पुलस्त्य उवाच-
विश्वास-प्रस्तुतिः
प्रादुरासीत्प्रतीहारः शुभ्रचीनांशुकाम्बरः
स जानुभ्यां महीं गत्वा पिहितास्यश्च पाणिना॥ १ ॥
मूलम्
प्रादुरासीत्प्रतीहारः शुभ्रचीनांशुकाम्बरः
स जानुभ्यां महीं गत्वा पिहितास्यश्च पाणिना॥ १ ॥
विश्वास-प्रस्तुतिः
उवाचानाविलं वाक्यमल्पाक्षरपरिष्कृतम्
दैत्येन्द्रमर्कवृन्दाभं बिभ्रतं भास्वरं वपुः॥ २ ॥
मूलम्
उवाचानाविलं वाक्यमल्पाक्षरपरिष्कृतम्
दैत्येन्द्रमर्कवृन्दाभं बिभ्रतं भास्वरं वपुः॥ २ ॥
विश्वास-प्रस्तुतिः
कालनेमिः सुरान्बद्ध्वा प्रादाय द्वारि तिष्ठति
स विज्ञापयति स्थेयं क्व वन्दिनि च यैः प्रभो॥ ३ ॥
मूलम्
कालनेमिः सुरान्बद्ध्वा प्रादाय द्वारि तिष्ठति
स विज्ञापयति स्थेयं क्व वन्दिनि च यैः प्रभो॥ ३ ॥
विश्वास-प्रस्तुतिः
तन्निशम्याब्रवीद्दैत्यः प्रतीहारस्य भाषितम्
यथेष्ठं स्थीयतामेभिर्गृहं मे भुवनत्रयं॥ ४ ॥
मूलम्
तन्निशम्याब्रवीद्दैत्यः प्रतीहारस्य भाषितम्
यथेष्ठं स्थीयतामेभिर्गृहं मे भुवनत्रयं॥ ४ ॥
विश्वास-प्रस्तुतिः
केवलं वासवं त्वेकं मुण्डयित्वा विमुच्यताम्
सितवस्त्रपरिच्छन्नं शुनःपादेन चिह्नितम्॥ ५ ॥
मूलम्
केवलं वासवं त्वेकं मुण्डयित्वा विमुच्यताम्
सितवस्त्रपरिच्छन्नं शुनःपादेन चिह्नितम्॥ ५ ॥
विश्वास-प्रस्तुतिः
एवं कृते ततो देवा दूयमानेन चेतसा
जग्मुर्जगद्गुरुं द्रष्टुं शरणं कमलोद्भवम्॥ ६ ॥
मूलम्
एवं कृते ततो देवा दूयमानेन चेतसा
जग्मुर्जगद्गुरुं द्रष्टुं शरणं कमलोद्भवम्॥ ६ ॥
विश्वास-प्रस्तुतिः
विनिर्विण्णास्तमासाद्य शिरोभिर्द्धरणीं गताः
तुष्टुवुः सुष्ठु वर्णाढ्यैर्वचोभिः कमलासनम्॥ ७ ॥
मूलम्
विनिर्विण्णास्तमासाद्य शिरोभिर्द्धरणीं गताः
तुष्टुवुः सुष्ठु वर्णाढ्यैर्वचोभिः कमलासनम्॥ ७ ॥
विश्वास-प्रस्तुतिः
देवा ऊचुः-
नमस्त्वोङ्काराङ्कुरादिप्रसूत्यै विश्वस्थानानन्तभेदस्य पूर्वम्
सम्भूतस्यानन्तरं सत्वमूले संहारेच्छोस्ते नमः सत्वमूर्त्ते॥ ८ ॥
मूलम्
देवा ऊचुः-
नमस्त्वोङ्काराङ्कुरादिप्रसूत्यै विश्वस्थानानन्तभेदस्य पूर्वम्
सम्भूतस्यानन्तरं सत्वमूले संहारेच्छोस्ते नमः सत्वमूर्त्ते॥ ८ ॥
विश्वास-प्रस्तुतिः
व्यक्तीनां त्वामादिभूतं महिम्ना चास्मादस्मानभिधानाद्विचिन्त्य
द्यावापृथ्व्योरूर्द्ध्वलोकांस्तथाधश्चाण्डादस्मात्त्वं विभागं चकर्थ॥ ९ ॥
मूलम्
व्यक्तीनां त्वामादिभूतं महिम्ना चास्मादस्मानभिधानाद्विचिन्त्य
द्यावापृथ्व्योरूर्द्ध्वलोकांस्तथाधश्चाण्डादस्मात्त्वं विभागं चकर्थ॥ ९ ॥
विश्वास-प्रस्तुतिः
व्यक्तं मेरुर्यज्जरायुस्तवाभूदेवं विद्मस्त्वत्प्रणीतोवकाशः
व्यक्तं देवा जज्ञिरे यस्य देहाद्देहस्यान्तश्चारिणो देहभाजः॥ १० ॥
मूलम्
व्यक्तं मेरुर्यज्जरायुस्तवाभूदेवं विद्मस्त्वत्प्रणीतोवकाशः
व्यक्तं देवा जज्ञिरे यस्य देहाद्देहस्यान्तश्चारिणो देहभाजः॥ १० ॥
विश्वास-प्रस्तुतिः
द्यौस्ते मूर्द्धा लोचने चन्द्रसूर्यौ व्यालाः केशाः श्रोत्ररन्ध्रे दिशस्ते
गात्रं यज्ञः सिन्धवः सन्धयो वै पादौ भूमिस्तूदरं ते समुद्राः ॥ ११ ॥
मूलम्
द्यौस्ते मूर्द्धा लोचने चन्द्रसूर्यौ व्यालाः केशाः श्रोत्ररन्ध्रे दिशस्ते
गात्रं यज्ञः सिन्धवः सन्धयो वै पादौ भूमिस्तूदरं ते समुद्राः ॥ ११ ॥
विश्वास-प्रस्तुतिः
मायाकारः कारणं त्वं प्रसिद्धो वेदैः शान्तो ज्योतिरर्कस्त्वमुक्तः
वेदार्थेन त्वां विवृण्वन्ति बुद्ध्या हृत्पद्मान्तः सन्निविष्टं पुराणम्॥ १२ ॥
मूलम्
मायाकारः कारणं त्वं प्रसिद्धो वेदैः शान्तो ज्योतिरर्कस्त्वमुक्तः
वेदार्थेन त्वां विवृण्वन्ति बुद्ध्या हृत्पद्मान्तः सन्निविष्टं पुराणम्॥ १२ ॥
विश्वास-प्रस्तुतिः
त्वां चात्मानं लब्धयोगा गृणन्ति साङ्ख्यैर्याः स्ताः सप्तसूक्ष्माः प्रणीताः
तासां हेतुर्याष्टमी चापि गीता तास्वन्तस्थो जीवभूतस्त्वमेव॥ १३ ॥
मूलम्
त्वां चात्मानं लब्धयोगा गृणन्ति साङ्ख्यैर्याः स्ताः सप्तसूक्ष्माः प्रणीताः
तासां हेतुर्याष्टमी चापि गीता तास्वन्तस्थो जीवभूतस्त्वमेव॥ १३ ॥
विश्वास-प्रस्तुतिः
दृष्ट्वा मूर्त्तिं स्थूलसूक्ष्माञ्चकार ये वै भावाः कारणे केचिदुक्ताः
सम्भूतास्ते त्वत्त एवादिसर्गे भूयस्तास्त्वां वासनां तेभ्युपेयाः॥ १४ ॥
मूलम्
दृष्ट्वा मूर्त्तिं स्थूलसूक्ष्माञ्चकार ये वै भावाः कारणे केचिदुक्ताः
सम्भूतास्ते त्वत्त एवादिसर्गे भूयस्तास्त्वां वासनां तेभ्युपेयाः॥ १४ ॥
विश्वास-प्रस्तुतिः
त्वत्सङ्केतस्त्वन्तरायो निगूढः कालोऽमेयो ध्वस्तसङ्ख्याविकल्पः
भावाभावाव्यक्तिसंहारहेतुः सोऽनन्तस्त्वं तस्य कर्ता निधानम्॥ १५ ॥
मूलम्
त्वत्सङ्केतस्त्वन्तरायो निगूढः कालोऽमेयो ध्वस्तसङ्ख्याविकल्पः
भावाभावाव्यक्तिसंहारहेतुः सोऽनन्तस्त्वं तस्य कर्ता निधानम्॥ १५ ॥
विश्वास-प्रस्तुतिः
स्थूलस्सर्वोऽनर्थभूतस्ततोन्यस्सोऽर्थस्सूक्ष्मो यो हि तेभ्योपिगीतः
स्थूला भावाश्चावृता यैश्च तेषां तेभ्यः स्थूलस्त्वं पुराणे प्रणीतः॥ १६ ॥
मूलम्
स्थूलस्सर्वोऽनर्थभूतस्ततोन्यस्सोऽर्थस्सूक्ष्मो यो हि तेभ्योपिगीतः
स्थूला भावाश्चावृता यैश्च तेषां तेभ्यः स्थूलस्त्वं पुराणे प्रणीतः॥ १६ ॥
विश्वास-प्रस्तुतिः
भूतम्भूतं भूतिमद्भूतभावं भावेभावे भावितं त्वं युनक्षि
युक्तंयुक्तं व्यक्तिभावान्निरस्य स्थानेस्थाने व्यक्तिवृत्तिं करोषि॥ १७ ॥
मूलम्
भूतम्भूतं भूतिमद्भूतभावं भावेभावे भावितं त्वं युनक्षि
युक्तंयुक्तं व्यक्तिभावान्निरस्य स्थानेस्थाने व्यक्तिवृत्तिं करोषि॥ १७ ॥
विश्वास-प्रस्तुतिः
इत्थं देवो व्यक्तिभाजां शरण्यस्त्राता गोप्ता भावितोऽनन्तमूर्तिः
विरेमुरमरास्तु त्वा ब्रह्माणमिति कारणम्॥ १८ ॥
मूलम्
इत्थं देवो व्यक्तिभाजां शरण्यस्त्राता गोप्ता भावितोऽनन्तमूर्तिः
विरेमुरमरास्तु त्वा ब्रह्माणमिति कारणम्॥ १८ ॥
विश्वास-प्रस्तुतिः
तस्थुर्मनोभिरिष्टार्थसम्प्राप्ति प्रार्थनास्ततः
एवं स्तुतो विरिञ्चिस्तु प्रसादं परमं गतः॥ १९ ॥
मूलम्
तस्थुर्मनोभिरिष्टार्थसम्प्राप्ति प्रार्थनास्ततः
एवं स्तुतो विरिञ्चिस्तु प्रसादं परमं गतः॥ १९ ॥
विश्वास-प्रस्तुतिः
अमरान्वरदोप्याह वामहस्तेन निर्दिशन्
ब्रह्मोवाच-
नारी वा भर्तृका कस्माद्धस्तसन्त्यक्तभूषणा॥ २० ॥
मूलम्
अमरान्वरदोप्याह वामहस्तेन निर्दिशन्
ब्रह्मोवाच-
नारी वा भर्तृका कस्माद्धस्तसन्त्यक्तभूषणा॥ २० ॥
विश्वास-प्रस्तुतिः
न राजसे कुतश्शक्रा म्लानवक्त्रसरोरुहः
हुताशनवियुक्तोपि धूमेन न विराजसे॥ २१ ॥
मूलम्
न राजसे कुतश्शक्रा म्लानवक्त्रसरोरुहः
हुताशनवियुक्तोपि धूमेन न विराजसे॥ २१ ॥
विश्वास-प्रस्तुतिः
तृणौघेन प्रतिच्छन्नो दग्धदावश्चिरोषितः
यमामयशरीरेण क्लिष्टो नाद्य विराजसे॥ २२ ॥
मूलम्
तृणौघेन प्रतिच्छन्नो दग्धदावश्चिरोषितः
यमामयशरीरेण क्लिष्टो नाद्य विराजसे॥ २२ ॥
विश्वास-प्रस्तुतिः
दण्डेनालम्बनेनेव कृष्टो येन पदेपदे
रजनीचरनाथ त्वं किं भीत इव भाषसे॥ २३ ॥
मूलम्
दण्डेनालम्बनेनेव कृष्टो येन पदेपदे
रजनीचरनाथ त्वं किं भीत इव भाषसे॥ २३ ॥
विश्वास-प्रस्तुतिः
राक्षसेन्न्द्रकृतादाने त्वमरातिक्षतो यथा
तनुस्ते वरुणोच्छुष्कापरीतस्येव वह्निना॥ २४ ॥
मूलम्
राक्षसेन्न्द्रकृतादाने त्वमरातिक्षतो यथा
तनुस्ते वरुणोच्छुष्कापरीतस्येव वह्निना॥ २४ ॥
विश्वास-प्रस्तुतिः
विमुक्तरुधिरं चाथ पदं त्वं प्रविलोकय
वायो भवान्विचेतस्कः खड्गाग्रैरिव निष्कृतः॥ २५ ॥
मूलम्
विमुक्तरुधिरं चाथ पदं त्वं प्रविलोकय
वायो भवान्विचेतस्कः खड्गाग्रैरिव निष्कृतः॥ २५ ॥
विश्वास-प्रस्तुतिः
किं त्वं नतोसि धनद सन्त्यज्येव कुबेरतां
रुद्रास्त्रिशूलिनः सन्तोऽविदध्वं बहुशूरतां॥ २६ ॥
मूलम्
किं त्वं नतोसि धनद सन्त्यज्येव कुबेरतां
रुद्रास्त्रिशूलिनः सन्तोऽविदध्वं बहुशूरतां॥ २६ ॥
विश्वास-प्रस्तुतिः
भवतां केन चाक्षिप्ता तीव्रता नस्तदुच्यतां
एवमुक्ताः सुरास्तेन ब्रह्मणा ब्रह्मवर्तिना॥ २७ ॥
मूलम्
भवतां केन चाक्षिप्ता तीव्रता नस्तदुच्यतां
एवमुक्ताः सुरास्तेन ब्रह्मणा ब्रह्मवर्तिना॥ २७ ॥
विश्वास-प्रस्तुतिः
वाचां प्रधानभूतत्वात्ते मारुतमचोदयन्
अथ शक्रमुखैर्देवैः पवनः प्रतिचोदितः॥ २८ ॥
मूलम्
वाचां प्रधानभूतत्वात्ते मारुतमचोदयन्
अथ शक्रमुखैर्देवैः पवनः प्रतिचोदितः॥ २८ ॥
विश्वास-प्रस्तुतिः
प्राह देवं चतुर्वक्त्रं भवान्वेत्ति चराचरं
पुरहूतमुखाः सबला निमिषा विजिताः प्रसभं किल दैत्यशतैः॥ २९ ॥
मूलम्
प्राह देवं चतुर्वक्त्रं भवान्वेत्ति चराचरं
पुरहूतमुखाः सबला निमिषा विजिताः प्रसभं किल दैत्यशतैः॥ २९ ॥
विश्वास-प्रस्तुतिः
क्रतवो विहिता भवता स्थितये जगतां च महाद्भुतचित्रगुणाः
अपि यज्ञकृतः श्रुतकामफला विहिता ॠषयस्तत एव पुरः॥ ३० ॥
मूलम्
क्रतवो विहिता भवता स्थितये जगतां च महाद्भुतचित्रगुणाः
अपि यज्ञकृतः श्रुतकामफला विहिता ॠषयस्तत एव पुरः॥ ३० ॥
विश्वास-प्रस्तुतिः
अपि नाकमभूत्किल यज्ञभुजां भवतो विनियोगवशात्सततम्
अपहृत्यविमानगणं सकृतो दनुजेन महाकरभूमिसमः॥ ३१ ॥
मूलम्
अपि नाकमभूत्किल यज्ञभुजां भवतो विनियोगवशात्सततम्
अपहृत्यविमानगणं सकृतो दनुजेन महाकरभूमिसमः॥ ३१ ॥
विश्वास-प्रस्तुतिः
कृतवानसि सर्वगुणातिशयं यमशेषमहीधरराजतया
मखभूषितमंशुमतामवधिं सुरधामगिरिं गगनेपि सदा॥ ३२ ॥
मूलम्
कृतवानसि सर्वगुणातिशयं यमशेषमहीधरराजतया
मखभूषितमंशुमतामवधिं सुरधामगिरिं गगनेपि सदा॥ ३२ ॥
विश्वास-प्रस्तुतिः
अधिवासविहारविधानुचितो दनुजेन परिष्कृतशृङ्गतटः
प्रविलम्बितरत्नगुहानिवहो बहुदैत्यसमाश्रयतां गमितः॥ ३३ ॥
मूलम्
अधिवासविहारविधानुचितो दनुजेन परिष्कृतशृङ्गतटः
प्रविलम्बितरत्नगुहानिवहो बहुदैत्यसमाश्रयतां गमितः॥ ३३ ॥
विश्वास-प्रस्तुतिः
असुरस्य च तस्य भयेन गतं सविषाद शरीरनिमित्ततया
उपभोग्यतयाधिकृतं सुचिरं विमलद्युतिपूरितदिग्वदनं॥ ३४ ॥
मूलम्
असुरस्य च तस्य भयेन गतं सविषाद शरीरनिमित्ततया
उपभोग्यतयाधिकृतं सुचिरं विमलद्युतिपूरितदिग्वदनं॥ ३४ ॥
विश्वास-प्रस्तुतिः
भवतैव विनिर्मितमादियुगे सुरहेतिसमूहवरं कुलिशं
दितिजस्य शरीरमवाप्यगतं शतधा मतिभेदमिवाल्पविदः॥ ३५ ॥
मूलम्
भवतैव विनिर्मितमादियुगे सुरहेतिसमूहवरं कुलिशं
दितिजस्य शरीरमवाप्यगतं शतधा मतिभेदमिवाल्पविदः॥ ३५ ॥
विश्वास-प्रस्तुतिः
बाणैश्च युधि विद्धाङ्गा द्वारि द्वास्थैर्निदर्शिताः
लब्धप्रवेशाः कृच्छ्रेण वयं तस्यामरद्विषः॥ ३६ ॥
मूलम्
बाणैश्च युधि विद्धाङ्गा द्वारि द्वास्थैर्निदर्शिताः
लब्धप्रवेशाः कृच्छ्रेण वयं तस्यामरद्विषः॥ ३६ ॥
विश्वास-प्रस्तुतिः
सभायाममरादेव प्रकृष्योपनिवेशिताः
वेत्रहस्तैरजल्पन्तस्तथोपहसिताः परैः॥ ३७ ॥
मूलम्
सभायाममरादेव प्रकृष्योपनिवेशिताः
वेत्रहस्तैरजल्पन्तस्तथोपहसिताः परैः॥ ३७ ॥
विश्वास-प्रस्तुतिः
महार्थाः सिद्धसर्वार्था भवन्तः स्वल्पभाषिणः
शास्त्रयुक्तमथ ब्रूत मामरा बहुभाषिणः॥ ३८ ॥
मूलम्
महार्थाः सिद्धसर्वार्था भवन्तः स्वल्पभाषिणः
शास्त्रयुक्तमथ ब्रूत मामरा बहुभाषिणः॥ ३८ ॥
विश्वास-प्रस्तुतिः
सभेयं दैत्यसिंहस्य न शक्रस्य विशृङ्खला
वदद्भिरिति दैत्यस्य प्रेष्यैर्विहसिता बहु॥ ३९ ॥
मूलम्
सभेयं दैत्यसिंहस्य न शक्रस्य विशृङ्खला
वदद्भिरिति दैत्यस्य प्रेष्यैर्विहसिता बहु॥ ३९ ॥
विश्वास-प्रस्तुतिः
ॠतवो मूर्तिमन्तश्चाप्यहर्निशमुपासते
कृतापराधं सत्रासं न त्यजन्ति कथञ्चन॥ ४० ॥
मूलम्
ॠतवो मूर्तिमन्तश्चाप्यहर्निशमुपासते
कृतापराधं सत्रासं न त्यजन्ति कथञ्चन॥ ४० ॥
विश्वास-प्रस्तुतिः
तन्त्रीलयनयोपेतं सिद्धगन्धर्वकिन्नरैः
सरागमुपधाविष्टं गीयते तस्य वेश्मसु॥ ४१ ॥
मूलम्
तन्त्रीलयनयोपेतं सिद्धगन्धर्वकिन्नरैः
सरागमुपधाविष्टं गीयते तस्य वेश्मसु॥ ४१ ॥
विश्वास-प्रस्तुतिः
कृताकृतोपकरणैर्मित्रादि गुरुलाघवः
शरणागतसन्त्यागी त्यक्तसत्यप्रतिश्रयः॥ ४२ ॥
मूलम्
कृताकृतोपकरणैर्मित्रादि गुरुलाघवः
शरणागतसन्त्यागी त्यक्तसत्यप्रतिश्रयः॥ ४२ ॥
विश्वास-प्रस्तुतिः
इति निश्शेषमथवा निश्शेषं केन शक्यते
तस्याविनयमाख्यातुं स्रष्टा तत्र परायणम्॥ ४३ ॥
मूलम्
इति निश्शेषमथवा निश्शेषं केन शक्यते
तस्याविनयमाख्यातुं स्रष्टा तत्र परायणम्॥ ४३ ॥
विश्वास-प्रस्तुतिः
इत्युक्त्वा व्यरमद्वायुः शनैर्देवविचेष्टितं
सुरानुवाच भगवांस्ततः स्मितमुखाम्बुजः॥ ४४ ॥
मूलम्
इत्युक्त्वा व्यरमद्वायुः शनैर्देवविचेष्टितं
सुरानुवाच भगवांस्ततः स्मितमुखाम्बुजः॥ ४४ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच
अवध्यस्तारको दैत्यः सर्वैरपि सुरासुरैः
यस्य वध्यस्स नाद्यापि जातस्त्रिभुवने पुमान्॥ ४५ ॥
मूलम्
ब्रह्मोवाच
अवध्यस्तारको दैत्यः सर्वैरपि सुरासुरैः
यस्य वध्यस्स नाद्यापि जातस्त्रिभुवने पुमान्॥ ४५ ॥
विश्वास-प्रस्तुतिः
मया स वरदानेन छन्दयित्वा निवारितः
तपसः साम्प्रतं राजा त्रैलोक्यदहनात्मकः॥ ४६ ॥
मूलम्
मया स वरदानेन छन्दयित्वा निवारितः
तपसः साम्प्रतं राजा त्रैलोक्यदहनात्मकः॥ ४६ ॥
विश्वास-प्रस्तुतिः
स तु वव्रे वधं दैत्यश्शिशुतः सप्तवासरात्
स तु सप्तदिनो बालः शङ्कराद्यो भविष्यति॥ ४७ ॥
मूलम्
स तु वव्रे वधं दैत्यश्शिशुतः सप्तवासरात्
स तु सप्तदिनो बालः शङ्कराद्यो भविष्यति॥ ४७ ॥
विश्वास-प्रस्तुतिः
तारकस्य निहन्ता स भास्कराभो भविष्यति
साम्प्रतं चाप्यपत्नीकः शङ्करो भगवान्प्रभुः॥ ४८ ॥
मूलम्
तारकस्य निहन्ता स भास्कराभो भविष्यति
साम्प्रतं चाप्यपत्नीकः शङ्करो भगवान्प्रभुः॥ ४८ ॥
विश्वास-प्रस्तुतिः
हिमाचलस्य दुहिता या च देवी भविष्यति
तस्याः सकाशाद्यः सूनुररण्याः पावको यथा॥ ४९ ॥
मूलम्
हिमाचलस्य दुहिता या च देवी भविष्यति
तस्याः सकाशाद्यः सूनुररण्याः पावको यथा॥ ४९ ॥
विश्वास-प्रस्तुतिः
जनयिष्यति तं प्राप्य तारको न भविष्यति
मयाऽभ्युपायः कथितो यथैष हि भविष्यति1.43.॥ ५० ॥
मूलम्
जनयिष्यति तं प्राप्य तारको न भविष्यति
मयाऽभ्युपायः कथितो यथैष हि भविष्यति1.43.॥ ५० ॥
विश्वास-प्रस्तुतिः
शेषं चाप्यस्य विभवं विभजध्वमनन्तरं
स्तोककालं प्रतीक्षध्वं निर्विशङ्केन चेतसा॥ ५१ ॥
मूलम्
शेषं चाप्यस्य विभवं विभजध्वमनन्तरं
स्तोककालं प्रतीक्षध्वं निर्विशङ्केन चेतसा॥ ५१ ॥
विश्वास-प्रस्तुतिः
इत्युक्तास्त्रिदशास्तेन साक्षात्कमलयोनिना
जग्मुस्ते प्रणिपत्येशं यथायोगं दिवौकसः॥ ५२ ॥
मूलम्
इत्युक्तास्त्रिदशास्तेन साक्षात्कमलयोनिना
जग्मुस्ते प्रणिपत्येशं यथायोगं दिवौकसः॥ ५२ ॥
विश्वास-प्रस्तुतिः
ततो यातेषु देवेषु ब्रह्मा लोकपितामहः
निशां सस्मार भगवांस्तां देवीं पूर्वसम्भवां॥ ५३ ॥
मूलम्
ततो यातेषु देवेषु ब्रह्मा लोकपितामहः
निशां सस्मार भगवांस्तां देवीं पूर्वसम्भवां॥ ५३ ॥
विश्वास-प्रस्तुतिः
ततो भगवती रात्रिरुपतस्थे पितामहं
तां विविक्ते समालोक्य ब्रह्मोवाच विभावरीम्॥ ५४ ॥
मूलम्
ततो भगवती रात्रिरुपतस्थे पितामहं
तां विविक्ते समालोक्य ब्रह्मोवाच विभावरीम्॥ ५४ ॥
विश्वास-प्रस्तुतिः
ब्रह्मोवाच-
विभावरि महत्कार्यं देवानां समुपस्थितं
तत्कर्तव्यं त्वया देवि शृणु कार्यस्य निश्चयं॥ ५५ ॥
मूलम्
ब्रह्मोवाच-
विभावरि महत्कार्यं देवानां समुपस्थितं
तत्कर्तव्यं त्वया देवि शृणु कार्यस्य निश्चयं॥ ५५ ॥
विश्वास-प्रस्तुतिः
तारकोनाम दैत्येन्द्रः सुरशत्रुरनिर्जितः
तस्या भवाय भगवान्जनयिष्यति चेश्वरः॥ ५६ ॥
मूलम्
तारकोनाम दैत्येन्द्रः सुरशत्रुरनिर्जितः
तस्या भवाय भगवान्जनयिष्यति चेश्वरः॥ ५६ ॥
विश्वास-प्रस्तुतिः
सुतं स भविता तस्य तारकस्यान्तकः किल
शङ्करस्याभवत्पत्नी सती दक्षसुता तु या ॥ ५७ ॥
मूलम्
सुतं स भविता तस्य तारकस्यान्तकः किल
शङ्करस्याभवत्पत्नी सती दक्षसुता तु या ॥ ५७ ॥
विश्वास-प्रस्तुतिः
सा पितुः कुपिता देवी कस्मिंश्चित्कारणान्तरे
भवित्री हिमशैलस्य दुहिता लोकभाविनी॥ ५८ ॥
मूलम्
सा पितुः कुपिता देवी कस्मिंश्चित्कारणान्तरे
भवित्री हिमशैलस्य दुहिता लोकभाविनी॥ ५८ ॥
विश्वास-प्रस्तुतिः
विरहेण हरस्तस्या मत्वा शून्यं जगत्त्रयं
स तस्य हिमशैलस्य कन्दरे सिद्धसेविते॥ ५९ ॥
मूलम्
विरहेण हरस्तस्या मत्वा शून्यं जगत्त्रयं
स तस्य हिमशैलस्य कन्दरे सिद्धसेविते॥ ५९ ॥
विश्वास-प्रस्तुतिः
प्रतीक्षमाणस्तज्जन्म किञ्चित्कालं निवत्स्यति
तयोः सुतप्ततपसोर्भविता यो महान्सुतः॥ ६० ॥
मूलम्
प्रतीक्षमाणस्तज्जन्म किञ्चित्कालं निवत्स्यति
तयोः सुतप्ततपसोर्भविता यो महान्सुतः॥ ६० ॥
विश्वास-प्रस्तुतिः
भविष्यति स दैत्यस्य तारकस्य विनाशकः
जातमात्रा च सा देवी स्वल्पसञ्ज्ञेव भामिनी॥ ६१ ॥
मूलम्
भविष्यति स दैत्यस्य तारकस्य विनाशकः
जातमात्रा च सा देवी स्वल्पसञ्ज्ञेव भामिनी॥ ६१ ॥
विश्वास-प्रस्तुतिः
विरहोत्कण्ठिता गाढं हरसङ्गमलालसा
तयोः सुतप्ततपसोः संयोगः स्याच्छुभावहः॥ ६२ ॥
मूलम्
विरहोत्कण्ठिता गाढं हरसङ्गमलालसा
तयोः सुतप्ततपसोः संयोगः स्याच्छुभावहः॥ ६२ ॥
विश्वास-प्रस्तुतिः
ततस्ताभ्यां तु जनितः स्वल्पो वाक्कलहो भवेत्
ततस्तु संशयो भूयस्तारकस्य च दृश्यते॥ ६३ ॥
मूलम्
ततस्ताभ्यां तु जनितः स्वल्पो वाक्कलहो भवेत्
ततस्तु संशयो भूयस्तारकस्य च दृश्यते॥ ६३ ॥
विश्वास-प्रस्तुतिः
तयोः संयुक्तयोस्तस्मात्सुरतासक्तिकारणे
विघ्नं त्वया विधातव्यं यथा ताभ्यां तथा शृणु॥ ६४ ॥
मूलम्
तयोः संयुक्तयोस्तस्मात्सुरतासक्तिकारणे
विघ्नं त्वया विधातव्यं यथा ताभ्यां तथा शृणु॥ ६४ ॥
विश्वास-प्रस्तुतिः
गर्भस्थमेवतन्मातुः स्वेन रूपेण सञ्ज्ञया
ततो विहस्य शर्वस्तां विषण्णो नर्मपूर्वकं॥ ६५ ॥
मूलम्
गर्भस्थमेवतन्मातुः स्वेन रूपेण सञ्ज्ञया
ततो विहस्य शर्वस्तां विषण्णो नर्मपूर्वकं॥ ६५ ॥
विश्वास-प्रस्तुतिः
भर्त्सयिष्यति तां देवीं ततः सा कुपिता सती
प्रयास्यति तपश्चर्तुं ततः सा तपसा युता॥ ६६ ॥
मूलम्
भर्त्सयिष्यति तां देवीं ततः सा कुपिता सती
प्रयास्यति तपश्चर्तुं ततः सा तपसा युता॥ ६६ ॥
विश्वास-प्रस्तुतिः
जनयिष्यति तं शर्वादमितद्युतिमण्डलं
सम्भविष्यति हन्तासौ सुरारीणामसंशयम्॥ ६७ ॥
मूलम्
जनयिष्यति तं शर्वादमितद्युतिमण्डलं
सम्भविष्यति हन्तासौ सुरारीणामसंशयम्॥ ६७ ॥
विश्वास-प्रस्तुतिः
त्वयापि दानवा देवि हन्तव्या लोकदुर्जयाः
यावत्सुरेश्वरी देहसङ्क्रान्तगुणसञ्चया॥ ६८ ॥
मूलम्
त्वयापि दानवा देवि हन्तव्या लोकदुर्जयाः
यावत्सुरेश्वरी देहसङ्क्रान्तगुणसञ्चया॥ ६८ ॥
विश्वास-प्रस्तुतिः
तत्सङ्गमेन तावत्त्वं दैत्यान्हन्तुं न शक्यसे
एवं कृते तपस्तप्त्वा त्वया सर्वं करिष्यति॥ ६९ ॥
मूलम्
तत्सङ्गमेन तावत्त्वं दैत्यान्हन्तुं न शक्यसे
एवं कृते तपस्तप्त्वा त्वया सर्वं करिष्यति॥ ६९ ॥
विश्वास-प्रस्तुतिः
समाप्तनियमा देवि यदा चोमा भविष्यति
तदा स्वमेव सा रूपं शैलजा प्रतिपत्स्यते॥ ७० ॥
मूलम्
समाप्तनियमा देवि यदा चोमा भविष्यति
तदा स्वमेव सा रूपं शैलजा प्रतिपत्स्यते॥ ७० ॥
विश्वास-प्रस्तुतिः
तदा त्वयापि सहिता भवानी सा भविष्यति
रूपांशेन तु संयुक्ता उमायास्त्वं भविष्यसि॥ ७१ ॥
मूलम्
तदा त्वयापि सहिता भवानी सा भविष्यति
रूपांशेन तु संयुक्ता उमायास्त्वं भविष्यसि॥ ७१ ॥
विश्वास-प्रस्तुतिः
एकानंशेति लोकस्त्वां वरदे पूजयिष्यति
भेदैर्बहुविधाकारैः सर्वगां कामसाधिनीम्॥ ७२ ॥
मूलम्
एकानंशेति लोकस्त्वां वरदे पूजयिष्यति
भेदैर्बहुविधाकारैः सर्वगां कामसाधिनीम्॥ ७२ ॥
विश्वास-प्रस्तुतिः
ॐकारवक्त्रा गायत्री त्वमिति ब्रह्मवादिभिः
आक्रान्तैरूर्जिताकारा राजभिश्च महाभुजैः॥ ७३ ॥
मूलम्
ॐकारवक्त्रा गायत्री त्वमिति ब्रह्मवादिभिः
आक्रान्तैरूर्जिताकारा राजभिश्च महाभुजैः॥ ७३ ॥
विश्वास-प्रस्तुतिः
त्वं भूरिति विशां माता शूद्रैश्शैवेति पूजिता
क्षान्तिर्मुनीनामक्षोभ्या दया नियमिनामपि॥ ७४ ॥
मूलम्
त्वं भूरिति विशां माता शूद्रैश्शैवेति पूजिता
क्षान्तिर्मुनीनामक्षोभ्या दया नियमिनामपि॥ ७४ ॥
विश्वास-प्रस्तुतिः
त्वं महोपायसन्देहो नीतिर्नयविसर्पिणाम्
परिचित्तिस्त्वमर्थानां त्वमीहा प्राणिहृच्छया॥ ७५ ॥
मूलम्
त्वं महोपायसन्देहो नीतिर्नयविसर्पिणाम्
परिचित्तिस्त्वमर्थानां त्वमीहा प्राणिहृच्छया॥ ७५ ॥
विश्वास-प्रस्तुतिः
त्वं मुक्तिस्सर्वभूतानां त्वं गतिः सर्वदेहिनाम्
रतिस्त्वं रतचित्तानां प्रीतिस्त्वं हृदि देहिनाम्॥ ७६ ॥
मूलम्
त्वं मुक्तिस्सर्वभूतानां त्वं गतिः सर्वदेहिनाम्
रतिस्त्वं रतचित्तानां प्रीतिस्त्वं हृदि देहिनाम्॥ ७६ ॥
विश्वास-प्रस्तुतिः
त्वं कीर्तिः सत्यभूतानां त्वं शान्तिर्दुष्टकर्मणाम्
त्वं भ्रान्तिः सर्वभूतानां त्वं गतिः क्रतुयाजिनाम्॥ ७७ ॥
मूलम्
त्वं कीर्तिः सत्यभूतानां त्वं शान्तिर्दुष्टकर्मणाम्
त्वं भ्रान्तिः सर्वभूतानां त्वं गतिः क्रतुयाजिनाम्॥ ७७ ॥
विश्वास-प्रस्तुतिः
जलधीनां महावेला त्वं च लीलाविलासिनी
प्रियकण्ठग्रहानन्ददायिनी त्वं विभावरी॥ ७८ ॥
मूलम्
जलधीनां महावेला त्वं च लीलाविलासिनी
प्रियकण्ठग्रहानन्ददायिनी त्वं विभावरी॥ ७८ ॥
विश्वास-प्रस्तुतिः
इत्यनेकविधैर्देवी रूपैर्लोके त्वमर्चिता
ये त्वां स्तोष्यन्ति वरदे पूजयिष्यन्ति चापि ये॥ ७९ ॥
मूलम्
इत्यनेकविधैर्देवी रूपैर्लोके त्वमर्चिता
ये त्वां स्तोष्यन्ति वरदे पूजयिष्यन्ति चापि ये॥ ७९ ॥
विश्वास-प्रस्तुतिः
ते सर्वकामानाप्स्यन्ति नियता नात्र संशयः
इत्युक्ता तु निशा देवी तथेत्युक्त्वा कृताञ्जलि॥ ८० ॥
मूलम्
ते सर्वकामानाप्स्यन्ति नियता नात्र संशयः
इत्युक्ता तु निशा देवी तथेत्युक्त्वा कृताञ्जलि॥ ८० ॥
विश्वास-प्रस्तुतिः
जगाम त्वरिता तूर्णं गृहं हिमगिरेर्महत्
तत्रासीनां महाहर्म्ये रत्नभित्तिसमाश्रयाम्॥ ८१ ॥
मूलम्
जगाम त्वरिता तूर्णं गृहं हिमगिरेर्महत्
तत्रासीनां महाहर्म्ये रत्नभित्तिसमाश्रयाम्॥ ८१ ॥
विश्वास-प्रस्तुतिः
ददर्श मेनामापाण्डुच्छविवक्त्रसरोरुहाम्
किञ्चित्क्षामां मुखोदग्रस्तनभारावनामिताम्॥ ८२ ॥
मूलम्
ददर्श मेनामापाण्डुच्छविवक्त्रसरोरुहाम्
किञ्चित्क्षामां मुखोदग्रस्तनभारावनामिताम्॥ ८२ ॥
विश्वास-प्रस्तुतिः
महौषधिगणाबद्ध मन्त्रराजनिषेविताम्
उदूढकनकोन्नद्ध जीवरक्षा मनोरमाम्॥ ८३ ॥
मूलम्
महौषधिगणाबद्ध मन्त्रराजनिषेविताम्
उदूढकनकोन्नद्ध जीवरक्षा मनोरमाम्॥ ८३ ॥
विश्वास-प्रस्तुतिः
मणिदीपगणज्योतिर्महालोकप्रकाशिते
प्रकीर्णबहुसिद्धार्थमनोज्ञपरिचारके॥ ८४ ॥
मूलम्
मणिदीपगणज्योतिर्महालोकप्रकाशिते
प्रकीर्णबहुसिद्धार्थमनोज्ञपरिचारके॥ ८४ ॥
विश्वास-प्रस्तुतिः
शुद्धचीनांशुकच्छत्र भूशय्यास्तरणोज्ज्वले
धूपामोदमनोरम्ये सज्ज सर्वोपयोगिके॥ ८५ ॥
मूलम्
शुद्धचीनांशुकच्छत्र भूशय्यास्तरणोज्ज्वले
धूपामोदमनोरम्ये सज्ज सर्वोपयोगिके॥ ८५ ॥
विश्वास-प्रस्तुतिः
ततः क्रमेण दिवसे गते दूरं विभावरी
विजृम्भितसुखोदर्के ततो मेना महागृहे॥ ८६ ॥
मूलम्
ततः क्रमेण दिवसे गते दूरं विभावरी
विजृम्भितसुखोदर्के ततो मेना महागृहे॥ ८६ ॥
विश्वास-प्रस्तुतिः
प्रसुप्तप्रायपुरुषे निद्राभूतोपचारके
स्फुटालोके शशभृति भ्रान्तरात्रिविहङ्गमे॥ ८७ ॥
मूलम्
प्रसुप्तप्रायपुरुषे निद्राभूतोपचारके
स्फुटालोके शशभृति भ्रान्तरात्रिविहङ्गमे॥ ८७ ॥
विश्वास-प्रस्तुतिः
रजनीचर सञ्चारभूतैरावृत चत्वरे
गाढकण्ठग्रहालग्ने शुभगोष्टजने ततः॥ ८८ ॥
मूलम्
रजनीचर सञ्चारभूतैरावृत चत्वरे
गाढकण्ठग्रहालग्ने शुभगोष्टजने ततः॥ ८८ ॥
विश्वास-प्रस्तुतिः
किञ्चिदाकुलतां प्राप्ते मेना नेत्राम्बुजद्वये
आविवेश मुखे रात्रिः सुखमद्भुतसङ्गमा॥ ८९ ॥
मूलम्
किञ्चिदाकुलतां प्राप्ते मेना नेत्राम्बुजद्वये
आविवेश मुखे रात्रिः सुखमद्भुतसङ्गमा॥ ८९ ॥
विश्वास-प्रस्तुतिः
उन्मादाय जगन्मातुः क्रमेण जठरान्तरे
आविवेशातुलं जन्म मन्यमाना कदा तु वै॥ ९० ॥
मूलम्
उन्मादाय जगन्मातुः क्रमेण जठरान्तरे
आविवेशातुलं जन्म मन्यमाना कदा तु वै॥ ९० ॥
विश्वास-प्रस्तुतिः
अरञ्जयद्गृहं देव्या गुहारण्ये विभावरी
ततो जगत्या निर्वाणहेतुर्हिमगिरिप्रिया॥ ९१ ॥
मूलम्
अरञ्जयद्गृहं देव्या गुहारण्ये विभावरी
ततो जगत्या निर्वाणहेतुर्हिमगिरिप्रिया॥ ९१ ॥
विश्वास-प्रस्तुतिः
ब्राह्मे मुहूर्ते सुभगे प्रासूयत गुहारणिं
तस्यां तु जायमानायां जन्तवः स्थाणुजङ्गमाः॥ ९२ ॥
मूलम्
ब्राह्मे मुहूर्ते सुभगे प्रासूयत गुहारणिं
तस्यां तु जायमानायां जन्तवः स्थाणुजङ्गमाः॥ ९२ ॥
विश्वास-प्रस्तुतिः
अभवन्सुखिनः सर्वे सर्वलोकनिवासिनः
नारकाणामपि तदा सुखं स्वर्गसमं महत्॥ ९३ ॥
मूलम्
अभवन्सुखिनः सर्वे सर्वलोकनिवासिनः
नारकाणामपि तदा सुखं स्वर्गसमं महत्॥ ९३ ॥
विश्वास-प्रस्तुतिः
अभवत्क्रूरसत्वानां चेतः शान्तं च देहिनाम्
ज्योतिषामपि तेजस्तु सुतरां चाभवत्तदा॥ ९४ ॥
मूलम्
अभवत्क्रूरसत्वानां चेतः शान्तं च देहिनाम्
ज्योतिषामपि तेजस्तु सुतरां चाभवत्तदा॥ ९४ ॥
विश्वास-प्रस्तुतिः
वनाश्रिताश्चोषधयः स्वादवन्ति फलानि च
गन्धवन्ति च माल्यानि विमलं च नभोऽभवत्॥ ९५ ॥
मूलम्
वनाश्रिताश्चोषधयः स्वादवन्ति फलानि च
गन्धवन्ति च माल्यानि विमलं च नभोऽभवत्॥ ९५ ॥
विश्वास-प्रस्तुतिः
मारुतश्च सुखस्पर्शो दिशश्च सुमनोहराः
ॠतूद्भूतफलायोग परिपाकगुणोज्ज्वला॥ ९६ ॥
मूलम्
मारुतश्च सुखस्पर्शो दिशश्च सुमनोहराः
ॠतूद्भूतफलायोग परिपाकगुणोज्ज्वला॥ ९६ ॥
विश्वास-प्रस्तुतिः
अभवत्पृथिवी देवी शालिमालाकुलापि च
तपांसि दीर्घचीर्णानि मुनीनां भावितात्मनाम्॥ ९७ ॥
मूलम्
अभवत्पृथिवी देवी शालिमालाकुलापि च
तपांसि दीर्घचीर्णानि मुनीनां भावितात्मनाम्॥ ९७ ॥
विश्वास-प्रस्तुतिः
तस्मिन्गतानि साफल्यं काले निर्मलचेतसाम्
विस्मृतानि च शास्त्राणि प्रादुर्भावं प्रपेदिरे॥ ९८ ॥
मूलम्
तस्मिन्गतानि साफल्यं काले निर्मलचेतसाम्
विस्मृतानि च शास्त्राणि प्रादुर्भावं प्रपेदिरे॥ ९८ ॥
विश्वास-प्रस्तुतिः
प्रभावस्तीर्थमुख्यानां तदा पुण्यतमस्त्वभूत्
अन्तरिक्षेऽमराश्चासन्विमानेषु सहस्रशः॥ ९९ ॥
मूलम्
प्रभावस्तीर्थमुख्यानां तदा पुण्यतमस्त्वभूत्
अन्तरिक्षेऽमराश्चासन्विमानेषु सहस्रशः॥ ९९ ॥
समहेन्द्रजलाधीश वायु वह्नि पुरोगमाः
पुष्पवृष्टिं प्रमुमुचुस्तस्मिंस्तुहिन भूधरे1.43.१००
जगुर्गन्धर्वमुख्याश्च ननृतुश्चाप्सरोगणाः
मेरुप्रभृतयश्चापि मूर्तिमन्तो महाचलाः१०१
तस्मिन्महोत्सवे प्राप्ते दिव्याः प्रसृतपाणयः
सागरास्सरितश्चैव समाजग्मुश्च सर्वशः१०२
हिमशैलोऽभवल्लोके तदा सर्वैश्चराचरैः
संसेव्यश्चाधिगम्यश्च साश्रयश्चाचलोत्तमः१०३
अनुभूयोत्सवं देवा जग्मुः स्वान्निलयास्तदा
देवनागेन्द्रगन्धर्वशैललीलावती गणैः१०४
हिमशैलसुता देवी त्वहम्पूर्विकया ततः
क्रमेण बुद्धिमानीता विद्याञ्चानलसैर्बुधैः१०५
क्रमेण रूपसौभाग्यप्रबोधैर्भुवनत्रये
सम्पूर्णलक्षणा जाता हिमालयसुता तथा१०६
एतस्मिन्नन्तरे शक्रो नारदं देवसम्मतम्
देवर्षिमथ सस्मार कार्यसाधनतत्परः१०७
स तु शक्रस्य विज्ञाय काङ्क्षितं भगवांस्तदा
आजगाम मुदा युक्तो महेन्द्रस्य निवेशनम्१०८
तं तु दृष्ट्वा सहस्राक्षः समुत्थाय महासनात्
यथार्हेण तु पाद्येन पूजयामास वासवः१०९
शक्रप्रणिहितां पूजां प्रतिगृह्य यथाविधि
नारदः कुशलं देवमपृच्छत्पाकशासनम्११०
पृष्टे च कुशले शक्रः प्रोवाच वचनं प्रभुः
इन्द्र उवाच-
कुशलस्याङ्कुरस्तावत्संवृत्तो भुवनत्रये१११
तत्फलोद्भवसम्पत्तौ त्वं मया विदितो मुने
वेत्स्येव तत्समस्तं त्वं तथापि परिचोदितः११२
निर्वृतिं परमां याति निवेद्यार्थं सुहृज्जने
तद्यथाशैलजा देवी योगं यायात्पिनाकिना११३
शीघ्रं तथोद्यमः सर्वैरस्मत्पक्षैर्विधीयताम्
अवगम्यार्थमखिलं तत आमन्त्र्य नारदः११४
शीघ्रं जगाम भगवान्हिमशैलनिकेतनम्
तत्र द्वारे स विप्रेन्द्रश्चित्रवेत्रलताकुले११५
वन्दितो हिमशैलेन निर्गतेन पुरो मुनिः
सह प्रविश्य भवनं भुवो भूषणतां गतम्११६
निवेदिते स्वयं हैमे हिमशैलेन विस्तृते
महासने मुनिवरो निषसादातुलद्युतिः११७
यथार्हमर्घ्यं पाद्यं च शैलस्तस्मै न्यवेदयेत्
मुनिः स प्रतिजग्राह तमर्घ्यं विधिवत्तदा११८
गृहीतार्घम्मुनिश्रेष्ठमपृच्छत्श्लक्ष्णया गिरा
कुशलं तपसः शैलः शनैः फुल्लाननाम्बुजः११९
मुनिरप्यद्रिराजानमपृच्छत्कुशलं तदा
नारद उवाच-
अहो धर्मोचितस्तेऽस्ति सन्निवेशो महागिरे१२०
पृथुत्वं मनसा तुल्यं कन्दराणां तवानघ
गुरुत्वं ते गुणौघानां स्थावरादतिरिच्यते१२१
प्रसन्नता च तोयस्य मुनिभ्यश्चाधिका तव
न लक्षयामः शैलेन्द्र कुत्राविनयिता स्थिता१२२
नाना तपोभिर्मुनिभिर्ज्वलनार्कसमप्रभैः
पावनैः पावितो नित्यं त्वं कन्दरसमाश्रयैः१२३
अवमत्य विमानानि स्वर्गवासविरागिणः
पितुर्गृहइवासीना देवगन्धर्वकिन्नराः१२४
अहो धन्योसि शैलेन्द्र यस्य ते कन्दरं हरः
अध्यास्ते लोकनाथो हि रामध्यानपरायणः१२५
इत्युक्तवति देवर्षौ नारदे सादरं गिरा
हिमशैलस्य महिषी मेना मुनिदिदृक्षया१२६
अनुयाता दुहित्रा तु स्वल्पालिपरिचारिका
लज्जाप्रणयनम्राङ्गी प्रविवेश निकेतनम्१२७
यत्र स्थितो मुनिवरः शैलेन सहितो वशी
तं दृष्ट्वा तेजसो राशिं मुनिं शैलप्रिया तदा१२८
ववन्दे गूढवदना पाणिपद्मकृताञ्जलि
तां विलोक्य महाभागां देवर्षिरमितद्युतिः१२९
आशीर्भिरमृतोद्गाररूपाभिस्तां व्यवर्द्धयत्
ततो विस्मितचित्ता तु हिमवद्गिरिपुत्रिका१३०
एक्षिष्ट नारदं देवी मुनिमद्भुतरूपिणम्
एहि वत्सेति साप्युक्ता ॠषिणा स्निग्धया गिरा१३१
कण्ठे गृहीत्वा पितरमङ्के सा तु समाविशत्
उवाच माता तां देवीमभिवन्दय पुत्रिके१३२
भगवन्तं तपोधन्यं पतिमाप्स्यसि सम्मतम्
इत्युक्ता तु ततो मात्रा वस्त्रेण पिहितानना१३३
किञ्चित्कम्पितमूर्द्धा तु वाक्यं नोवाच किञ्चन
ततः पुनरुवाचेदं वाक्यं माता सुतां तदा१३४
वत्से वन्दय देवर्षिं ततो दास्यामि ते शुभम्
रत्नक्रीडनकं रम्यं स्थापितं यच्चिरं मया१३५
इत्युक्ता सा ततो वेगादुद्गत्य चरणौ तदा
ववन्दे मूर्ध्नि सन्धाय पाणिपङ्कजकुड्मलम्१३६
कृते तु वन्दने तस्या माता सखिमुखेन तु
चोदयामास शनकैस्तस्याः सौभाग्यदर्शिताम्१३७
शरीरलक्षणानां च परिज्ञानाय कौतुकात्
स्त्रीस्वभावात्स्वदुहितुश्चिन्तां हृदि समुद्वहन्१३८
ज्ञात्वा तदिङ्गितं शैलो महिष्याहृदयेन तु
अनुदीर्णाकृतिर्मेने रम्यमेतदुपस्थितम्१३९
चोदितः शैलमहिषी सख्या मुनिवरस्ततः
स्मिताननो महाभागो वाक्यं प्रोवाच नारदः१४०
न जातोऽस्याः पतिर्भद्रे लक्षणैश्च विवर्जितः
उत्तानहस्ता सततं चरणैर्व्यभिचारिभिः१४१
सुच्छायास्या भविष्येयं किमन्यद्बहु भाष्यते
श्रुत्वैतत्सम्भ्रमाविष्टो ध्वस्तधैर्यो हिमाचलः१४२
नारदं प्रत्युवाचाथ साश्रुकण्ठो महागिरिः
हिमवानुवाच-
संसारस्यातिदोषस्य दुर्विज्ञेया गतिर्यतः१४३
सृष्ट्या चावश्यभाविन्या केनाप्यतिशयात्मना
कर्त्रा प्रणीता मर्यादा स्थिता संसारिणामियम्१४४
यो जायते हि यद्बीजाज्जनितुः सोर्थसाधकः
जनिता चापि जातस्य न कश्चिदिति च स्फुटम्१४५
स्वकर्मणैव जायन्ते विवधा भूतजातयः
अण्डजोह्यण्डजाज्जातः पुनर्जायेत मानवः१४६
मानुषोपि सरीसृप्यां मानुषत्वेन जायते
तत्रापि जातौ श्रेष्ठायां धर्मस्योत्कर्षणेन तु१४७
अपुत्रजन्मनः शेषाः प्राणिनः समवस्थिताः
मनुजास्तत्र सुतरां नयेन सहधर्मिणः१४८
क्रमेणाश्रमसम्प्राप्तिर्ब्रह्मचारिव्रतादनु
तस्य कर्तुर्नियोगेन संसारो येन वर्धितः१४९
संसारस्य हि नोत्पत्तिः सर्वे स्युर्यदि निर्गृहाः
कर्त्रा तु शास्त्रेषु सदा सुतलाभः प्रशंसितः1.43.१५०
प्राणिनां मोहनार्थाय नरकत्राणकारणात्
स्त्रिया विरहिता सृष्टिर्जन्तूनां नोपपद्यते१५१
स्त्रीजातिस्तु प्रकृत्यैव कृपणा दैन्यभागिनी
शास्त्रालोचनसामर्थ्याद्दूषितं तासु कर्तृणा१५२
तस्यां नोपरिभावज्ञा भवेदेति च वेधसा
शास्त्रेषूक्तमसन्दिग्धं बहुवारं महाफलं१५३
दशपुत्रसमा कन्या यापि स्याच्छीलवर्जिता
वाक्यमेतत्फलभ्रष्टं पुंसां ग्लानिकरं फलं१५४
कन्या हि कृपणा शोच्या पितुर्दुःखविवर्द्धिनी
यापि स्यात्पूर्णसर्वार्था पतिपुत्रसमन्विता१५५
किं पुनर्दुर्भगा हीना पतिपुत्रधनादिभिः
त्वं चोक्तवान्सुता या मे शरीरे दोषसङ्ग्रहम्१५६
अहो मुह्यामि शुष्यामि ग्लामि सीदामि नारद
अयुक्तमपि वक्तव्यमप्राप्यमपि साम्प्रतम्१५७
अनुग्रहाय मे छिन्धि दुःखं कन्याश्रयं मुने
परिच्छिन्नेप्यसन्दिग्धे मनः परिभवाश्रयात्१५८
तृष्णा मुष्णाति निष्णातं फललोभाश्रयात्पुनः
स्त्रीणां हि परमं जन्म कुलानामुभयात्मनाम्१५९
इहामुत्र सुखायोक्तं सत्पतिप्राप्तिसञ्ज्ञितम्
दुर्लभत्वात्सतः स्त्रीणां विगुणोपि पतिः किल१६०
न प्राप्यते विना पुण्यैः पतिर्नार्याः कदाचन
यतो निस्साधनो धर्मः परिणामोत्थिता रतिः१६१
धनं जीवितपर्यन्तं पत्यौ नार्याः प्रतिष्ठितम्
निर्द्धनो दुर्मुखो मूर्खः सर्वलक्षणवर्जितः१६२
दैवतं परमं नार्याः पतिरुक्तः सदैव हि
त्वया देवर्षिणा प्रोक्तं न जातोऽस्याः पतिः किल१६३
एतद्दौर्भाग्यमतुलमसङ्ख्यं च दुरुद्वहम्
चराचरे भूतसर्गे चिन्ता सा व्यापिनी मुने१६४
स न जात इति श्रुत्वा ममेदं व्याकुलं मनः
मनुष्यदेवजातीनां शुभाशुभनिवेदकम्१६५
लक्षणं हस्तपादाभ्यां लक्षणं विहितं किल
सेयमुत्तानहस्तेति त्वयोक्ता मुनिपुङ्गव१६६
उत्तानहस्तता प्रोक्ता याचतामेव नित्यका
शुभोदयानां धन्यानां न कदाचित्प्रयच्छताम्१६७
सुच्छाययास्याश्चरणौ त्वयोक्तौ व्यभिचारिणौ
तत्रापि श्रेयसी ह्याशा मुने न प्रतिभाति नः१६८
शरीरलक्षणाश्चान्ये पृथक्फलनिवेदिनः
इत्युक्त्वा विरते शैले महादुःखविचारिणि१६९
स्मितपूर्वमुवाचेदं नारदो देवपूजितः
नारद उवाच-
हर्षस्थाने च महति त्वया दुःखं निरुच्यते१७०
अपरिच्छिन्नवाक्यार्थो मोहं यासि महागिरे
इमां शृणु गिरं मत्तो रहस्यपरिनिष्ठिताम्१७१
समाहितो महाशैल मयोक्तस्य विचारणाम्
न जातोस्याः पतिर्देव्या यन्मयोक्तं हिमाचल१७२
स न जातो महादेवो भूतभव्यभवोद्भवः
शरण्यः शाश्वतः शास्ता शङ्करः परमेश्वरः१७३
ब्रह्मरुद्रेन्द्रमुनयो गर्भजन्मजरार्दिताः
तस्य ते परमेशस्य सर्वे क्रीडनका गिरे१७४
ब्रह्माण्डतस्तदिच्छातः सम्भूतो भुवनप्रभुः
आत्मनो न विनाशोस्ति स्थावरान्तेपि भूधर१७५
संसारे जायमानस्य म्रियमाणस्य देहिनः
नश्यते देह एवात्र नात्मनो नाश उच्यते१७६
ब्रह्मादिस्थावरान्तोऽयं संसारो यः प्रकीर्तितः
स जन्ममृत्युदुःखार्तो ह्यनिशं परिवर्तते१७७
महादेवोऽचलःस्थाणुर्न जातो जनकोऽजरः
भविष्यति पतिः सोऽस्या जगन्नाथो निरामयः१७८
यदुक्तं च मया देवी लक्षणैर्वर्जिता तव
शृणु तस्यापि वाक्यस्य सम्यक्त्वेन विचारणम्१७९
लक्षणं दैविको ह्यङ्कः शरीरावयवाश्रयः
स चायुर्धनसौभाग्यपरिणामप्रकाशकः१८०
अनन्तस्याप्रमेयस्य सौभाग्यस्य तु भूधर
नैवाङ्को लक्षणाकारः शरीरे संविधीयते१८१
अतोऽस्या लक्षणं गात्रे शैल नास्ति महामते
यच्चाहमुक्तवानस्या उत्तानकरता सदा१८२
उत्तानो वरदः पाणिरेष देव्याः सदैव तु
सुरासुरमुनिव्रातवरदात्री भविष्यति१८३
यच्च प्रोक्तं मया पादौ सुच्छायौ व्यभिचारिणौ
मत्तः शृणु त्वमस्यापि व्याख्योक्तिं शैलसत्तम१८४
चरणौ पद्मसङ्काशौ स्वच्छावस्या नखोज्वलौ
सुरासुराणां नमतां किरीटमणिकान्तिभिः१८५
विचित्रवर्णैः पश्यद्भिः सुच्छायौ प्रतिबिम्बितौ
एषा भार्या जगद्भर्तुर्वृषाङ्कस्य महीधर१८६
जननी सर्वलोकस्य सम्भूताभूतभाविनी
शिवेयं पावनायैव त्वत्क्षेत्रे पावनद्युतिः१८७
तद्यथाशीघ्रमेवैषा योगं यायात्पिनाकिनः
तथा विधेयं विधिवत्त्वया शैलेन्द्रसत्तम१८८
अस्त्यत्र हि महत्कार्यं देवानां हिमभूधर
एवं श्रुत्वा तु शैलेन्द्रो नारदात्सर्वमेव हि१८९
स्वमात्मानं पुनर्जातं मेने मेनापतिस्तदा
उवाच चापि संहृष्टो नारदं तु हिमाचलः१९०
दुस्तरान्नरकाद्घोरादुद्धृतोस्मि त्वया विभो
पातालादहमुद्धृत्य सप्तलोकाधिपः कृतः१९१
हिमाचलोस्मि विख्यातस्त्वया मुनिवराधुना
हिमाचलाच्छतगुणां प्रापितोस्मि समुन्नतिं१९२
आनन्दादेव चाहारि हृदयं मे महामुने
नाध्यवस्यति कृत्यानां विभागप्रविचारणम्१९३
भवद्विधानां नियतममोघं दर्शनं मुने
भवद्भिरेव हि प्रोक्तं निवासायात्मरूपिणाम्१९४
मुनीनां देवतानां च स्वयं कर्तास्मि कल्मषम्
तथापि वस्तुन्येकस्मिन्नाज्ञा मे सम्प्रदीयताम्१९५
इत्युक्तवति शैलेन्द्रे स तदा हर्षनिर्भरः
उवाच नारदो वाक्यं कृतं सर्वमिति प्रभो१९६
सुरकार्ये स एवार्थस्तवापि सुमहत्तरः
इत्युक्त्वा नारदः शीघ्रं जगाम त्रिदिवं ततः१९७
स गत्वा देवभवनं महेन्द्रं सन्ददर्श ह
ततोनुरूपे स मुनिरुपविष्टो महासने१९८
पृष्टः शक्रेण प्रोवाच गिरिजासंश्रयां कथाम्
नारद उवाच-
यन्मह्यमुक्तं कर्तव्यं तन्मया कृतमेव हि१९९
किन्तु पञ्चशरस्येषु गोचरत्वमपेक्षितम्
इत्युक्तो देवराजस्तु मुनिना कार्यदर्शिना1.43.२००
चूताङ्कुरास्त्रं सस्मार भगवान्पाकशासनः
सस्मृतस्तु तदा क्षिप्रं सहस्राक्षेण धीमता२०१
उपतस्थे रतियुतः सविलासो झषध्वजः
प्रादुर्भूतं च तं दृष्ट्वा शक्रः प्रोवाच मन्मथम्२०२
शक्र उवाच-
उपदेशेन बहुना किं त्वां प्रति रतिप्रिय
मनोभवोसि तेन त्वं वेत्सि भूतमनोगतम्२०३
तद्यथानुक्रमं तु त्वं कुरु नाकसदां प्रियम्
शङ्करं योजय क्षिप्रं गिरिपुत्र्या मनोभव२०४
संयुक्तो मधुनानेन गच्छ रत्या सहायवान्
इत्युक्तो मदनस्तेन शक्रेण स्वार्थसिद्धये२०५
प्रोवाच पञ्चबाणोथ वाक्यं भीतः शतक्रतुम्
काम उवाच-
अनया देव सामग्र्या मुनिदानवभीमया२०६
दुःसाध्यश्शङ्करो देवः किं न वेत्सि जगत्प्रभो
तस्य देवस्य वेत्थ त्वं कारणं पदमव्ययम्२०७
प्रायः प्रसादे कोपेपि सर्वं हि महतां महत्
सर्वोपभोगसारं हि सौदर्यं स्वर्गसम्भवम्२०८
विशेषं काङ्क्षतां शक्र सामान्याद्भ्रंशनं फलात्
श्रुत्वैतद्वचनं शक्रस्तमुवाचामरैर्युतः२०९
शक्र उवाच-
वयं प्रमाणं ते तत्र रतिकान्त न संशयः
सन्दंशेन विना शक्तिरयस्कारस्य नेष्यते२१०
कस्यचिच्च क्वचिद्दृष्टं सामर्थ्यं न तु सर्वतः
इत्युक्तः प्रययौ कामः सखायं मधुमाश्रितः२११
रतियुक्तो जगामाशु प्रस्थं तुहिनभूभृतः
स तु प्राप्याकरोच्चिन्तां कार्यस्योपायपूर्विकाम्२१२
महात्मानो हि निष्कम्पा मनस्तेषां सुदुर्जयम्
तदादावेव सङ्क्षोभ्य नेत्थं तस्य जयो भवेत्२१३
संसिद्धिः प्रायशश्चैव पूर्वं संशोध्य मानसम्
कथमेवंविधैर्भावैर्द्वेषानुगमनं विना२१४
क्रोधः क्रूरतरात्सङ्गाद्भीषणेर्ष्या महासखी
चापल्यान्मूर्ध्नि विध्वस्त धैर्याधारमहाबला२१५
तामस्य विनियोक्ष्यामि मनसो विकृतिं पुरः
पिधाय धैर्यद्वाराणि सन्तोषमपकृष्य च२१६
अवगन्तुं हि मां तत्र न कश्चिदिह पण्डितः
विकल्पमात्रसंस्थानं विरूपाक्षमनोभवम्२१७
प्रविश्याथ क्रियारम्भी गम्भीरावर्तदुस्तरः
भविष्यामि हरस्याहं तपःस्थस्य स्थिरात्मनः२१८
इन्द्रियग्राममावृत्य रम्यसाधनसंविधिः
चिन्तयित्वेति मदनो भूतभर्तुस्तदाश्रमम्२१९
जगाम जगतीसारं सरलद्रुम वेदिकम्
शान्तसत्वसमाकीर्णमचलं प्राणिसङ्कुलम्२२०
नानापुष्पलताजालं सानुसंस्थगणेश्वरम्
निर्व्यग्रवृषभोद्घुष्टं नीलशाद्वलसानुकम्२२१
तत्रापश्यत्त्रिनेत्रस्य रम्यङ्कं चिद्द्वितीयकम्
वीरकं वीरलोकेशमीशानसदृशद्युतिम्२२२
पक्वं कुङ्कुमकिञ्जल्कपुञ्जपिङ्गजटासटम्
वेत्रपाणितमव्यग्रमुग्रं चाभद्रभूषणम्२२३
ततो निमीलितोन्निद्र पद्मपत्रान्तलोचनम्
प्रेक्षमाणमृजुस्थानं नासावंशाग्रगोचरम्२२४
अतीवरम्यसिंहेन्द्र चर्मलम्बोत्तरीयकम्
श्रवणाहिफणोन्मुक्त निश्वासानलपिङ्गलं२२५
प्रेङ्खत्कपोलपर्यन्त चुम्बिलम्बिजटाचयम्
कृतवासुकिपर्यन्त नाभिमूलनिवेशितम्२२६
ब्रह्माञ्जलिस्थनासाग्र निबद्धोरगभूषणम्
ददर्श शङ्करं कामः क्रमप्राप्तान्तिकः शनैः२२७
ततो भ्रमरझङ्कारमालम्ब्य द्रुमसानुगम्
प्रविष्टः कर्णरन्ध्रेण भवस्य मदनो मनः२२८
शङ्करस्तमथाकर्ण्य मधुरं मदनाश्रयम्
सस्मार दक्षतनयां दयितां रन्तुमानसः२२९
ततः शिवस्य शनकैस्तिरोधा याति निर्मला
समाधिभावना तस्थौ लक्ष्य प्रत्यक्षरूपिणी२३०
ततस्तन्मयतां यातः प्रत्यूह पिहिताशयः
विवेश विबुधाधीशो विकृतिं मदनात्मिकाम्२३१
ईषत्क्रोधसमाविष्टो धैर्यमालम्ब्य धूर्जटिः
निरस्यमदनंस्थित्वायोगमायासमावृतः२३२
स तया माययाविष्टो जज्वाल मदनस्ततः
इच्छाशरीरो दुर्ज्ञेयो दोषावासो महाशयः२३३
हृदयान्निर्गतः सोथ वासनाव्यसनात्मकः
बहिस्थलं समासाद्य उपतस्थे झषध्वजः२३४
अनुयातो हि साह्येन मित्रेण मधुना सह
सहकारतरोर्दृष्ट्वा मन्दमारुतनिर्धुतं२३५
स्तबकं मदनो रम्यं हरवक्षसि सत्वरं
मुमोच मोहनं नाम मार्गणं मकरध्वजः२३६
स तस्य हृदये शुद्धे नामशाली महाशरः
पपात परुषः प्रांशुः पुष्पबाणो विमोहनः२३७
ततः करणसन्दोहे विद्धे तु हृदये भवः
बभूव भूतपो कम्प्य धैर्योपि मदनोन्मुखः२३८
ततः प्रभुत्वाद्भावानामावेशं स्वमपश्यत
वाक्यं बहु बभाषेथ प्रत्यूहप्रसवात्मकं२३९
ततः कोपानलोद्भूत घोर हुङ्कारभीषणे
बभूव वदने नेत्रं तृतीयमनलाकुलं२४०
रुद्रस्य रौद्रवपुषो जगत्संहारभैरवम्
तदन्तिकस्थे मदने व्यस्फारयत धूर्जटिः२४१
तन्नेत्रविस्फुलिङ्गेन क्रोशतां नाकवासिनाम्
गमितो भस्मतां तूर्णं कन्दर्पः कामदर्पकः२४२
स तु तं भस्मसात्कृत्वा हरनेत्रोद्भवोनलः
व्यजृम्भत जगद्दग्धुं ज्ञात्वा हुङ्कारघस्मरं२४३
ततो भवो जगद्धेतोर्व्यभजज्जातवेदसम्
सहकारे मधौ चन्द्रे सुमनः स्स्वपरेष्वपि२४४
भृङ्गेषु कोकिलास्ये च विभागेन स्मरानलं
स बाह्याभ्यन्तरे विद्धो हरोथ स्मरमार्गणैः२४५
भागेष्वेतेषु संविष्टं वीक्षती बहुनाशनं
विभक्तं लोकसङ्क्षोभकरं दुर्वारजृम्भितं२४६
तत्प्राप्तिस्नेहसम्पूर्णकामेन हृदये किल
ज्वलन्नहर्निशं भीमो दुःखस्य वशगोऽभवत्२४७
विलोक्य हरहुङ्कार ज्वालाभस्मीकृतं स्मरं
विललाप रतिः क्रूरं बन्धुना मधुना सह२४८
ततो विलप्य बहुशो मधुना परिसान्त्विता
जगाम शरणं देवमिन्दुमौलित्रिलोचनं२४९
भृङ्गानुयातां सङ्गृह्य पुष्पितां सहकारजां
लतां पत्रद्रुमच्छन्नां जातां परभृतां सखीं 1.43.२५०
निबध्य तु जटाजूटं कुटिलैरलकै रतिः
उद्वर्त्य गात्रं शुभ्रेण हृद्येन स्मरभस्मना२५१
जानुभ्यामवनिं गत्वा प्रोवाचेन्दुविभूषणम्
रतिरुवाच
नमः शिवायास्तु मनोमयाय जगन्मयायाद्भुतवर्त्मने नमः२५२
नमः शिवायास्तु सुरार्चिताय तुभ्यं सदा भक्तकृपापराय
नमो भवायास्तु भवोद्भवाय नमोस्तु ते ध्वस्तमनोभवाय२५३
नमोस्तु मायामदनाश्रयाय नमो निसर्गामलभूषिताय
नमोस्त्वमेयाय गुणायनाय नमोस्तु सिद्धाय पुरातनाय२५४
नमः शरण्याय नमो गुणाय नमोस्तु ते भीमगणानुगाय
नमोस्तु नानाभुवनर्द्धिकर्त्रे नमोस्तु भक्ताभिमतप्रदाय२५५
नमोथ कर्मप्रसवे नमः सदा अनन्तरूपाय सदैव तुभ्यम्
असह्यकोपाय सदैव तुभ्यं शशाङ्कचिह्नाय नमोस्तु तुभ्यम्२५६
असीमलीलापरमस्तुताय वृषेन्द्रयानाय पुरान्तकाय
नमः प्रसिद्धाय महौषधाय नमोस्तु नानाविधरूपकाय२५७
नमोस्तु कालाय नमः कलाय नमोस्तु ते कालकलातिगाय
चराचराचार्यविचार्यवर्यमाचार्यमुत्प्रेक्षितभूतसर्गं२५८
त्वामिन्दुमौलिशरणं प्रपन्ना प्रियाप्तयेहं सहसा महेशं
प्रयच्छ मे कामयशः समृद्धिं पतिं विना तं भगवन्न जीवे२५९
प्रियः प्रियायाः पुरुषेश नित्यस्ततो परः को भुवनेष्विहास्ति
प्रभुः प्रभावी प्रभवः प्रियाणां प्रवीणपर्याय परापरं तपः२६०
त्वमेव नाथो भुवनस्य गोप्तां दयालुरुन्मूलितभक्तभीतिः
इत्थं स्तुतः शङ्करइन्द्रमौलिर्वृषाकपिर्मन्मथकान्तया तु२६१
तुतोष दोषाकरखण्डधारी उवाच चैनां मधुरं निरीक्ष्य
शङ्कर उवाच
भविष्यति च कामोयं काले कान्ते चिरादथ२६२
अनङ्ग इति लोकेषु स विख्यातिं गमिष्यति
इत्युक्ता शिरसा वन्द्य गिरीशं कामवल्लभा२६३
जगामोपवनं चान्यद्रतिस्तुहिन पर्वते
रुरोद चापि बहुशो दीना रम्ये स्थले स्थले२६४
मरणव्यवसायापि निवृत्ता च शिवाज्ञया
अथ नारदवाक्येन चोदितो हिमभूधरः२६५
कृताभरणसंस्कारां कृतकौतुकमङ्गलां
स्वर्गपुष्पकृतापीडां शुभ्रचीनांशुकाम्बराम्२६६
सखीभ्यां संयुतां शैलो गृहीत्वा स्वसुतां ततः
जगाम सुभगे योगे तदा सम्पूर्णमानसः२६७
सकाननान्युपाक्रम्य वनान्युपवनानि च
ददर्श रुदतीं नारीमप्रतर्क्यां महौजसम्२६८
न रूपेणेदृशी लोके रम्येषु वनसानुषु
कौतुकेन परामृष्टस्तां दृष्ट्वा रुदतीं गिरिः२६९
उपसृप्य ततस्तस्या निकटं सोप्यपृच्छत
हिमवानुवाच-
कासि कस्यासि कल्याणि किमर्थं चापि रोदिषि२७०
नैतदल्पमहं मन्ये कारणं लोकसुन्दरि
सा तस्य वचनं श्रुत्वा उवाच मधुना सह२७१
रुदन्ती शोकवचनं श्वसन्ती दैन्यवर्धनं
रतिरुवाच-
कामस्य दयितां भार्यां रतिं मां विद्धि सुव्रत२७२
गिरावस्मिंश्च भगवान्गिरिशस्तपसि स्थितः
तेन प्रत्यूहरुष्टेन क्रोधाद्विस्फार्य लोचनं२७३
विमुच्याग्निशिखाज्वालां कामो भस्मावशेषितः
अहं तु शरणं याता तं देवं भयविह्वला२७४
स्तुतवत्यथ सन्तुष्टस्ततो मां गिरिशोऽब्रवीत्
तुष्टोहं कामदयिते कामोत्पत्तिर्भविष्यति२७५
त्वत्स्तुतिं चाप्यधीयानो नरो भक्त्या मदाश्रयः
लप्स्यते काङ्क्षितं कामं निवर्तमरणादपि२७६
प्रतीक्षमाणा तद्वाक्यमाशावेशवशादहं
शरीरं परिरक्षिष्ये किञ्चित्कालं महाद्युते२७७
इत्युक्तस्तु तया रत्या शैलः सम्भ्रमभीषणः
पाणावादाय तनयां गन्तुमैच्छत्स्वकं पुरं२७८
भाविनोऽवश्यभावित्वाद्भवित्री भूतभाविनी
लज्जमाना सखिमुखैरुवाच पितरं गिरिं२७९
शैलपुत्र्युवाच-
दुर्भगेन शरीरेण किं ममानेन कारणं
कथं च तां दशां प्राप्तश्शङ्करो मे पतिर्भवेत्२८०
तपोभिः प्राप्यतेभीष्टं नासाध्यं तु तपस्यतः
दुर्भगत्वं वृथा लोके विहिते सति साधने२८१
तपसि भ्रष्टसन्देहा ततः स्वार्थजिगीषया
एवं तपः करिष्येहं यामीत्युक्तवतीं सुताम्२८२
उवाच वाचा शैलेन्द्रो गद्गदस्वरवर्णया
हिमवानुवाच-
उमेति चापलं पुत्रि न क्षमं तावकं वपुः२८३
सोढुं क्लेशानुरूपस्य तपसः सौम्यदर्शने
भावीन्यपि च कार्याणि पदार्थानि सदैव तु२८४
भाविनोर्था भवन्त्येव बहवोऽनिच्छतोपि हि
तस्मान्न तपसा तेस्ति बाले किञ्चित्प्रयोजनम्२८५
भवनं चैव गच्छामि चिन्तयिष्यामि तत्र वै
इत्युक्ता तु यदा नैव गृहमन्वेति शैलजा२८६
ततोद्रिश्चिन्तयाविष्टः स्वसुतां प्रशशंस च
ततोन्तरिक्षे दिव्या च वागभूद्भुवनत्रये२८७
उमेति चापलं पुत्रि त्वयोक्ता तनया यतः
उमेति नाम तेनास्या भुवनेषु भविष्यति२८८
सिद्धिर्मूर्तिमती त्वेषा साधयिष्यति चिन्तितम्
इति श्रुत्वा तु वचनं स तदाकाशमण्डले२८९
अनुज्ञाय सुतां शैलो जगामाशु स्वमन्दिरम्
पुलस्त्य उवाच-
शैलजापि ययौ शैलमगम्यमपि दैवतैः२९०
सखीभ्यामनुयाता तु नियता नगराजजा
शृङ्गं हिमवतः पुण्यं नानाधातुविभूषितम्२९१
दिव्यपुष्पलताकीर्णं भ्रमरोद्घुष्टपादपम्
दिव्यप्रस्रवणोपेतं मनोरथशतोज्ज्वलम्२९२
नानापक्षिसमायुक्तं चक्रवाकोपशोभितम्
जलजस्थलजैः पुण्यैः प्रफुल्लैरुपशोभितम्२९३
चित्रकन्दरसङ्गुह्यं दिव्यगेहसमन्वितम्
विहङ्गसङ्घसङ्घुष्टं कल्पपादपसङ्कटम्२९४
तत्रापश्यन्महाशाखं शाखिनं हरितच्छदम्
सर्वर्तुकुसुमोपेतं चक्रवाकोपशोभितम्२९५
नानापुष्पशताकीर्णं नानाविधफलान्वितम्
त्यक्तं सूर्यस्य रुचिभिर्भिन्नसंहतपल्लवम्२९६
तत्राम्बराणि सन्त्यज्य भूषणानि च शैलजा
संवीता वल्कलैर्दिव्यैर्दर्भनिर्मितमेखला२९७
त्रिःस्नाता पाटलाहारा बभूव शरदां शतम्
शतमेकेन जीर्णेन पर्णेनावर्त्तयत्तदा२९८
निराहारा शतं साभूत्समानां तपसो निधिः
तत उद्वेजिताः सर्वे प्राणिनस्तपसोग्निना२९९
ततः सस्मार भगवान्मुनीन्सप्त शतक्रतुः
ते समागम्य मुदिताः सर्वे समुदितास्तथा1.43.३००
पूजितास्ते महेन्द्रेण पप्रच्छुस्तत्प्रयोजनम्
किमर्थं हि सुरश्रेष्ठ संस्मृतास्तु वयं त्वया३०१
शक्रः प्रोवाच शृण्वन्तु भगवन्तः प्रयोजनम्
हिमाचले तपो घोरं तप्यते भूधरात्मजा३०२
तस्याभिमतयोगेन भवन्तः कर्तुमर्हथ
तपः समापनं देव्या जगदर्थे त्वरान्विताः३०३
तथेत्युक्त्वा ततः शैलं सिद्धसङ्घातसेवितम्
ऊचुरागम्य मुनयस्तामथो मधुराक्षरम्३०४
पुत्रि कस्ते व्यवसितः कामः कमललोचने
तानुवाच ततो देवी सादरं गौरवान्मुनीन्३०५
देव्युवाच-
तपस्यन्तो महाभागाः प्रोह्य मौनं भवादृशां
वन्दनाय नियुक्ता धीर्याचयत्यविकल्पितम्३०६
सुप्रसन्नमुखा यूयं गृहीत्वासनमादितः
उपविष्टाः श्रमं मुक्त्वा ततः प्रक्ष्यथ मामनु३०७
इत्युक्तास्ते ततश्चक्रुस्तत्रासनपरिग्रहम्
सा च तान्विधिवत्पूर्वं पूजयित्वा विधानतः३०८
उवाचादित्यसङ्काशान्मुनीन्सप्तॠषीन्शनैः
त्यक्त्वा व्रतात्मकं मौनं नत्वा च विधिवन्मुनीन्३०९
भगवन्तोपि मौनान्ते तस्याः सप्तर्षयोप्यथ
गौरवाधारतां प्राप्तां पप्रच्छुस्तां पुनस्तथा३१०
सापि गौरवगर्भेण मनसा चारुहासिनी
मुनीन्सर्वांस्तथालोक्य प्रोवाच प्रोह्य वाग्यमम्३११
भगवन्तो विजानीथ प्राणिनां मनसेप्सितम्
शरीरादिभिरत्यर्थं कदर्थ्यं ते हि देहिनः३१२
केचित्तु निपुणास्तत्र घटन्ते विविधोद्यमैः
उपायैर्दुर्लभान्भावान्प्राप्नुवन्ति ह्यतन्द्रिताः३१३
अपरे तु परिच्छिद्य नानाकारानुपक्रमान्
देहान्तरार्थं सारम्भमाश्रयन्ति हि तद्व्रतम्३१४
ममत्वाकाशसम्भूतकुसुमस्रग्विभूषितम्
विन्ध्यशृङ्गं स्प्रष्टुकामो हस्तः प्रसरते मुहुः३१५
अहं किल भवं देवं पतिं प्राप्तुं समुद्यता
प्रकृत्यैव दुराराध्यं तपस्यन्तं च सम्प्रति३१६
सुरासुरैरनिर्णीतं परमार्थक्रियाश्रयं
साम्प्रतं चापि निर्दग्धो मदनो वीतरागिणा३१७
कथमाराधयेदीशं मादृशी तादृशं शिवम्
इत्युक्ता मुनयस्ते तु स्थिरतां मनसस्ततः३१८
ज्ञातुमस्या वचः प्रोचुः प्रक्रमात्प्रकृतार्थकम्
मुनय ऊचुः-
द्विविधन्तु सुखं तावत्पुत्रि लोके विभाव्यते३१९
शरीरस्यास्य संयोगश्चेतसश्चापि निर्वृतिः
प्रकृत्या तु स दिग्वासा भीमो भस्मास्थिभूषणः३२०
कपाली भिक्षुको नग्नो विरूपाक्षोऽस्थिरक्रियः
प्रमत्तोन्मत्तकाकारो बीभत्सो कृतसङ्ग्रहः३२१
पत्या न तेन चास्त्यर्थो मूर्तानर्थेन काङ्क्षितः
यदि स्वस्य शरीरस्य सुखमिच्छसि शाश्वतम्३२२
तत्कथं ते महादेवाद्भूतभाजो जुगुप्सितात्
स्रवन्नरवसासास्थिकपालकृतभूषणात्३२३
श्वसदुग्रभुजङ्गेन्द्रकृतभूषणभूषितात्
श्मशानवासिनो रौद्रप्रमथानुगतादपि३२४
सुरेन्द्रमकुटव्रातनिघृष्टचरणोऽरिहा
हरिरस्ति जगद्धाता श्रीकान्तोऽनन्तमूर्तिमान्३२५
जप्यो यज्ञभुजामस्ति तथेन्द्रः पाकशासनः
देवतानां निधिश्चास्ति ज्वलनस्सर्वकामधुक्३२६
वायुरस्ति जगद्धाता यः प्राणस्सर्वदेहिनाम्
तथा वैश्रवणो राजा सर्वार्थमहिमा प्रभुः३२७
एभ्य एकतमं कस्मान्न त्वं सम्प्राप्तुमिच्छसि
उतान्यस्मादिह प्राप्यं सुखं ते मनसे हितम्३२८
एवमेतत्तथा पुत्रि प्रभावो लोकसम्पदाम्
अस्मिन्देहे परे वापि कल्याणप्राप्तये तव३२९
पितुरेवास्ति ते सर्वं सुरेभ्यो यन्निवेदितम्
वरस्य प्राप्तये क्लेशस्स चाप्यत्राफलस्तरुः३३०
प्रायेण प्रार्थितो ह्यर्थस्समर्थो ह्यतिदुर्लभः
स्वस्थानविनियोगित्वात्पुत्रि तत्रापि लभ्यते३३१
इत्युक्तवत्सु कुपिता मुनिवर्येषु शैलजा
उवाच क्रोधरक्ताक्षी विस्फुरद्दशनच्छदा३३२
देव्युवाच-
असद्ग्रहस्य का नीतिर्व्यसनस्य क्व यन्त्रणा
विपरीतार्थबोद्धारः सत्पथे केन योजिताः३३३
एवं मां वित्थ दुष्प्रज्ञामस्थानासद्ग्रहप्रियाम्
न मां प्रतिविचारोस्ति यदहङ्कारमानिनी३३४
प्रजापतिसमाः सर्वे भवन्तः सर्वदर्शिनः
न नूनं वित्थ तं देवं शाश्वतं जगतः प्रभुम्३३५
अजमीशानमव्यक्तममेयमहिमोदयम्
आस्तां तत्कर्मसद्भावं सम्बोधं तावदावृतम्३३६
विदुस्तं न हरि ब्रह्ममुखा अपि सुरेश्वराः
यत्तस्यविभवं स्वोत्थं भुवनेषु विजृम्भितम्३३७
प्रकटं सर्वभूतानां तदप्यथ न वित्थ किं
कस्यैतद्गगनं मूर्तिः कस्याग्निः कस्य मारुतः३३८
कस्य भूः कस्य वरुणः कश्चन्द्रार्कविलोचनः
कस्यार्चयन्ति लोकेषु लिङ्गं भक्त्या सुरासुराः३३९
यच्च ब्रह्मेश्वरा देवा विष्ण्विन्द्राद्या महर्षयः
प्रभावं प्रभवं वापि तेषामपि न वित्थ किं३४०
अदितेः कश्यपाज्जाता देवा नारायणादयः
मरीचेः कश्यपः पुत्रो ह्यदितिर्दक्षपुत्रिका३४१
मरीचिश्चापि दक्षश्च पुत्रौ तौ ब्रह्मणः किल
ब्रह्मा हिरण्मयादण्डादेव सिद्धविभूतिकः३४२
कस्य प्रादुरभूद्ध्यानात्प्राकृतः प्राकृतांशकः
अथ नारायणेनैव स्वकीयेच्छा समाश्रयात्३४३
तत्प्रेरितः प्रयात्वेष जन्म नारायणात्मकम्
सापि कर्मण एवोक्ता प्रेरणाविवशात्मनाम्३४४
यथोन्मादादि दुष्टस्य मतिरेव हि साभवेत्
इष्टानेव पदार्थान्वै विपरीतान्हि मन्यते३४५
लोकस्य व्यवहारेषु दृष्टेषु हसते सदा
धर्माधर्मफलप्राप्तौ विष्णुमेव निबोधत३४६
विदध्वमित्थं मुनयोऽसकृच्च मे गिरं गिरीशश्रुतिभूमिसन्निधौ
उत्कृष्टकेदार इवावनीतले सुबीजमुष्टिं सुफलाय कर्षकाः३४७
ते तां श्रुत्वा हि तां रम्यां प्रक्रमात्प्रक्रमक्रियाम्
वाचंवाचां पतिप्रख्याः प्रोचुश्चस्मितसुन्दराः३४८
मुनय ऊचुः-
जाते लोकविधाने तु सत्यं तत्कार्यमुत्तमम्
प्रायः प्रालेयशैलस्य शङ्का तत्कालरूपिणः३४९
सत्यमुत्कण्ठिताः सर्वे ये ये कार्यार्थमुद्यताः
तेषां त्वरन्ते चेतांसि किन्तु नाममहात्मनाम्1.43.३५०
लोकयात्रानुगन्तव्या विशेषेण विवक्षितैः
यतस्तद्धर्ममेधन्ते तत्प्रामाण्यं परे धृताः३५१
इत्युक्त्वा मुनयो जग्मुस्त्वरितास्तुहिनाचलम्
तत्र ते पूजितास्तेन हिमशैलेन सादरम्३५२
ऊचुर्मुनिवराः प्रीताः स्वल्पकं तु त्वरान्विताः
मुनय ऊचुः-
देवो दुहितरं साक्षात्पिनाकी तव मार्गते३५३
तच्छीघ्रं पावयात्मानमाहुत्येवानले हुतम्
कार्यं हि तच्च देवानां सुचिरं परिवर्तते३५४
जगदुद्धारणायैष विधातव्यः समुद्यमः
इत्युक्तस्तु तदा शैलो हर्षावेशवशान्मुनीन्३५५
असमर्थोभवद्वक्तुमुत्तरं प्रार्थयन्निव
ततो मेना मुनीन्वन्द्य प्रोवाच स्नेहविक्लवा३५६
दुहितुस्तान्मुनींश्चैव वचनं स्वयमर्थवत्
मेनोवाच-
यदर्थं दुहितुर्जन्म चेच्छन्त्यपि महाफलं३५७
तदेवोपस्थितं सर्वं प्रक्रमेणैव साम्प्रतम्
कुलजन्मवयोरूपविभुत्वैस्सहितोपि यः३५८
वरस्तस्यापि नाहूय सुता देया ह्ययाचतः
दिग्वासा जटिलः शूली दग्धकामोपि कामदः३५९
स तु मत्सुतया घोरः कथं नाम उपास्यते
मुनय ऊचुः-
ऐश्वर्यमवगच्छस्व शङ्करस्य सुरासुराः३६०
आराध्यमानपादाब्ज युगलाश्च सुनिर्वृताः
यस्योपयोगि यद्रूपं तेन तत्प्रार्थ्यते चिरम्३६१
घोरं तपस्यते बाला तेन रूपेण निर्वृता
यत्सा व्रतानि दिव्यानि नयिष्यति समापनम्३६२
तदत्रावहिता तावदस्मास्वेव भविष्यति
इत्युक्त्वा गिरिणा सार्द्धं ययुर्यत्रास्ति शैलजा३६३
जितार्कज्वलनज्वाला तपस्तेजोमयीह्युमा
प्रोक्ता सा मुनिभिः स्निग्धं मानिन्याह वचोर्थवत्३६४
नाहं क्षुद्रात्किलेच्छामि ॠते शर्वात्पिनाकिनः
स्थितं च तारतम्येन प्राणिनां परमर्द्धिदं३६५
धीरतैश्वर्यकार्याणि प्रमाणमतुलं महत्
यस्मान्न किञ्चिदपरं यच्च यस्मात्प्रवर्तते३६६
यस्यैश्वर्यमनाद्यन्तं तमहं शरणं गता
समः सव्यवसायश्च दीर्घेण विपरीतकः३६७
एवं निशम्य ते वाचं देव्या मुनिवरास्तदा
आनन्दाश्रुपरीताक्षाः सस्वजुस्तां तपस्विनीं३६८
ऊचुश्च परमप्रीताः शैलजां मधुरं वचः
ॠषय ऊचुः
अत्यद्भुतमहो पुत्रि ज्ञानमूर्तिरिवामला३६९
प्रसादयसि नो भावं भवभावप्रतिश्रयात्
ननु विद्मो वयं तस्य देवस्यैश्वर्यमद्भुतम्३७०
त्वन्निश्चयस्य दृढतां वेत्तुं वयमिहागताः
अचिरादेव तन्वङ्गि कामस्त्वेष भविष्यति३७१
आदित्यस्स प्रभो याति रत्नेभ्यः का द्युतिः पृथक्
कोऽर्थो वर्णान्स्वकांस्त्यक्त्वा तथा त्वं गिरिशं विना३७२
यामो नेकाभ्युपायेन तमभ्यर्थयितुं वयम्
अस्माकमपि चैषोर्थः सुतरां हृदि वर्तते३७३
अतस्त्वमेव सा बुद्धिर्यतो नीतिस्त्वमेव हि
अतो निःसंशयं कार्यं शङ्करोपि विधास्यति३७४
इत्युक्त्वा पूजितास्सर्वे मुनयो गिरिकन्यया
प्रययुर्गिरिशं द्रष्टुं प्रस्थं हिमवतो महत्३७५
गङ्गाम्भः प्लावितात्मानः पिङ्गाबद्धजटासटाः
भृङ्गानुयातपाणिस्थ मन्दारकुसुमस्रजः३७६
सम्प्राप्य तु गिरेः प्रस्थं ददृशुः शङ्कराश्रमम्
प्रशान्ताशेषसत्वौघं पर्यस्तिमितकाननम्३७७
निःशब्दक्षोभसलिल प्रयातं सर्वतो दिशम्
तत्रापश्यंस्ततोद्वारि वीरकं वेत्रपाणिनम्३७८
तमेते मुनयः पूज्या विनीताः कार्यगौरवात्
ऊचुर्मधुरभाषाभिस्ते वाचं वाग्मिनां वराः३७९
द्रष्टुं वयमिहायाताः शङ्करं गुणनायकं
त्रिलोचनं विजानीहि सुरकार्यप्रचोदिताः३८०
त्वमेव नो गतिस्तत्र यथाकालानतिक्रमः
स्यात्प्रार्थनैषा प्रायेण प्रतीहारमयी प्रभो३८१
इत्युक्तो मुनिभिः सोथ गौरवात्तानुवाच ह
सवनस्यापरां सन्ध्यां कर्तुं मन्दाकिनीं गतः३८२
क्षणेन भाविता विप्रास्ततो द्रक्ष्यथ शूलिनम्
इत्युक्ता मुनयस्तस्थुर्यत्नात्कार्यविचक्षणाः३८३
गम्भीराम्बुधरं प्रावृट्तृषिताश्चातका यथा
तथा क्षणेन निष्पन्न समाचारक्रियाविधिम्३८४
वीरासनकृतोद्देशं मृगचर्मनियामितम्
ततो विनीतो जानुभ्यामवलम्ब्य महीं मुदा३८५
उवाच वीरको देवं प्रणयैकसमाश्रयम्
सम्प्राप्ता मुनयः सप्त द्रष्टुं त्वां दीप्ततेजसं३८६
विभो समादिश द्रष्टुं ततो ध्यानमिहार्हसि
इत्युक्तो धूर्जटिस्तेन वीरकेण महात्मना३८७
भ्रूभङ्गसञ्ज्ञया तेषां प्रवेशाज्ञां ददौ तदा
मूर्द्धकम्पेन तान्सप्त वीरकोपि महामुनीन्३८८
आजुहाव विदूरस्थान्दर्शनाय पिनाकिनः
त्वराबद्धजटास्ते च लम्बकृष्णानिजाम्बराः३८९
विविशुर्वेदिकां दिव्यां गिरीशस्य विभोस्ततः
बद्धपाणिपुटा क्षिप्त नाकपुष्पोत्त्करास्ततः३९०
पिनाकिपादयुगलं वन्द्य नाकनिवासिनः
ततः स्निग्धेक्षिताः सन्तो मुनयः शूलपाणिना३९१
गिरीशं ते ततो दृष्ट्वा ते समं तुष्टवुर्मुदा३९२
मुनय ऊचुः-
अहो कृतार्था वयमेव साम्प्रतं सुरेश्वरैर्वन्दितपादपल्लवम्
विलोकयामो गुणगौरवर्द्धिभिः समादिशेः कार्यमशेषरक्षणम्३९३
ततः प्रहस्य सर्वज्ञ उवाच मुनिसत्तमान्
भवतां यद्धृदिगतं कार्यं तत्कुरुताधुना३९४
इत्युक्ता मुनयस्तूर्णं ययुर्यत्र च शैलजा
बभाषिरे विभागज्ञा गिरिजां गिरिगह्वरे
रम्यं प्रियमनोहारि मारूपं तपसादह३९५
प्रीतस्ते शङ्करः पाणिमेष प्रतिग्रहीष्यति
वयमर्थितवन्तस्ते पितरं पूर्वमागताः३९६
पित्रा सह गृहं गच्छ वयं यामः स्वमन्दिरं
इत्युक्ता तपसः सत्यं फलमस्तीति चिन्त्य सा३९७
त्वरमाणा ययौ वेश्म पितुर्दिव्यं सुशोभितं
सा तत्र रजनीं मेने वर्षायुतसमां सती३९८
हरदर्शनसञ्जात समुत्कण्ठा हिमाद्रिजा
ततो मुहूर्त्ते ब्राह्मे तु तस्याश्चक्रुः सुहृत्क्रियां३९९
नानामङ्गलसन्दोहान्यथावत्क्रमपूर्वकम्
दिव्यमङ्गलसंयोगान्मन्दिरे बहुमङ्गले 1.43.४००
उपासत गिरिं मूर्त्ता ॠतवः सर्वकामिकाः
वायवः सुखदाश्चासन्सम्मार्जनविधौ गिरेः४०१
हर्म्येषु श्रीः स्वयं देवी कृतनाना प्रसाधना
कान्तिः सर्वेषु भावेषु ॠद्धिश्च भरणाकुला४०२
चिन्तामणिप्रभृतयो रत्नाश्शैलं समन्ततः
उपतस्थुर्लताश्चापि कल्पकाद्या महाद्रुमाः४०३
ओषध्यो मूर्तिमत्यश्च दिव्यौषधिसमन्विताः
रसाश्च धातवश्चैव सर्वे शैलस्य किङ्कराः४०४
किङ्करास्तस्य शैलस्य व्यग्राश्चाश्रमवर्तिनः
नद्यः समुद्रा निखिलाः स्थावरं जङ्गमं च यत्४०५
ते सर्वे हिमशैलस्य महिमानमवर्द्धयन्
अभवन्मुनयो नागा यक्षा गन्धर्वकिन्नराः४०६
शङ्करस्यापि विबुधा गन्धमादनपर्वते
सज्जमण्डनसम्भारास्तस्थुर्निर्मल मूर्त्तयः४०७
शर्वस्याथ जटाजूटे चन्द्रखण्डं पितामहः
बबन्ध प्रणयोदार विस्फारितविलोचनः४०८
कपालमालां विपुलां चामुण्डा मूर्ध्नि बध्नती
उवाच गिरिशं काली पुत्रं जनय शङ्कर४०९
यो दैत्येन्द्रकुलं हत्वा मां रक्तैस्तर्पयिष्यति
शौरिर्वतंसिकारत्नं कण्ठाभरणमुज्वलम्४१०
भुजङ्गाभरणं गृह्य सज्जश्शम्भोः पुरोऽभवत्
शक्रो गजाजिनं तस्य वसाभ्यक्ताग्रपल्लवम्४११
दध्रे सरभसं स्विद्यद्विस्तीर्ण मुखपङ्कजम्
वायवश्च ववुस्तीक्ष्णास्तीक्ष्णं हिमगिरिप्रभम्४१२
वृषं विभूषयामासुर्हरयानं मनोजवम्
विरेजुर्नयनान्तस्थाः शम्भोः सूर्यानलेन्दवः४१३
स्वां द्युतिं लोकनाथस्य जगतः कर्मसाक्षिणः
चिताभस्मसमाधत्त कपाले रजतप्रभम्४१४
मनुजास्थिमयीं मालां निबम्बन्ध च पाणिना
प्रेताधिपः पुरे दूरे सभयः समवर्तत४१५
नानाकारमहारत्नभूषणं धनदाहृतम्
विहायोदीप्तसर्पेन्द्र कटकेन स्वपाणिना४१६
कर्णोत्तंसं चकारेशो ह्यमलं तक्षकं स्वयम्
निष्पन्नाभरणं चैव प्रसाध्येशं प्रसाधनैः४१७
तत्राप्येषा नियमतो ह्यभवन्व्यग्रमूर्तयः
मुमोचाभिनवान्सर्वरम्यशालिरसौषधीन्४१८
व्यग्रा तु पृथिवी देवी सर्वभावात्मनोरमा
गृहीत्वा वरुणः साक्षाद्रत्नाढ्याभरणानि च४१९
पुष्पाणि च विचित्राणि नानारत्नमयानि तु
तस्थौ साभरणो देवः सर्वज्ञः सर्वदेहिनाम्४२०
ज्वलनश्चापि दिव्यानि हैमान्याभरणानि च
जातरूपपवित्राणि प्रयतः समुपस्थितः४२१
वायुर्ववौ च सुरभिः सुखसंस्पर्शनो विभुम्
छत्रं चन्द्रकरोद्दामं हासितं च शतक्रतुः४२२
जग्राह मुदितः श्रीमान्बाहुभिर्वज्रभूषणः
जगुर्गन्धर्वमुख्याश्च ननृतुश्चाप्सरोगणाः४२३
वादयन्तोतिमधुरं जगुर्गन्धर्वकिन्नराः
मुहूर्तादृतवस्तत्र जगुश्च ननृतुश्च वै४२४
चपलाश्च गणास्तस्थुर्लोडयन्तो हिमाचलम्
उपविष्टः क्रमाद्धाता विश्वकृद्भगनेत्रहा४२५
चकारौद्वाहिकं कृत्यं पत्न्या सह यथोदितम्
दत्तार्घ्यो गिरिराजेन सुरवृन्दैर्विनोदितः४२६
अवसत्तां क्षपां तत्र पत्न्या सह पुरान्तकः
ततो गन्धर्वगीतेन नृत्येनाप्सरसामपि४२७
स्तुतिभिर्देवदैत्यानां विबुद्धो विबुधाधिपः
आमन्त्र्य हिमशैलेन्द्रं प्रभाते जायया सह४२८
जगाम मन्दरगिरिं वायुवेगेन शृङ्गिणा
ततो गते भगवति नीललोहिते सहोमया रतिमनुभूतभूधरः४२९
सबान्धवो भवति हि कस्य नो मनो विशृङ्खलं जगति हि कन्यका पितुः
पुरोद्यानेषु रम्येषु विविक्तेषु वनेषु च४३०
सुरक्तहृदयो देव्या विजहार भगाक्षिहा
ततो बहुतिथे काले पुत्रनाम्ना गिरेः सुता४३१
सखीभिः सहिता क्रीडां चक्रे कृत्रिम पुत्रकैः
कदाचिद्गन्धतैलेन गात्रमभ्यज्य शैलजा४३२
चूर्णैरुद्वर्तयामास मलेनापूरितां तनुम्
तदुद्वर्त्तनकं गृह्य नरं चक्रे गजाननम्४३३
पुरुषं क्रीडती देवी तच्चाप्यक्षिपदम्भसि
जाह्नव्या शिवया सख्या ततः सोभूद्बृहत्तनुः४३४
कायेनातिविशालेन जगदापूरयत्तदा
पुत्रेत्युवाच तं देवी पुत्रेत्यूचे च जाह्नवी४३५
गाङ्गेय इति देवैस्तु पूजितोऽभूद्गजाननः
विनायकाधिपत्यं च ददावस्य पितामहः४३६
पुनः सा क्रीडती चक्रे तरुं च वरवर्णिनी
मनोज्ञमङ्कुरं रूढमशोकस्य शुभानना४३७
वर्द्धयामास तं चापि कृतसंस्कारमङ्गलम्
बृहस्पतिमुखैर्विप्रैर्दिवस्पतिपुरोहितैः४३८
ततो देवैः समुनिभिः प्रोक्ता देवी त्विदं वचः
अधुना दर्शिते मार्गे मर्यादां कर्तुमर्हसि४३९
फलं किं भविता देवि कल्पितैस्तरुपुत्रकैः
इत्युक्ता हर्षपूर्णाङ्गी प्रोवाचातिशुभां गिरं४४०
एकं निरुदके ग्रामे यः कूपं कारयेद्बुधः
बिन्दौबिन्दौ च तोयस्य स वसेद्वत्सरं दिवि४४१
दशकूपसमावापी दशवापीसमो ह्रदः
दशह्रदसमा कन्या दशकन्यासमो द्रुमः४४२
एषा वै शुभ मर्यादा नियता लोकभाविनी
इत्युक्तास्तु ततो विप्रा बृहस्पतिपुरोगमाः४४३
जग्मुः स्वमन्दिराण्येव भवानीं वन्द्य मातरं
गतेषु तेषु देवोपि शङ्करः पर्वतात्मजां४४४
पाणिनालम्ब्यमानेन न स्वमावासमगच्छत
चित्तप्रसादजननं प्रासादाट्टालगोपुरं४४५
लम्बमौक्तिकदामानं मालिकाकुलवेदिकं
सुनद्धकलधौतं च क्रीडागृहमनोगतं४४६
प्रकीर्णकुसुमामोद मत्तालिकुलकूजितम्
किन्नरोद्गीतसङ्गीत गृहान्तरितभित्तिकम्४४७
सुगन्धिधूपसङ्घातं मनःप्राप्यमलक्षितं
क्रीडामयूरनारीभिरभितो रभसार्पितं४४८
हंससङ्घातसन्दिष्ट स्फटिकस्तभन्तोरणं
अनाविलमसम्भ्रान्त्या बहुशः किन्नराकुलं४४९
शुकैर्यत्राभिदृश्यन्ते पद्मरागविनिर्मिताः
भित्तयो जातिसम्भ्रान्त्या प्रतिबिम्बितमौक्तिकाः1.43.४५०
तत्राक्षैः प्रियया देवो विहर्तुमुपचक्रमे
स्वछेन्द्रनीलभूभागे क्रीडन्तौ यत्र संस्थितौ४५१
वपुः सहायतां प्राप्तौ विनोदरसनिर्वृतौ
एवं प्रक्रीडतोस्तत्र देवीशङ्करयोस्तदा४५२
प्रादुर्भूतो महाशब्दः पतिताम्बरगोचरः
तच्छ्रुत्वा कौतुकाद्देवी किमेतदिति शङ्करम्४५३
पर्यपृच्छत्सुरवरं हरं विस्मितपूर्वकं
उवाच देवो नैतत्ते दृष्टपूर्वं शुचिस्मिते४५४
एते गणेशाः क्रीडन्ते शैलेस्मिन्मत्प्रियाः सदा
तपसा ब्रह्मचर्येण नामभिः क्षेत्रसेवनैः४५५
यैरहं तोषितः पूर्वं त एते मनुजोत्तमाः
मत्समीपमनुप्राप्ता मम हृद्याः शुभानने४५६
कामरूपा महोत्साहा महारूपगुणान्विताः
कर्मभिर्विस्मयं तेषां प्रयामि बलशालिनाम्४५७
सामरस्यास्य जगतः सृष्टिसंहरणक्षमाः
ब्रह्मचन्द्रेन्द्र गन्धर्वैस्सकिन्नरमहोरगैः४५८
विवर्जितोप्यहं नित्यं नैभिर्विरहितो रमे
हृद्या मे चारुसर्वाङ्गि त एते क्रीडिता गिरौ४५९
इत्युक्ता तु तदा देवी त्यक्त्वा तं विस्मयाकुला
गवाक्षान्तरमासाद्य प्रेक्षते चकितानना४६०
यावन्तस्ते कृशा दीर्घा ह्रस्वाः स्थूला महोदराः
व्याघ्रेभवदनाः केचित्केचिन्मेषाजरूपिणः४६१
अनेकप्राणिरूपाश्च ज्वालास्याः कृष्णपिङ्गलाः
सौम्या भीमाः स्मितमुखाः कृष्णपिङ्गजटास्सदा४६२
नानाविहङ्गवदना नानाविधसुराननाः
कौशेयचर्मवसना नग्नाश्चान्यो विरूपिणः४६३
गोकर्णा गजकर्णाश्च बहुवक्त्रेक्षणोदराः
बहुपादा बहुभुजा दिव्यनानास्त्रपाणयः४६४
अनेककुसुमापीडा नानाव्याकुलभीषणाः
कृतनानायुधधरा नानाकवचभूषणाः४६५
विचित्रवाहनारूढा दिव्यरूपा वियच्चराः
वीणावाद्यरवोद्घुष्टा नानास्थानकनर्तकाः४६६
गणेशांस्तांस्तथा दृष्ट्वा देवी प्रोवाच शङ्करम्
देव्युवाच-
गणेशाः कतिसङ्ख्याताः किन्नामानः किमात्मकाः४६७
एकैकशो मम ब्रूहि निष्ठिता ये पृथक्पृथक्
शङ्कर उवाच-
कोटिकोटिश्च सङ्ख्याता नानाविख्यातपौरुषाः४६८
जगदापूरितं सर्वमेभिर्भीमैर्महाबलैः
सिद्धक्षेत्रेषु रथ्यासु जीर्णोद्यानेषु वेश्मसु४६९
दानवानां शरीरेषु बालेषून्मत्तकेषु च
एते विशन्ति मुदिता नानाहारविहारिणः४७०
ऊष्मपाः फेनपाश्चैव धूमपा मधुपायिनः
मेदाहारारुधिरपास्सर्वभक्षा ह्यभोजनाः४७१
देवादास्तापसाहारा नानावाद्यरतिप्रियाः
न हि वक्तुमनन्तत्वाच्छक्यन्ते हि गणाः पृथक्४७२
देव्युवाच-
नागत्वगुत्तरासङ्गः शुद्धाङ्गो मुञ्जमेखली
मनःशिलेन कल्केन चपलो रञ्जिताननः४७३
भृङ्गदष्टोत्पलानां च स्रग्दामा मधुराकृतिः
पाषाणशकलोत्तान कांस्यतालप्रवर्तकः४७४
असौ गणेश्वरो देव किन्नामा किन्नरानुगः
य एष गणगीतेषु दत्तकर्णो मुहुर्मुहुः४७५
शर्व उवाच-
स एष वीरको देवि सदा मे हृदयप्रियः
नानाश्चर्यगुणाधारो गणेश्वर गणार्चितः४७६
देव्युवाच
ईदृशस्य सुतस्यास्ति ममोत्कण्ठा पुरान्तक
कदाहमीदृशं पुत्रं द्रक्ष्याम्यानन्ददायकं४७७
शर्व उवाच-
एष एव सुतस्तेस्तु नयनानन्दकारकः
त्वया मात्रा कृतार्थो हि वीरकोपि सुमध्यमे४७८
इत्युक्त्वा प्रेषयामास विजयां हर्षणोत्सुकां
वीरकानयनायाशु दुहिता भूभृतः सखीं४७९
सावरुह्य त्वरायुक्ता प्रासादादम्बरस्पृशः
गणपं गणमध्यस्थं सूर्यकोटिप्रवर्तनम्४८०
विजयोवाच-
एहि वीरक चापल्यात्त्वया देवी प्रतोषिता
त्वामाह्वयति चेत्युक्तस्त्यक्त्वा पाषाणखण्डकम्४८१
देव्याः सपीपमागच्छद्विजयानुगतः शनैः
प्रासादशिखरोत्फुल्लरक्ताम्बुजनिभ द्युतिः४८२
तं दृष्ट्वा प्रस्थितानल्पस्वादुक्षीरपयोधरा
गिरिजोवाच-
पिब क्षीरमिदं वत्स स्रुतं पिब यथेच्छकम्४८३
उवाच देवी सस्नेहं गिरा मधुरवर्णया
एहि सद्यो हि जातोसि मे पुत्रको देवदेवेन दत्तोधुना वीरक४८४
उक्तवत्यङ्कआधाय पर्यष्वजत्तं कपोले चुचुम्बागराण्नन्दिनी
मूर्ध्न्युपाघ्राय सम्मार्ज्य गात्राणि चाभूषयामास दिव्यैः स्वयम्भूषणैः४८५
किङ्किणीमेखलानूपुरैः सन्मणिप्रोतकेयूरहारैरमूल्यैर्गुणैः
कोमलैः पल्लवैश्चित्रितश्चारुभिर्मङ्गलैः कङ्कणैर्दिव्यमन्त्रोद्भवैः४८६
तस्य शुद्धैस्ततोभूरिभिश्चाकरोन्मिश्रसिद्धार्थकैरङ्गरक्षाविधिं
एवमादाय चोवाच कृत्वा स्रजं मूर्ध्नि गोरोचनापत्रभङ्गोज्ज्वलैः४८७
वत्सवत्साधुना क्रीड सार्द्धं गणैरप्रमत्तो व्रज श्वभ्रवर्जं शनैः
व्यालमालाकुलाः शैलसानुद्रुमादन्तिभिर्भग्नशाखाः परं भङ्गिनः४८८
जाह्नवीमण्डलक्षुब्धतोयाकुलं मा विशेथा बहुव्याघ्रजुष्टे वने
वत्स सङ्ख्येषु दुर्गेषु यद्वीरक पुत्र भावायतां स्वच्छचित्तो जनः४८९
प्रार्थितं भव्यमायातिभाविन्यसौ भाव्यतां सोपि निर्वर्त्यसर्वैर्गुणैः
एवमुक्तोऽनया वीरको मातरं सस्मयन्नाह लीलावशाविष्टधीः४९०
एष मात्रा स्वयं मे कृतः कङ्कणः पत्रकश्चित्रितः पाटलैर्बिन्दुभिः
चारुपुष्पैरियं मालतीभिः कृतामालिका मे शिरस्याहिता कोमला४९१
तोषयामीश्वरीमित्ययं सत्वरं चिन्तयित्वा व्रजद्बाह्यतः क्रीडनम्
स्वैर्गणैः संयुतो वीरको हर्षितो दक्षिणात्पश्चिमं पश्चिमादुत्तरम्४९२
उत्तरात्पूर्वमभ्येत्य सख्यायुता प्रेक्षते तं गवाक्षान्तराद्वीरकं
शैलपुत्री बहिः क्रीडितारं जगत्स्नेहतः पुत्रलुब्धायतस्सोत्र कः४९३
मोहमायाति यः स्वल्पवेत्ता जडो मांसविण्मूत्रसङ्घातदेहोद्वहः
द्रष्टुमभ्यन्तरं नाकवासेश्वरेष्विन्दुमौलिप्रविष्टेषु कक्षान्तरम्४९४
वाहनान्येवमारोहमाणास्ततो लोकपालास्त्रपूगं मुहूर्त्तावधि
खड्ग एषो विखड्गाकरो निर्मलः कृन्तकः कस्य केनाहृतो ब्रूत नः४९५
नोभवेद्धस्तदण्डेन किं ब्रूमहे भीममूर्त्यं गणे नास्ति कृत्यं गिरौ
पाश एषोस्ति तेनात्र को बध्यते मा वृथा लोकपालानुगास्तिष्ठत४९६
एवमेवैतदित्यब्रुवंस्ते तदा वीक्ष्य देवानुगं वीरकं रक्षकं
प्राह देवी वने पर्वते निर्जराध्यग्निशालामुखे भूतले भूतपाः४९७
निर्झराम्भो निपातेषु नो मज्जतात्पुष्पजालावनद्धेषु धामस्वपि
प्रोच्चनानाद्रिकुञ्जावगाहेष्वथो मारुतास्फोटसंरक्षणे कामतः४९८
काञ्चनोत्तुङ्ग शृङ्गावरोहक्षितौ हैमरेणूत्करासङ्गपिङ्गद्युतिः
खेचराणां वने चापि रम्ये बभौ रूपसम्पत्प्रकारोगणो वासितुम्४९९
मन्दरेकन्दरे चारुवापीतटे कुन्दमन्दारपुष्पप्रवालाम्बुजे
सिद्धनारीभिरापीतरूपामृतं विस्तृतैर्नेत्रमात्रैरनुन्मेषिभिः1.43.५००
वीरकं शैलपुत्री निमेषान्तरादस्मरत्पुत्रगृध्नुर्विनोदार्थिनी
सोपि तादृक्क्षणावाप्तपुण्योदयो यो हि जन्मान्तरेऽस्यात्मजत्वं ततः५०१
क्रीडतस्तस्य तृप्तिः कथं जायते योपि भावाज्यग? द्वेधसा तेजसा
कलिपतःप्रेक्षणं दिव्यगीतक्षणं नृत्यलोलैर्गणैशैः प्रवृत्यक्षणं५०२
सिंहनादाकुले गण्डशैले ज्वलद्रत्नजाले बृहत्सालतालेक्षणम्
फुल्लनाना तमालालिकालेक्षणं वृक्षमूले विलोलोमरालेक्षणम्५०३
स्वल्पपङ्के जले पङ्कजाङ्केक्षणं मातुरङ्के शुभे निष्कलङ्केक्षणम्
परिक्रीडते बाललीलाविसारी गणेशाधिपा देवतानन्दकारी५०४
निकुञ्जेषु विद्याधरोद्गीतशीलः पिनाकीव लीलाविलासैः सलीलः
प्रकाश्य भुवनं गोभिस्ततो दिनकरे गते५०५
देशान्तरं तदा पश्चाद्दूरस्थो धरणीधरः
मित्रत्वमस्य सुदृढं हृदये द्योतयन्निव५०६
नित्यमाराधितो विप्रैः श्रीमान्विघनसः सुतः
नाकरोत्सवितुर्मेरुरुपकारं पतिष्यतः५०७
जनेष्वेषा व्यवस्थेति श्रूयते स्रवलितो ह्यधः
दिनेनानुगतो भानुः स्वजनं परिपूरयन्५०८
सन्ध्याबद्धाञ्जलिपुटा मुनयोभिमुखा रविम्
यावदद्यासते शीघ्रं निवार्योष्णाभिभाविताम्५०९
व्यजृम्भताथ लोकेस्मिन्क्रमाद्वैभावरं तमः
कुटिलस्येव हृदये कालुष्यं दूषयन्मनः५१०
ज्वलत्फणिफणारत्नदीपोद्योतित भित्तिके
शयने शशसङ्घात रत्नवस्त्रोत्तरच्छदे५११
नानारत्नद्युतिलसच्छक्रचापविडम्बके
रत्नैः किङ्किणिजालेन लसन्मुक्ताकलापके५१२
कमनीयचलल्लीला वितानाच्छादिताम्बरे
मन्दरे मन्न्दसञ्चारं गते गिरिसुतायुतः५१३
तस्थौ गिरिसुता बाहुलता मिलितकन्धरः
शशिमौलिः सितज्योत्स्नास्फारपूरितगोचरः५१४
गिरिजाप्यसितापाङ्गी नीलोत्पलदलच्छविः
विभावर्या च सम्पृक्ता बभूवातीव गोमयी५१५
तामुवाच ततो देवः क्रीडाकेलिकलायुताम्५१६