गन्धर्वकिन्नरगणाः सहचारणैस्तु रूपं तथा च भगवन्प्रतिपद्यसे त्वम्॥ ५५ ॥

मूलम्

मायेति चोपनिषदर्कषडेव देवा मर्त्यास्तथा वयमिवेह उपासतेऽमी
गन्धर्वकिन्नरगणाः सहचारणैस्तु रूपं तथा च भगवन्प्रतिपद्यसे त्वम्॥ ५५ ॥

विश्वास-प्रस्तुतिः

येनार्चयन्ति सततं भवतोर्च्यमर्चिस्तेर्चिष्प्रतापितदिगम्बरवित्तहीनाः
क्षुत्क्षामकण्ठजठराघटखर्परेण भिक्षामटन्ति परवेश्मसुतेर्थहीनाः॥ ५६ ॥

मूलम्

येनार्चयन्ति सततं भवतोर्च्यमर्चिस्तेर्चिष्प्रतापितदिगम्बरवित्तहीनाः
क्षुत्क्षामकण्ठजठराघटखर्परेण भिक्षामटन्ति परवेश्मसुतेर्थहीनाः॥ ५६ ॥

विश्वास-प्रस्तुतिः

उत्फुल्लकोकनदकोशविशालनेत्रमीषद्विलासलुलिताञ्चितपिङ्गतारम्
कामं प्रशस्ततरसुन्दरहाररम्यमुत्तुङ्गपीवरपयोधरभारखिन्नं॥ ५७ ॥

मूलम्

उत्फुल्लकोकनदकोशविशालनेत्रमीषद्विलासलुलिताञ्चितपिङ्गतारम्
कामं प्रशस्ततरसुन्दरहाररम्यमुत्तुङ्गपीवरपयोधरभारखिन्नं॥ ५७ ॥

विश्वास-प्रस्तुतिः

रम्भोपमोरु पृथुपीननितम्बबिम्बानद्धक्वणन्मणिरणद्रशनाकलापं
बृन्दं ललाटतटकोटिपटान्तलम्बि हेमाञ्चलाञ्चितमुखं कुलपालिकानाम्॥ ५८ ॥

मूलम्

रम्भोपमोरु पृथुपीननितम्बबिम्बानद्धक्वणन्मणिरणद्रशनाकलापं
बृन्दं ललाटतटकोटिपटान्तलम्बि हेमाञ्चलाञ्चितमुखं कुलपालिकानाम्॥ ५८ ॥

विश्वास-प्रस्तुतिः

कान्तं गृहेषु कलगद्गदभाषितानां झङ्कारनूपुररवेणविरावितानाम्
तेषां कृशानुकरमिन्दुसमानकान्तं यैरर्चितोसि भगवन्भवमोचनस्त्वं॥ ५९ ॥

मूलम्

कान्तं गृहेषु कलगद्गदभाषितानां झङ्कारनूपुररवेणविरावितानाम्
तेषां कृशानुकरमिन्दुसमानकान्तं यैरर्चितोसि भगवन्भवमोचनस्त्वं॥ ५९ ॥

विश्वास-प्रस्तुतिः

ब्रह्मा त्वमेव हरिरस्यनिलोऽनलोसि रुद्रोंऽतकोसि वरुणोऽस्यमराधिपोसि
सोमोसि वायुरसि भूरसि चेश्वरोसि यज्ञोसि वित्तपतिरस्यपराजितोसि॥ ६० ॥

मूलम्

ब्रह्मा त्वमेव हरिरस्यनिलोऽनलोसि रुद्रोंऽतकोसि वरुणोऽस्यमराधिपोसि
सोमोसि वायुरसि भूरसि चेश्वरोसि यज्ञोसि वित्तपतिरस्यपराजितोसि॥ ६० ॥

विश्वास-प्रस्तुतिः

ते सप्तसप्तिसुरवाहरणेन मुक्ता भूमावथेति तरसोरुतरन्तरीताः
व्योमैतदन्तरहितं परितो हि गत्वा गच्छन्ति न श्रमदं हिमनागपीमे॥ ६१ ॥

मूलम्

ते सप्तसप्तिसुरवाहरणेन मुक्ता भूमावथेति तरसोरुतरन्तरीताः
व्योमैतदन्तरहितं परितो हि गत्वा गच्छन्ति न श्रमदं हिमनागपीमे॥ ६१ ॥

विश्वास-प्रस्तुतिः

ध्यानैकयोगनिरताश्च समाधिभावात्ध्यात्वा पदं तव तुरीयमनन्तमूर्ते
मुक्तामयास्तनुभृतो न भियाभियुक्तास्तद्ब्रह्मशाश्वतमचिन्त्यमनाद्यनन्तं॥ ६२ ॥

मूलम्

ध्यानैकयोगनिरताश्च समाधिभावात्ध्यात्वा पदं तव तुरीयमनन्तमूर्ते
मुक्तामयास्तनुभृतो न भियाभियुक्तास्तद्ब्रह्मशाश्वतमचिन्त्यमनाद्यनन्तं॥ ६२ ॥

विश्वास-प्रस्तुतिः

जन्मादिरोगरहितं परमं पुराणमीशं जरामरणशोकभयातिरिक्तम्
स्थूलानुभावनगणागणितं विशुद्धं वेदान्तवादिभिरलं परिमन्यते यत्॥ ६३ ॥

मूलम्

जन्मादिरोगरहितं परमं पुराणमीशं जरामरणशोकभयातिरिक्तम्
स्थूलानुभावनगणागणितं विशुद्धं वेदान्तवादिभिरलं परिमन्यते यत्॥ ६३ ॥

विश्वास-प्रस्तुतिः

त्वामग्निपुञ्जवपुषं तपसां निवासं याता दिवं सुचिरकालमुपास्यभक्ताः
भानो सुरासुरसमूहशिरोनिघृष्ट पादारविन्दयुगलामलचारुमूर्त्ते॥ ६४ ॥

मूलम्

त्वामग्निपुञ्जवपुषं तपसां निवासं याता दिवं सुचिरकालमुपास्यभक्ताः
भानो सुरासुरसमूहशिरोनिघृष्ट पादारविन्दयुगलामलचारुमूर्त्ते॥ ६४ ॥

विश्वास-प्रस्तुतिः

भूतेशभूतवरदा सकृदव्ययात्मन्व्योमाट्टहाससवितर्भुवनैकदीप
ऋक्साममन्त्रयजुषामधिवास नाम सृष्टिस्थितिप्रलयकारणलोकपाल॥ ६५ ॥

मूलम्

भूतेशभूतवरदा सकृदव्ययात्मन्व्योमाट्टहाससवितर्भुवनैकदीप
ऋक्साममन्त्रयजुषामधिवास नाम सृष्टिस्थितिप्रलयकारणलोकपाल॥ ६५ ॥

विश्वास-प्रस्तुतिः

दीनस्य देव कृपणस्य भवेभवे मे मग्नस्य चारुदविचार मनोरथानि
शश्वद्यतीश्वर शशी करकङ्कघोरोत्पातो जरामरणशोकरुगान्तरस्य॥ ६६ ॥

मूलम्

दीनस्य देव कृपणस्य भवेभवे मे मग्नस्य चारुदविचार मनोरथानि
शश्वद्यतीश्वर शशी करकङ्कघोरोत्पातो जरामरणशोकरुगान्तरस्य॥ ६६ ॥

विश्वास-प्रस्तुतिः

यः प्रातः सायमिदं मध्याह्ने वा पठेच्च दीप्तांशोः
सालोक्यं याति रवेः प्राप्नोति धर्मार्थकामांश्च॥ ६७ ॥

मूलम्

यः प्रातः सायमिदं मध्याह्ने वा पठेच्च दीप्तांशोः
सालोक्यं याति रवेः प्राप्नोति धर्मार्थकामांश्च॥ ६७ ॥

विश्वास-प्रस्तुतिः

नित्यं तस्माच्च सूर्याच्च मनसोभिहितं च यत्
नमस्ते देवदेवेश भक्तानामभयङ्कर॥ ६८ ॥

मूलम्

नित्यं तस्माच्च सूर्याच्च मनसोभिहितं च यत्
नमस्ते देवदेवेश भक्तानामभयङ्कर॥ ६८ ॥

विश्वास-प्रस्तुतिः

सुब्रह्मण्य नमस्ते तु सर्वदेवनमस्कृत
तिग्मांशो वै नमस्तुभ्यं जगतश्चक्षुषे नमः॥ ६९ ॥

मूलम्

सुब्रह्मण्य नमस्ते तु सर्वदेवनमस्कृत
तिग्मांशो वै नमस्तुभ्यं जगतश्चक्षुषे नमः॥ ६९ ॥

विश्वास-प्रस्तुतिः

प्रभाकर नमस्तेस्तु भानो जय जगत्पते
अनेन दनुमुख्येन पीडितोहं जगत्पते॥ ७० ॥

मूलम्

प्रभाकर नमस्तेस्तु भानो जय जगत्पते
अनेन दनुमुख्येन पीडितोहं जगत्पते॥ ७० ॥

विश्वास-प्रस्तुतिः

किं करोमि कथं चैनं घातयामि दिवाकर
सूर्य उवाच-
जय शूलेन पापिष्ठं मायाशतविशारदम्॥ ७१ ॥

मूलम्

किं करोमि कथं चैनं घातयामि दिवाकर
सूर्य उवाच-
जय शूलेन पापिष्ठं मायाशतविशारदम्॥ ७१ ॥

विश्वास-प्रस्तुतिः

जयं प्राप्नुहि देवेश हत्वा शूलेन चान्धकम्
गृह्य शूलं ततो दूरमाक्षिप्य हर तेजसा॥ ७२ ॥

मूलम्

जयं प्राप्नुहि देवेश हत्वा शूलेन चान्धकम्
गृह्य शूलं ततो दूरमाक्षिप्य हर तेजसा॥ ७२ ॥

विश्वास-प्रस्तुतिः

ततोन्धकस्त्रिशूलेनाताडयत्पापकर्मकृत्
तस्मिन्युद्धे तथा रुद्रो ह्यन्धकेनाभिपीडितः॥ ७३ ॥

मूलम्

ततोन्धकस्त्रिशूलेनाताडयत्पापकर्मकृत्
तस्मिन्युद्धे तथा रुद्रो ह्यन्धकेनाभिपीडितः॥ ७३ ॥

विश्वास-प्रस्तुतिः

मुमोच बाणमुत्युग्रं नाम्ना पाशुपतं हि यत्
पिनाकमानम्य दोर्भ्यां पिनाकी शङ्करः स्वयम्॥ ७४ ॥

मूलम्

मुमोच बाणमुत्युग्रं नाम्ना पाशुपतं हि यत्
पिनाकमानम्य दोर्भ्यां पिनाकी शङ्करः स्वयम्॥ ७४ ॥

विश्वास-प्रस्तुतिः

रुद्रबाणविनिर्भेदाद्रुधिरादन्धकस्य तु
अन्धकाश्च समुत्पन्नाश्शतशोथ सहस्रशः॥ ७५ ॥

मूलम्

रुद्रबाणविनिर्भेदाद्रुधिरादन्धकस्य तु
अन्धकाश्च समुत्पन्नाश्शतशोथ सहस्रशः॥ ७५ ॥

विश्वास-प्रस्तुतिः

तेषां विदार्यमाणानां रुधिरादपरे पुनः
बभूवुरन्धका घोरा यैर्व्याप्तमखिलं जगत्॥ ७६ ॥

मूलम्

तेषां विदार्यमाणानां रुधिरादपरे पुनः
बभूवुरन्धका घोरा यैर्व्याप्तमखिलं जगत्॥ ७६ ॥

विश्वास-प्रस्तुतिः

तं तु मायाविनं दृष्ट्वा देवदेवस्तदान्धकम्
पानार्थमन्धकस्यास्रं ससृजे मातृकास्तदा॥ ७७ ॥

मूलम्

तं तु मायाविनं दृष्ट्वा देवदेवस्तदान्धकम्
पानार्थमन्धकस्यास्रं ससृजे मातृकास्तदा॥ ७७ ॥

विश्वास-प्रस्तुतिः

माहेश्वरीं तथा ब्राह्मीं शौरीं वा बाडवीं तथा
सौपर्णीमथ वायव्यां शङ्खिनीं तैत्तिरीं तथा॥ ७८ ॥

मूलम्

माहेश्वरीं तथा ब्राह्मीं शौरीं वा बाडवीं तथा
सौपर्णीमथ वायव्यां शङ्खिनीं तैत्तिरीं तथा॥ ७८ ॥

विश्वास-प्रस्तुतिः

सौरीं सौम्यां शिवदूतीं चामुण्डामथ वारुणीं
वाराहीं नारसिंहीं च वैष्णवीं च विभावरीं॥ ७९ ॥

मूलम्

सौरीं सौम्यां शिवदूतीं चामुण्डामथ वारुणीं
वाराहीं नारसिंहीं च वैष्णवीं च विभावरीं॥ ७९ ॥

विश्वास-प्रस्तुतिः

शतानन्दां भगानन्दां पिच्छिलां भगमालिनीं
बालामतिबलां रक्तां सुरभीं मुखमण्डिताम्॥ ८० ॥

मूलम्

शतानन्दां भगानन्दां पिच्छिलां भगमालिनीं
बालामतिबलां रक्तां सुरभीं मुखमण्डिताम्॥ ८० ॥

विश्वास-प्रस्तुतिः

मातृनन्दां सुनन्दां च बिडानीं शकुनीं तथा
रेवतीं च महापुण्यां तथैव शिखिपट्टिकां॥ ८१ ॥

मूलम्

मातृनन्दां सुनन्दां च बिडानीं शकुनीं तथा
रेवतीं च महापुण्यां तथैव शिखिपट्टिकां॥ ८१ ॥

विश्वास-प्रस्तुतिः

शूलेन च ततो दैत्यं बिभेद त्रिपुरान्तकः
निर्गतं रुधिरं तस्मात्पपुस्ता मातरस्तदा॥ ८२ ॥

मूलम्

शूलेन च ततो दैत्यं बिभेद त्रिपुरान्तकः
निर्गतं रुधिरं तस्मात्पपुस्ता मातरस्तदा॥ ८२ ॥

विश्वास-प्रस्तुतिः

नीरक्तो हि तदा दैत्यश्शुष्कतां प्राप भूपते
शूले प्रोतस्तदा दैत्यो दिव्यवर्षसहस्रकम्॥ ८३ ॥

मूलम्

नीरक्तो हि तदा दैत्यश्शुष्कतां प्राप भूपते
शूले प्रोतस्तदा दैत्यो दिव्यवर्षसहस्रकम्॥ ८३ ॥

विश्वास-प्रस्तुतिः

महाबलेन रुद्रेण विधृतोपि मृतो नहि
स्तुतस्तेन तदा शम्भुर्भक्त्या दैत्येन सुव्रत॥ ८४ ॥

मूलम्

महाबलेन रुद्रेण विधृतोपि मृतो नहि
स्तुतस्तेन तदा शम्भुर्भक्त्या दैत्येन सुव्रत॥ ८४ ॥

विश्वास-प्रस्तुतिः

नमोस्तु शम्भो भवनाशहेतो नमोस्तु ते देव वरप्रसीद
त्वं भू जलाग्नीरनभोर्कसोमयज्वाष्टमूर्तिर्भवभावनोलम्॥ ८५ ॥

मूलम्

नमोस्तु शम्भो भवनाशहेतो नमोस्तु ते देव वरप्रसीद
त्वं भू जलाग्नीरनभोर्कसोमयज्वाष्टमूर्तिर्भवभावनोलम्॥ ८५ ॥

विश्वास-प्रस्तुतिः

त्वां वै बाणो बहुवाद्येन तोष्य प्राप्तश्चैश्यं स्वे पुरे तत्स्वरक्ष्यम्
रक्षोधीशो बाहुभिस्तोल्यशैलं युष्मत्क्रान्तक्लिष्टरूपो ह्यनौषीत्॥ ८६ ॥

मूलम्

त्वां वै बाणो बहुवाद्येन तोष्य प्राप्तश्चैश्यं स्वे पुरे तत्स्वरक्ष्यम्
रक्षोधीशो बाहुभिस्तोल्यशैलं युष्मत्क्रान्तक्लिष्टरूपो ह्यनौषीत्॥ ८६ ॥

विश्वास-प्रस्तुतिः

प्राप्तोप्यैश्यं सर्वरक्षोगणानां पुत्रं चापि प्रोर्जितं शक्रबन्धम्
भवभयहर हर परम उदार मम सुखकरण निखिल सुरसार॥ ८७ ॥

मूलम्

प्राप्तोप्यैश्यं सर्वरक्षोगणानां पुत्रं चापि प्रोर्जितं शक्रबन्धम्
भवभयहर हर परम उदार मम सुखकरण निखिल सुरसार॥ ८७ ॥

विश्वास-प्रस्तुतिः

जितमरुदभिमतवितरणपार तव पदकमलमिहारणसार
तवेश पादपङ्कजं करोति यो नरो हृदि सदेशतस्य वाञ्छितं ददासि भक्तिभावितः॥ ८८ ॥

मूलम्

जितमरुदभिमतवितरणपार तव पदकमलमिहारणसार
तवेश पादपङ्कजं करोति यो नरो हृदि सदेशतस्य वाञ्छितं ददासि भक्तिभावितः॥ ८८ ॥

विश्वास-प्रस्तुतिः

मुनीश्वराः पुरा हरं भवन्तमेवमादरात्प्रपूज्य लिङ्गरूपिणं समापिता मनोरथान्
भवोद्भवैकरूपिणं प्रपञ्चपञ्चकाकृतिं विचिन्त्यवृक्षकोटरस्थ एष जीवजीवनं॥ ८९ ॥

मूलम्

मुनीश्वराः पुरा हरं भवन्तमेवमादरात्प्रपूज्य लिङ्गरूपिणं समापिता मनोरथान्
भवोद्भवैकरूपिणं प्रपञ्चपञ्चकाकृतिं विचिन्त्यवृक्षकोटरस्थ एष जीवजीवनं॥ ८९ ॥

विश्वास-प्रस्तुतिः

भवेद्भवाङ्घ्रिचिन्तनाप्तसर्वकामईश्वर त्वदीय किङ्करान्विते पदे पदे समागतः
मूढोहं नाभिजानामि त्वां स्तोतुं भक्तवत्सल॥ ९० ॥

मूलम्

भवेद्भवाङ्घ्रिचिन्तनाप्तसर्वकामईश्वर त्वदीय किङ्करान्विते पदे पदे समागतः
मूढोहं नाभिजानामि त्वां स्तोतुं भक्तवत्सल॥ ९० ॥

विश्वास-प्रस्तुतिः

सदीश्वरेण मनसाप्यनुकम्प्यो रणं गतः
इति स्तुतो महेशस्तु भक्त्या दैत्येन सादरं॥ ९१ ॥

मूलम्

सदीश्वरेण मनसाप्यनुकम्प्यो रणं गतः
इति स्तुतो महेशस्तु भक्त्या दैत्येन सादरं॥ ९१ ॥

विश्वास-प्रस्तुतिः

गणेशतां ददौ तस्मै नाम भृङ्गीरिटीति च
एष ते महिमा भूप हरस्य भवहारिणः॥ ९२ ॥

मूलम्

गणेशतां ददौ तस्मै नाम भृङ्गीरिटीति च
एष ते महिमा भूप हरस्य भवहारिणः॥ ९२ ॥

विश्वास-प्रस्तुतिः

कथितो विघ्नविघ्नाख्यस्तत्पराणां सुखावहः
भीष्म उवाच
मनुष्यस्यापि देवत्वं सुखं राज्यं धनं यशः॥ ९३ ॥

मूलम्

कथितो विघ्नविघ्नाख्यस्तत्पराणां सुखावहः
भीष्म उवाच
मनुष्यस्यापि देवत्वं सुखं राज्यं धनं यशः॥ ९३ ॥

विश्वास-प्रस्तुतिः

जयं भोग्यं तथारोग्यमायुर्विद्यां श्रियं सुतं
बन्धुवर्ग शिवं सर्वं ब्रूहि मे विप्रसत्तम॥ ९४ ॥

मूलम्

जयं भोग्यं तथारोग्यमायुर्विद्यां श्रियं सुतं
बन्धुवर्ग शिवं सर्वं ब्रूहि मे विप्रसत्तम॥ ९४ ॥

विश्वास-प्रस्तुतिः

पुलस्त्य उवाच
एभिर्गुणैर्युतः श्रीमान्सदैवब्राह्मणो भुवि
त्रैलोक्ये तु सदा मेध्यो विप्रदेवो युगेयुगे॥ ९५ ॥

मूलम्

पुलस्त्य उवाच
एभिर्गुणैर्युतः श्रीमान्सदैवब्राह्मणो भुवि
त्रैलोक्ये तु सदा मेध्यो विप्रदेवो युगेयुगे॥ ९५ ॥

विश्वास-प्रस्तुतिः

पूजयित्वा द्विजान्देवाः स्वर्गं भुञ्जन्ति चाक्षयं
धरामवन्ति राजानो लोकावित्तं सुखं शिवं॥ ९६ ॥

मूलम्

पूजयित्वा द्विजान्देवाः स्वर्गं भुञ्जन्ति चाक्षयं
धरामवन्ति राजानो लोकावित्तं सुखं शिवं॥ ९६ ॥

विश्वास-प्रस्तुतिः

लोके विप्र समो नास्ति देवानामपि दैवतं
स च धर्ममयः साक्षाद्भुवि मुक्तिप्रदो भृशं॥ ९७ ॥

मूलम्

लोके विप्र समो नास्ति देवानामपि दैवतं
स च धर्ममयः साक्षाद्भुवि मुक्तिप्रदो भृशं॥ ९७ ॥

विश्वास-प्रस्तुतिः

लोकानां स गुरुः पूज्यस्तीर्थभूतोऽनघो जनः
सर्वदेवालयः सत्वो निर्मितो ब्रह्मणा पुरा॥ ९८ ॥

मूलम्

लोकानां स गुरुः पूज्यस्तीर्थभूतोऽनघो जनः
सर्वदेवालयः सत्वो निर्मितो ब्रह्मणा पुरा॥ ९८ ॥

विश्वास-प्रस्तुतिः

इममर्थं पुरा पृष्टो नारदेन पितामहः
कस्मिंस्तु पूजिते ब्रह्मन्प्रसादी माधवो भवेत्॥ ९९ ॥

मूलम्

इममर्थं पुरा पृष्टो नारदेन पितामहः
कस्मिंस्तु पूजिते ब्रह्मन्प्रसादी माधवो भवेत्॥ ९९ ॥

ब्रह्मोवाच -
यस्य विप्राः प्रसीदन्ति तस्य विष्णुः प्रसीदति
तस्माद्ब्राह्मण शुश्रूषुः परं ब्रह्माधिगच्छति1.46.१००
विष्णुर्ब्राह्मणदेहेषु सदा वसति नान्यथा
तस्माद्ब्राह्मणपूजायां विष्णुस्तुष्यति तत्क्षणात्१०१
विप्रान्यः पूजयेन्नित्यं दानमानार्चनादिभिः
कृतं क्रतुशतं तेन विध्युक्तं प्रियदक्षिणम्१०२
ब्राह्मणस्य मुखं क्षेत्रमनूषरमकण्टकम्
वापयेत्सर्वबीजानि सा कृषिस्सार्वकालिकी१०३
अभिगम्य तु यद्दत्तं यच्च दानं मनोरमं
विद्यते सागरस्यान्तो दानस्यान्तो न विद्यते१०४
मनसापि न हिंसन्ति भूदेवमाततायिनं
मनोनुकूलतां यान्ति देवैरपि च दुर्लभां१०५
गृहे यस्यागतो विद्वान्नैराश्यं नोपगच्छति
सर्वपापक्षयस्तस्य चाक्षयं स्वर्गमश्नुते१०६
काले देशे च पात्रे च विप्रे यच्चार्पयेद्वसु
तद्धनं चाक्षयं विद्धि जन्मजन्मनि तिष्ठति१०७
न च दारिद्यतामेति नातुरो न च कातरः
मनोनुकूलां प्रमदामर्चयित्वा द्विजान्लभेत्१०८
कृत्वा साहसकर्माणि दद्याद्विप्राय पर्वसु
तद्दानं सुगुणं प्रोक्तमभयं लाभ एव च१०९
विप्रपादतलोद्घृष्टि क्षती भवति यः करः
स करः श्रीकरो नाम अन्यः कर्मकरः करः११०
विप्रपादरजः पूताः पूतास्तज्जलबिन्दुभिः
विपद्भिश्च सदा पापैर्मुक्ता यान्ति त्रिविष्टपम्१११
विप्रपादरजः पूताः शुचयो गृह चत्वराः
पुण्यक्षेत्रसमास्ते स्युः प्रशस्ता यज्ञकर्मसु११२
आदौ ब्रह्ममुखाद्विप्रः समुद्भूतः पुरानघः
वेदास्तत्रैव सञ्जाताः सृष्टिसंस्थिति हेतवः११३
तस्माद्विप्रमुखे वेदाश्चार्पिताः पुरुषेण हि
पूजार्थं सर्वलोकानां सर्वयज्ञार्थतो ध्रुवम्११४
पितृयज्ञे विवाहे च वह्निकार्येषु शान्तिषु
प्रशस्ता ब्राह्मणा नित्यं सर्व स्वस्त्ययनेषु च११५
देवा भुञ्जन्ति हव्यानि बलिप्रेतादयोऽसुराः
पितरश्चैव कव्यानि विप्रस्यैव मुखाद्र्धुवम्११६
देवेभ्यश्च पितृभ्यश्च यो दद्याद्यज्ञकर्मसु
दानं होमं बलिं चैव विना विप्रेण निष्फलम्११७
भुञ्जन्ति चासुरास्तत्र प्रेता दैत्याश्च राक्षसाः
तस्माद्ब्राह्मणमाहूय तेषु कर्माणि कारयेत्११८
काले देशे च पात्रे च लक्षकोटिगुणं भवेत्
श्रद्धया च द्विजं दृष्ट्वा प्रकुर्यादभिवादनम्११९
दीर्घायुस्तस्य वाक्येन चिरञ्जीवी भवेन्नरः
अनभिवादनाद्विप्र द्वेषादश्रद्धयापि च१२०
आयुः क्षीणं भवेत्पुंसां भूतिनाशश्च दुर्गतिः
आयुर्वृद्धिर्यशोवृद्धिर्वृद्धिर्विद्या धनस्य च१२१
पूजयित्वा द्विजान्श्रेष्ठो भवेन्नास्त्यत्र संशयः
न विप्रपादोदककर्दमानि न वेदशास्त्रप्रतिघोषितानि१२२
स्वाहा स्वधा स्वस्तिविवर्जितानि श्मशानतुल्यानि गृहाणि तानि
नारद उवाच
कश्च पूज्यतमो विप्रो ह्यपूज्यो वाथ को भवेत्१२३
विप्रस्य लक्षणं ब्रूहि याथातथ्यं गुरोरपि
ब्रह्मोवाच-
पूज्यः श्रोत्रियको नित्यं सदाचारसमन्वितः१२४
सद्वृत्तः कलुषैर्मुक्तस्तीर्थभूतो जनोऽनघः
नारद उवाच-
जातः कः श्रोत्रियस्तात सत्कुले वाप्यसत्कुले१२५
सदसत्कर्मकर्ता वा कः पूज्यो भुवि बाडवः
ब्रह्मोवाच-
सत्श्रोत्रियकुले जातो ह्यक्रियो नैव पूजितः१२६
असत्क्षेत्रकुले पूज्यो व्यास वैभाण्डकौ यथा
क्षत्रियाणां कुले जातो विश्वामित्रोस्ति मत्समः१२७
वेश्यापुत्रो वसिष्ठश्च अन्ये सिद्धा द्विजादयः
तस्मात्सच्छोत्रियादीनां शृणु पुत्रक लक्षणम्१२८
धरायां तीर्थभूतानां सर्वपापहराय च
जन्मना ब्राह्मणो ज्ञेयः संस्कारैर्द्विज उच्यते१२९ द्विज
विद्यया याति विप्रत्वं त्रिभिः श्रोत्रियलक्षणम् विप्र
विद्यापूतो मन्त्रपूतो वेदपूतस्तथैव च१३०
तीर्थस्नानादिभिर्मेध्यो विप्रः पूज्यतमः स्मृतः
नारायणे सदा भक्तः शुद्धान्तःकरणस्तथा१३१
जितेन्द्रियो जितक्रोधस्समः सर्वजनेषु च
गुरुदेवातिथेर्भक्तः पित्रोः शुश्रूषणे रतः१३२
परदारे मनो यस्य कदाचिन्नैव मोदते
पुराणकथको नित्यं धर्माख्यानस्य सन्ततिः१३३
अस्यैव दर्शनान्नित्यमश्वमेधादिजं फलम्
संलापे गतिमेत्यस्य भागीरथ्या प्लवस्य च१३४
व्रतैश्च विविधैः पूतो नित्यस्नानद्विजार्चनैः
मित्रामित्रे दयालुः स्यात्समः सर्वजनेषु च१३५
परस्वं न हरेद्यस्तु तृणमप्यटवीगतम्
कामक्रोधादिनिर्मुक्त इन्द्रियैरजितः पुमान्१३६
परदारान्न गृह्णाति मनसापि गृहागतान्
नारद उवाच-
गायत्र्या लक्षणं किं वा प्रत्येकाक्षरजं गुणम्१३७
कुक्षिचरणगोत्राणां तस्या ब्रूहि सुनिश्चयम्
ब्रह्मोवाच-
छन्दो गायत्री गायत्र्याः सविता देवता ध्रुवम्१३८
शुक्लवर्णात्वग्निमुखा विश्वामित्र ऋषिस्तथा
ब्रह्मणश्शिरआरूढा शिखा विष्णु हृदि स्थिता१३९
उपनयने नियोगः स्यात्साङ्ख्यायन सगोत्रजा
त्रैलोक्यचरणा ज्ञेया पृथिवीकुक्षि संस्थिता१४०
चतुर्विंशतिस्थाने च पादादौ मस्तकान्तके
चतुर्विंशत्यक्षरं न्यस्य ब्रह्मलोकं स विन्दति१४१
प्रत्यर्णदेवतां ज्ञात्वा विष्णुसायुज्यमाप्नुयात्
अपरं च प्रवक्ष्यामि गायत्र्या लक्षणं ध्रुवं१४२
सप्तपञ्च तथा ब्रह्म यजुरष्टादशाक्षरम्
ज्वलनादिहकारान्तं जले स्थित्वा शतं जपेत्१४३
उपपातककोट्या तु तथातिपातकैरपि
ब्रह्महत्यादिभिः पापैर्मुक्ता यान्ति ममालयं१४४
ॐअग्नेर्वाक्पुंसि यजुर्वेदेन जुष्टात्सोमं पिब स्वाहा
विष्णुमन्त्रं महामन्त्रं तथा माहेश्वरस्य च१४५
देवीसूर्यगणेशानां तथा क्रतुभुजां सुत
यस्य कस्य कुले जातो गुणवानेव तैर्गुणैः१४६
साक्षाद्ब्रह्ममयो विप्रः पूजनीयः प्रयत्नतः
दानं दद्याच्च विधिवत्सदा पर्वणि पर्वणि१४७
अक्षयं लभते दाता जन्मकोटिशतान्प्रति
स्वाध्यायनिरतो विप्रो यः पठेत्पाठयेत्परान्१४८
धर्मं च श्रावयेल्लोके सदाचारं श्रुतिं स्मृतिं
पुराणसंहितां नूनं तथैव धर्मसंहितां१४९
श्रावयित्वा तु लोकेषु श्रावयित्वा द्विजातिषु
उर्व्यां विष्णुसमः सोपि पूजनीयो नरैः सुरैः1.46.१५०
यद्बलं चाक्षयं तस्य तीर्थभूतानघस्य च
समानमर्चनं कृत्वा नरो यात्यच्युतालयं१५१
कदाचित्क्रियते पापं विप्रः पापैर्न लिप्यते
चाण्डालस्य गृहे निष्ठौ भास्करज्वलनौ यथा१५२
याजनाध्यापनाद्यौनात्तथैवासत्प्रतिग्रहात्
विप्राणां न भवेद्दोषो ज्वलनार्कसमा द्विजाः१५३
तान्प्रतिग्रहजान्दोषान्प्राणायाम व्यवस्थिताः
नाशयन्तीह पापानि वायुर्मेघमिवाम्बरे१५४
गायत्रीं यो जपेन्नित्यं प्राणायामसमन्वितां
प्रत्यक्षरामरैर्युक्तां स्वाङ्गे विन्यस्य तामपि१५५
सर्वपापाद्विनिर्मुक्तो जन्मकोटिकृतादपि
ब्रह्मणः पदवीं प्राप्य स गच्छेत्प्रकृतेः परम्१५६
प्राणायामयुतां तस्माद्गायत्रीं जप नारद
नारद उवाच-
प्राणायामाः कथं ब्रह्मन्प्रत्येकाक्षरदेवताः१५७
तेषां न्यासं तथाङ्गेषु वद तात यथाक्रमम्
ब्रह्मोवाच-
गुददेशेत्वपानस्याद्धृदि प्राणोस्ति देहिनः१५८
तस्माद्गुदं समाकुञ्च्य प्राणेन सह योजयेत्
पूरकेण तदा पुत्र कृत्वा कुम्भकमुत्तमं१५९
प्राणायामत्रयं कृत्वा गायत्रीं सञ्जपेदिद्वजः
अनेनैव जपेद्यस्तु महापातकसञ्चयः१६०
सकृदुच्चारितेनैव क्षयं यात्युपपातकं
प्रतिवर्णस्वरं ज्ञात्वा विन्यस्येद्यः कलेवरे१६१
स जनो ब्रह्मतामेति फलं वक्तुं न शक्नुमः
प्रत्यक्षरस्य यद्दैवं शृणु पुत्र वदाम्यहं१६२
यज्जप्त्वा च पुनर्मातुस्तनं न पिबति द्विजः
आग्नेयं प्रथमं ज्ञेयं वायव्यं तु द्वितीयकम्१६३
तृतीयं सूर्यदैवत्यं चतुर्थं वैयतं तथा
पञ्चमं यमदैवत्यं वारुणं षष्ठमुच्यते१६४
सप्तमं बार्हस्पत्यं तु पार्जन्यं चाष्टमं विदुः
ऐन्द्रं च नवमं ज्ञेयं गान्धर्वं दशमं तथा१६५
पौष्णमेकादशं विद्धि मैत्रं द्वादशकं स्मृतं
त्वाष्ट्रं त्रयोदशं ज्ञेयं वासवं तु चतुर्दशं१६६
मारुतं पञ्चदशकं सौम्यं षोडशकं स्मृतं
आङ्गिरसं सप्तदशं वैश्वदेवमतः परं१६७
आश्विनं चैकोनविंशं प्राजापत्यं तु विंशकं
सर्वदेवमयं ज्ञेयमेकविंशकमक्षरं१६८
रौद्रं द्वाविंशकं ज्ञेयं ब्राह्मं ज्ञेयमतः परं
वैष्णवं तु चतुर्विंशमेता अक्षरदेवताः१६९
जपकाले तु सञ्चिन्त्य तासु सायुज्यतां व्रजेत्
ज्ञात्वा तु देवतास्तस्य वाङ्मयं विदितं भवेत्१७०
सर्वपापविनिर्मुक्तो ब्रह्मणः पदवीं व्रजेत्
गायत्रीं विन्यसेत्पूर्वं शरीरे चात्मनो बुधः१७१
चतुर्विंशति स्थानेषु आपादमस्तकेषु च
तत्कारं विन्यसेद्योगी पदाङ्गुष्ठे विचक्षणः१७२
सकारं गुल्फदेशे तु विकारं जङ्घयोर्न्यसेत्
तुकारं जानुमध्ये च वकारं चोरुदेशतः१७३
रेकारं गुह्यदेशे तु णिकारं वृषणे न्यसेत्
यङ्कारं कटिदेशे तु भकारं नाभिमण्डले१७४
गोकारं जठरे न्यस्य देकारं स्तनयोर्न्यसेत्
वकारं हृदये न्यस्य स्यकारं करदेशतः१७५
धीकारं वदने न्यस्य मकारं तालुके न्यसेत्
हिकारं नासिकाग्रे च धिकारं चक्षुषोर्न्यसेत्१७६
योकारं तु भ्रुवोर्मध्ये योकारं च ललाटके
नःकारं तु मुखे पूर्वे प्रकारं दक्षिणे मुखे१७७
चोकारं पश्चिमे न्यस्य दकारं चोत्तरे न्यसेत्
यात्कारं मूर्ध्नि विन्यस्य सर्वव्यापी व्यवस्थितः१७८
एतान्विन्यस्य धर्मात्मा ब्रह्मविष्णुशिवात्मकः
महायोगी महाज्ञानी परं निर्वाणकं व्रजेत्१७९
सन्ध्याकाले पुनर्न्यासं शृणु त्वं तद्यथार्थतः
ॐभूरिति हृदये न्यस्य ॐभुवश्शिरसि न्यसेत्१८०
ॐस्वः शिखायै तत्सवितुर्वरेण्यमिति कलेवरे
ॐभर्गो देवस्य धीमहीति नेत्रयोः१८१
ॐधियो यो नः प्रचोदयादिति करयोर्न्यसेत्
ॐआपो ज्योती रसोमृतं ब्रह्म भूर्भुवःस्वरोम्
इत्युदकस्पर्शमात्रेण पापात्पूतो व्रजेद्धरिं१८२
ॐभूः ॐभुवः ॐस्वः ॐमहः ॐजनः ॐतपः ॐसत्यम्
ॐतत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्
ॐआपो ज्योती रसोमृतं ब्रह्म भूर्भुवःस्वरोम्
इति सव्याहृति सप्रणवां द्वादश ॐकारां सन्ध्याकाले कुम्भकेन वारत्रयं जप्त्वा
सूर्योपस्थाने सावित्रीं चतुर्विंशत्यक्षरां जप्त्वा
महाविद्याधिको भवति ब्रह्मत्वं लभते१८३
षट्कुक्षिलक्षणां पुत्र गायत्रीं शृणु यत्नतः
यां ज्ञात्वा तु परं ब्रह्मस्थानं गच्छति वै द्विजः१८४
ॐतत्सवितुर्वरेणियं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्१८५
अथ गायत्री पञ्चशीर्षलक्षणम्
ॐभूः ॐभुवः ॐस्वः ॐमहः ॐजनः ॐतपः ॐसत्यम्
ॐतत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्१८६
सव्याहृतिं तु गायत्रीं पुनर्न्यासं तु कारयेत्
सर्वपापविनिर्मुक्तो विष्णुसायुज्यतां व्रजेत्१८७
ॐभूः पादाभ्याम् ॐभुवः जानुभ्याम् ॐस्वः कट्याम् ॐमहः नाभौ ॐजनः हृदये न्यसेत् ॐतपः करयोः ॐसत्यं ललाटे
ॐतत्सवितुर्वरेणियं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्
इति शिखायाम्१८८
एवं विप्रो न जानाति स एव ब्राह्मणाधमः
न तस्य क्षीयते पाप्मा भवेद्भूरिप्रतिग्रहः१८९
इमां यो वेत्ति गायत्रीं सर्वबीजसमन्विताम्
स वेत्ति चतुरो वेदान्योगज्ञानं जपत्रयम्१९०
य एनां नैव जानाति स शूद्रात्परतः स्मृतः
तस्यापूतस्य विप्रस्य न देयं पितृपार्वणम्१९१
न स्नानफलदः कश्चित्सर्वं च निष्फलं भवेत्
विद्या वित्तं तथा जन्म द्विजत्वं कारणं यतः१९२
निष्फलं सकलं तस्य मेध्यं पुष्पं यथाऽशुचौ
चतुर्वेदाश्च गायत्री पुरा वै तुलिता मया१९३
चतुर्वेदात्परा गुर्वी गायत्री मोक्षदा स्मृता
दशभिर्जन्मजनितं शतेन च पुरा कृतम्१९४
त्रियुगं तु सहस्रेण गायत्री हन्ति किल्बिषम्
गायत्रीमक्षमालायां सायं प्रातश्च यो जपेत्१९५
चतुर्णामपि वेदानां फलं प्राप्नोत्यसंशयम्
त्रिसन्ध्यं यो जपेन्नित्यं गायत्रीं हायनं द्विजः१९६
तस्य पापं क्षयं याति जन्मकोटिसमुद्भवम्
गायत्र्युच्चारमात्रेण पापकूटात्पुनाति च१९७
स्वर्गापवर्गमाप्नोति जप्त्वा नित्यं द्विजोत्तमः
वासुदेवस्य मन्त्राणि जपेद्यस्तु दिनेदिने१९८
प्रणमेच्च हरेः पादौ स गच्छेदपवर्गिताम्
वासुदेवस्य स्तोत्राणि मुखे चापि कथोत्तमा१९९
पङ्कस्य लवमात्रं तु तस्य देहे न तिष्ठति
वेदशास्त्रावगाहेन त्रिस्रोतः स्नानजं फलम्1.46.२००
धर्मपाठकृतां लोके यज्ञकोटिफलं लभेत्
एवं विप्रगुणान्वक्तुं न शक्नोमि द्विजोत्तम२०१
विश्वरूपश्च को देही समूर्तो हरिरेव च
यस्य शापाद्विनाशः स्यादायुर्विद्या यशो धनम्२०२
वरदानात्समायान्ति सर्वाः सम्पत्तयस्तथा
विष्णुर्ब्रह्मण्यतामेति सदा विप्र प्रसादतः२०३
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च
जगद्धिताय कृष्णाय गोविन्दाय नमो नमः२०४
मन्त्रेणैवं हरिं यस्तु पूजयेत्सततं नरः
प्रसादी च हरिस्तस्य विष्णुसायुज्यतां व्रजेत्२०५
य इदं शृणुयात्पुण्यमाख्यानं धर्मविग्रहम्
तस्य पापं क्षयं याति जन्मजन्मकृतं च यत्२०६
यः पठेत्पाठयेद्वापि उपदेष्टा जनस्य च
न तस्य पुनरावृत्तिः स्वर्गमक्षयमश्नुते२०७
धनं धान्यं लभेदत्र राज्यभोगानरोगिताम्
सत्सुतं च शुभां कीर्तिं देववद्रमते दिवि२०८