०४२

भीष्म उवाच

विश्वास-प्रस्तुतिः

श्रुतः पद्मोद्भवो ब्रह्मन्विस्तरेण त्वयेरितः
समासाद्भवमाहात्म्यमुत्पत्तिं च गुहस्य च॥ १ ॥

मूलम्

श्रुतः पद्मोद्भवो ब्रह्मन्विस्तरेण त्वयेरितः
समासाद्भवमाहात्म्यमुत्पत्तिं च गुहस्य च॥ १ ॥

विश्वास-प्रस्तुतिः

श्रोतुमिच्छामि ते ब्रह्मन्यथाभूतः कृतं च यत्
तारकश्च कथं भूतो दानवो बलवत्तरः॥ २ ॥

मूलम्

श्रोतुमिच्छामि ते ब्रह्मन्यथाभूतः कृतं च यत्
तारकश्च कथं भूतो दानवो बलवत्तरः॥ २ ॥

विश्वास-प्रस्तुतिः

कार्त्तिकेयेन स ब्रह्मन्कथं ध्वस्तो महासुरः
कथं रुद्रेण मुनयः प्रेषिता मन्दरं गिरिम्॥ ३ ॥

मूलम्

कार्त्तिकेयेन स ब्रह्मन्कथं ध्वस्तो महासुरः
कथं रुद्रेण मुनयः प्रेषिता मन्दरं गिरिम्॥ ३ ॥

विश्वास-प्रस्तुतिः

कथं लब्धा उमा तत्र रुद्रेण परमेष्ठिना
एतदाख्याहि मे सर्वं यथाभूतं महामुने॥ ४ ॥

मूलम्

कथं लब्धा उमा तत्र रुद्रेण परमेष्ठिना
एतदाख्याहि मे सर्वं यथाभूतं महामुने॥ ४ ॥

विश्वास-प्रस्तुतिः

पुलस्त्य उवाच
कश्यपेन पुरा प्रोक्ता दितिर्दैत्यारणिः शुभा
वज्रसारमयैश्चाङ्गैः पुत्रो देवि भविष्यति॥ ५ ॥

मूलम्

पुलस्त्य उवाच
कश्यपेन पुरा प्रोक्ता दितिर्दैत्यारणिः शुभा
वज्रसारमयैश्चाङ्गैः पुत्रो देवि भविष्यति॥ ५ ॥

विश्वास-प्रस्तुतिः

वज्राङ्गो नाम पुत्रस्तु भविता धर्मवत्सलः
सा च लब्धवरा देवी सुषुवे वज्रदुश्छिदम्॥ ६ ॥

मूलम्

वज्राङ्गो नाम पुत्रस्तु भविता धर्मवत्सलः
सा च लब्धवरा देवी सुषुवे वज्रदुश्छिदम्॥ ६ ॥

विश्वास-प्रस्तुतिः

स जातमात्र एवाभूत्सर्वशास्त्रार्थपारगः
उवाच मातरं भक्त्या मातः किं करवाण्यहम्॥ ७ ॥

मूलम्

स जातमात्र एवाभूत्सर्वशास्त्रार्थपारगः
उवाच मातरं भक्त्या मातः किं करवाण्यहम्॥ ७ ॥

विश्वास-प्रस्तुतिः

तस्योवाच ततो हृष्टा दितिर्दैत्याधिपस्य तु
बहवो मे हताः पुत्राः सहस्राक्षेण पुत्रक॥ ८ ॥

मूलम्

तस्योवाच ततो हृष्टा दितिर्दैत्याधिपस्य तु
बहवो मे हताः पुत्राः सहस्राक्षेण पुत्रक॥ ८ ॥

विश्वास-प्रस्तुतिः

तेषामपचितिं कर्तुं गच्छ शक्रवधाय तु
बाढमित्येव तां चोक्त्वा जगाम त्रिदिवं बलात्॥ ९ ॥

मूलम्

तेषामपचितिं कर्तुं गच्छ शक्रवधाय तु
बाढमित्येव तां चोक्त्वा जगाम त्रिदिवं बलात्॥ ९ ॥

विश्वास-प्रस्तुतिः

बध्वा ततः सहस्राक्षं पाशेनामोघवर्चसा
मातुरन्तिकमागच्छद्व्याधः क्षुद्रमृगं यथा॥ १० ॥

मूलम्

बध्वा ततः सहस्राक्षं पाशेनामोघवर्चसा
मातुरन्तिकमागच्छद्व्याधः क्षुद्रमृगं यथा॥ १० ॥

विश्वास-प्रस्तुतिः

एतस्मिन्नन्तरे ब्रह्मा कश्यपश्च महातपाः
आगतौ तत्र यत्रास्तां मातापुत्रावभीतकौ॥ ११ ॥

मूलम्

एतस्मिन्नन्तरे ब्रह्मा कश्यपश्च महातपाः
आगतौ तत्र यत्रास्तां मातापुत्रावभीतकौ॥ ११ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा तु तावुवाचेदं ब्रह्मा कश्यप एव च
मुञ्चैनं पुत्र देवेन्द्रं किमनेन प्रयोजनम्॥ १२ ॥

मूलम्

दृष्ट्वा तु तावुवाचेदं ब्रह्मा कश्यप एव च
मुञ्चैनं पुत्र देवेन्द्रं किमनेन प्रयोजनम्॥ १२ ॥

विश्वास-प्रस्तुतिः

अवमानो वधः प्रोक्तः पुत्र सम्भावितस्य तु
अस्मद्वाक्येन यो मुक्तस्त्वद्धस्तान्मृत एव सः॥ १३ ॥

मूलम्

अवमानो वधः प्रोक्तः पुत्र सम्भावितस्य तु
अस्मद्वाक्येन यो मुक्तस्त्वद्धस्तान्मृत एव सः॥ १३ ॥

विश्वास-प्रस्तुतिः

परस्य गौरवान्मुक्तः शत्रूणां शत्रुराहवे
सजीवन्नेव हि मृतो दिवसे दिवसे पुनः॥ १४ ॥

मूलम्

परस्य गौरवान्मुक्तः शत्रूणां शत्रुराहवे
सजीवन्नेव हि मृतो दिवसे दिवसे पुनः॥ १४ ॥

विश्वास-प्रस्तुतिः

एतच्छ्रुत्वा तु वज्राङ्गः प्रणतो वाक्यमब्रवीत्
न मे कृत्यमनेनास्ति मातुराज्ञा कृता हि मे॥ १५ ॥

मूलम्

एतच्छ्रुत्वा तु वज्राङ्गः प्रणतो वाक्यमब्रवीत्
न मे कृत्यमनेनास्ति मातुराज्ञा कृता हि मे॥ १५ ॥

विश्वास-प्रस्तुतिः

त्वं सुरासुरनाथो वै मान्यश्च प्रपितामहः
करिष्ये त्वद्वचो देव एष मुक्तः शतक्रतुः॥ १६ ॥

मूलम्

त्वं सुरासुरनाथो वै मान्यश्च प्रपितामहः
करिष्ये त्वद्वचो देव एष मुक्तः शतक्रतुः॥ १६ ॥

विश्वास-प्रस्तुतिः

तपसेमेरतिर्देवनिर्विघ्नन्तच्चमेभवेत्
त्वत्प्रसादेन भगवन्नित्युक्त्वा विरराम ह॥ १७ ॥

मूलम्

तपसेमेरतिर्देवनिर्विघ्नन्तच्चमेभवेत्
त्वत्प्रसादेन भगवन्नित्युक्त्वा विरराम ह॥ १७ ॥

विश्वास-प्रस्तुतिः

तस्मिंस्तूष्णीं स्थिते दैत्ये प्रोवाचेदं पितामहः
ब्रह्मोवाच
तपस्त्वं कुरु मापन्नः सोस्मच्छासनसंस्थितः॥ १८ ॥

मूलम्

तस्मिंस्तूष्णीं स्थिते दैत्ये प्रोवाचेदं पितामहः
ब्रह्मोवाच
तपस्त्वं कुरु मापन्नः सोस्मच्छासनसंस्थितः॥ १८ ॥

विश्वास-प्रस्तुतिः

अनया चित्तशुद्ध्या हि पर्याप्तं जन्मनः फलम्
इत्युक्त्वा पद्मजः कन्यां ससर्जायतलोचनाम्॥ १९ ॥

मूलम्

अनया चित्तशुद्ध्या हि पर्याप्तं जन्मनः फलम्
इत्युक्त्वा पद्मजः कन्यां ससर्जायतलोचनाम्॥ १९ ॥

विश्वास-प्रस्तुतिः

तामस्मै प्रददौ देवः पत्न्यर्थे पद्मसम्भवः
वराङ्गीति च नामास्याः कृत्वा यातः पितापहः॥ २० ॥

मूलम्

तामस्मै प्रददौ देवः पत्न्यर्थे पद्मसम्भवः
वराङ्गीति च नामास्याः कृत्वा यातः पितापहः॥ २० ॥

विश्वास-प्रस्तुतिः

वज्राङ्गोपि तया सार्द्धं जगाम तपसे वनम्
ऊर्द्ध्वबाहुस्स दैत्येन्द्रो चरद्वर्षसहस्रकम्॥ २१ ॥

मूलम्

वज्राङ्गोपि तया सार्द्धं जगाम तपसे वनम्
ऊर्द्ध्वबाहुस्स दैत्येन्द्रो चरद्वर्षसहस्रकम्॥ २१ ॥

विश्वास-प्रस्तुतिः

कालं कमलपत्राक्षः शुद्धबुद्धिर्महातपाः
तावच्चाधोमुखः कालं तावत्पञ्चाग्निमध्यगः॥ २२ ॥

मूलम्

कालं कमलपत्राक्षः शुद्धबुद्धिर्महातपाः
तावच्चाधोमुखः कालं तावत्पञ्चाग्निमध्यगः॥ २२ ॥

विश्वास-प्रस्तुतिः

निराहारो घोरतपास्तपोराशिरजायत
ततः सोन्तर्जले चक्रे वासं वर्षसहस्रकम्॥ २३ ॥

मूलम्

निराहारो घोरतपास्तपोराशिरजायत
ततः सोन्तर्जले चक्रे वासं वर्षसहस्रकम्॥ २३ ॥

विश्वास-प्रस्तुतिः

जलान्तरं प्रविष्टस्य तस्य पत्नी महाव्रता
तस्यैव तीरे सरसः स्थिताऽसौ मौनमाश्रिता॥ २४ ॥

मूलम्

जलान्तरं प्रविष्टस्य तस्य पत्नी महाव्रता
तस्यैव तीरे सरसः स्थिताऽसौ मौनमाश्रिता॥ २४ ॥

विश्वास-प्रस्तुतिः

निराहारं तपो घोरं प्रविवेश महाद्युतिः
तस्यां तपसि वर्तन्त्यामिन्द्रश्चक्रे विभीषिकाम्॥ २५ ॥

मूलम्

निराहारं तपो घोरं प्रविवेश महाद्युतिः
तस्यां तपसि वर्तन्त्यामिन्द्रश्चक्रे विभीषिकाम्॥ २५ ॥

विश्वास-प्रस्तुतिः

गत्वा तु मर्कटाकारस्तदाश्रमपदं महत्
ब्रसीं चकर्ष बलवान्गन्धाद्यर्चाकरण्डकम्॥ २६ ॥

मूलम्

गत्वा तु मर्कटाकारस्तदाश्रमपदं महत्
ब्रसीं चकर्ष बलवान्गन्धाद्यर्चाकरण्डकम्॥ २६ ॥

विश्वास-प्रस्तुतिः

ततस्तु सिंहरूपेण भीषयामास भामिनीम्
ततो भुजङ्गरूपेणाप्यदशच्चरणद्वयम्॥ २७ ॥

मूलम्

ततस्तु सिंहरूपेण भीषयामास भामिनीम्
ततो भुजङ्गरूपेणाप्यदशच्चरणद्वयम्॥ २७ ॥

विश्वास-प्रस्तुतिः

तपोबलवशात्सा तु नवध्यत्वं जगाम ह
भीषिकाभिरनेकाभिः क्लेशयन्पाकशासनः॥ २८ ॥

मूलम्

तपोबलवशात्सा तु नवध्यत्वं जगाम ह
भीषिकाभिरनेकाभिः क्लेशयन्पाकशासनः॥ २८ ॥

विश्वास-प्रस्तुतिः

विरराम यदा नैव वज्राङ्गमहिषी तदा
शैलस्यदुष्टतां मत्वा शापं दातुं समुद्यता॥ २९ ॥

मूलम्

विरराम यदा नैव वज्राङ्गमहिषी तदा
शैलस्यदुष्टतां मत्वा शापं दातुं समुद्यता॥ २९ ॥

विश्वास-प्रस्तुतिः

तां शापाभिमुखीं दृष्ट्वा शैलः पुरुषविग्रहः
उवाच तां वरारोहां वराङ्गीं भीतलोचनः॥ ३० ॥

मूलम्

तां शापाभिमुखीं दृष्ट्वा शैलः पुरुषविग्रहः
उवाच तां वरारोहां वराङ्गीं भीतलोचनः॥ ३० ॥

विश्वास-प्रस्तुतिः

शैल उवाच
नाहं महाव्रते दुष्टः सेव्योहं सर्वदेहिनाम्
विप्रियं ते करोत्येष रुषितः पाकशासनः॥ ३१ ॥

मूलम्

शैल उवाच
नाहं महाव्रते दुष्टः सेव्योहं सर्वदेहिनाम्
विप्रियं ते करोत्येष रुषितः पाकशासनः॥ ३१ ॥

विश्वास-प्रस्तुतिः

एतस्मिन्नन्तरे जातः कालो वर्षसहस्रकः
तस्मिन्ज्ञात्वा तु भगवान्काले कमलसम्भवः॥ ३२ ॥

मूलम्

एतस्मिन्नन्तरे जातः कालो वर्षसहस्रकः
तस्मिन्ज्ञात्वा तु भगवान्काले कमलसम्भवः॥ ३२ ॥

विश्वास-प्रस्तुतिः

तुष्टः प्रोवाच वज्राङ्गं तदागत्य जलाशयम्
ब्रह्मोवाच
ददामि सर्वकामं त उत्तिष्ठ दितिनन्दन॥ ३३ ॥

मूलम्

तुष्टः प्रोवाच वज्राङ्गं तदागत्य जलाशयम्
ब्रह्मोवाच
ददामि सर्वकामं त उत्तिष्ठ दितिनन्दन॥ ३३ ॥

विश्वास-प्रस्तुतिः

एवमुक्तस्तदोत्थाय स दैत्येन्द्रस्तपोनिधिः
उवाच प्राञ्जलिर्वाक्यं सर्वलोकपितामहम्॥ ३४ ॥

मूलम्

एवमुक्तस्तदोत्थाय स दैत्येन्द्रस्तपोनिधिः
उवाच प्राञ्जलिर्वाक्यं सर्वलोकपितामहम्॥ ३४ ॥

विश्वास-प्रस्तुतिः

वज्राङ्ग उवाच
आसुरो मास्तु मे भावः सन्तु लोका ममाक्षयाः
तपस्यभिरतिर्मेऽस्तु शरीरस्यास्य वर्तनम्॥ ३५ ॥

मूलम्

वज्राङ्ग उवाच
आसुरो मास्तु मे भावः सन्तु लोका ममाक्षयाः
तपस्यभिरतिर्मेऽस्तु शरीरस्यास्य वर्तनम्॥ ३५ ॥

विश्वास-प्रस्तुतिः

एवमस्त्विति तं देवो जगाम स्वकमालयम्
वज्राङ्गोपि समाप्ते तु तपसि स्थिरसंयमः॥ ३६ ॥

मूलम्

एवमस्त्विति तं देवो जगाम स्वकमालयम्
वज्राङ्गोपि समाप्ते तु तपसि स्थिरसंयमः॥ ३६ ॥

विश्वास-प्रस्तुतिः

सङ्गन्तुमिच्छन्स्वां भार्यां न ददर्शाश्रमे स्वके
क्षुधाविष्टः स शैलस्य गहनं प्रविवेश ह॥ ३७ ॥

मूलम्

सङ्गन्तुमिच्छन्स्वां भार्यां न ददर्शाश्रमे स्वके
क्षुधाविष्टः स शैलस्य गहनं प्रविवेश ह॥ ३७ ॥

विश्वास-प्रस्तुतिः

आदातुं फलमूलानि स च तस्मिन्व्यलोकयत्
रुदन्तीं स्वां प्रियां दीनां तरुप्रच्छादिताननाम्॥ ३८ ॥

मूलम्

आदातुं फलमूलानि स च तस्मिन्व्यलोकयत्
रुदन्तीं स्वां प्रियां दीनां तरुप्रच्छादिताननाम्॥ ३८ ॥

विश्वास-प्रस्तुतिः

तां विलोक्य ततो दैत्यः प्रोवाच परिसान्त्वयन्
वज्राङ्ग उवाच
केन तेऽपकृतं भद्रे यमलोकं यियासुना॥ ३९ ॥

मूलम्

तां विलोक्य ततो दैत्यः प्रोवाच परिसान्त्वयन्
वज्राङ्ग उवाच
केन तेऽपकृतं भद्रे यमलोकं यियासुना॥ ३९ ॥

विश्वास-प्रस्तुतिः

कं वा कामं प्रयच्छामि शीघ्रं प्रब्रूहि मानिनि
वराङ्ग्युवाच
त्रासितास्म्यपविद्धास्मि ताडिता पीडितास्मि च॥ ४० ॥

मूलम्

कं वा कामं प्रयच्छामि शीघ्रं प्रब्रूहि मानिनि
वराङ्ग्युवाच
त्रासितास्म्यपविद्धास्मि ताडिता पीडितास्मि च॥ ४० ॥

विश्वास-प्रस्तुतिः

रौद्रेण देवराजेन नष्टनाथेव भूरिशः
दुःखस्यान्तमपश्यन्ती प्राणांस्त्यक्तुं व्यवस्थिता॥ ४१ ॥

मूलम्

रौद्रेण देवराजेन नष्टनाथेव भूरिशः
दुःखस्यान्तमपश्यन्ती प्राणांस्त्यक्तुं व्यवस्थिता॥ ४१ ॥

विश्वास-प्रस्तुतिः

पुत्रं मे तारकं देहि तस्माद्दुःखमहार्णवात्
एवमुक्तस्तु दैत्येन्द्रः कोपव्याकुललोचनः॥ ४२ ॥

मूलम्

पुत्रं मे तारकं देहि तस्माद्दुःखमहार्णवात्
एवमुक्तस्तु दैत्येन्द्रः कोपव्याकुललोचनः॥ ४२ ॥

विश्वास-प्रस्तुतिः

शक्तोपि देवराजस्य प्रतिकर्तुं महासुरः
तप एव पुनश्चर्तुं व्यवस्यत महाबलः॥ ४३ ॥

मूलम्

शक्तोपि देवराजस्य प्रतिकर्तुं महासुरः
तप एव पुनश्चर्तुं व्यवस्यत महाबलः॥ ४३ ॥

विश्वास-प्रस्तुतिः

ज्ञात्वा तस्य तु सङ्कल्पं ब्रह्मा क्रूरतरं पुनः
आजगाम त्वरायुक्तो यत्रासौ दितिनन्दनः॥ ४४ ॥

मूलम्

ज्ञात्वा तस्य तु सङ्कल्पं ब्रह्मा क्रूरतरं पुनः
आजगाम त्वरायुक्तो यत्रासौ दितिनन्दनः॥ ४४ ॥

विश्वास-प्रस्तुतिः

ब्रह्मोवाच
किमर्थं पुत्र भूयस्त्वं कर्तुं नियममुद्यतः
तदहं ते पुनर्दद्मि काङ्क्षितं पुत्रमोजसा॥ ४५ ॥

मूलम्

ब्रह्मोवाच
किमर्थं पुत्र भूयस्त्वं कर्तुं नियममुद्यतः
तदहं ते पुनर्दद्मि काङ्क्षितं पुत्रमोजसा॥ ४५ ॥

विश्वास-प्रस्तुतिः

वज्राङ्ग उवाच
उत्थितेन मया दृष्टा समाधानात्त्वदाज्ञया
त्रासितेन्द्रेण मामाह सा वराङ्गी सुतार्थिनी॥ ४६ ॥

मूलम्

वज्राङ्ग उवाच
उत्थितेन मया दृष्टा समाधानात्त्वदाज्ञया
त्रासितेन्द्रेण मामाह सा वराङ्गी सुतार्थिनी॥ ४६ ॥

विश्वास-प्रस्तुतिः

पुत्रं मे तारकं देहि तुष्टो मे त्वं पितामह
ब्रह्मोवाच
अलं ते तपसा वीर मा क्लेशे दुस्तरे विश॥ ४७ ॥

मूलम्

पुत्रं मे तारकं देहि तुष्टो मे त्वं पितामह
ब्रह्मोवाच
अलं ते तपसा वीर मा क्लेशे दुस्तरे विश॥ ४७ ॥

विश्वास-प्रस्तुतिः

पुत्रस्तु तारको नाम भविष्यति महाबलः
देवसीमन्तिनीनां तु धम्मिल्लक विमोक्षकः॥ ४८ ॥

मूलम्

पुत्रस्तु तारको नाम भविष्यति महाबलः
देवसीमन्तिनीनां तु धम्मिल्लक विमोक्षकः॥ ४८ ॥

विश्वास-प्रस्तुतिः

इत्युक्तो दैत्यनाथस्तु प्रणम्य प्रपितामहम्
गत्वा तां नन्दयामास महिषीं कर्शितान्तराम्॥ ४९ ॥

मूलम्

इत्युक्तो दैत्यनाथस्तु प्रणम्य प्रपितामहम्
गत्वा तां नन्दयामास महिषीं कर्शितान्तराम्॥ ४९ ॥

विश्वास-प्रस्तुतिः

तौ दम्पती कृतार्थौ तु जग्मतुः स्वाश्रमं तदा
आहितं तु तदा गर्भं वराङ्गी वरवर्णिनी1.42.॥ ५० ॥

मूलम्

तौ दम्पती कृतार्थौ तु जग्मतुः स्वाश्रमं तदा
आहितं तु तदा गर्भं वराङ्गी वरवर्णिनी1.42.॥ ५० ॥

विश्वास-प्रस्तुतिः

पूर्णं वर्षसहस्रं तु दधारोदर एव हि
ततो वर्षसहस्रान्ते वराङ्गी सा प्रसूयत॥ ५१ ॥

मूलम्

पूर्णं वर्षसहस्रं तु दधारोदर एव हि
ततो वर्षसहस्रान्ते वराङ्गी सा प्रसूयत॥ ५१ ॥

विश्वास-प्रस्तुतिः

जायमाने तु दैत्ये तु तस्मिन्लोकभयङ्करे
चचाल सर्वा पृथिवी प्रोद्भूताश्च महार्णवाः॥ ५२ ॥

मूलम्

जायमाने तु दैत्ये तु तस्मिन्लोकभयङ्करे
चचाल सर्वा पृथिवी प्रोद्भूताश्च महार्णवाः॥ ५२ ॥

विश्वास-प्रस्तुतिः

चेलुर्धराधराश्चापि ववुर्वाताश्च भीषणाः
जेपुर्जप्यं मुनिवरा नेदुर्व्यालमृगा अपि॥ ५३ ॥

मूलम्

चेलुर्धराधराश्चापि ववुर्वाताश्च भीषणाः
जेपुर्जप्यं मुनिवरा नेदुर्व्यालमृगा अपि॥ ५३ ॥

विश्वास-प्रस्तुतिः

जहौ कान्तिश्चन्द्रसूर्यौ नीहारच्छादिता दिशः
जाते महासुरे तस्मिन्सर्वे चापि महासुराः॥ ५४ ॥

मूलम्

जहौ कान्तिश्चन्द्रसूर्यौ नीहारच्छादिता दिशः
जाते महासुरे तस्मिन्सर्वे चापि महासुराः॥ ५४ ॥

विश्वास-प्रस्तुतिः

आजग्मुर्हर्षितास्तत्र तथा चासुरयोषितः
जगुर्हर्षसमाविष्टा ननृतुश्चाप्सरोगणाः॥ ५५ ॥

मूलम्

आजग्मुर्हर्षितास्तत्र तथा चासुरयोषितः
जगुर्हर्षसमाविष्टा ननृतुश्चाप्सरोगणाः॥ ५५ ॥

विश्वास-प्रस्तुतिः

ततो महोत्सवे जाते दानवानां महाद्युते
विषण्णमनसो देवाः सहेन्द्रा अभवंस्तदा॥ ५६ ॥

मूलम्

ततो महोत्सवे जाते दानवानां महाद्युते
विषण्णमनसो देवाः सहेन्द्रा अभवंस्तदा॥ ५६ ॥

विश्वास-प्रस्तुतिः

वराङ्गी तु सुतं दृष्ट्वा हर्षेणापूरिता तदा
बहुमेने च दैत्येन्द्रो विजातं तं तदा तया॥ ५७ ॥

मूलम्

वराङ्गी तु सुतं दृष्ट्वा हर्षेणापूरिता तदा
बहुमेने च दैत्येन्द्रो विजातं तं तदा तया॥ ५७ ॥

विश्वास-प्रस्तुतिः

जातमात्रस्तु दैत्येन्द्रस्तारकश्चोग्रविक्रमः
अभिषिक्तो सुरैर्मुख्यैः कुजम्भमहिषादिभिः॥ ५८ ॥

मूलम्

जातमात्रस्तु दैत्येन्द्रस्तारकश्चोग्रविक्रमः
अभिषिक्तो सुरैर्मुख्यैः कुजम्भमहिषादिभिः॥ ५८ ॥

विश्वास-प्रस्तुतिः

सर्वासुरमहाराज्ये पृथिवीतुलनक्षमे
स तु प्राप्तमहाराज्यस्तारको नृपसत्तम॥ ५९ ॥

मूलम्

सर्वासुरमहाराज्ये पृथिवीतुलनक्षमे
स तु प्राप्तमहाराज्यस्तारको नृपसत्तम॥ ५९ ॥

विश्वास-प्रस्तुतिः

उवाच दानवश्रेष्ठो युक्तियुक्तमिदं वचः
तारक उवाच
शृणुध्वमसुराः सर्वे वाक्यं मम महाबलाः॥ ६० ॥

मूलम्

उवाच दानवश्रेष्ठो युक्तियुक्तमिदं वचः
तारक उवाच
शृणुध्वमसुराः सर्वे वाक्यं मम महाबलाः॥ ६० ॥

विश्वास-प्रस्तुतिः

वंशक्षयकरा देवाः सर्वेषामेव दानवाः
अस्माकं जातिधर्मेण विरूढं वैरमक्षयम्॥ ६१ ॥

मूलम्

वंशक्षयकरा देवाः सर्वेषामेव दानवाः
अस्माकं जातिधर्मेण विरूढं वैरमक्षयम्॥ ६१ ॥

विश्वास-प्रस्तुतिः

वयं तपश्चरिष्यामः सुराणां निग्रहाय तु
स्वबाहुबलमाश्रित्य सर्व एव न संशयः॥ ६२ ॥

मूलम्

वयं तपश्चरिष्यामः सुराणां निग्रहाय तु
स्वबाहुबलमाश्रित्य सर्व एव न संशयः॥ ६२ ॥

विश्वास-प्रस्तुतिः

तच्छ्रुत्वा सम्मतं कृत्वा पारियात्रं ययौ गिरिं
निराहारः पञ्चतपाः पत्रभुग्वारिभोजनः॥ ६३ ॥

मूलम्

तच्छ्रुत्वा सम्मतं कृत्वा पारियात्रं ययौ गिरिं
निराहारः पञ्चतपाः पत्रभुग्वारिभोजनः॥ ६३ ॥

विश्वास-प्रस्तुतिः

शतंशतं समानां तु तपांस्येतान्यथाकरोत्
एवं तु कर्शिते देहे तपोराशित्वमागते॥ ६४ ॥

मूलम्

शतंशतं समानां तु तपांस्येतान्यथाकरोत्
एवं तु कर्शिते देहे तपोराशित्वमागते॥ ६४ ॥

विश्वास-प्रस्तुतिः

ब्रह्मागत्याह दैत्येन्द्रं वरं वरय सुव्रत
स वव्रे सर्वभूतेभ्यो न मे मृत्युर्भवेदिति॥ ६५ ॥

मूलम्

ब्रह्मागत्याह दैत्येन्द्रं वरं वरय सुव्रत
स वव्रे सर्वभूतेभ्यो न मे मृत्युर्भवेदिति॥ ६५ ॥

विश्वास-प्रस्तुतिः

तमुवाच ततो ब्रह्मा देहिनां मरणं ध्रुवम्
यतस्ततोपि वरय मृत्युं यस्मान्न शङ्कसे॥ ६६ ॥

मूलम्

तमुवाच ततो ब्रह्मा देहिनां मरणं ध्रुवम्
यतस्ततोपि वरय मृत्युं यस्मान्न शङ्कसे॥ ६६ ॥

विश्वास-प्रस्तुतिः

ततः सञ्चिन्त्य दैत्येन्द्रः शिशोर्वै सप्तवासरात्
वव्रे महासुरो मृत्युं मोहितो ह्यवलेपतः॥ ६७ ॥

मूलम्

ततः सञ्चिन्त्य दैत्येन्द्रः शिशोर्वै सप्तवासरात्
वव्रे महासुरो मृत्युं मोहितो ह्यवलेपतः॥ ६७ ॥

विश्वास-प्रस्तुतिः

जगामोमित्युदाहृत्य ब्रह्मा दैत्यो निजं गृहम्
अथाह मन्त्रिणस्तूर्णं बलं मे सम्प्रयुज्यताम्॥ ६८ ॥

मूलम्

जगामोमित्युदाहृत्य ब्रह्मा दैत्यो निजं गृहम्
अथाह मन्त्रिणस्तूर्णं बलं मे सम्प्रयुज्यताम्॥ ६८ ॥

विश्वास-प्रस्तुतिः

यदि वो मत्प्रियं कार्यं निग्राह्याः सुरसत्तमाः
निगृहीतेषु मे प्रीतिर्जायते चातुलाऽसुराः॥ ६९ ॥

मूलम्

यदि वो मत्प्रियं कार्यं निग्राह्याः सुरसत्तमाः
निगृहीतेषु मे प्रीतिर्जायते चातुलाऽसुराः॥ ६९ ॥

विश्वास-प्रस्तुतिः

तारकस्य वचः श्रुत्वा ग्रसनो नाम दानवः
सेनानीर्दैत्यराजस्य सज्जं चक्रे बलं च तत्॥ ७० ॥

मूलम्

तारकस्य वचः श्रुत्वा ग्रसनो नाम दानवः
सेनानीर्दैत्यराजस्य सज्जं चक्रे बलं च तत्॥ ७० ॥

विश्वास-प्रस्तुतिः

आहत्य भेरीं गम्भीरां दैत्यानाहूय सत्वरः
दशकोटीश्वरा दैत्या दैत्यानां चण्डविक्रमाः॥ ७१ ॥

मूलम्

आहत्य भेरीं गम्भीरां दैत्यानाहूय सत्वरः
दशकोटीश्वरा दैत्या दैत्यानां चण्डविक्रमाः॥ ७१ ॥

विश्वास-प्रस्तुतिः

तेषामग्रेसरो जम्भः कुजम्भोनन्तरोऽसुरः
महिषः कुञ्जरो मेघः कालनेमिर्निमिस्तथा॥ ७२ ॥

मूलम्

तेषामग्रेसरो जम्भः कुजम्भोनन्तरोऽसुरः
महिषः कुञ्जरो मेघः कालनेमिर्निमिस्तथा॥ ७२ ॥

विश्वास-प्रस्तुतिः

मन्थनो जम्भकः शुम्भो दैत्येन्द्रा दशनायकाः
अन्ये च शतशस्तत्र पृथिवीतुलनक्षमाः॥ ७३ ॥

मूलम्

मन्थनो जम्भकः शुम्भो दैत्येन्द्रा दशनायकाः
अन्ये च शतशस्तत्र पृथिवीतुलनक्षमाः॥ ७३ ॥

विश्वास-प्रस्तुतिः

गरुडानां सहस्रेण चक्राष्टकविभूषितः
सकूबरपरीवारश्चतुर्योजनविस्तृतः॥ ७४ ॥

मूलम्

गरुडानां सहस्रेण चक्राष्टकविभूषितः
सकूबरपरीवारश्चतुर्योजनविस्तृतः॥ ७४ ॥

विश्वास-प्रस्तुतिः

स्यन्दनस्तारकस्यासीत्व्याघ्रसिंहखरार्वभिः
युक्ता रथास्तु ग्रसन जम्भकौ जम्भकुम्भिनां॥ ७५ ॥

मूलम्

स्यन्दनस्तारकस्यासीत्व्याघ्रसिंहखरार्वभिः
युक्ता रथास्तु ग्रसन जम्भकौ जम्भकुम्भिनां॥ ७५ ॥

विश्वास-प्रस्तुतिः

मेघस्य द्वीपिभिर्युक्तः कूष्माण्डैः कालनेमिनः
पर्वताभश्चतुर्दंष्ट्रो निमेश्चैव महागजः॥ ७६ ॥

मूलम्

मेघस्य द्वीपिभिर्युक्तः कूष्माण्डैः कालनेमिनः
पर्वताभश्चतुर्दंष्ट्रो निमेश्चैव महागजः॥ ७६ ॥

विश्वास-प्रस्तुतिः

शतहस्ततुरङ्गस्थो मन्थनो नाम दैत्यराट्
जम्भकस्तूष्ट्रमारूढो गिरीन्द्राभं महाबलः॥ ७७ ॥

मूलम्

शतहस्ततुरङ्गस्थो मन्थनो नाम दैत्यराट्
जम्भकस्तूष्ट्रमारूढो गिरीन्द्राभं महाबलः॥ ७७ ॥

विश्वास-प्रस्तुतिः

शुम्भो मेषं समारूढोऽन्येप्येवं चित्रवाहनाः
प्रचण्डाश्चित्रवर्माणः कुण्डलोष्णीषभूषिताः॥ ७८ ॥

मूलम्

शुम्भो मेषं समारूढोऽन्येप्येवं चित्रवाहनाः
प्रचण्डाश्चित्रवर्माणः कुण्डलोष्णीषभूषिताः॥ ७८ ॥

विश्वास-प्रस्तुतिः

तद्बलं दैत्यसिंहस्य भीमरूपं व्यजायत
प्रमत्तमत्तमातङ्गतुरङ्गरथसङ्कुलम्॥ ७९ ॥

मूलम्

तद्बलं दैत्यसिंहस्य भीमरूपं व्यजायत
प्रमत्तमत्तमातङ्गतुरङ्गरथसङ्कुलम्॥ ७९ ॥

विश्वास-प्रस्तुतिः

प्रतस्थेऽमरयुद्धाय बहुपत्तिपताकिकम्
एतस्मिन्नन्तरे वायुर्देवदूतोऽसुरालये॥ ८० ॥

मूलम्

प्रतस्थेऽमरयुद्धाय बहुपत्तिपताकिकम्
एतस्मिन्नन्तरे वायुर्देवदूतोऽसुरालये॥ ८० ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा तद्दानवबलं जगामेन्द्रस्य शंसितुं
स गत्वा तु सभां दिव्यां महेन्द्रस्य महात्मनः॥ ८१ ॥

मूलम्

दृष्ट्वा तद्दानवबलं जगामेन्द्रस्य शंसितुं
स गत्वा तु सभां दिव्यां महेन्द्रस्य महात्मनः॥ ८१ ॥

विश्वास-प्रस्तुतिः

शशंस मध्ये देवानां तत्कार्यं समुपस्थितम्
तच्छ्रुत्वा देवराजस्तु निमीलितविलोचनः॥ ८२ ॥

मूलम्

शशंस मध्ये देवानां तत्कार्यं समुपस्थितम्
तच्छ्रुत्वा देवराजस्तु निमीलितविलोचनः॥ ८२ ॥

विश्वास-प्रस्तुतिः

बृहस्पतिमुवाचेदं वाक्यं काले महाभुजः
इन्द्र उवाच
सम्प्राप्नोति विमर्दोयं देवानां दानवैः सह॥ ८३ ॥

मूलम्

बृहस्पतिमुवाचेदं वाक्यं काले महाभुजः
इन्द्र उवाच
सम्प्राप्नोति विमर्दोयं देवानां दानवैः सह॥ ८३ ॥

विश्वास-प्रस्तुतिः

कार्यं किमत्र तद्ब्रूहि नीत्युपायोपबृंहितम्
एतच्छ्रुत्वा तु वचनं महेन्द्रस्य गिरां पतिः॥ ८४ ॥

मूलम्

कार्यं किमत्र तद्ब्रूहि नीत्युपायोपबृंहितम्
एतच्छ्रुत्वा तु वचनं महेन्द्रस्य गिरां पतिः॥ ८४ ॥

विश्वास-प्रस्तुतिः

इत्युवाच महाभागो बृहस्पतिरुदारधीः
बृहस्पतिरुवाच
सामपूर्वा श्रुता नीतिश्चतुरङ्गापताकिनी॥ ८५ ॥

मूलम्

इत्युवाच महाभागो बृहस्पतिरुदारधीः
बृहस्पतिरुवाच
सामपूर्वा श्रुता नीतिश्चतुरङ्गापताकिनी॥ ८५ ॥

विश्वास-प्रस्तुतिः

जिगीषतां सुरश्रेष्ठ स्थितिरेषा सनातनी
सामभेदस्तथा दानं दण्डश्चाङ्गचतुष्टयम्॥ ८६ ॥

मूलम्

जिगीषतां सुरश्रेष्ठ स्थितिरेषा सनातनी
सामभेदस्तथा दानं दण्डश्चाङ्गचतुष्टयम्॥ ८६ ॥

विश्वास-प्रस्तुतिः

न सान्त्वगोचरे लुब्धानभेद्यास्त्वेकधर्मिणः
न दानमत्त्र संसिद्ध्यै प्रसह्यैवापहारिणाम्॥ ८७ ॥

मूलम्

न सान्त्वगोचरे लुब्धानभेद्यास्त्वेकधर्मिणः
न दानमत्त्र संसिद्ध्यै प्रसह्यैवापहारिणाम्॥ ८७ ॥

विश्वास-प्रस्तुतिः

एकोभ्युपायो दण्डोऽत्र भवतां यदि रोचते
एवमुक्तः सहस्राक्ष एवमेतदुवाच ह॥ ८८ ॥

मूलम्

एकोभ्युपायो दण्डोऽत्र भवतां यदि रोचते
एवमुक्तः सहस्राक्ष एवमेतदुवाच ह॥ ८८ ॥

विश्वास-प्रस्तुतिः

कर्त्तव्यतां च सञ्चिन्त्य प्रोवाचामरसंसदि
इन्द्र उवाच
अवधानेन मे वाचं शृणुध्वं नाकवासिनः॥ ८९ ॥

मूलम्

कर्त्तव्यतां च सञ्चिन्त्य प्रोवाचामरसंसदि
इन्द्र उवाच
अवधानेन मे वाचं शृणुध्वं नाकवासिनः॥ ८९ ॥

विश्वास-प्रस्तुतिः

भवन्तो यज्ञभोक्तारो दिव्यात्मानो हि सान्वयाः
स्वे महिम्नि स्थिता नित्यं जगतः पालने रताः॥ ९० ॥

मूलम्

भवन्तो यज्ञभोक्तारो दिव्यात्मानो हि सान्वयाः
स्वे महिम्नि स्थिता नित्यं जगतः पालने रताः॥ ९० ॥

विश्वास-प्रस्तुतिः

क्रियतां समरोद्योगः सैन्यं संयोज्यतां मम
आह्रियन्तां च शस्त्राणि पूज्यन्तां शस्त्रदेवताः॥ ९१ ॥

मूलम्

क्रियतां समरोद्योगः सैन्यं संयोज्यतां मम
आह्रियन्तां च शस्त्राणि पूज्यन्तां शस्त्रदेवताः॥ ९१ ॥

विश्वास-प्रस्तुतिः

वाहनानि विमानानि योजयद्ध्वं ममेश्वराः
यमं सेनापतिं कृत्वा शीघ्रमेव दिवौकसः॥ ९२ ॥

मूलम्

वाहनानि विमानानि योजयद्ध्वं ममेश्वराः
यमं सेनापतिं कृत्वा शीघ्रमेव दिवौकसः॥ ९२ ॥

विश्वास-प्रस्तुतिः

इत्युक्तास्समनह्यन्त देवानां ये प्रधानतः
वाजिनामयुतेनाजौ हेमघण्टा परिष्कृतम्॥ ९३ ॥

मूलम्

इत्युक्तास्समनह्यन्त देवानां ये प्रधानतः
वाजिनामयुतेनाजौ हेमघण्टा परिष्कृतम्॥ ९३ ॥

विश्वास-प्रस्तुतिः

नानाश्चर्यगुणोपेतं सम्प्राप्तं देवदानवैः
रथं मातलिना युक्तं देवराजस्य दुर्जयम्॥ ९४ ॥

मूलम्

नानाश्चर्यगुणोपेतं सम्प्राप्तं देवदानवैः
रथं मातलिना युक्तं देवराजस्य दुर्जयम्॥ ९४ ॥

विश्वास-प्रस्तुतिः

यमो महिषमास्थाय सेनाग्रे समवर्त्तत
चण्डकिङ्करवृन्देन सर्वतः परिवारितः॥ ९५ ॥

मूलम्

यमो महिषमास्थाय सेनाग्रे समवर्त्तत
चण्डकिङ्करवृन्देन सर्वतः परिवारितः॥ ९५ ॥

विश्वास-प्रस्तुतिः

कल्पकालोद्गतज्वाला पूरितोम्बरगोचरः
हुताशनस्त्वजारूढः शक्तिहस्तो व्यवस्थितः॥ ९६ ॥

मूलम्

कल्पकालोद्गतज्वाला पूरितोम्बरगोचरः
हुताशनस्त्वजारूढः शक्तिहस्तो व्यवस्थितः॥ ९६ ॥

विश्वास-प्रस्तुतिः

पवनोऽङकुशहस्तश्च विस्तारित महाजवः
भुजगेन्द्रसमारूढो जलेशो भगवान्स्वयम्॥ ९७ ॥

मूलम्

पवनोऽङकुशहस्तश्च विस्तारित महाजवः
भुजगेन्द्रसमारूढो जलेशो भगवान्स्वयम्॥ ९७ ॥

विश्वास-प्रस्तुतिः

नरयुक्ते रथे देवो राक्षसेशो वियच्चरः
तीक्ष्णखड्गयुतो भीमः समरे समवस्थितः॥ ९८ ॥

मूलम्

नरयुक्ते रथे देवो राक्षसेशो वियच्चरः
तीक्ष्णखड्गयुतो भीमः समरे समवस्थितः॥ ९८ ॥

विश्वास-प्रस्तुतिः

महासिंहरथे देवो धनाध्यक्षो गदायुधः
चन्द्रादित्यावश्विनौ च चतुरङ्गबलान्विताः॥ ९९ ॥

मूलम्

महासिंहरथे देवो धनाध्यक्षो गदायुधः
चन्द्रादित्यावश्विनौ च चतुरङ्गबलान्विताः॥ ९९ ॥

सेनान्यो देवराजस्य दुर्जया भुवनत्रये
कोटयस्तास्त्रयस्त्रिंशद्देवदेवनिकायिनाम्1.42.१००
हिमाचलाभे सितचारुचामरे सुवर्णपद्मामलसुन्दरस्रजि
कृताभिरामो ज्वलकुङ्कुमाङ्कुरे कपोललीलालिकदम्बसङ्कुले१०१
स्थितस्तदैरावणनाम कुञ्जरे महामनाश्चित्रविभूषणाम्बरः
विशालवज्रः सुवितानभूषितः प्रकीर्णकेयूरभुजङ्गमण्डलः१०२
सहस्रदृग्वन्दितपादपल्लवस्त्रिविष्टपे शोभत पाकशासनः
तुरङ्ग मातङ्ग कुलौघसङ्कुला सितातपत्त्रद्ध्वजशालिनी च१०३
बभूव सा दुर्जयपत्तिसन्तता विभाति नानायुधयोधदुस्तरा
ततोश्विनौ च मरुतः ससाध्याः सपुरन्दराः१०४
यक्षराक्षसगन्धर्वा दिव्य नानास्त्रपाणयः
जघ्नुर्दैत्येश्वरं सर्वे सम्भूय तु महाबलाः१०५
न चैवास्त्राण्यसज्जन्त गात्रे वज्राचलोपमे
अथो रथादवप्लुत्य तारको दानवाधिपः१०६
जघान कोटिशो देवान्करपार्ष्णिभिरेव च
हतशेषाणि सैन्यानि देवानां विप्र दुद्रुवुः१०७
दिशो भीतानि सन्त्यज्य रणोपकरणानि च
दृष्ट्वा तान्विद्रुतान्देवांस्तारको वाक्यमब्रवीत्१०८
मा वधिष्ठ सुरान्दैत्या वज्राङ्गाय च मन्दिरे
शीघ्रमानीय दर्श्यन्तां बद्धान्पश्यत्वयं सुरान्१०९
लोकपालांस्ततो दैत्यो बद्ध्वा चेन्द्रमुखान्रणे
सरुद्रान्सुदृढैः पाशैः पशुपालः पशूनिव११०
स भूयो रथमास्थाय जगाम स्वकमालयं
सिद्धगन्धर्वसङ्घुष्टं विपुलाचलमस्तकम्१११
स्तूयमानो दितिसुतैरप्सरोभिः सुसेवितः