०४५

भीष्म उवाच-

विश्वास-प्रस्तुतिः

इदानीं श्रोतुमिच्छामि हिरण्यकशिपोर्वधम्
नरसिंहस्य माहात्म्यं तथा पापविनाशनम्॥ १ ॥

मूलम्

इदानीं श्रोतुमिच्छामि हिरण्यकशिपोर्वधम्
नरसिंहस्य माहात्म्यं तथा पापविनाशनम्॥ १ ॥

विश्वास-प्रस्तुतिः

पुलस्त्य उवाच-
पुरा कृतयुगे राजन्हिरण्यकशिपुः प्रभुः
दैत्यानामादिपुरुषश्चकार सुमहत्तपः॥ २ ॥

मूलम्

पुलस्त्य उवाच-
पुरा कृतयुगे राजन्हिरण्यकशिपुः प्रभुः
दैत्यानामादिपुरुषश्चकार सुमहत्तपः॥ २ ॥

विश्वास-प्रस्तुतिः

दशवर्षसहस्राणि दशवर्षशतानि च
जलवासी समभवत्स्नानमौनधृतव्रतः॥ ३ ॥

मूलम्

दशवर्षसहस्राणि दशवर्षशतानि च
जलवासी समभवत्स्नानमौनधृतव्रतः॥ ३ ॥

विश्वास-प्रस्तुतिः

वृतः शमदमाभ्यां च ब्रह्मचर्येण चैव हि
ब्रह्मा प्रीतोऽभवत्तस्य तपसा नियमेन च॥ ४ ॥

मूलम्

वृतः शमदमाभ्यां च ब्रह्मचर्येण चैव हि
ब्रह्मा प्रीतोऽभवत्तस्य तपसा नियमेन च॥ ४ ॥

विश्वास-प्रस्तुतिः

ततः स्वयम्भूर्भगवान्स्वयमागत्य तत्र हि
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता॥ ५ ॥

मूलम्

ततः स्वयम्भूर्भगवान्स्वयमागत्य तत्र हि
विमानेनार्कवर्णेन हंसयुक्तेन भास्वता॥ ५ ॥

विश्वास-प्रस्तुतिः

आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्सह
रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः॥ ६ ॥

मूलम्

आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्सह
रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः॥ ६ ॥

विश्वास-प्रस्तुतिः

दिग्भिश्चैव विदिग्भिश्च नदीभिः सागरैस्तथा
नक्षत्रैश्च मुहूर्तैश्च खचरैश्च महाग्रहैः॥ ७ ॥

मूलम्

दिग्भिश्चैव विदिग्भिश्च नदीभिः सागरैस्तथा
नक्षत्रैश्च मुहूर्तैश्च खचरैश्च महाग्रहैः॥ ७ ॥

विश्वास-प्रस्तुतिः

देवैर्ब्रह्मर्षिभिः सार्द्धं सिद्धैः सप्तर्षिभिस्तथा
राजर्षिभिः पुण्यकृद्भिर्गन्धर्वाप्सरसाङ्गणैः॥ ८ ॥

मूलम्

देवैर्ब्रह्मर्षिभिः सार्द्धं सिद्धैः सप्तर्षिभिस्तथा
राजर्षिभिः पुण्यकृद्भिर्गन्धर्वाप्सरसाङ्गणैः॥ ८ ॥

विश्वास-प्रस्तुतिः

चराचरगुरुः श्रीमान्वृतः सर्वैर्दिवौकसैः
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत्॥ ९ ॥

मूलम्

चराचरगुरुः श्रीमान्वृतः सर्वैर्दिवौकसैः
ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत्॥ ९ ॥

विश्वास-प्रस्तुतिः

प्रीतोस्मि तव भक्तस्य तपसाऽनेन सुव्रत
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि॥ १० ॥

मूलम्

प्रीतोस्मि तव भक्तस्य तपसाऽनेन सुव्रत
वरं वरय भद्रं ते यथेष्टं काममाप्नुहि॥ १० ॥

विश्वास-प्रस्तुतिः

हिरण्यकशिपुरुवाच-
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः
न मानुषाः पिशाचाश्च हन्युर्मां देवसत्तम॥ ११ ॥

मूलम्

हिरण्यकशिपुरुवाच-
न देवासुरगन्धर्वा न यक्षोरगराक्षसाः
न मानुषाः पिशाचाश्च हन्युर्मां देवसत्तम॥ ११ ॥

विश्वास-प्रस्तुतिः

ऋषयो मानवाः शापैर्न शपेयुः पितामह
यदि मे भगवान्प्रीतो वर एष वृतो मया॥ १२ ॥

मूलम्

ऋषयो मानवाः शापैर्न शपेयुः पितामह
यदि मे भगवान्प्रीतो वर एष वृतो मया॥ १२ ॥

विश्वास-प्रस्तुतिः

न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा
न शुष्केण न चार्द्रेण न स्याच्चान्येन मे वधः॥ १३ ॥

मूलम्

न शस्त्रेण न चास्त्रेण गिरिणा पादपेन वा
न शुष्केण न चार्द्रेण न स्याच्चान्येन मे वधः॥ १३ ॥

विश्वास-प्रस्तुतिः

भवेयमहमेवार्कः सोमो वायुर्हुताशनः
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश॥ १४ ॥

मूलम्

भवेयमहमेवार्कः सोमो वायुर्हुताशनः
सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश॥ १४ ॥

विश्वास-प्रस्तुतिः

अहं क्रोधश्च कामश्च वरुणो वासवो यमः
धनदश्च धनाध्यक्षो यक्षः किम्पुरुषाधिपः॥ १५ ॥

मूलम्

अहं क्रोधश्च कामश्च वरुणो वासवो यमः
धनदश्च धनाध्यक्षो यक्षः किम्पुरुषाधिपः॥ १५ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच -
एष दिव्यो वरस्तात मया दत्तस्तवाद्भुतः
सर्वकामप्रदो वत्स प्राप्स्यसि त्वं न संशयः॥ १६ ॥

मूलम्

ब्रह्मोवाच -
एष दिव्यो वरस्तात मया दत्तस्तवाद्भुतः
सर्वकामप्रदो वत्स प्राप्स्यसि त्वं न संशयः॥ १६ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा स भगवान्जगामाकाशमेव हि
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम्॥ १७ ॥

मूलम्

एवमुक्त्वा स भगवान्जगामाकाशमेव हि
वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम्॥ १७ ॥

विश्वास-प्रस्तुतिः

ततो देवाश्च गन्धर्वा ऋषिभिः सह चारणाः
वरप्रदानं श्रुत्वैवं पितामहमुपस्थिताः॥ १८ ॥

मूलम्

ततो देवाश्च गन्धर्वा ऋषिभिः सह चारणाः
वरप्रदानं श्रुत्वैवं पितामहमुपस्थिताः॥ १८ ॥

विश्वास-प्रस्तुतिः

देवा ऊचुः-
वरप्रदानाद्भगवन्वधिष्यति स नोऽसुरः
तत्प्रसादश्च भगवन्वधोप्यस्य विचिन्त्यताम्॥ १९ ॥

मूलम्

देवा ऊचुः-
वरप्रदानाद्भगवन्वधिष्यति स नोऽसुरः
तत्प्रसादश्च भगवन्वधोप्यस्य विचिन्त्यताम्॥ १९ ॥

विश्वास-प्रस्तुतिः

भगवान्सर्वभूतानामादिकर्त्ता स्वयम्प्रभुः
स्रष्टा च हव्यकव्यानामव्यक्तप्रकृतिः परः॥ २० ॥

मूलम्

भगवान्सर्वभूतानामादिकर्त्ता स्वयम्प्रभुः
स्रष्टा च हव्यकव्यानामव्यक्तप्रकृतिः परः॥ २० ॥

विश्वास-प्रस्तुतिः

सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः
आश्वासयामास तदा सुशीतैर्वचनाम्बुभिः॥ २१ ॥

मूलम्

सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः
आश्वासयामास तदा सुशीतैर्वचनाम्बुभिः॥ २१ ॥

विश्वास-प्रस्तुतिः

अवश्यं त्रिदशानेन प्राप्तव्यं तपसः फलं
तपसोऽन्तेऽस्य भगवान्वधं विष्णुः करिष्यति॥ २२ ॥

मूलम्

अवश्यं त्रिदशानेन प्राप्तव्यं तपसः फलं
तपसोऽन्तेऽस्य भगवान्वधं विष्णुः करिष्यति॥ २२ ॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा विबुधा वाक्यं सर्वे पङ्कजजाननात्
स्वानि स्थानानि दिव्यानि विप्रजग्मुर्मुदान्विताः॥ २३ ॥

मूलम्

तच्छ्रुत्वा विबुधा वाक्यं सर्वे पङ्कजजाननात्
स्वानि स्थानानि दिव्यानि विप्रजग्मुर्मुदान्विताः॥ २३ ॥

विश्वास-प्रस्तुतिः

लब्धमात्रे वरे सोथ प्रजास्सर्वा अबाधत
हिरण्यकशिपुर्दैत्यो वरदानेन गर्वितः॥ २४ ॥

मूलम्

लब्धमात्रे वरे सोथ प्रजास्सर्वा अबाधत
हिरण्यकशिपुर्दैत्यो वरदानेन गर्वितः॥ २४ ॥

विश्वास-प्रस्तुतिः

आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान्
सत्यधर्मपरान्दान्तान्धर्षयामास दानवः॥ २५ ॥

मूलम्

आश्रमेषु महाभागान्मुनीन्वै शंसितव्रतान्
सत्यधर्मपरान्दान्तान्धर्षयामास दानवः॥ २५ ॥

विश्वास-प्रस्तुतिः

देवांस्त्रिभुवनस्थांश्च पराजित्य महासुरः
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः॥ २६ ॥

मूलम्

देवांस्त्रिभुवनस्थांश्च पराजित्य महासुरः
त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः॥ २६ ॥

विश्वास-प्रस्तुतिः

यदा वरमदोत्सिक्तश्चोदितः कालधर्मिणा
यज्ञियानकरोद्दैत्यानयज्ञीयांश्च दैवतान्॥ २७ ॥

मूलम्

यदा वरमदोत्सिक्तश्चोदितः कालधर्मिणा
यज्ञियानकरोद्दैत्यानयज्ञीयांश्च दैवतान्॥ २७ ॥

विश्वास-प्रस्तुतिः

तथा दैत्याश्च साध्याश्च विश्वे च वसवस्तथा
रुद्रा देवगणा यक्षा देवद्विजमहर्षयः॥ २८ ॥

मूलम्

तथा दैत्याश्च साध्याश्च विश्वे च वसवस्तथा
रुद्रा देवगणा यक्षा देवद्विजमहर्षयः॥ २८ ॥

विश्वास-प्रस्तुतिः

शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम्
देवदेवं यज्ञमयं वासुदेवं सनातनम्॥ २९ ॥

मूलम्

शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम्
देवदेवं यज्ञमयं वासुदेवं सनातनम्॥ २९ ॥

विश्वास-प्रस्तुतिः

देवा ऊचुः-
नारायण महाभाग देवास्त्वां शरणं गताः
त्रायस्व जहि दैत्येन्द्रं हिरण्यकशिपुं प्रभो॥ ३० ॥

मूलम्

देवा ऊचुः-
नारायण महाभाग देवास्त्वां शरणं गताः
त्रायस्व जहि दैत्येन्द्रं हिरण्यकशिपुं प्रभो॥ ३० ॥

विश्वास-प्रस्तुतिः

त्वं हि नः परमोदाता त्वं हि नः परमो गुरुः
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तमः॥ ३१ ॥

मूलम्

त्वं हि नः परमोदाता त्वं हि नः परमो गुरुः
त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तमः॥ ३१ ॥

विश्वास-प्रस्तुतिः

विष्णुरुवाच-
भयं त्यजद्ध्वममरा अभयं वो ददाम्यहम्
तथैव त्रिदिवं देवाः प्रतिपद्यत माचिरम्॥ ३२ ॥

मूलम्

विष्णुरुवाच-
भयं त्यजद्ध्वममरा अभयं वो ददाम्यहम्
तथैव त्रिदिवं देवाः प्रतिपद्यत माचिरम्॥ ३२ ॥

विश्वास-प्रस्तुतिः

एनं हि सगणं दैत्यं वरदानेन गर्वितम्
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम्॥ ३३ ॥

मूलम्

एनं हि सगणं दैत्यं वरदानेन गर्वितम्
अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम्॥ ३३ ॥

विश्वास-प्रस्तुतिः

एवमुक्त्वा तु भगवान्विश्वपो विष्णुरव्ययः
हिरण्यकशिपुस्थानं जगाम हरिरीश्वरः॥ ३४ ॥

मूलम्

एवमुक्त्वा तु भगवान्विश्वपो विष्णुरव्ययः
हिरण्यकशिपुस्थानं जगाम हरिरीश्वरः॥ ३४ ॥

विश्वास-प्रस्तुतिः

तेजसा भास्काराकारः शशीकान्त्येव चापरः
नरस्य कृत्वार्धतनुं सिंहस्यार्द्धतनुं तथा॥ ३५ ॥

मूलम्

तेजसा भास्काराकारः शशीकान्त्येव चापरः
नरस्य कृत्वार्धतनुं सिंहस्यार्द्धतनुं तथा॥ ३५ ॥

विश्वास-प्रस्तुतिः

नारसिंहेन वपुषा पाणिं सङ्गृह्य पाणिना
ततो ददर्श विस्तीर्णां दिव्यां रम्यां मनोरमाम्॥ ३६ ॥

मूलम्

नारसिंहेन वपुषा पाणिं सङ्गृह्य पाणिना
ततो ददर्श विस्तीर्णां दिव्यां रम्यां मनोरमाम्॥ ३६ ॥

विश्वास-प्रस्तुतिः

सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम्
विस्तीर्णां योजनशतं शतमध्यर्द्धमायताम्॥ ३७ ॥

मूलम्

सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम्
विस्तीर्णां योजनशतं शतमध्यर्द्धमायताम्॥ ३७ ॥

विश्वास-प्रस्तुतिः

वैहायसीं कामगमां पञ्चयोजनमुच्छ्रिताम्
जराशोकक्षमापेतां निष्प्रकम्प्यां शिवां सुखाम्॥ ३८ ॥

मूलम्

वैहायसीं कामगमां पञ्चयोजनमुच्छ्रिताम्
जराशोकक्षमापेतां निष्प्रकम्प्यां शिवां सुखाम्॥ ३८ ॥

विश्वास-प्रस्तुतिः

वेश्मासनवतीं रम्यां ज्वलन्तीमिव तेजसा
अन्तःसलिलसंयुक्तां विहितां विश्वकर्मणा॥ ३९ ॥

मूलम्

वेश्मासनवतीं रम्यां ज्वलन्तीमिव तेजसा
अन्तःसलिलसंयुक्तां विहितां विश्वकर्मणा॥ ३९ ॥

विश्वास-प्रस्तुतिः

दिव्यवर्णमयैर्वृक्षैः फलपुष्पप्रदैर्युताम्
नीलपीतासितश्यामैः श्वेतैर्लोहितकैरपि॥ ४० ॥

मूलम्

दिव्यवर्णमयैर्वृक्षैः फलपुष्पप्रदैर्युताम्
नीलपीतासितश्यामैः श्वेतैर्लोहितकैरपि॥ ४० ॥

विश्वास-प्रस्तुतिः

अवदातैस्तथा गुल्मै रक्तमञ्जरिधारिभिः
सिताभ्रघनसङ्काशां प्लवन्तीं च ददर्श सः॥ ४१ ॥

मूलम्

अवदातैस्तथा गुल्मै रक्तमञ्जरिधारिभिः
सिताभ्रघनसङ्काशां प्लवन्तीं च ददर्श सः॥ ४१ ॥

विश्वास-प्रस्तुतिः

रश्मिमती स्वभावेन दिव्यगन्धमनोरमा
सुसुखा न च दुःखा सा न शीता न च घर्मदा॥ ४२ ॥

मूलम्

रश्मिमती स्वभावेन दिव्यगन्धमनोरमा
सुसुखा न च दुःखा सा न शीता न च घर्मदा॥ ४२ ॥

विश्वास-प्रस्तुतिः

न क्षुत्पिपासे ग्लानिं वा प्राप्यतां प्राप्नुवन्ति ते
नानरूपैरुपकृता सुचित्रैश्च सुभास्वरैः॥ ४३ ॥

मूलम्

न क्षुत्पिपासे ग्लानिं वा प्राप्यतां प्राप्नुवन्ति ते
नानरूपैरुपकृता सुचित्रैश्च सुभास्वरैः॥ ४३ ॥

विश्वास-प्रस्तुतिः

अतिचन्द्रातिसूर्याति शिखिकान्ति स्वयम्प्रभा
दीप्यते नाकपृष्ठस्था भासयन्ती विभासुरा॥ ४४ ॥

मूलम्

अतिचन्द्रातिसूर्याति शिखिकान्ति स्वयम्प्रभा
दीप्यते नाकपृष्ठस्था भासयन्ती विभासुरा॥ ४४ ॥

विश्वास-प्रस्तुतिः

सर्वे चकाशिरे तस्यां मुदिताश्चैव मानुषाः
रसवच्च प्रभूतं च भक्ष्यभोज्यान्नमुत्तमं॥ ४५ ॥

मूलम्

सर्वे चकाशिरे तस्यां मुदिताश्चैव मानुषाः
रसवच्च प्रभूतं च भक्ष्यभोज्यान्नमुत्तमं॥ ४५ ॥

विश्वास-प्रस्तुतिः

पुण्यगन्धास्रजश्चापि नित्यकालफला द्रुमाः
उष्णे शीतानि तोयानि शीते चोष्णानि सन्ति वै॥ ४६ ॥

मूलम्

पुण्यगन्धास्रजश्चापि नित्यकालफला द्रुमाः
उष्णे शीतानि तोयानि शीते चोष्णानि सन्ति वै॥ ४६ ॥

विश्वास-प्रस्तुतिः

पुष्पिताग्रान्महाशाखान्प्रवालाङ्कुरधारिणः
लतावितानसञ्छन्नान्कल्पानैक्षिष्ठ स प्रभुः॥ ४७ ॥

मूलम्

पुष्पिताग्रान्महाशाखान्प्रवालाङ्कुरधारिणः
लतावितानसञ्छन्नान्कल्पानैक्षिष्ठ स प्रभुः॥ ४७ ॥

विश्वास-प्रस्तुतिः

गन्धवन्ति च पुष्पाणि रसवन्ति फलानि च
तानि शीतानि चोष्णानि तत्रतत्र सरांसि च॥ ४८ ॥

मूलम्

गन्धवन्ति च पुष्पाणि रसवन्ति फलानि च
तानि शीतानि चोष्णानि तत्रतत्र सरांसि च॥ ४८ ॥

विश्वास-प्रस्तुतिः

अपश्यद्भूपतीर्थानि सभायां तस्य स प्रभुः
नलिनैः पुण्डरीकैश्च शतपत्रैः सुगन्धिभिः॥ ४९ ॥

मूलम्

अपश्यद्भूपतीर्थानि सभायां तस्य स प्रभुः
नलिनैः पुण्डरीकैश्च शतपत्रैः सुगन्धिभिः॥ ४९ ॥

विश्वास-प्रस्तुतिः

रक्तैः कुवलयैश्चैव कल्हारैरुत्पलैस्तथा
नानाश्चर्यसमोपेतैः पुष्पैरन्यैश्च सुप्रियैः1.45.॥ ५० ॥

मूलम्

रक्तैः कुवलयैश्चैव कल्हारैरुत्पलैस्तथा
नानाश्चर्यसमोपेतैः पुष्पैरन्यैश्च सुप्रियैः1.45.॥ ५० ॥

विश्वास-प्रस्तुतिः

कारण्डवैश्चक्रवाकैः सारसैः कुररैरपि
विमलस्फटिकाभानि पाण्डुरच्छदनैर्द्विजैः॥ ५१ ॥

मूलम्

कारण्डवैश्चक्रवाकैः सारसैः कुररैरपि
विमलस्फटिकाभानि पाण्डुरच्छदनैर्द्विजैः॥ ५१ ॥

विश्वास-प्रस्तुतिः

बहुहंसोपगीतानि सारसानां रुतानि च
गन्धयुक्ता लतास्तत्र पुष्पमञ्जरिधारिणीः॥ ५२ ॥

मूलम्

बहुहंसोपगीतानि सारसानां रुतानि च
गन्धयुक्ता लतास्तत्र पुष्पमञ्जरिधारिणीः॥ ५२ ॥

विश्वास-प्रस्तुतिः

दृष्टवान्भगवान्हृष्टः खदिरान्वेतसार्जुनान्
चूतानिम्बानागवृक्षाः कदम्बा बकुला धवाः॥ ५३ ॥

मूलम्

दृष्टवान्भगवान्हृष्टः खदिरान्वेतसार्जुनान्
चूतानिम्बानागवृक्षाः कदम्बा बकुला धवाः॥ ५३ ॥

विश्वास-प्रस्तुतिः

प्रियङ्गवः पाटलाख्याः शाल्मल्यस्स हरिद्रवाः
शालास्तालास्तमालाश्च चम्पकाश्च मनोरमाः॥ ५४ ॥

मूलम्

प्रियङ्गवः पाटलाख्याः शाल्मल्यस्स हरिद्रवाः
शालास्तालास्तमालाश्च चम्पकाश्च मनोरमाः॥ ५४ ॥

विश्वास-प्रस्तुतिः

तथैवान्ये व्यराजन्त सभायां पुष्पिता द्रुमाः
एलाक कुभकङ्कोल लवली कर्णपूरकाः॥ ५५ ॥

मूलम्

तथैवान्ये व्यराजन्त सभायां पुष्पिता द्रुमाः
एलाक कुभकङ्कोल लवली कर्णपूरकाः॥ ५५ ॥

विश्वास-प्रस्तुतिः

मधुकाः कोविदाराश्च बहुतालसमुच्छ्रयाः
अञ्जनाशोकपर्णासा बहवश्चित्रका द्रुमाः॥ ५६ ॥

मूलम्

मधुकाः कोविदाराश्च बहुतालसमुच्छ्रयाः
अञ्जनाशोकपर्णासा बहवश्चित्रका द्रुमाः॥ ५६ ॥

विश्वास-प्रस्तुतिः

वरुणाश्च पलाशाश्चा पनसास्सह चन्दनैः
नीलास्सुमनसश्चैव नीपाश्चाश्वत्थतिन्दुकाः॥ ५७ ॥

मूलम्

वरुणाश्च पलाशाश्चा पनसास्सह चन्दनैः
नीलास्सुमनसश्चैव नीपाश्चाश्वत्थतिन्दुकाः॥ ५७ ॥

विश्वास-प्रस्तुतिः

पारिजाताश्च तरवो मल्लिका भद्रदारवः
अटरूषाः पीलूकाश्च तथा चैवैलवालुकाः॥ ५८ ॥

मूलम्

पारिजाताश्च तरवो मल्लिका भद्रदारवः
अटरूषाः पीलूकाश्च तथा चैवैलवालुकाः॥ ५८ ॥

विश्वास-प्रस्तुतिः

मन्दारकाः कुरवका पुन्नागाः कुटजास्तथा
रक्ताः कुरवकाश्चैव नीलाश्चागरुभिः सह॥ ५९ ॥

मूलम्

मन्दारकाः कुरवका पुन्नागाः कुटजास्तथा
रक्ताः कुरवकाश्चैव नीलाश्चागरुभिः सह॥ ५९ ॥

विश्वास-प्रस्तुतिः

किंशुकाश्चैव भव्याश्च दाडिमा बीजपूरकाः
कालेयका दुकूलाश्च हिङ्गवस्तैलवर्त्तिकाः॥ ६० ॥

मूलम्

किंशुकाश्चैव भव्याश्च दाडिमा बीजपूरकाः
कालेयका दुकूलाश्च हिङ्गवस्तैलवर्त्तिकाः॥ ६० ॥

विश्वास-प्रस्तुतिः

खर्जूरा नालिकेराश्च हरीतक मधूककाः
सप्तपर्णाश्च बिल्वाश्च सयावाश्च शरावताः॥ ६१ ॥

मूलम्

खर्जूरा नालिकेराश्च हरीतक मधूककाः
सप्तपर्णाश्च बिल्वाश्च सयावाश्च शरावताः॥ ६१ ॥

विश्वास-प्रस्तुतिः

असनाश्च तमालाश्च नानागुल्मसमावृताः
लताश्च विविधाकाराः पुष्पपत्रफलोपगाः॥ ६२ ॥

मूलम्

असनाश्च तमालाश्च नानागुल्मसमावृताः
लताश्च विविधाकाराः पुष्पपत्रफलोपगाः॥ ६२ ॥

विश्वास-प्रस्तुतिः

एते चान्ये च बहवस्तत्र काननजा द्रुमाः
नानापुष्पफलोपेता व्यराजन्त समन्ततः॥ ६३ ॥

मूलम्

एते चान्ये च बहवस्तत्र काननजा द्रुमाः
नानापुष्पफलोपेता व्यराजन्त समन्ततः॥ ६३ ॥

विश्वास-प्रस्तुतिः

चकोराः शतपत्राश्च मत्तकोकिलशारिकाः
पुष्पितान्पुष्पिताग्रांश्च सम्पतन्ति महाद्रुमान्॥ ६४ ॥

मूलम्

चकोराः शतपत्राश्च मत्तकोकिलशारिकाः
पुष्पितान्पुष्पिताग्रांश्च सम्पतन्ति महाद्रुमान्॥ ६४ ॥

विश्वास-प्रस्तुतिः

रक्तपीतारुणास्तत्र पादपाग्रगताः खगाः
परस्परमवैक्षन्त प्रहृष्टा जीवजीविकाः॥ ६५ ॥

मूलम्

रक्तपीतारुणास्तत्र पादपाग्रगताः खगाः
परस्परमवैक्षन्त प्रहृष्टा जीवजीविकाः॥ ६५ ॥

विश्वास-प्रस्तुतिः

तस्यां सभायां दैत्येन्द्रो हिरण्यकशिपुस्तदा
आसीन आसने चित्रे दशनल्वे प्रमाणतः॥ ६६ ॥

मूलम्

तस्यां सभायां दैत्येन्द्रो हिरण्यकशिपुस्तदा
आसीन आसने चित्रे दशनल्वे प्रमाणतः॥ ६६ ॥

विश्वास-प्रस्तुतिः

दिवाकरनिभे दिव्ये दिव्यास्तरणसंस्तृते
हिरण्यकशिपुर्दैत्य आस्ते ज्वलितकुण्डलः॥ ६७ ॥

मूलम्

दिवाकरनिभे दिव्ये दिव्यास्तरणसंस्तृते
हिरण्यकशिपुर्दैत्य आस्ते ज्वलितकुण्डलः॥ ६७ ॥

विश्वास-प्रस्तुतिः

उपचेरुर्महादैत्या हिरण्यकशिपुं तदा
दिव्यतालानि गीतानि जगुर्गन्धर्वसत्तमाः॥ ६८ ॥

मूलम्

उपचेरुर्महादैत्या हिरण्यकशिपुं तदा
दिव्यतालानि गीतानि जगुर्गन्धर्वसत्तमाः॥ ६८ ॥

विश्वास-प्रस्तुतिः

विश्वाची सहजन्या च प्रम्लोचेति च पूजिता
दिव्याथ सौरभेयी च समीची पुञ्जिकस्थला॥ ६९ ॥

मूलम्

विश्वाची सहजन्या च प्रम्लोचेति च पूजिता
दिव्याथ सौरभेयी च समीची पुञ्जिकस्थला॥ ६९ ॥

विश्वास-प्रस्तुतिः

मिश्रकेशी च रम्भा च चित्रभा श्रुतिविभ्रमा
चारुनेत्रा घृताची च मेनका चोर्वशी तथा॥ ७० ॥

मूलम्

मिश्रकेशी च रम्भा च चित्रभा श्रुतिविभ्रमा
चारुनेत्रा घृताची च मेनका चोर्वशी तथा॥ ७० ॥

विश्वास-प्रस्तुतिः

एतास्सहस्रशश्चान्या नृत्यगीतविशारदाः
उपातिष्ठन्त राजानं हिरण्यकशिपुं प्रभुम्॥ ७१ ॥

मूलम्

एतास्सहस्रशश्चान्या नृत्यगीतविशारदाः
उपातिष्ठन्त राजानं हिरण्यकशिपुं प्रभुम्॥ ७१ ॥

विश्वास-प्रस्तुतिः

उपासते दितेः पुत्राः सर्वे लब्धवरास्तथा
बलिर्विरोचनस्तत्र नरकः पृथिवीसुतः॥ ७२ ॥

मूलम्

उपासते दितेः पुत्राः सर्वे लब्धवरास्तथा
बलिर्विरोचनस्तत्र नरकः पृथिवीसुतः॥ ७२ ॥

विश्वास-प्रस्तुतिः

प्रह्लादो विप्रचित्तिश्च गविष्ठश्च महासुरः
सुरहन्ता दुःखकर्ता समनास्सुमतिस्तथा॥ ७३ ॥

मूलम्

प्रह्लादो विप्रचित्तिश्च गविष्ठश्च महासुरः
सुरहन्ता दुःखकर्ता समनास्सुमतिस्तथा॥ ७३ ॥

विश्वास-प्रस्तुतिः

घटोदरो महापार्श्वः क्रथनः पिठरस्तथा
विश्वरूपस्वरूपश्च विश्वकायो महाबलः॥ ७४ ॥

मूलम्

घटोदरो महापार्श्वः क्रथनः पिठरस्तथा
विश्वरूपस्वरूपश्च विश्वकायो महाबलः॥ ७४ ॥

विश्वास-प्रस्तुतिः

दशग्रीवश्च वाली च मेघवासा महासुरः
घटाभो विटरूपश्च ज्वलनश्चेन्द्रतापनः॥ ७५ ॥

मूलम्

दशग्रीवश्च वाली च मेघवासा महासुरः
घटाभो विटरूपश्च ज्वलनश्चेन्द्रतापनः॥ ७५ ॥

विश्वास-प्रस्तुतिः

दैत्यदानवसङ्घास्ते सर्वे ज्वलितकुण्डलाः
स्रग्विणो वर्मिणः सर्वे सर्वे च चरितव्रताः॥ ७६ ॥

मूलम्

दैत्यदानवसङ्घास्ते सर्वे ज्वलितकुण्डलाः
स्रग्विणो वर्मिणः सर्वे सर्वे च चरितव्रताः॥ ७६ ॥

विश्वास-प्रस्तुतिः

सर्वे लब्धवराः शूरास्सर्वे विहितमृत्यवः
एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम्॥ ७७ ॥

मूलम्

सर्वे लब्धवराः शूरास्सर्वे विहितमृत्यवः
एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम्॥ ७७ ॥

विश्वास-प्रस्तुतिः

उपासते महात्मानं सर्वे दिव्यपरिच्छदाः
विमानैर्विविधाकारैर्भ्राजमानैरिवाग्निभिः॥ ७८ ॥

मूलम्

उपासते महात्मानं सर्वे दिव्यपरिच्छदाः
विमानैर्विविधाकारैर्भ्राजमानैरिवाग्निभिः॥ ७८ ॥

विश्वास-प्रस्तुतिः

महेन्द्रवपुषः सर्वे विचित्राङ्गदबाहवः
भूषिताङ्गा दितेः पुत्रास्तमुपासत सर्वतः॥ ७९ ॥

मूलम्

महेन्द्रवपुषः सर्वे विचित्राङ्गदबाहवः
भूषिताङ्गा दितेः पुत्रास्तमुपासत सर्वतः॥ ७९ ॥

विश्वास-प्रस्तुतिः

ऐश्वर्यं दैत्यसिंहस्य यथा तस्य महात्मनः
न श्रुतं नैव दृष्टं च कस्यापि भुवनत्रये॥ ८० ॥

मूलम्

ऐश्वर्यं दैत्यसिंहस्य यथा तस्य महात्मनः
न श्रुतं नैव दृष्टं च कस्यापि भुवनत्रये॥ ८० ॥

विश्वास-प्रस्तुतिः

रजतकनकचित्रवेदिकायां परिकृतरत्नविचित्रवीथिकायाम्
स ददर्श मृगाधिपः सभायां सुरुचिर जालगवाक्षशोभितायाम्॥ ८१ ॥

मूलम्

रजतकनकचित्रवेदिकायां परिकृतरत्नविचित्रवीथिकायाम्
स ददर्श मृगाधिपः सभायां सुरुचिर जालगवाक्षशोभितायाम्॥ ८१ ॥

विश्वास-प्रस्तुतिः

कनकवलयहारभूषिताङ्गं दितितनयं स मृगाधिपो ददर्श
दिवसकरकरप्रभं ज्वलन्तं दितिजसहस्रशतैर्निषेव्यमाणम्॥ ८२ ॥

मूलम्

कनकवलयहारभूषिताङ्गं दितितनयं स मृगाधिपो ददर्श
दिवसकरकरप्रभं ज्वलन्तं दितिजसहस्रशतैर्निषेव्यमाणम्॥ ८२ ॥

विश्वास-प्रस्तुतिः

ततो दृष्ट्वा महाभागं कालचक्रमिवागतम्
नारसिंहवपुश्छन्नं भस्मच्छन्नमिवानलम्॥ ८३ ॥

मूलम्

ततो दृष्ट्वा महाभागं कालचक्रमिवागतम्
नारसिंहवपुश्छन्नं भस्मच्छन्नमिवानलम्॥ ८३ ॥

विश्वास-प्रस्तुतिः

हिरण्यकशिपोः पुत्रः प्रह्लादो नाम वीर्यवान्
दिव्येन वपुषा सिंहमपश्यद्देवमागतम्॥ ८४ ॥

मूलम्

हिरण्यकशिपोः पुत्रः प्रह्लादो नाम वीर्यवान्
दिव्येन वपुषा सिंहमपश्यद्देवमागतम्॥ ८४ ॥

विश्वास-प्रस्तुतिः

तं दृष्ट्वा रुक्मशैलाभमपूर्वां तनुमाश्रितम्
विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः॥ ८५ ॥

मूलम्

तं दृष्ट्वा रुक्मशैलाभमपूर्वां तनुमाश्रितम्
विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः॥ ८५ ॥

विश्वास-प्रस्तुतिः

प्रह्लाद उवाच-
महाराज महाबाहो दैत्यानामादिसम्भव
न श्रुतं नैव मे दृष्टं नारसिंहमिदं वपुः॥ ८६ ॥

मूलम्

प्रह्लाद उवाच-
महाराज महाबाहो दैत्यानामादिसम्भव
न श्रुतं नैव मे दृष्टं नारसिंहमिदं वपुः॥ ८६ ॥

विश्वास-प्रस्तुतिः

अव्यक्तं परमं दिव्यं किमिदं रूपमागतम्
दैत्यान्तकरणं घोरं शंसतीव मनो मम॥ ८७ ॥

मूलम्

अव्यक्तं परमं दिव्यं किमिदं रूपमागतम्
दैत्यान्तकरणं घोरं शंसतीव मनो मम॥ ८७ ॥

विश्वास-प्रस्तुतिः

अस्य देवाः शरीरस्थाः सागराः सरितस्तथा
हिमवान्पारियात्रश्च ये चान्ये कुलपर्वताः॥ ८८ ॥

मूलम्

अस्य देवाः शरीरस्थाः सागराः सरितस्तथा
हिमवान्पारियात्रश्च ये चान्ये कुलपर्वताः॥ ८८ ॥

विश्वास-प्रस्तुतिः

चन्द्रमास्सहनक्षत्रैरादित्या रश्मिभिः सह
धनदो वरुणश्चैव यमः शक्रः शचीपतिः॥ ८९ ॥

मूलम्

चन्द्रमास्सहनक्षत्रैरादित्या रश्मिभिः सह
धनदो वरुणश्चैव यमः शक्रः शचीपतिः॥ ८९ ॥

विश्वास-प्रस्तुतिः

मरुतो देवगन्धर्वा ऋषयश्च तपोधनाः
नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः॥ ९० ॥

मूलम्

मरुतो देवगन्धर्वा ऋषयश्च तपोधनाः
नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः॥ ९० ॥

विश्वास-प्रस्तुतिः

ब्रह्मा देवाः पशुपतिर्ललाटस्था भ्रमन्ति हि
स्थावराणि च सर्वाणि जङ्गमानि तथैव च॥ ९१ ॥

मूलम्

ब्रह्मा देवाः पशुपतिर्ललाटस्था भ्रमन्ति हि
स्थावराणि च सर्वाणि जङ्गमानि तथैव च॥ ९१ ॥

विश्वास-प्रस्तुतिः

भवांश्च सहितोस्माभिः सर्वैर्दैत्यगणैर्वृतः
विमानशतसङ्कीर्णा सर्वा या भवतः सभा॥ ९२ ॥

मूलम्

भवांश्च सहितोस्माभिः सर्वैर्दैत्यगणैर्वृतः
विमानशतसङ्कीर्णा सर्वा या भवतः सभा॥ ९२ ॥

विश्वास-प्रस्तुतिः

सर्वं त्रिभुवनं राजन्लोकधर्मश्च शाश्वतः
दृश्यते नरसिंहेस्मिंस्तथेदं निखिलं जगत्॥ ९३ ॥

मूलम्

सर्वं त्रिभुवनं राजन्लोकधर्मश्च शाश्वतः
दृश्यते नरसिंहेस्मिंस्तथेदं निखिलं जगत्॥ ९३ ॥

विश्वास-प्रस्तुतिः

प्रजापतिश्चात्र मनुर्महात्मा ग्रहाश्च योगाश्च मही नभश्च
उत्पातकालश्च धृतिर्मतिश्च रतिश्च सत्यं च तपो दमश्च॥ ९४ ॥

मूलम्

प्रजापतिश्चात्र मनुर्महात्मा ग्रहाश्च योगाश्च मही नभश्च
उत्पातकालश्च धृतिर्मतिश्च रतिश्च सत्यं च तपो दमश्च॥ ९४ ॥

विश्वास-प्रस्तुतिः

सनत्कुमारश्च महानुभावो विश्वे च देवा ॠषयश्च सर्वे
क्रोधश्च कामश्च तथैव हर्षो दर्पश्च मोहः पितरश्च सर्वे॥ ९५ ॥

मूलम्

सनत्कुमारश्च महानुभावो विश्वे च देवा ॠषयश्च सर्वे
क्रोधश्च कामश्च तथैव हर्षो दर्पश्च मोहः पितरश्च सर्वे॥ ९५ ॥

विश्वास-प्रस्तुतिः

प्रह्लादस्य वचः श्रुत्वा हिरण्यकशिपुः प्रभुः
उवाच दानवान्सर्वान्गणांश्च सगणाधिपः॥ ९६ ॥

मूलम्

प्रह्लादस्य वचः श्रुत्वा हिरण्यकशिपुः प्रभुः
उवाच दानवान्सर्वान्गणांश्च सगणाधिपः॥ ९६ ॥

विश्वास-प्रस्तुतिः

मृगेन्द्रो गृह्यतामेष अपूर्वां तनुमास्थितः
यदि वा संशयः कश्चिद्वध्यतां वनगोचरः॥ ९७ ॥

मूलम्

मृगेन्द्रो गृह्यतामेष अपूर्वां तनुमास्थितः
यदि वा संशयः कश्चिद्वध्यतां वनगोचरः॥ ९७ ॥

विश्वास-प्रस्तुतिः

ते दानवगणास्सर्वे मृगेन्द्रं भीमविक्रमम्
परिक्षिपन्तो मुदितास्त्रासयामासुरोजसा॥ ९८ ॥

मूलम्

ते दानवगणास्सर्वे मृगेन्द्रं भीमविक्रमम्
परिक्षिपन्तो मुदितास्त्रासयामासुरोजसा॥ ९८ ॥

विश्वास-प्रस्तुतिः

सिंहनादं विमुच्याथ नरसिंहो महाबलः
बभञ्ज तां सभां सर्वां व्यादितास्य इवान्तकः॥ ९९ ॥

मूलम्

सिंहनादं विमुच्याथ नरसिंहो महाबलः
बभञ्ज तां सभां सर्वां व्यादितास्य इवान्तकः॥ ९९ ॥

सभायां भज्यमानायां हिरण्यकशिपुः स्वयम्
चिक्षेपास्त्राणि सिंहस्य रोषव्याकुललोचनः1.45.१००
सर्वास्त्राणामथ श्रेष्ठं दण्डमस्त्रं सुदारुणम्
कालचक्रं तथा घोरं विष्णुचक्रं तथापरं१०१
पैतामहं महात्युग्रं त्रैलोक्यनिर्मितं महत्
विचित्रामशनिं चैव शुष्काद्रं चाशनिद्वयम्१०२
रौद्रं तथोग्रशूलं च कङ्कालं मुसलं तथा
अस्त्रं ब्रह्मशिरश्चैव ब्राह्ममस्त्रं तथैव च१०३
नारायणास्त्रमैन्द्रं च आग्नेयं शैशिरं तथा
वायव्यं मथनं चैव कपालमथ किङ्करम्१०४
तथा प्रतिहतां शक्तिं क्रौञ्चमस्त्रं तथैव च
मोहनं शोषणं चैव सन्तापनविलापने१०५
कम्पनं शातनं चैव महास्त्रं चैव रोधनम्
कालमुद्गरमक्षोभ्यं तापनं च महाबलम्१०६
संवर्तनं मोहनं च तथा मायाधरं वरम्
गान्धर्वमस्त्रं दयितमसिरत्नं च नन्दकम्१०७
प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम्
अस्त्रं पाशुपतं चैव यस्या प्रतिहता गतिः१०८
एतान्यस्त्राणि दिव्यानि हिरण्यकशिपुस्तदा
असृजन्नरसिंहस्य दीप्तस्याग्नेरिवाहुतिम्१०९
अस्त्रैः प्रज्वलितैः सिंहमावृणोदसुरोत्तमः
विवस्वान्घर्मसमये हिमवन्तमिवांशुभिः११०
स ह्यमर्षानिलोद्भूतो दैत्यानां सैन्यसागरः
क्षणेनाप्लावयत्सर्वं मैनाकमिव सागरः१११
प्रासैः पाशैश्च खड्गैश्च गदाभिर्मुसलैस्तथा
वज्रैरशनिभिश्चैव बहुशाखैर्महाद्रुमैः११२
मुद्गरैः कूटपाशैश्च शिलोलूखलपर्वतैः
शतघ्नीभिश्च दीप्ताभिर्दण्डैरपि सुदारुणैः११३
ते दानवाः पाशगृहीतहस्ता महेन्द्रतुल्याशनितुल्य वेगाः
समन्ततोभ्युद्यतबाहुकायाः स्थिताः सशीर्षा इव नागपोताः११४
सुवर्णमालाकुलभूषिताङ्गाः सुतीक्ष्णदंष्ट्राकुलवक्त्रगर्ताः
स्फुरत्प्रभास्ते च सशृङ्गदेहाश्चीनांशुका भान्ति यथैव हंसाः११५
सोसृजद्दानवो मायामग्निं वायुं समीरितम्
तमिन्द्रस्तोयदैः सार्धं सहस्राक्षो महाद्युतिः११६
महता तोयवर्षेण शमयमास पावकम्
तस्यां प्रतिहतायां तु मायायां युधि दानवः११७
असृजद्घोरसङ्काशं तमस्तीव्रं समन्ततः
तमसा संवृते लोके दैत्येष्वात्तायुधेषु च११८
स्वतेजसा परिवृतो दिवाकर इवोद्गतः
त्रिशिखां भ्रुकुटीमस्य ददृशुर्दानवा रणे११९
ललाटस्थां त्रिकूटस्थां गङ्गां त्रिपथगामिव
ततः सर्वासु मायासु हतासु दितिनन्दनाः१२०
हिरण्यकशिपुं दैत्या विषण्णाश्शरणं ययुः
ततः प्रज्वलितः क्रोधात्प्रदहन्निव तेजसा१२१
तस्मिन्क्रुद्धे तु दैत्येन्द्रे तमोभूतमभूज्जगत्
आवहः प्रवहश्चैव विवहोथ समीरणः१२२
परावहस्संवहश्च उद्वहश्च महाबलः
तथा परिवहः श्रीमानुत्पातभयशंसिनः१२३
इत्येवं क्षुभिताः सप्त मरुतो गगनेचराः
ये ग्रहास्सर्वलोकस्य क्षये प्रादुर्भवन्ति हि१२४
ते सर्वे गगने हृष्टाव्यचरंश्च यथासुखम्
अयोगतश्चाप्यचरद्योगं निशि निशाचरः१२५
सग्रहः सह नक्षत्रैस्तारापतिररिन्दम
विवर्णतां च भगवान्गतो दिवि दिवाकरः१२६
कृष्णः कबन्धश्च तदा लक्ष्यते सुमहान्दिवि
असृजच्चासितां सूर्यो धूमवत्तां विभावसुः१२७
गगनस्थश्च भगवानभीक्ष्णं परिविष्यते
सप्तधूमनिभा घोराः सूर्यादि विसमुत्थिताः१२८
सोमस्य गगनस्थस्य ग्रहास्तिष्ठन्ति शृङ्ङ्गगाः
वामे च दक्षिणे चैव स्थितौ शुक्रबृहस्पती१२९
शनैश्चरो लोहिताङ्गो लोहिताङ्गसमद्युतिः
समं समधिरोहन्त सर्वे वै गगनेचराः१३०
शृङ्गाणि शनकैर्घोरा युगान्ता वर्त्तन ग्रहाः
चन्द्रमाश्च सनक्षत्रो ग्रहैः सह तमोनुदः१३१
चराचरविनाशाय रोहिणीं नाभ्यनन्दत
गृहीतो राहुणा चन्द्र उल्काभिरभिहन्यते१३२
उल्काः प्रज्वलिताश्चन्द्रे व्यचरन्त यथासुखम्
देवानामधिपो देवः सोप्यवर्षत शोणितम्१३३
अपतद्गगनादुल्का विद्युद्रूपा महास्वना
अकाले च द्रुमास्सर्वे पुष्प्यन्ति च फलन्ति च१३४
लताश्च सफलाः सर्वा या आहुर्दैत्यनाशिकाः
फले फलान्यजायन्त पुष्पे पुष्पं तथैव च१३५
उन्मीलन्ति निमीलन्ति हसन्ति प्ररुदन्ति च
विक्रोशन्ति च गम्भीरं धूमायन्ते ज्वलन्ति च१३६
प्रतिमास्सर्वदेवानां कथयन्त्यो महद्भयम्
आरण्यैः सह संसृष्टा ग्राम्याश्च मृगपक्षिणः१३७
चुक्रुशुर्भैरवं तत्र मृगयुद्ध उपस्थिते
नद्यश्च प्रतिकूलानि वहन्ति कलुषोदकाः१३८
न प्राकाशन्त च दिशो रक्तरेणुसमाकुलाः
वानस्पत्या न पूज्यन्ते पूजनार्हाः कथञ्चन१३९
वायुवेगेन हन्यन्ते भज्यन्ते प्रणमन्ति च
तथा च सर्वभूतानां छाया न परिवर्त्तते१४०
अपरेण गते सूर्ये सलोकानां युगक्षये
तदा हिरण्यकशिपोर्दैत्यस्योपरिवेश्मनः१४१
भाण्डागारायुधागारे निविष्टमभवन्मधु
असुराणां विनाशाय सुराणां विजयाय च१४२
दृश्यन्ते विविधोत्पाता घोराघोरनिदर्शनाः
एते चान्ये च बहवो घोररूपाः समुत्थिताः१४३
दैत्येन्द्रस्य विनाशाय दृश्यन्ते रणशंसिनः
मेदिन्यां कम्पमानायां दैत्येन्द्रेण महात्मनः१४४
महीधरा नागगणा निपेतुरमितौजसः
विषज्वालाकुलैर्वक्त्रैर्विमुञ्चन्तो हुताशनम्१४५
चतुःशीर्षाः पञ्चशीर्षाः सप्तशीर्षाश्च पन्नगाः
वासुकिस्तक्षकश्चैव कर्कोटकधनञ्जयौ१४६
एलामुखः कालियश्च महापद्मश्च वीर्यवान्
सहस्रशीर्षश्शुद्धाङ्गो हेमतालध्वजः प्रभुः१४७
शेषोनन्तो महानागो ह्यप्रकम्प्यश्च कम्पिताः
दीप्यन्तेन्तर्जलस्थानि पृथिवीविवराणि वै१४८
सप्तदैत्येन्द्रकोपेन कम्पितानि समन्ततः
नानातेजोधराश्चापि पातालतलचारिणः१४९
पाताले सहसा क्षुब्धे दुष्प्रकम्प्याः प्रकम्पिताः
हिरण्यकशिपुर्दैत्यस्तदा संस्पृष्टवान्महीम्1.45.१५०
सन्दष्टौष्ठपुटः क्रुद्धो वराह इव पूर्वजः
गङ्गा भागीरथी चैव कौशिकी सरयूरपि१५१
यमुना चाथ कावेरी कृष्णवेणी च निम्नगा
तुङ्गभद्रा महावेगा नदी गोदावरी तथा१५२
चर्मण्वती च सिन्धुश्च तथा नदनदीपतिः
मेलकप्रभवश्चैव शोणो मणिनिभोदकः१५३
नर्मदा च शुभस्रोतास्तथा वेत्रवती नदी
गोमती गोकुलाकीर्णा तथा पूर्वा सरस्वती१५४
महाकालमहीचैव तमसा पुष्पवाहिनी
जम्बूद्वीपं रत्नवच्च सर्वरत्नोपशोभितम्१५५
सुवर्णपुटकं चैव सुवर्णाकरमण्डितम्
महानदश्च लौहित्यश्शैलः काञ्चनशोभितः१५६
पत्तनं कोशकाराणां कशं च रजताकरम्
मगधाश्च महाग्रामाः पुण्ड्रा उग्रास्तथैव च१५७
स्रुघ्ना मल्ला विदेहाश्च मालवाः काशि कोसलाः
भवनं वैनतेयस्य दैत्येन्द्रेणाभिकम्पितम्१५८
कैलासशिखराकारं यत्कृतं विश्वकर्मणा
रत्नतोयो महाभीमो लौहित्यो नाम सागरः१५९
उदयश्च महाशैल उच्छ्रितः शतयोजनम्
सवर्णवेदिकः श्रीमान्मेघपङ्क्तिनिषेवितः१६०
भ्राजमानोर्कसदृशैर्जातरूपमयैर्द्रुमैः
सालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः१६१
अयोमुखश्च विख्यातः सर्वतो धातुमण्डितः
तमालवनगन्धश्च पर्वतो मलयः शुभः१६२
सुराष्ट्राश्च सबाह्लीकाश्शूद्राभीरास्तथैव च
भोजाः पाण्ड्याश्च वङ्गाश्च कलिङ्गास्ताम्रलिप्तकाः१६३
तथैव पौण्ड्राः शुभ्राश्च वामचूडास्सकेरलाः
क्षोभितास्तेन दैत्येन देवाश्चाप्सरसां गणाः१६४
अगस्त्यभवनं चैव यदगस्त्यकृतं पुरा
सिद्धचारणसङ्घैश्च विप्रकीर्णं मनोहरम्१६५
विचित्रनानाविहगं सपुष्पितमहाद्रुमम्
जातरूपमयैः शृङ्गैरप्सरोगणसेवितम्१६६
गिरिः पुष्पितकश्चैव लक्ष्मीवान्प्रियदर्शनः
उत्थितः सागरं भित्वा विश्रामश्चन्द्रसूर्ययोः१६७
रराज स महाशृङ्गैर्गगनं विलिखन्निव
चन्द्रसूर्यांशुसङ्काशैः सागराम्बुसमावृतैः१६८
विद्युत्त्वान्पर्वतः श्रीमानायतः शतयोजनम्
विद्युतां यत्र सम्पाता निपात्यन्ते नगोत्तमे१६९
ऋषभः पर्वतश्चैव श्रीमानृषभसंस्थितः
कुञ्जरः पर्वतः श्रीमानगस्त्यस्य गृहं शुभम्१७०
विमलाख्या च दुर्द्धर्षा सर्पाणां मालती पुरी
तथा भोगवती चापि दैत्येन्द्रेणाभिकम्पिता१७१
महासेनगिरिश्चैव पारियात्रश्च पर्वतः
चक्रवांश्च गिरिश्रेष्ठो वाराहश्चैव पर्वतः१७२
प्राग्ज्योतिषपुरं चापि जातरूपमयं शुभम्
यस्मिन्नुवास दुष्टात्मा नरको नाम दानवः१७३
मेघश्च पर्वतश्रेष्ठो मेघगम्भीरनिस्स्वनः
षष्टिस्तत्र सहस्राणि पर्वतानां विशाम्पते१७४
तरुणादित्यसङ्काशो मेरुश्चैव महान्गिरिः
यक्षराक्षसगन्धर्वैर्नित्यं सेवितकन्दरः१७५
हेमगर्भो महासेनस्तथा मेघसखो गिरिः
कैलासश्चैव शैलेन्द्रो दानवेन्द्रेण कम्पितः१७६
हेमपुष्करसञ्छन्नं तेन वैखानसं सरः
कम्पितं मानसं चैव हंसकारण्डवाकुलम्१७७
त्रिशृङ्गः पर्वतश्रेष्ठः कुमारी च सरिद्वरा
तुषारचयसञ्च्छन्नो मन्दरश्चापि पर्वतः१७८
उशीरबीजश्च गिरिर्भद्रप्रस्थस्तथाद्रिराट्
प्रजापतिगिरिश्चैव तथा पुष्करपर्वतः१७९
देवाभः पर्वतश्चैव तथा वै वालुकागिरिः
क्रौञ्चः सप्तर्षिशैलश्च धूम्रवर्णश्च पर्वतः१८०
एते चान्ये च गिरयो देशा जनपदास्तथा
नद्यः ससागराः सर्वाः दानवेनाभिकम्पिताः१८१
कपिलश्च महीपुत्रो व्याघ्रवांश्च प्रकम्पितः
खेचराश्च निशापुत्राः पातालतलवासिनः१८२
गणस्तथापरो रौद्रो मेघनामाङ्कुशायुधः
ऊर्द्ध्वगो भीमवेगश्च सर्व एतेभिकम्पिताः१८३
गदी शूली करालश्च हिरण्यकशिपुस्तथा
जीमूतघननिर्घोषो जीमूत इव वेगवान्१८४
देवारिर्दितिजो दृप्तो नृसिंहं समुपाद्रवत्
स तु तेन ततस्तीक्ष्णैर्मृगेन्द्रेण महानखैः१८५
तदोङ्कारसहायेन विदार्य निहतो युधि
मही च कालश्च शशीनभश्च ग्रहास्स सूर्याश्च दिशश्च सर्वाः१८६
नद्यश्च शैलाश्च महार्णवाश्च गताः प्रसादं दितिपुत्रनाशात्
ततः प्रमुदिता देवा ऋषयश्च तपोधनाः१८७
तुष्टुवुर्नामभिर्दिव्यैरादिदेवं सनातनम्
यत्त्वया विधृतं देव नारसिंहमिदं वपुः१८८
एतदेवार्चयिष्यन्ति परापरविदो जनाः
ब्रह्मोवाच-
भवान्ब्रह्मा च रुद्रश्च महेन्द्रो देवसत्तमः१८९
भवान्कर्त्ता विकर्त्ता च लोकानां प्रभवोऽव्ययः
परां च सिद्धिं च परं च सत्वं परं रहस्यं परमं हविश्च१९०
परं च धर्मं परमं यशश्च त्वामाहुरग्र्यं परमं पुराणम्
परं च सत्यं परमं तपश्च परं पवित्रं परमं च मार्गं१९१
परं च यज्ञं परमं च होत्रं त्वामाहुरग्य्रं परमं पुराणम्
परं शरीरं परमं च ब्रह्म परं च योगं परमां च वाणीम्१९२
परं रहस्यं परमां गतिं च त्वामाहुरग्य्रं परमं पुराणम्
एवमुक्त्वा तु भगवान्सर्वलोकपितामहः१९३
स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः
ततो नदत्सु तूर्येषु नृत्यन्तीष्वप्सरःसु च१९४
क्षीरोदस्योत्तरं कूलं जगाम हरिरीश्वरः
नारसिंहं वपुर्देवः स्थापयित्वा सुदीप्तिमान्१९५
पौराणं रूपमास्थाय प्रययौ गरडध्वजः
अष्टचक्रेण यानेन भूतियुक्तेन भास्वता१९६
अव्यक्तप्रकृतिर्देवः स्वस्थानं गतवान्प्रभुः१९७